०६

नाकसद उपदधाति॥
देवा वै नाकसदो ऽत्रैष सर्वो ऽग्निः संस्कृतः स एषो ऽत्र नाकः स्वर्गो लोकस्तस्मिन्देवा असीदंस्तद्यदेतस्मिन्नाके स्वर्गे लोके देवा असीदंस्तस्माद्देवा नाकसदस्तथैवैतद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति॥
यद्वेव नाकसद उपदधाति॥
एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेता स्तोमभागास्ते ऽब्रुवन्नुप तज्जानीत यथास्मिन्नाके स्वर्गे लोके सीदामेति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्नाके स्वर्गे लोके सीदामेति॥
ते चेतयमानाः॥
एता इष्टका अपश्यन्नाकसदस्ता उपादधत ताभिरेतस्मिन्नाके स्वर्गे लोके ऽसीदंस्तद्यदेताभिरेतस्मिन्नाके स्वर्गे लोके ऽसीदंस्तस्मादेता नाकसदस्तथैवैकद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति॥
दिक्षूपदधाति॥
दिशो वै स नाकः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके सादयत्यृतव्यानां वेलया संवत्सरो वा ऋतव्याः संवत्सरः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके सादयत्यन्तस्तोमभागमेष वै स नाकः स्वर्गो लोकस्तस्मिन्नेवैना एतत्प्रतिष्ठापयति॥
स पुरस्तादुपदधाति॥
राज्ञ्यति प्राची दिगिति राज्ञी ह नामैषा प्राची दिग्वसवस्ते देवा अधिपतय इति वसवो हैतस्य दिशो देवा अधिपतयो ऽग्निर्हेतीनाम् प्रतिधर्तेत्यग्निर्हैवात्र हैतीनाम् प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्यां श्रयत्विति त्रिवृता हैषा स्तोमेन पृथिव्यां श्रिताज्यमुक्थमव्यथायै स्तभ्नात्वित्याज्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा रथन्तरं साम प्रतिष्ठित्या अन्तरिक्ष इति रथन्तरेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति प्राणा वा ऋषयः प्रथमजास्तद्धि ब्रह्म प्रथमजं दिवो मात्रया वरिम्णा प्रथन्त्विति यावती द्यौस्तावतीं वरिम्णा प्रथन्त्वित्येतद्विधर्ता चायमधिपतिश्चेति वाक्च तौ मनश्च तौ हीदं सर्वं विधारयतस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्विति यथैव यजुस्तथा बन्धुः॥
अथ दक्षिणतः॥
विराडसि दक्षिणा दिगिति विराड्ढ नामैषा दक्षिणा दिग्रुद्रास्ते देवा अधिपतय इति रुद्रा हैतस्य दिशो देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्तेतीन्द्रो हैवात्र हेतीनाम् प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति पञ्चदशेन हैषा स्तोमेन पृथिव्यां श्रिता प्रउगमुक्थमव्यथायै स्तभ्नात्विति प्रउगेण हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा बृहत्साम प्रतिष्ठित्या अन्तरिक्ष इति बृहता हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः॥
अथ पश्चात्॥
सम्राडसि प्रतीची दिगिति सम्राड्ढ नामैषा प्रतीचि दिगादित्यास्ते देवा अधिपतय इत्यादित्या हैतस्यै दिशो देवा अधिपतयो वरुणो हेतीनाम् प्रतिधर्तेति वरुणो हैवात्र हेतीनाम् प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति सप्तदशेन हैषा स्तोमेन पृथिव्यां श्रिता मरुत्वतीयमुक्थमव्यथायै स्तभ्नात्विति मरुत्वतीयेन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वैरूपं साम प्रतिष्ठित्या अन्तरिक्ष इति वैरूपेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः॥
अथोत्तरतः स्वराडस्युदीची दिगिति स्वराड्ढ नामैषोदीची दिङ्मरुतस्ते देवा अधिपतय इति मरुतो हैतस्यै दिशो देवा अधिपतयः सोमो हेतीनाम् प्रतिधर्तेति सोमो हैवात्र हेतीनाम् प्रतिधर्तैकविंशस्त्वा स्तोमः पृथिव्यां श्रयत्वित्येकविंशेन हैषा स्तोमेन पृथिव्यां श्रिता निष्केवल्यमुक्थमव्यथायै स्तभ्नात्विति निष्केवल्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वै राजं साम प्रतिष्ठित्या अन्तरिक्ष इति वैराजेन हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः॥
अथ मध्ये॥
अधिपत्न्यसि बृहती दिगित्यधिपत्नी ह नामैषा बृहती दिग्विश्वे ते देवा अधिपतय इति विश्वे हैतस्यै दिशो देवा अधिपतयो बृहस्पतिर्हेतीना प्रतिधर्तेति बृहस्पतिर्हैवात्र हेतीनाम् प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतामिति त्रिणवत्रयस्त्रिंशाभ्यां हैषा स्तोमाभ्याम् पृथिव्यां श्रिता वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नीतामिति वैश्वदेवाग्निमारुताभ्यां हैषोक्थाभ्यामव्यथायै पृथिव्यां स्तब्धा शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्ष इति शाक्वररैवताभ्यां हैषा सामभ्याम् प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः॥
एतावान्वै सर्वो यज्ञः॥
यज्ञ उ देवानामात्मा यज्ञमेव तद्देवा आत्मानं कृत्वैतस्मिन्नाके स्वर्गे लोके ऽसीदंस्तथैवैतद्यजमानो यज्ञमेवात्मानं कृत्वैतस्मिन्नाके स्वर्गे लोके सीदति॥
अथ पञ्चचूडा उपदधाति॥
यज्ञो वै नाकसदो यज्ञ उ एव पञ्चचूडास्तद्य इमे चत्वार ऋत्विजो गृहपतिपञ्चमास्ते नाकसदो होत्राः पञ्चचूडा अतिरिक्तं वै तद्यद्धोत्रा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्ता तस्मात्पञ्चचूडाः॥
यद्वेव नाकसत्पञ्चचूडा उपदधाति॥
आत्मा वै नाकसदो मिथुनम् पञ्चचूडा अर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वो ऽथ कृत्स्नः कृत्स्नतायै॥
यद्वेव नाकसत्पञ्चचूडा उपदधाति॥
आत्मा वै नाकसदः प्रजा पञ्चचूडा अतिरिक्तं वै तदात्मनो यत्प्रजा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः॥
यद्वेव नाकसत्पञ्चचूडा उपदधाति॥
दिशो वै नाकसदो दिश उ एव पञ्चचूडास्तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशस्ता नाकसदो याः पराच्यस्ताः पञ्चचूडा अतिरिक्ता वै ता दिशो या अमुष्मादादित्यात्पराच्यो यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः॥
यद्वेव पञ्चचूडा उपदधाति॥
एतद्वै देवा अबिभयुर्यद्वै न इमांलोकानुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरिति त एतानेषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वत य एते हेतयश्च प्रहेतयश्च तथैवैतद्यजमान एतानेषां लोकानामुपरिष्टाद्गोप्तॄन्कुरुते य एते हेतयश्च प्रहेतयश्च॥
स पुरस्तादुपदधाति॥
अयम् पुरो हरिकेश इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्धरिकेश इत्याह हरिरिव ह्यग्निः सूर्यरश्मिरिति सूर्यस्येव ह्यग्ने रश्मयस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्याविति वासन्तिकौ तावृतू पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिः सेना च तु ते समितिश्च दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यद्वै सेनायां च समितौ चऽर्तीयन्ते दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यदन्यो ऽन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति तेनो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततो ऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयन्निर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि॥
अथ दक्षिणतः॥
अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा यो ऽयम् पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्याविति ग्रैष्मौ तावृतू मेनका च सहजन्या चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरिमे तु ते द्यावापृथिवी यातुधाना हेती रक्षांसि प्रहेतिरिति यातुधाना हैवात्र हेति: रक्षांसि प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः॥
अथ पश्चात्॥
अयम् पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम् प्रत्यञ्चमेव यन्तम् पश्यन्ति तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्याविति वार्षिकौ तावृतू प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरहोरात्रे तु ते ते हि प्र च म्लोचतो ऽनु च म्लोचतो व्याघ्रा हेतिः सर्पाः प्रहेतिरिति व्याघ्रा हैवात्र हेतिः सर्पाः प्रहेतिस्तेभ्यो नमो अस्त्वितितस्योक्तो बन्धुः॥
अथोत्तरतः॥
अयमुत्तरात्संयद्वसुरिति यज्ञो वा उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरतउपचारो हि यज्ञो ऽथ यत्संयद्वसुरित्याह यज्ञं हि संयन्तीतीदं वस्विति तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्याविति शारदौ तावृतूविश्वाची च घृताची चाप्सरसाविति दिक्चोपदिशा चेति ह स् माह माहित्थिर्वेदिश्च तु ते स्रुक्च वेदिरेव विश्वाची स्रुग्घृताच्यापो हेतिर्वातः प्रहेतिरित्यापो हैवात्र हेतिर्वातः प्रहेतिरतो ह्येवोष्णो वात्यतः शीतस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः॥
अथ मध्ये॥
अयमुपर्यर्वाग्वसुरिति पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि पर्जन्यो ऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नम् प्रजाभ्यः प्रदीयते तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्याविति हैमन्तिकौ तावृतू उर्वशी च पूर्वचित्तिश्चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिराहुतिश्च तु ते दक्षिणा चावस्फूर्जन्हेतिर्विद्युत्प्रहेतिरित्यवस्फूर्जन्हैवात्र हेतिर्विद्युत्प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः॥
एते वै ते हेतयश्च प्रहेतश्च॥
यांस्तद्देवा एषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वताथ यास्ताः प्रजा एते ते सेनानीग्रामण्यो ऽथ यत्तन्मिथुनमेतास्ता अप्सरसः सर्व एव तद्देवाः कृत्स्ना भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके ऽसीदंस्तथैवैतद्यजमानः सर्व एव कृत्स्नो भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके सीदति॥
ता वा एताः॥
दशेष्टका उपदधाति दशाक्षरा विराड्विराडेषा चितिस्ता उ वै पञ्चैव द्वे-द्वे ह्युपदधाति ता हैता अग्नेराशिषस्ता उत्तमायां चिता उपदधात्यन्त एषो ऽग्नेर्यदुत्तमा चितिरन्ततस्तदग्नेराशिषो निराह पञ्च भवन्ति पञ्च हि यज्ञ आशिषो ऽथैने अन्तरा पुरीषं निवपत्यग्नी हैतौ यदेते इष्टके नेदिमावग्नी संशोचात इत्यथो अन्नं वै पुरीषमन्नेनैवाभ्यामेतत्सञ्ज्ञां करोति॥
अथातो ऽन्वावृतम्॥
पुरस्तादुपधाय दक्षिणतः पश्चादुत्तरतो मध्य उपदधात्यथोत्तराः पुरस्तादेवाग्र उपधाय दक्षिणत उत्तरतो मध्ये पश्चादुपदधात्यवस्तात्प्रपदनो ह स्वर्गो लोक एतद्वै देवा इमांलोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकम् प्रापद्यन्त तथैवैतद्यजमान इमांलोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकम् प्रपद्यते॥
छन्दस्या उपदधाति॥
अत्रैष सर्वो ऽग्निः संस्कृतः स एषो ऽत्र श्रियमैछन्नो हैषो ऽतः पुरा तस्मा अलमास यछ्रियमधारयिष्यत्तस्मादिदमप्येतर्ह्याहुर्न वा एषो ऽलं श्रियै धारणाय राज्याय वा ग्रामणीथ्याय वेति तस्मै देवा एतां श्रियम् प्रायछन्नेताश्छन्दस्याः पशवो छन्दांस्यन्नम् पशवो ऽन्नमु श्रीः॥
त्रिचान्युपदधाति॥
त्रिवृद्वै पशुः पिता माता पुत्रो ऽथो गर्भ उल्बं जरायुअथो त्रिवृद्वा अन्नं कृषिर्वृष्टिर्वीजमेकैवातिच्छन्दा भवत्येका ह्येव सा सर्वाणि छन्दांस्यति सा या सा श्रीर्महत्तदुक्थं तद्यत्तन्महदुक्थमेतास्ताश्छन्दस्याः॥
तस्य शिरो गायत्र्यः॥
आत्मा त्रिष्टुभो ऽनूकं जगत्यः पक्षौ पङ्क्तयो ऽथैतासां ककुभां चत्वारि चत्वार्यक्षराण्यादायातिच्छन्दस्युपदधाति सा सातिच्छन्दा एव भवति गायत्र्य इतराः सम्पद्यन्ते सैव गायत्र्यशीतिर्या बृहत्यः सा बार्हती या उष्णिहः सौष्णिह्यथ यद्वशो यदर्धर्चौ यदैन्द्राग्नं यदावपनं तदतिच्छन्दा अथ यन्नदो यत्सूददोहा यत्पदनुषङ्गा यत्किञ्चात्रानुष्टुप्कर्मीणं तदनुष्टुभः॥
प्रतिष्ठा द्विपदाः॥
एतावद्वै महदुक्थम् महदुक्थं श्रीः सर्वामेवास्मा एतां देवाः प्रायछंस्तथैवास्मा अयमेतां सर्वां श्रियम् प्रयछति॥
यद्वेव छन्दस्या उपदधाति॥
एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेता स्तोमभागास्तस्मिन्नविशंस्तेषां विशताम् प्रजापतिरुत्तमो ऽविशत्स यः स प्रजापतिरेतास्ताश्छन्दस्याः॥
तस्य शिरो गायत्र्यः॥
ता यद्गायत्र्यो भवन्ति गायत्रं हिशिरस्तिस्रो भवन्ति त्रिवृद्धि शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः॥
उरस्त्रिष्टुभः॥
ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचा उरो वै प्रति पृष्टयः॥
श्रोणी जगत्यः॥
स यावति पुरस्तात्स्वयमातृणायै त्रिष्टुभ उपदधाति तावति पश्चाज्जगतीर्यो वा अयम् मध्ये प्राणस्तदेषा स्वयमातृणा यावत्यु वा एतस्मात्प्राणात्पुरस्तादुरस्तावति पश्चाछ्रोणी॥
सक्थ्यावनुष्टुभः॥
ता अनन्तर्हिता जगतीभ्य उपदधात्यनन्तर्हिते तछ्रोणिभ्यं सक्थ्यो दधाति॥
पर्शवो बृहत्यः॥
कीकसाः ककुभः सो ऽन्तरेण त्रिष्टुभश्च ककुभश्च बृहतीरुपदधाति तस्मादिमा उभयत्र पर्शवो बद्धाः कीकसासु च जत्रुषु च॥
ग्रीवा उष्णिहः॥
ता अनन्तर्हिता गायत्रीभ्य उपदधात्यनन्तर्हितास्तछीर्ष्णो ग्रीवा दधाति॥
पक्षौ पङ्क्तयः॥
ता यत्पङ्क्तयो भवन्ति पाङ्क्तौ हि पक्षौ पार्श्वत उपदधाति पार्श्वतो हीमौ पक्षौ यद्वर्षीयश्छन्दस्तद्दक्षिणत उपदधाति दक्षिणं तदर्धम् पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणो ऽर्धः पशोवीर्यवत्तरः॥
उदरमतिच्छन्दाः॥
पशवो वै छन्दांस्यन्नम् पशव उदरं वा अन्नमत्त्युदरं हि वा अन्नमत्ति तस्माद्यदोदरमन्नम् प्राप्नोत्यथ तज्जग्धं यातयामरूपम् भवति तद्यदेषा पशूंश्छन्दांस्यत्ति तस्मादत्तिच्छन्दा अत्तिच्छन्दा ह वै तामतिच्छन्दा इत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवाः॥
योनिः पुरीषवती॥
ते संसोऋष्टे उपदधाति संस्पृष्टे ह्युदरं च योनिश्च पुरीशसंहिते भवतो मांसं वै पुरीषम् मांसेन वा उदरं च योनिश्च संहिते पूर्वातिच्छन्दा भवत्यपरा पुरीषवत्युत्तरं ह्युदरमधरा योनिः॥
ते प्राच्या उपदधाति॥
प्राङ् ह्येषो ऽग्निश्चीयते ऽथो प्राग्वै प्राच उदरम् प्राची योनिर्बहिस्तोमभागं हृदयं वै स्तोमभागा हृदयमु वा उत्तमथोदरमथ योनिः॥
ते दक्षिणतः स्वयमातृणाया उपदधाति॥
अथ प्रथमायां चिता उत्तररः स्वयमातृणाया उदरं च योनिं चोपदधाति यो वा अयम् मध्ये प्राणस्तदेषा स्वयमातृणैतस्य तत्प्राणस्योभयत उदरं च योनिं च दधाति तस्मादेतस्य प्राणस्योभयत उदरं च योनिश्च॥
प्रतिष्ठा द्विपदाः॥
ता यद्द्विपदा भवन्ति द्वन्द्वं हि प्रतिष्ठा तिस्रो भवन्ति त्रिवृद्धि प्रतिष्ठा पश्चादुपदधाति पश्चाधीयम् प्रतिष्ठा॥
सो ऽस्यैष सुकृत आत्मा॥
तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्त्येतं ह स सुकृतमात्मानमभिसम्भवत्यथ यस्य हैतमतो ऽन्यथा कुर्वन्ति दुष्कृतं ह तस्यात्मानं कुर्वन्ति स ह स दुष्कृतमेवात्मानमभिसम्भवति॥
तदेते सामनिधने अभ्युक्ते॥
अर्को देवानाम् परमे व्योमन्नर्कस्य देवाः परमे व्योमन्नित्येतद्वै देवानां विशताम् प्रजापतिरुत्तमो ऽविशत्तस्मादाहार्को देवानाम् परमे व्योमन्नित्यथ यदाहार्कस्य देवाः परमे व्योमन्नित्ययं वा अग्निरर्कस्तस्यैतदुत्तमायां चितौ सर्वे देवा विष्टास्तस्मादाहार्कस्य देवाः परमे व्योमन्निति॥
गार्हपत्यमुपदधाति॥
एतद्वै देवाः प्राप्य राद्ध्वेवामन्यन्त ते ऽब्रुवन्केनेदमरात्स्मेति गार्हपत्येनैवेत्यव्रुवन्गार्हपत्यं वै चित्वा समारुह्य प्रथमां चितिमपश्याम प्रथमायै द्वितीयां द्वितीयायै तृतीयां तृतीयायै चतुर्थीं चतुर्थ्यै पञ्चमीम् पञ्चम्या इदमिति॥
त ऽब्रुवन्॥
उप तज्जानीत यथेयमस्मास्वेव राद्धिरसदिति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेयमस्मास्वेव राद्धिरसदिति॥
ते चेतयमानाः॥
एतदपश्यन्निहेममाहृत्योपदधामहा इति तमिहाहृत्योपादधत तस्मिन्व्यवदन्त वसवः पुरस्ताद्रुद्रा दक्षिणत आदित्याः पश्चान्मरुत उत्तरतो विश्वे देवा उपरिष्टादिहोपदधामेहोपदधामेति॥
ते ऽब्रुवन्॥
मध्य एवोपदधामहै स नो मध्य उपहितः सर्वेषाम् भविष्यतीति तं मध्य उपादधत तदेतां राद्धिमात्मन्नदधत मध्यतो मध्यत एवैतदेतां राद्धिमात्मन्नदधत तथैवैतद्यजमानो यद्गार्हपत्यमुपदधात्येतामेवैतद्राद्धिमात्मन्धत्ते मध्यतो मध्यत एवैतदेतां राद्धिमात्मन्धत्ते॥
यद्वेव गार्हपत्यमुपदधाति॥
अन्नं वै गार्हपत्यो ऽत्तायमग्निश्चितो ऽत्त्र एवैतदन्नमपिदधाति मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति॥
यद्वेव गार्हपत्यमुपदधाति॥
वेदिर्वै देवलोको ऽथ वा एष बहिर्वेदि चितो भवति तं यदिहाहृत्योपदधाति तदेनं वेदौ देवलोके प्रतिष्ठापयति॥
यद्वेव गार्हपत्यमुपदधाति॥
योनिर्वै पुष्करपर्णमथ वा एष बहिर्योनि चितो भवति बहिर्धो वा एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्तं यदिहाहृत्योपदधाति तदेनं योनौ पुष्करपर्णे प्रतिष्ठापयति तथो हैषो ऽबहिर्धा भवत्यष्टाविष्टका उपदधाति तस्योक्तो बन्धुस्तं वा एतैरेव यजुर्भिरेतयावृता चिनोति यो ह्येवासौ स एवायं तमेवैतदाहृत्येहोपदधाति॥
अथ पुनश्चितिमुपदधाति॥
एतद्वै देवा गार्हपत्यं चित्वा तस्मिन्राद्धिं नापश्यन्योनिर्वै गार्हपत्या चितिरेषो वै योने राद्धिर्यद्रेतः प्रजातिस्तस्यामेतस्यां योनौ रेतः प्रजातिं नापश्यन्॥
ते ऽब्रुवन्॥
उप तज्जानीत यथास्यां योनौ रेतः प्रजातिं दधामेति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्यां योनौ रेतः प्रजातिं दधामेति॥
ते चेतयमानाः॥
एताम् पुनश्चितिमपश्यंस्तामुपादधत तदेतस्यां योनौ रेतः प्रजातिमदधुर्मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः प्रजातिमदधुस्तथैवैतद्यजमानो यत्पुनश्चितिमुपदधात्येतस्यामेवैतद्योनौ रेतः प्रजातिं दधाति मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः प्रजातिं दधाति॥
तां हैके जघनार्ध उपदधति॥
जघनार्धाद्वै रेतः सिच्यते पुछसन्धौ पुछाद्वै रेतः सिच्यत इति न तथा कुर्याद्बहिर्धा ह ते योने रेतः प्रजातिं दधति ये तथा कुर्वन्ति मध्य एवोपदध्यात्तत्सम्प्रति योनौ रेतः प्रजातिं दधाति॥
अष्टाविष्टका उपदधाति॥
अष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति पञ्च कृत्वः सादयति पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चत्यष्टाविष्टकाः पञ्च कृत्वः सादयति तत्त्रयोदश त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
यद्वेव पुनश्चितिमुपदधाति॥
एतद्वा एतदयथायथं करोति यदाहवनीयाद्गार्हपत्यमुत्तरं चिनोति तद्यत्पुनश्चितिमुपदधाति य एवायमग्निश्चितस्तमेवैतदाहृत्यास्योपरिष्टात्पुनश्चिनोति तद्यच्चितं सन्तम् पुनश्चिनोति तस्मात्पुनश्चितिः॥
तद्धैके॥
जघनार्धे गार्हपत्यमुपदधति पूर्वार्धे पुनश्चितिमाहवनीयश्च वा एतौ गार्हपत्यश्चैवं वा एतावग्नी इति न तथा कुर्यादयं वै लोको गार्हपत्यो द्यौराहवनीय उत्तरो वा असावस्यै तस्मादेनामुत्तरामेवोपदध्यात्॥
यद्वेव गार्हपत्यं च पुनश्चितिं चोपदधाति॥
वेदिश्च हैते अग्नेरुत्तरवेदिश्चाथ ये अमू पूर्वे निवपत्यध्वरस्य ते अथ हैते अग्नेस्तद्यदेते उपधायाग्निं निदधाति वेदौ चैवैनमेतदुत्तरवेदौ च प्रतिष्ठापयति॥
यद्वेव पुनश्चितिमुपदधाति॥
पुनर्यज्ञो हैष उत्तरा हैषा देवयज्या पुनर्यज्ञमेवैतदुपधत्त उत्तरामेव देवयज्यामुप हैनम् पुनर्यज्ञो नमति॥
यद्वेव पुनश्चितिमुपदधाति॥
यं वै तम् प्राणा ऋषयो ऽग्रे ऽग्निं समस्कुर्वन्त्स एष तमेवैतत्पुनश्चिनोति तद्यच्चितं सन्तम् पुनश्चिनोति तस्माद्वेव पुनश्चितिः॥
येन ऋषयस्तपसा सत्त्रमायन्निति॥
अमूनेतदृषीनाहेन्धाना अग्निं स्वराभरन्त इतीन्धाना अग्निं स्वर्गं लोकमाहरन्त इत्येतत्तस्मिन्नहं निदधे नाके अग्निमिति स्वर्गो वै लोको नाको यमाहुर्मनव स्तीर्णबर्हिषमिति ये विद्वांसस्ते मनव स्तीर्णबर्हिषमिति सर्वदा हैव स स्तीर्णबर्हिः॥
तम् पत्नीभिरनुगछेम देवाः॥
पुत्रैर्भ्रातृभिरुत वा हिरण्यैरित्येतेनैनं सर्वेणानुगछेमेत्येतन्नाकं गृभ्णानाः सुकृतस्य लोक इति स्वर्गो वै लोको नाकः स्वर्गं लोकं गृह्णानाः सुकृतस्य लोक इत्येतत्तृतीये पृष्ठे अधि रोचने दिव इत्येतद्ध तृतीयम् पृष्ठं रोचनं दिवो यत्रैष एतत्तपति॥
आ वाचो मध्यमरुहद्भुरण्युरिति॥
एतद्ध वाचो मध्यं यत्रैष एतच्चीयते भुरण्युरिति भर्तैत्येतदयमग्निः सत्पतिश्चेकितान इत्ययमग्निः सताम् प्रतिश्चेतयमान इत्येतत्पृष्ठे पृथिव्या निहितो दविद्युतदिति पृष्ठे पृथिव्या निहितो दीप्यमान इत्येतदधस्पदं कृणुतां ये पृतन्यव इत्यधस्पदं कुरुतां सर्वान्पाप्मन इत्येतत्॥
अयमग्निर्वीरतमो वयोधा इति॥
अयमग्निर्वीर्यवत्तमो वयोधा इत्येतत्सहस्रियो द्योततामप्रयुछन्निति सहस्रियो दीप्यतामप्रमत्त इत्येतद्विभ्राजमानः सरिरस्य मध्य इतीमे वै लोकाः सरिरं दीप्यमान एषु लोकेष्वित्येतदुप प्रत्याहि दिव्यानि धामेत्युप प्रयाहि स्वर्गं लोकमित्येतत्॥
सम्प्रच्यवध्वमुप सम्प्रयातेति॥
अमूनेतदृषीनाह समेनम् प्रच्यवध्वमुप चैनं सम्प्रयातेत्यग्ने पथो देवयानान्कृणुध्वमिति यथैव यजुस्तथा बन्धुः पुनः कृण्वाना पितरा युवानेति वाक्च वै मनश्च पितरा युवाना वाक्च मनश्चैतावग्नी अन्वातांसीत्त्वयि तन्तुमेतमिति यो ऽसावृषिभिस्तन्तुस्ततस्तमेतदाह॥
उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिति॥
इममेतदग्निमाहोच्चैनम् बुध्यस्व प्रति चैनं जागृहीतीष्टापूर्ते संसृजेथामयं चेति यथैव यजुस्तथा बन्धुरस्मिन्त्सधस्थे अध्युत्तरस्मिन्निति द्यौर्वा उत्तरं सधस्थं विश्वे देवा यजमानश्च सीदतेति तद्विश्वैर्देवैः सह यजमानं सादयति॥
येन वहसि सहस्रम्॥
येनाग्ने सर्ववेदसमित्येतद्धास्य प्रतिज्ञाततमं धाम येन सहस्रं वहति येन सर्ववेदसं तेनेमं यज्ञं नो नय स्वर्देवेषु गन्तव इति तेन न इमं यज्ञं नय स्वर्गं लोकं देवेषु गन्तव इत्येतदयं ते योनिरृत्विय इति तस्योक्तो बन्धुरष्टाविष्टका उपदधाति तस्यो एवोक्तः॥