०७

ऋतव्या उपदधाति॥
ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति तदेतत्सर्वं यदृतव्याः संवत्सरो वा ऋतव्याः संवत्सर इदं सर्वमिदमेवैतत्सर्वमुपदधात्यथो प्रजननमेतत्संवत्सरो वा ऋतव्याः संवत्सरः प्रजननम् प्रजननमेवैतदुपदधाति॥
यद्वेव ऽर्तव्या उपदधाति॥
क्षत्र वा ऋतव्या विश इमा इतरा इष्टकाः क्षत्रं तद्विश्यत्तारं दधाति ताः सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि क्षत्रमत्तारं दधाति॥
यद्वेव ऽर्तव्या उपदधाति॥
संवत्सर एषो ऽग्निः स ऋतव्याभिः संहितः संवत्सरमेवैतदृतुभिः सन्तनोति सन्दधाति ता वै नानाप्रभृतयः समानोदर्का ऋतवो वा असृज्यन्त ते सृष्टा नानैवासन्॥
ते ऽब्रुवन्॥
न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुं रूपैः समायामेति त एकैकमृतुं रूपैः समायंस्तस्मादेकैकस्मिन्नृतौ सर्वेषामृतूनां रूपं ता यन्नानाप्रभृतयो नाना ह्यसृज्यन्ताथ यत्समानोदर्का रूपैर्हि समायन्॥
स उपदधाति॥
तपश्च तपस्यश्च शैशिरावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधात्यसौ वा आदित्यस्तपस्तस्मादेतावृतू अनन्तर्हितौ तद्यदेतस्मादेतावृतू अनन्तर्हितौ तस्मादेतौ तपश्च तपस्यश्च॥
अग्नेरन्तःश्लेषो ऽसीति॥
संवत्सर एषो ऽग्निः स ऋतव्याभिः संहितः संवत्सरमेवैतदृतुभिः सन्तनोति सन्दधाति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधय इतीदमेवैतत्सर्वमृतुभिः कल्पयति कल्पन्तामग्नयः पृथङ्नम ज्यैष्ठ्याय सव्रता इत्यग्नयो हैते पृथग्यदेता इष्टकास्ते यथानयोरृत्वोर्ज्यैष्ठ्याय कल्पेरन्नेवमेतदाह ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी इमे इति यथैव यजुस्तथा बन्धुः शैशिरावृतू अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्त्विति यथेन्द्रं देवा अभिसंविष्टा एवमिमावृतू ज्यैष्ठ्यायाभिसंविशन्त्वित्येतद्द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति॥
तद्यदेते अत्रोपदधाति॥
संवत्सर एषो ऽग्निरिम उ लोकाः संवत्सरस्तस्य द्यौरेव पञ्चमी चितिर्द्यौरस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति॥
यद्वेवैते अत्रोपदधाति॥
प्रजापतिरेषो ऽग्निः संवत्सर उ प्रजापतिस्तस्य शिर एव पञ्चमी चितिः शिरो ऽस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति॥
स पुरस्तात्स्वयमातृणायै च विश्वज्योतिषश्च ऽर्तव्ये उपदधाति॥
द्यौर्वा उत्तमा स्वयमातृणादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिवश्चादित्याच्च ऽर्तून्दधाति तस्मादर्वाचीनमेवात ऋतवो ऽथो प्रजननमेतदर्वाचीनं तद्दिवश्चादित्याश्च प्रजननं दधाति तस्मादर्वाचीनमेवातः प्रजायते स्थितं हैवातः पराक्प्रजननं यावन्तो ह्येव सनाग्रे देवास्तावन्तो देवाः॥
अथ प्रथमायै स्वयमातृणायै प्रथमायै च विश्वज्योतिष उपरिष्टादृतव्ये उपदधाति॥
इयं वै प्रथमा स्वयमातृणाग्निः प्रथमा विश्वज्योतिस्तदूर्ध्वानृतून्दधाति तस्मादित ऊर्ध्वा ऋतवो ऽथो प्रजननमेतदितस्तदूर्ध्वम् प्रजननं दधाति तस्मादित ऊर्ध्वमेव प्रजायते॥
ता न व्यूहेत्॥
नेदृतून्व्यूहानीति यो वै म्रियत ऋतवो ह तस्मै व्युह्यन्ते तस्माद्यत्रैव प्रथमे उपदधाति तत्सर्वा उपदध्यात्॥
अथो इमे वै लोका ऋतव्याः॥
इमांस्तल्लोकानूर्ध्वांश्चितिभिश्चिनोत्यथो क्षत्रं वा ऋतव्याः क्षत्रं तदूर्ध्वं चितिभिश्चिनोत्यथो संवत्सरो वा ऋतव्याः संवत्सरं तदूर्ध्वं चितिभिश्चिनोति ता नान्यया यजुष्मत्येष्टकयोपरिष्टादभ्युपदध्यान्नेत्क्षत्रं विशाभ्युपदधानीति॥
ता हैता एव संयान्यः॥
एतद्वै देवा ऋतव्याभिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमान ऋतव्याभिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः॥
तदु ह चरकाध्वर्यवः॥
अन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव रेचयन्त्येता उ एव संयान्यः॥
अथ विश्वज्योतिषमुपदधाति॥
आदित्यो वा उत्तमा विश्वज्योतिरादित्यो ह्येवामुष्मिंलोके विश्वज्योतिरादित्यमेवैतदुपदधाति॥
यद्वेव विश्वज्योतिषमुपदधाति॥
प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतदुपदधाति॥
स पुरस्तात्स्वयमातृणायै विश्वज्योतिषमुपदधाति॥
द्यौर्वा उत्तमा स्वयमातृणादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिव आदित्यं दधाति तस्मादेषो ऽर्वाचीनमेवातस्तप त्यथो प्रजननमेतदर्वाचीनं तद्दिवः प्रजननं दधाति तस्मादर्वाचीनमेवातः प्रजायते॥
अथ प्रथमायै स्वयमातृणायै॥
उपरिष्टाद्विश्वज्योतिषमुपदधातीयं वै प्रथमा स्वयमातृणाग्निः प्रथमा विश्वज्योतिरितस्तदूर्ध्वमग्निं दधाति तस्मादित ऊर्ध्वो ऽग्निर्दीप्यते ऽथो प्रजननमेतदितस्तदूर्ध्वम् प्रजननं दधाति तस्मादित ऊर्ध्वमेव प्रजायते॥
अथ मध्यमायै स्वयमातृणायै॥
उपरिष्टाद्विश्वज्योतिषमुपदधात्यन्तरिक्षं वै मध्यमा स्वयमातृणा वायुर्मध्यमा विश्वज्योतिरन्तरिक्षे तद्वायुं दधाति तस्मादयमन्तरिक्षे वायुः॥
तान्येतानि ज्योतींषि॥
तद्यदेता एवमुपदधात्येतान्येवैतज्ज्योतींषि सम्यञ्चि दधाति तस्मादित ऊर्ध्वो ऽग्निर्दीप्यते ऽर्वाङ्सावादित्यस्तपत्यन्तरिक्षे ऽयं तिर्यङ् वायुः पवते॥
परमेष्ठी त्वा सादयत्विति॥
परमेष्ठी ह्येताम् पञ्चमीं चितिमपश्यद्दिवस्पृष्ठे ज्योतिष्मतीमिति दिवो ह्यसौ पृष्ठे ज्योतिष्मानादित्यः॥
विश्वस्मै प्राणायापानाय॥
व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै प्राणो विश्वं ज्योतिर्यछेति सर्वं ज्योतिर्यछेत्येतत्सूर्यस्ते ऽधिपतिरिति सूर्यमेवास्या अधिपतिं करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
ता हैता एव संयान्यः॥
एतद्वै देवा विश्वज्योतिर्भिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो विश्वज्योतिर्भिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतुश्चार्वाचः॥
तदु ह चरकाध्वर्यवो॥
ऽन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव रेचयन्त्येता उ एव संयान्यः॥
अथ लोकम्पृणामुपदधाति॥
असौ वा आदित्यो लोकम्पृणैष हीमांलोकान्पूरयत्यमुमेवैतदादित्यमुपदधाति तां सर्वासु चितिषूपदधातीमे वै लोका एताश्चितयो ऽमुं तदादित्यमेषु लोकेषु दधाति तस्मादेष सर्वेभ्य एवैभ्यो लोकेभ्यस्तपति॥
यद्वेव लोकम्पृणामुपदधाति॥
क्षत्रं वै लोकम्पृणा विश इमा इतरा इष्टकाः क्षत्रं तद्विश्यत्तारं दधाति तां सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि क्षत्रमत्तारं दधाति॥
सैषैकैव भवति॥
एकस्थं तत्क्षत्रमेकस्थां श्रियं करोत्यथ या द्वितीया मिथुनं तदर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वो ऽथ कृत्स्नः कृत्स्नताया एकेन यजुषा बह्वीरिष्टका उपदधाति क्षत्रं तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोत्यथेतराः पृथङ्नाना यजुर्भिरुपदधाति विशं तत्क्षत्रादवीर्यतरां करोति पृथग्वादिनीं नानाचेतसम्॥
स वा अस्यां स्रक्त्याम् प्रथमे उपदधाति॥
अमुं तदादित्यमेतस्यां दिशि पधात्यथेतस्तस्मादतो ऽनुपर्यैत्यथेतस्तस्मादतो ऽनुपर्यैत्यथेतस्तस्मादतो ऽनुपर्यैत्यथातस्तस्मादतो ऽनुपर्यैति॥
स यद्यत्रैव प्रथमे उपदधाति॥
तदुत्तमे अनूपदध्यात्सकृद्धैवासावादित्य इमांलोकान्पर्येत्य नातिप्रच्यवेतातिहृत्य पूर्वे उत्तमे अनूपदधात्यमुं तदादित्यमिमांलोकानतिप्रच्यावयति तस्मादसावादित्य इमांलोकानसंस्थितो दक्षिणावृत्पुनः पुनरनुपर्यैति॥
लोकम् पृण छिद्रम् पृणेति॥
लोकं च पूरय छिद्रं च पूरयेत्येतदथो सीद ध्रुवा त्वमित्यथो सीद स्थिरा त्वम् प्रतिष्ठितेत्येतदिन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्नितीन्द्राग्नी च त्वा बृहस्पतिश्चास्मिन्योनौ प्रत्यतिष्ठिपन्नित्येतदनुष्टुभा वाग्वा अनुष्टुब्वागिन्द्र इन्द्रो लोकम्पृणा न सादयत्यसन्नो ह्येष सूददोहसा वदति प्राणो वै सूददोहाः प्राणेनैवैनमेतत्सन्तनोति सन्दधाति॥
तदाहुः॥
कथमेषा लोकम्पृणायातयाम्नी भवतीत्यसौ वा आदित्यो लोकम्पृणायातयामा वा एषो ऽथो वाग्वै लोकम्पृणायातयाम्न्यु वै वाक्॥
स वै यजुष्मतीरुपधाय॥
लोकम्पृणया प्रछादयत्यन्नं वै यजुष्मत्य इष्टका आत्मा लोकम्पृणान्नं तदात्मना परिदधाति तस्मादन्नमात्मना परिहितमात्मैव भवति॥
स वा आत्मन्नेव॥
यजुष्मतीरुपदधाति न पक्षपुछेष्वात्मंस्तदन्नं दधाति यदु वा आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुछान्यथ यत्पक्षपुछेषु नैव तदात्मानमवति न पक्षपुछानि॥
उभयीर्यजुष्मतीश्च लोकम्पृणाश्चात्मन्नुपदधाति॥
तस्मादयमात्मा द्विगुणो बहुलतर इव लोकम्पृणा एव पक्षपुछेषु तस्मात्पक्षपुछानि तनीयांसीवानूचीश्च तिरश्चीत्मन्नुपदधात्यस्थीनि वा इष्टकास्तस्मादिमान्यन्वञ्चि च तिर्यञ्चि चात्मन्नस्थीनि पराचीरेव पक्षपुछेषु न हि किं चन पक्षपुछेषु तिर्यगस्थ्यस्ति तद्धैतदेव चितस्य चाचितस्य च विज्ञानमेवमेव चित इतरथाचितः॥
स वै स्वयमातृणां लोकम्पृणया प्रछादयति॥
प्राणो वै स्वयमातृणादित्यो लोकम्पृणा प्राणं तदादित्येन समिन्द्धे तस्मादयमुष्णः प्राणस्तया सर्वमात्मानम् प्रछादयति सर्वं तदात्मानमादित्येन समिन्द्धे तस्मादयं सर्व एवात्मोष्णस्तद्धैतदेव जीविष्यतश्च मरिष्यतश्च विज्ञानमुष्ण एव जीविष्यञ्छीतो मरिष्यन्॥
स यस्यां स्रक्त्याम् प्रथमे उपदधाति॥
ततो दशभिर्दशभिः सञ्छादयन्नेत्या स्वयमातृणायै स तेनैव दक्षिणावृज्जघनेन स्वयमातृणां सञ्छादयन्नेत्यानूक्याया अथ पुनरेत्य तमवधिं सञ्छादयति॥
आत्मानमग्रे सञ्छादयति॥
आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम् पक्षमथ पुछमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्राथो एवं वा असावादित्य इमांलोकान्दक्षिणावृदनुपर्यैति॥
स एष प्राण एव यल्लोकम्पृणा॥
तया सर्वमात्मानम् प्रछादयति सर्वस्मिस्तदात्मन्प्राणं दधाति तद्यद्धास्यैषाङ्गं नाभिप्राप्नुयात्प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणो ऽङ्गं नाभिप्राप्नोति शुष्यति वा वै तन्म्लायति वा तस्मादेनं सर्वमेवैतया प्रछादयेत्॥
स वा आत्मन एवाधि पक्षपुछानि चिनोति॥
आत्मनो ह्येवाध्यङ्गानि प्ररोहन्त्यथ यत्पुरस्तादर्वाचीरुपदध्याद्यथान्यत आहृत्याङ्गम् प्रतिदध्यात्तादृक्तत्॥
न भिन्नां न कृष्णामुपदध्यात्॥
आर्छति वा एषा या भिद्यत आर्तम्वेतद्रूपं यत्कृष्णं नेदार्तमात्मानमभिसंस्करवा इति नाभिन्नाम् परास्येन्नेदनार्तमात्मनो बहिर्धा करवाणीति धिष्ण्येभ्यः प्रतिसङ्ख्याय या विराजमतिरिच्येरन्नोत्तरामुद्भवेयुस्तद्वै खलु ता आर्छन्ति ता भित्त्वोत्कर उत्किरेदुत्करो वा अतिरिक्तस्य प्रतिष्ठा तद्यत्रातिरिक्तस्य प्रतिष्ठा तदेवैना एतत्प्रतिष्ठापयति॥
अथात इष्टकामात्राणामेव॥
पादमात्रीः प्रथमायां चोत्तमायां च चित्योरुपदध्यात्प्रतिष्ठा वै पादो यो वै पादः स हस्त ऊर्वस्थमात्र्यो वर्षिष्ठाः स्युर्न ह्यूर्वस्थात्किं चन वर्षीयो ऽस्थ्यस्ति त्र्यालिखितवत्यस्तिस्रश्चितयः स्युस्त्रिवृतो हीमे लोका अपरिमितालिखिते द्वे रसो हैते चिती अपरिमित उ वै रसः सर्वास्त्वेव त्र्यालिखितवत्यः स्युः सर्वे ह्येवेमे लोकास्त्रिवृतः॥
अथात इष्टकानामेवावपनस्य॥
यां कां च यजुष्मतीमिष्टकां विद्यात्ताम् मध्यमायां चिता उपदध्यादन्तरिक्षं वै मध्यमा चितिरन्तरिक्षमु वै सर्वेषाम् भूतानामावपनमथो अन्नं वै यजुष्मत्य इष्टका उदरम् मध्यमा चितिरुदरे तदन्नं दधाति॥
तदाहुः॥
नोपदध्यान्नेदतिरेचयानीति स वा उपैव दध्यात्कामेभ्यो वा एता इष्टका उपधीयन्ते न वै कामानामतिरिक्तमस्ति स वै नैवोपदध्यादेतावद्वा एतद्देवा अकुर्वन्॥
अथ पुरीषं निवपति॥
मांसं वै पुरीषम् मांसेनैवैनमेतत्प्रछादयतीष्टका उपधायास्यीष्टका अस्थि तन्मांसैः सञ्छादयति॥
स वै स्वयमातृणायामावपति॥
प्राणो वै स्वयमातृणान्नम् पुरीषम् प्राणे तदन्नं दधाति तेन सर्वमात्मानम् प्रछादयति तम्माद्यत्प्राणे ऽन्नं धीयते सर्वमात्मानमवति सर्वमात्मानमनुव्येति॥
न स्वयमातृणायामावपेदित्यु हैक आहुः॥
प्राणः स्वयमातृणा नेत्प्राणानपिदधानीति स वा ऐव वपेदन्नेन वै प्राणा विष्टब्धा यो वा अन्नं नात्ति सं वै तस्य प्राणा रोहन्ति तद्यस्य ह तथा कुर्वन्ति यथा शुष्का सूर्मी सुषिरैवं ह सो ऽमुष्मिंलोके सम्भवति तस्मात्स्वयमातृणायामैव वपेत्॥
स्वयमातृणायामोप्य॥
अनूक्यया सञ्छादयन्नेत्या परिश्रिद्भ्यः स तेनैव दक्षिणावृज्जघनेन स्वयमातृणां सञ्छादयन्नैत्या पुनरनूक्यायै॥
आत्मानमग्रे सञ्छादयति॥
आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम् पक्षमथ पुछमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा॥
स एष प्राण एव यत्पुरीषम्॥
तेन सर्वमात्मानम् प्रछादयति सर्वस्मिंस्तदात्मन्प्राणं दधाति तद्यद्धास्यैतदङ्गं नाभिप्राप्नुयात्प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणो ऽङ्गं नाभिप्राप्नोति शुष्यति वा वै तन्म्लायति वा तस्मादेनं सर्वमेवैतेन प्रछादयेत्॥
इन्द्रं विश्वा अवीवृधन्निति॥
इन्द्रं हि सर्वाणि भूतानि वर्धयन्ति समुद्रव्यचसं गिर इति महिमानमस्यैतदाह रथीतमं रथीनामिति रथितमो ह्येष रथिनां वाजानां सत्पतिम् पतिमित्यन्नं वै वाजा अन्नानां सत्पतिम् पतिमित्येतदैन्द्र्यानुष्टुभा निवपत्यैन्द्रं हि पुरीषं तदेतदर्धमग्नेर्यत्पुरीषमर्धमैष्टकम्॥
तदाहुः॥
यत्सर्वैश्छन्दोभिः सर्वाभिर्देवताभिरिष्टका उपदधात्यथैतदेकयैकदेवत्यया निवपति कथमेतदर्धमग्नेरितीन्द्रो वै सर्वान्देवान्प्रतिस्तद्यदैन्द्र्या निवपति तेनैतदर्धमग्नेरथ यदनुष्टुभा वाग्वा अनुष्टुब्वागु सर्वाणि छन्दांसि तेनो एवार्धम्॥
अथ विकर्णीं च स्वयमातृणां चोपदधाति॥
वायुर्वै विकर्णी द्यौरुत्तमा स्वयमातृणा वायुं च तद्दिवं चोपदधात्युत्तमे उपदधात्युत्तमे हि वायुश्च द्यौश्च संस्पृष्टे संस्पृष्टे हि वायुश्च द्यौश्च पूर्वां विकर्णीमुपदधात्यर्वाचीनं तद्दिवो वायुं दधाति तस्मादेषो ऽर्वाचीनमेव वातः पवते॥
यद्वेव विकर्णीमुपदधाति॥
यत्र वा अदो ऽश्वं चितिमवघ्रापयन्ति तदसावादित्य इमांलोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रं वायुः स स यः स वायुरेषा सा विकर्णी तद्यदेतामुपदधात्यसावेव तदादित्य इमांलोकान्त्सूत्रे समावयते॥
यद्वेव विकर्णीं च स्वयमातृणां चोपदधाति॥
आयुर्वै विकर्णी प्राणः स्वयमातृणायुश्च तत्प्राणं चोपदधात्युत्तमे उपदधात्युत्तमे ह्यायुश्च प्राणश्च संस्पृष्टे संस्पृष्टे ह्यायुश्च प्राणश्च पूर्वामुत्तरां विकर्णीमुपदधात्यायुषा तत्प्राणमुभयतः परिगृह्णाति॥
प्रोथदश्वो न यवसे॥
ऽविष्यन्यदा महः संवरणाद्व्यस्थात् आदस्य वातो अनुवाति शोचिरध स्म ते व्रजनं कृष्णमस्तीति यदा वा एतस्य वातो ऽनुवाति शोचिरथैतस्य व्रजनं कृष्णम् भवति त्रिष्टुभोपदधाति त्रैष्टुभो हि वायुराग्नेय्याग्निकर्म ह्यनिरुक्तयानिरुक्तो हि वायुरथ यद्वात इत्याह वातो हि वायुः॥
अथ स्वयमातृणामुपदधाति॥
आयोष्ट्वा सदने सादयामीत्येष वा आयुस्तस्यैतत्सदनमवत इत्येष हीदं सर्वमवति छायायामित्येतस्य हीदं सर्वं छायायां समुद्रस्यह्येतद्धृदयं रश्मीवतीम् भास्वतीमिति रश्मीवती हि द्यौर्भास्वत्या या द्याम् भास्या पृथिवीमोर्वन्तरिक्षमित्येवं ह्येष इमांलोकानाभाति॥
परमेष्ठी त्वा सादयत्विति॥
परमेष्ठी ह्येताम् पञ्चमीं चितिमपश्यन्॥
यद्वेव परमेष्ठिनोपदधाति॥
प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य परमेष्ठी शिर आदायोत्क्रम्यातिष्ठन्॥
तमब्रवीत्॥
उप मेहि म एतद्धेहि येन मे त्वमुदक्रमीरिति किम् मे ततो भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतत्परमेष्ठी प्रत्यदधात्॥
तद्यैषोत्तमा स्वयमातृणा॥
एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति॥
दिवस्पृष्ठे व्यचस्वतीम् प्रथस्वतीमिति॥
दिवो ह्येतत्पृष्ठं व्यचस्वत्प्रथस्तद्दिवं यछ दिवं दृंह दिवम् मा हिंसीरित्यात्मानं यछात्मानं दृंहात्मानम् मा हिंसीरित्येतत्॥
विश्वस्मै प्रणायापानाय॥
व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः प्रतिष्ठा चरित्रं सूर्यस्त्वाभिपात्विति सूर्यस्त्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छर्दिषा शन्तमेनेति यच्छर्दिः शन्तमं तेनेत्येतत्॥
नानोपदधाति॥
नाना हि वायुश्च द्यौश्च सकृत्सादयति समानं तत्करोति समानं ह्यायुश्च प्राणश्च ते वा उभे एव शर्करे भवत उभे स्वयमातृणे समानं ह्येवायुश्च प्राणश्चाथैने सूददोहसाधिवदति प्राणो वै सूददोहाः प्राणेणैवैने एतत्सन्तनोति सन्दधाति॥
ता अस्य सूददोहस इति॥
आपो वै सूदो ऽन्नं दोहः सोमं श्रीणन्ति पृश्नय इत्यन्नं वै पृश्नि जन्मन्देवानामिति संवत्सरो वै देवानां जन्म विश इति यज्ञो वै विशो यज्ञे हि सर्वाणि भूतानि विष्टानि त्रिष्वा रोचने दिव इति सवनानि वै त्रीणि रोचनानि सवनान्येतदाहानुष्टुभा वाग्वा अनुष्टुब्वागु सर्वे प्राणा वाचा चैवैने एतत्प्राणेन च सन्तनोति सन्दधाति सा वा एषैका सती सूददोहाः सर्वा इष्टका अनुसञ्चरति प्राणो वै सूददोहास्तस्मादयमेक एव प्राणः सन्त्सर्वाण्यङ्गानि सर्वमात्मानमनुसञ्चरति॥
अथ स्वयमातृणासु सामानि गायति॥
इमे वै लोकाः स्वयमातृणास्ता एताः शर्करास्ता देवा उपधायैतादृशीरेवापश्यन्यथैताः शुष्काः शर्कराः॥
ते ऽब्रुवन्॥
उप तज्जानीत यथैषु लोकेषु रमसुपजीवनं दधामेति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथैषु लोकेषु रसमुपजीवनं दधामेति॥
ते चेतयमानाः॥
एतानि सामान्यपश्यंस्तान्यगायंस्तैरेषु लोकेषु रसमुपजीवनमदधुस्तथैवैतद्यजमानो यदेतानि सामानि गायत्येष्वेवैतल्लोकेषु रसमुपजीवनं दधाति॥
स्वयमातृणासु गायति॥
इमे वै लोकाः स्वयमातृणा एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति॥
स वै भूर्भुवः स्वरिति॥
एतासु व्याहृतिषु गायति भूरिति वा अयं लोको भुव इत्यन्तरिक्षलोकः स्वरित्यसौ लोक एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति॥
तानि वै नानाप्रस्तावानि॥
समाननिधनानि तानि यन्नानाप्रस्तावानि नाना ह्यपश्यन्नथ यत्समाननिधनान्येका ह्येव यज्ञस्य प्रतिष्ठैकं निधनं स्वर्ग एव लोकस्तस्मात्स्वर्ज्योतिर्निधनानि॥
अथैनं हिरण्यशकलैः प्रोक्षति॥
अत्रैष सर्वो ऽग्निः संस्कृतस्तस्मिन्देवा एतदमृतं रूपमुत्तमदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति॥
यद्वेवैनं हिरण्यशकलैः प्रोक्षति॥
एतद्वा अस्मिन्नदो ऽमूम् पुरस्ताद्रम्यां तनूम् मध्यतो दधाति रुक्भं च पुरुषं चाथैनमेतत्सर्वमेवोपरिष्टाद्रम्यया तन्वा प्रछादयति॥
द्वाभ्यां-द्वाभ्यां शताभ्याम्॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति पञ्च कृत्वः पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानाग्नर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति सहस्रेण सर्वं वै सहस्रं सर्वेणैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति॥
पश्चादग्रे प्राङ् तिष्ठन्॥
अथोत्तरतो दक्षिणाथ पुरस्तात्प्रत्यङ्ङथ जघनेन परीत्य दक्षिणत उदङ् तिष्ठंस्तद्दक्षिणावृत्तद्धि देवत्राथानुपरीत्य पश्चात्प्राङ् तिष्ठंस्तथो हास्यैतत्प्रागेव कर्म कृतम् भवति॥
सहस्रस्य प्रमासि॥
सहस्रस्य प्रतिमासि सहस्रस्योन्मासि साहस्रो ऽसि सहस्राय त्वेति सर्वं वै सहस्रं सर्वमसि सर्वस्मै त्वेत्येतत्॥
अथातश्चितिपुरीषाणामेव मीमांसा॥
अयमेव लोकः प्रथमा चितिः पशवः पुरीषं यत्प्रथमां चितिम् पुरीषेण प्रछादयतीमं तल्लोकम् पशुभिः प्रछादयति॥
अन्तरिक्षमेव द्वितीया चितिः॥
वयांसि पुरीषं यद्द्वितीयां चितिम् पुरीषेण प्रछादयत्यन्तरिक्षं तद्वयोभिः प्रछादयति॥
द्यौरेव तृतीया चितिः॥
नक्षत्राणि पुरीषं यत्तृतीयां चितिम् पुरीषेण प्रछादयति दिवं तन्नक्षत्रैः प्रछादयति॥
यज्ञ एव चतुर्थी चितिः॥
दक्षिणाः पुरीषं यच्चतुर्थी चितिम् पुरीषेण प्रछादयति यज्ञम् तद्दक्षिणाभिः प्रछादयति॥
यजमान एव पञ्चमी चितिः॥
प्रजा पुरीषं यत्पञ्चमीं चितिम् पुरीषेण प्रछादयति यजमानं तत्प्रजया प्रछादयति॥
स्वर्ग एव लोकः षष्ठी चितिः॥
देवाः पुरीषं यत्षष्ठीम् चितिम् पुरीषेण प्रछादयति स्वर्गं तल्लोकं देवैः प्रछादयति॥
अमृतमेव सप्तमी चितिः तामुत्तमामुपदधात्यमृतं तदस्य सर्वस्योत्तमं दधाति तस्मादस्य सर्वस्यामृतमुत्तमं तस्माद्देवा अनन्तर्हितास्तस्मादु ते ऽमृता इत्यधिदेवतम्॥
अथाध्यात्मम्॥
यैवेयम् प्रतिष्ठा यश्चायमवाङ् प्राणस्सत्प्रथमा चितिर्मांसम् पुरीषं यत्प्रथमां चितिम् पुरीषेण प्रछादयत्येतस्य तदात्मनो मांसैः सञ्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः सञ्छादयति नाधस्तात्सञ्छादयति तस्मादिमे प्राणा अधस्तादसञ्छन्ना उपरिष्टात्तु प्रछादयत्येतदस्य तदात्मन उपरिष्टान्मांसैः सञ्छादयति तस्मादस्यैतदात्मन उपरिष्टान्मांसैः सञ्छन्नं नावकाशते॥
यदूर्ध्वम् प्रतिष्ठाया अवाचीनम् मध्यात्॥
तद्द्वितीया चितिर्मांसम् पुरीषं यद्द्वितीयां चितिम् पुरीषेण प्रछादयत्येतदस्य तदात्मनो मांसैः सञ्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः सञ्छादयति पुरीष उपदधाति पुरीषेण प्रछादयत्येतदस्य तदात्मन उभयतो मांसैः सञ्छादयति तस्मादस्यैतदात्मन उभयतो मांसैः सञ्छन्नं नावकाशते॥
मध्यमेव तृतीया चितिः॥
यदूर्ध्वम् मध्यादवाचीनं ग्रीवाभ्यस्तच्चतुर्थी चितिर्ग्रीवा एव पञ्चमी चितिः शिर एव षष्ठी चितिः प्राणा एव सप्तमी चितिस्तामुत्तमामुपदधाति प्राणांस्तदस्य सर्वस्योत्तमान्दधाति तस्मादस्य सर्वस्य प्राणा उत्तमाः पुरीष उपदधाति मांसं वै पुरीषम् मांसेन तत्प्राणान्प्रतिष्ठापयति नोपरिष्टात्प्रछादयति तस्मादिमे प्राणा उपरिष्टादसञ्छन्नाः॥