पञ्चमीं चितिमुपदधाति॥
एतद्वै देवाश्चतुर्थीं चितिं चित्वा समारोहन्यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदेव तत्संस्कृत्य समारोहन्॥
ते ऽब्रुवन्॥
चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना दिवमेव विराजम् पञ्चमीं चितिमपश्यंस्तेभ्य एष लोको ऽछन्दयत्॥
ते ऽकामयन्त॥
असपत्नमिमं लोकमनुपबाधं कुर्वीमहीति ते ऽब्रुवन्नुप तज्जानीत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति॥
ते चेतयमानाः॥
एता इष्टका अपश्यन्नसपत्नास्ता उपादधत ताभिरेतं लोकमसपत्नमनुपबाधमकुर्वत तद्यदेताभिरिमं लोकमसपत्नमनुपबाधमकुर्वत तस्मादेता असपत्नास्तथेवैतद्यजमानो यदेता उपदधातमेवैतल्लोकमसपत्नमनुपबाधं कुरुते सर्वत उपदधाति सर्वत एवैतदेतं लोकमसपत्नमनुपबाधं कुरुते परार्ध उपदधाति सर्वमेवैतदेतं लोकमसपत्नमनुपवाधं कुरुते॥
अथ विराज उपदधाति॥
एषा वै सा विराड्यां तद्देवा विराजम् पञ्चमीं चितिमपश्यंस्ता दश-दशोपदधाति दशाक्षरा विराड्विराडेषा चिविः सर्वत उपदधाति यो वा एकस्यां दिशि विराजति न वै स विराजति यो वाव सर्वासु दिक्षु विराजति स एव विराजति॥
यद्वेवैता असपत्ना उपदधाति॥
एतद्वै प्रजापतिमेतस्मिन्नात्मनः प्रतिहिते सर्वतः पाप्मोपायतत स एता इष्टका अपश्यदसपत्नास्ता उपाधत्त ताभिस्तम् पाप्मानमपाहत पाप्मा वै सपत्नस्तद्यदेताभिः पाप्मानं सपत्नमपाहत तस्मादेता असपत्नाः॥
तद्वा एतत्क्रियते॥
यद्देवा अकुर्वन्निदं न्विमं स पाप्मा नोपयतते यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा यः सपत्नस्तमेताभिरपहते तद्यदेताभिः पाप्मानं सपत्नमपहते तस्मादेता असपत्नाः सर्वत उपदधाति सर्वत एवैतत्पाप्मानं सपत्नमपहते परार्ध उपदधाति सर्वस्मादेवैतदात्मनः पाप्मानं सपत्नमपहते॥
स पुरस्तादुपदधाति॥
अग्ने जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुरथ पश्चात्सहसा जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुः॥
सा या पुरस्तादग्निः सा॥
या पश्चादग्निः साग्निनैव तत्पुरस्तात्पाप्मानमपाहताग्निना पश्चात्तथैवैतद्यजमानो ऽग्निनैव पुरस्तात्पाप्मानमपहते ऽग्निना पश्चात्॥
अथ दक्षिणतः॥
षोडशी स्तोम ओजो द्रविणमित्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभमन्तरिक्षं चतस्रो दिश एष एव वज्रः पञ्चदशस्तस्यासावेवादित्यः षोडशी वज्रस्य भर्ता स एतेन पञ्चदशेन वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपाहत तथैवैतद्यजमान एतेन पञ्चदशेन वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपहते॥
अथोत्तरतः॥
चतुश्चत्वारिंश स्तोमो वर्चो द्रविणमिति चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्त्रैष्टुभो वज्रः स एतेन चतुश्चत्वारिंशेन वज्रेणैतया त्रिष्टुभोत्तरतः पाप्मानमपाहत तथैवैतद्यजमान एतेन चतुश्चत्वारिंशेन वज्रेणैतया त्रिष्टुभोत्तरतः पाप्मानमपहते॥
अथ मध्ये॥
अग्नेः पुरीषमसीति ब्रह्म वै चतुर्थी चितिरग्निरु वै ब्रह्म तस्या एतत्पुरीषमिव यत्पञ्चम्यप्सो नामेति तस्योक्तो बन्धुः॥
ताम् प्राचीं तिरश्चीमुपदधाति॥
एतद्धैतया प्रजापतिः पाप्मनो मूलमवृश्चत्तथैवैनयायमेतत्पाप्मनो मूलं वृश्चति दक्षिणतो दक्षिणतउद्यामो हि वज्रो ऽन्तरेण दक्षिणां दिश्यामुद्यामाय ह तमवकाशं करोति॥
सा या पुरस्तात्प्राणः सा॥
या पश्चादपानः सा प्राणेनैव तत्पुरस्तात्पाप्मानमपाहतापानेन पश्चात्तथैवैतद्यजमानः प्राणेनैव पुरस्तात्पाप्मानमपहते ऽपानेन पश्चात्॥
अथ ये अभितः॥
तौ बाहू स यो ऽस्याभितः पाप्मासीद्बाहुभ्यां तमपाहत तथैवैतद्यजमानो यो ऽस्याभितः पाप्मा भवति बाहुभ्यामेव तमपहते॥
अन्नम् पुरीषवती॥
स यो ऽस्योपरिष्ठात्पाप्मासीदन्नेन तमपाहात तथैवैतद्यजमानो यो ऽस्योपरिष्टात्पाप्मा भवत्यन्नेनैव तमपहते॥
स यद्ध वा एवंवित्प्राणिति॥
यो ऽस्य पुरस्तात्पाप्मा भवति तं तेनापहते ऽथ यदपानिति तेन तं यः पश्चादथ यद्बाहुभ्यां कर्म कुरुते तेन तं यो ऽभितो ऽथ यदन्नमत्ति तेन तं य उपरिष्टात्सर्वदा ह वा एवंवित्पाप्मानमपहते ऽपि स्वपंस्तस्मादेवं विदुषः पापं न कीर्तयेन्नेदस्य पाप्मासानीति॥
अथ छन्दस्या उपदधाति॥
एतद्वै प्रजापतिः पाप्मनो मृत्योर्मुक्त्वान्नमैछत्तस्मादु हैतदुपतापी वसीयान्भूत्वान्नमिच्छति तस्मिन्नाशंसन्ते ऽन्नमिच्छति जीविष्यतीति तस्मै देवा एतदन्नम् प्रायछन्नेताश्छन्दस्याः पशवो वै छन्दांस्यन्नम् पशवस्तान्यस्मा अछदयंस्तानि यदस्मा अछदयंस्तस्माच्छन्दांसि॥
ता दश-दशोपदधाति॥
दशाक्षरा विराड्विराडु कृत्स्नमन्नं सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नेतत्कृत्स्नमन्नं दधाति॥
एवश्छन्द इति॥
अयं वै लोक एवश्छन्दो वरिवश्छन्द इत्यन्तरिक्षं वै वरिवश्छन्दः शम्भूश्छन्द इति द्यौर्वै शम्भूश्छन्दः परिभूश्छन्द इति दिशो वै परिभूश्छन्द आछच्छन्द इत्यन्नं वा आछच्छन्दो मनश्छन्द इति प् रजापतिर्वै मनश्छन्दो व्यचश्छन्द इत्यसौ वा आदित्यो व्यचश्छन्दः॥
सिन्धुश्छन्द इति॥
प्राणो वै सिन्धुश्छन्दः समुद्रश्छन्द इति मनो वै समुद्रश्छन्दः सरिरं छन्द इति वाग्वै सरिरं छन्दः ककुप्छन्द इति प्राणो वै ककुप्छन्दस्त्रिककुप्छन्द इत्युदानो वै त्रिककुप्छन्दः काव्यं छन्द इति त्रयी वै विद्या काव्यं छन्दो ऽङ्कुपं छन्द इत्यापो वा अङ्कुपं छन्दो ऽक्षरपङ्क्तिश्छन्द इत्यसौ वै लोको ऽक्षरपङ्क्तिश्चन्दः पदपङ्क्तिश्छन्द इत्ययं वै लोकः पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्द इति दिशो वै विष्टारपङ्क्तिश्छन्दः क्षुरो भ्रजश्छन्द इत्यसौ वा आदित्यः क्षुरो भ्रजश्छन्द आछच्छन्दः प्रछच्छन्द इत्यन्नं वा आछच्छन्दो ऽन्नम् प्रछच्छन्दः॥
संयच्छन्द इति॥
रात्रिर्वै संयच्छन्दो वियच्छन्द इत्यहर्वै वियच्छन्दो बृहच्छन्द इत्यसौ वै लोको बृहच्छन्दो रथन्तरं छन्द इत्ययं वै लोको रथन्तरं छन्दो निकायश्छन्द इति वायुर्वै निकायश्छन्दो विवधश्छन्द इत्यन्तरिक्षं वै विवधश्छन्दो गिरश्छन्द इत्यन्नं वै गिरश्छन्दो भ्रजश्छन्द इत्यग्निर्वै भ्रजश्छन्दः संस्तुप्छन्दो ऽनुष्टुप्छन्द इति वागेव संस्तुप्छन्दो वागनुष्टुप्छन्द एवस्=छन्दो वरिवश्छन्द इति तस्योक्तो बन्धुः॥
वयश्छन्द इति॥
अन्नं वै वयश्छन्दो वयस्कृच्छन्द इत्यग्निर्वै वयस्कृच्छन्दो विष्पर्धाश्छन्द इत्यसौ वै लोको विष्पर्धाश्छन्दो विशालं छन्द इत्ययं वै लोको विशालं छन्दश्छदिश्छन्द इत्यन्तरिक्षं वै छदिश्छन्दो दूरोहणं छन्द इत्यसौ वा आदित्यो दूरोहणं छन्दस्तन्द्रं छन्द इति पङ्क्तिर्वै तन्द्रं छन्दो ऽङ्काङ्कं छन्द इत्यापो वा अङ्काङ्कं छन्दः॥
तद्याः पुरस्तादुपदधाति॥
प्राणस्तासाम् प्रथमा व्यानो द्वितीयोदानस्तृतीयोदानश्चतुर्थी व्यानः पञ्चमी प्राणः षष्ठी प्राणः सप्तमी व्यानो ऽष्टम्युदानो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यध्यूढः प्रतिष्ठितः प्राणमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादिमे प्राणा अर्वाञ्चश्च पराञ्चश्च॥
अथ या दक्षिणतो॥
ऽग्निस्तासाम् प्रथमा वायुर्द्वितीयादित्यस्तृतीयादित्यश्चतुर्थी वायुः पञ्चम्यग्निः षष्ठ्यग्निः सप्तमी वायुरष्टम्यादित्यो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यधूढः प्रतिष्ठितो देवतामय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादेते देवा अर्वाञ्चश्च पराञ्चश्च॥
अथ याः पश्चात्॥
अयं लोकस्तासाम् प्रथमान्तरिक्षं द्वितीया द्यौस्तृतीया द्यौश्चतुर्थ्यन्तरिक्षम् पञ्चम्ययं लोकः षष्ठ्ययं लोकः सप्तम्यन्तरिक्षमष्टमी द्यौर्नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यध्यूढः प्रतिष्ठितो लोकमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादिमे लोका अर्वाञ्चश्च पराञ्चश्च॥
अथ या उत्तरतः॥
ग्रीष्मस्तासाम् प्रथमा वर्षा द्वितीया हेमन्तस्तृतीया हेमन्तश्चतुर्थी वर्षाः पञ्चमी ग्रीष्मः षष्ठी ग्रीष्मः सप्तमी वर्षा अष्टमी हेमन्तो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां विराज्यध्यूढः प्रतिष्ठित ऋतुमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादेत ऋतवो ऽर्वाञ्चश्च पराञ्चश्च॥
अथ पुनरेव॥
याः पुरस्तादुपदधाति प्राणास्ते ता दश भवन्ति दश वै प्राणाः पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणाः॥
अथ या दक्षिणतः॥
एतास्ता देवता अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चान्नं चापश्च॥
अथ याः पश्चात्॥
दिशस्ताश्चतस्रो दिशश्चतस्रो ऽवान्तरदिश ऊर्ध्वा चेयं च॥
अथ या उत्तरतः॥
मासास्ते वासन्तिकौ द्वौ ग्रैष्मौ द्वौ वार्षिकौ द्वौ शारदौ द्वौ हैमन्तिकौ द्वौ॥
अथ पुनरेव॥
या प्रथमा दशदयं स लोको या द्वितीयान्तरिक्षं तद्या तृतीया द्यौः सेममेव लोकम् प्रथमया दशतारोहन्नन्तरिक्षं द्वितीयया दिवं तृतीयया तथैवैतद्यजमान इममेव लोकम् प्रथमया दशता रोहत्यन्तरिक्षं द्वितीयया दिवं तृतीयया॥
स स पराङिव रोहः॥
इयमु वै प्रतिष्ठा ते देवा इमाम् प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमाम् प्रतिष्ठामभिप्रत्यैत्यथ योत्तमा दशदयं स लोकस्तस्माद्यथैव प्रथमायै दशतः प्रभृतिरेवमुत्तमायै समानं ह्येतद्यदेते दशतावयमेव लोकः॥
ता वा एताः॥
चत्वारिंशदिष्टकाश्चत्वारिंशद्यजूंषि तदशीतिरन्नमशीतिस्तद्यद्यदेतदाह तदस्मा अन्नमशीतिं कृत्वा प्रयछति तेनैनम् प्रीणाति॥
अथ स्तोमभागा उपदधाति॥
एतद्वै प्रजापतेरेतदन्नमिन्द्रो ऽभ्यध्यायत्सो ऽस्मादुदचिक्रमिषत्तमब्रवीत्कथोत्क्रामसि कथा मा जहासीति स वै मे ऽस्यान्नस्य रसम् प्रयछेति तेन वै मा सह प्रपद्यस्वेति तथेति तस्मा एतस्यान्नस्य रसम् प्रायछत्तेनैनं सह प्रापद्यत॥
स यः स प्रजापतिः॥
अयमेव स यो ऽयमग्निश्चीयते ऽथ यत्तदन्नमेतास्ताश्छन्दस्या अथ यः सो ऽन्नस्य रस एतास्ता स्तोमभागा अथ यः स इन्द्रो ऽसौ स आदित्यः स एष एव स्तोमो यद्धि किं च स्तुवत एतमेव तेन स्तुवन्ति तस्मा एतस्मै स्तोमायैतम् भागम् प्रायछत्तद्यदेतस्मै स्तोमायैतम् भागम् प्रायछत्तस्मात्स्तोमभागाः॥
रश्मिना सत्याय सत्यं जिन्वेति॥
एष वै रश्मिरन्नं रश्मिरेतं च तद्रसं च सन्धायात्मन्प्रपादयते प्रेतिना धर्मणा धर्मं जिन्वेत्येष वै प्रेतिरन्नम् प्रेतिरेतं च तद्रसं च सन्धायात्मन्प्रपादयते ऽन्वित्या दिवा दिवं जिन्वेत्येष वा अन्वितिरन्नमन्वितिरेतं च तद्रसं च सन्धायात्मन्प्रपादयते तद्यद्यदेतदाह तच्च तद्रसं च सन्धायात्मन्प्रपादयते ऽमुनादो जिन्वादो ऽस्यमुष्मै त्वाधिपतिनोर्जोर्जं जिन्वेति त्रेधाविहितास्त्रेधाविहितं ह्यन्नम्॥
यद्वेव स्तोमभागा उपदधाति॥
एतद्वै देवा विराजं चितिं चित्वा समारोहंस्ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना नाकमेव स्वर्गं लोकमपश्यंस्तमुपादधत स यः स नाकः स्वर्गो लोक एतास्ता स्तोमभागास्तद्यदेता उपदधाति नाकमेवैतत्स्वर्गं लोकमुपधत्ते॥
तद्यास्तिस्रः प्रथमाः॥
अयं स लोको या द्वितीया अन्तरिक्षं तद्यास्तृतीया द्यौः सा याश्चतुर्थ्यः प्राची सा दिग्याः पञ्चम्यो दक्षिणा सा याः षष्ठ्यः प्रतीची सा याः सप्तम्य उदीची सा॥
ता वा एताः॥
एकविंशतिरिष्टका इमे च लोका दिशश्चेमे च वै लोका दिशश्च प्रतिष्ठेमे च लोका दिशश्चैकविंशस्तस्मादाहुः प्रतिष्ठैकविंश इति॥
अथ या अष्टाविष्टका अतियन्ति॥
साष्टाक्षरा गायत्री ब्रह्म गायत्री तद्यत्तद्ब्रह्मैतत्तद्यदेतन्मण्डलं तपति तदेतस्मिन्नेकविंशे प्रतिष्ठायाम् प्रतिष्ठितं तपति तस्मान्नावपद्यते॥
तद्धैके॥
वेषश्रीः क्षत्राय क्षत्रं जिन्वेति त्रिंशत्तमीमुपदधति त्रिंशदक्षरा विराड्विराडेषा चितिरिति न तथा कुर्यादति ते रेचयन्त्येकविंशसम्पदमथो गायत्रीसम्पदमथो इन्द्रलोको हैष यैषान्यूना विराडिन्द्राय ह त इन्द्रलोके द्विषन्तम् भ्रातृव्यम् प्रत्युद्यामिनं कुर्वन्तीन्द्रमिन्द्रलोकान्नुदन्ते यजमानो वै स्वे यज्ञ इन्द्रो यजमानाय ह ते यजमानलोके द्विषन्तम् भ्रातृव्यम् प्रत्युद्यामिनं कुर्वन्ति यजमानं यजमानलोकान्नुदन्ते यं वा एतमग्निमाहरन्त्येष एव यजमान आयतनेनैष उ एवात्र त्रिंशत्तमी॥
ता अषाढायै वेलयोपदधाति॥
वाग्वा अषाढा रस एष वाचि तद्रसं दधाति तस्मात्सर्वेषामङ्गानां वाचैवान्नस्य रसं विजानाति॥
यद्वेवाषाढायै॥
इयं वा अषाढासावादित्य स्तोमभागा अमुं तदादित्यमस्याम् प्रतिष्ठायाम् प्रतिष्ठापयति॥
यद्वेवाषाढायै॥
इयं वा अषाढा हृदयं स्तोमभागा अस्यां तद्धृदयम् मनो दधाति तस्मादस्यां हृदयेन मनसा चेतयते सर्वत उपदधाति सर्वतस्तद्धृदयम् मनो दधाति तस्मादस्यां सर्वतो हृदयेन मनसा चेतयते ऽथो पुण्या हैता लक्ष्म्यस्ता एतत्सर्वतो धत्ते तस्माद्यस्य सर्वतो लक्ष्म भवति तम् पुण्यलक्ष्मीक इत्याचक्षते॥
अथैनाः पुरीषेण प्रछादयति॥
अन्नं वै पुरीषं रस एष तमेतत्तिरः करोति तस्मात्तिर इवान्नस्य रसः॥
यद्वेव पुरीषेण॥
अन्नं वै पुरीषं रस एषो ऽन्नं च तद्रसं च सन्तनोति सन्दधाति॥
यद्वेव पुरीषेण॥
हृदयं वै स्तोमभागाः पुरीतत्पुरीषं हृदयं तत्पुरीतता प्रछादयति॥
यद्वेव पुरीषेण॥
संवत्सर एषो ऽग्निस्तमेतच्चितिपुरीषैर्व्यावर्तयति तद्याश्चतस्रः प्रथमाश्चितयस्ते चत्वार ऋतवो ऽथ स्तोमभागा उपधाय पुरीषं निवपति सा पञ्चमी चितिः स पञ्चम ऋतुः॥
तदाहुः॥
यल्लोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकम्पृणामुपदधाति कात्र लोकम्पृणेत्यसौ वा आदित्यो लोकम्पृणैष उ एषा चितिः सैषा स्वयं लोकम्पृणा चितिरथ यदत ऊर्ध्वमा पुरीषात्सा षष्ठी चितिः स षष्ठ ऋतुः॥
अथ पुरीषं निवपति॥
तत्र विकर्णीं चोपदधाति हिरण्यशकलैः प्रोक्षत्यग्निमभ्यादधाति सा सप्तमी चितिः स सप्तम ऋतुः॥
ता उ वै षडेव॥
यद्धि विकर्णी च स्वयमातृणा च षष्ठ्या एव तच्चितेः॥
ता उ वै पञ्चैव॥
यजुषान्यासु पुरीषं निवपति तूष्णीमत्र तेनैषा न चितिरथो लोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकन्पृणामुपधाति तेनो एवैषा न चितिः॥
ता उ वै तिस्र एव॥
अयमेव लोकः प्रथमा चितिर्द्यौरुत्तमाथ या एतास्तिस्रस्तदन्तरिक्षं तद्वा इदमेकमिवैवान्तरिक्षं ता एवं तिस्र एवम् पञ्चैवं षडेवं सप्त॥