चतुर्थीं चितिमुपदधाति॥
एतद्वै देवास्तृतीयां चितिं चित्वा समारोहन्नन्तरिक्षं वै तृतीया चितिरन्तरिक्षमेव तत्संस्कृत्य समारोहन्॥
ते ऽब्रुवन्॥
चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना एतां चतुर्थीं चितिमपश्यन्यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तेषामेषा लोको ऽध्रुव इवाप्रतिष्ठित इवमनस्यासीत्॥
ते ब्रह्माब्रुवन्॥
त्वामिहोपदधामहा इति किम् मे ततो भविष्यतीति त्वमेव नः श्रेष्ठम् भविष्यसीति तथेति ते ऽत्र ब्रह्मोपादधत तस्मादाहुर्ब्रह्मैव देवानां श्रेष्ठमिति तदेतया वै चतुर्थ्या चित्येमे द्यावापृथिवी विष्टब्धे ब्रह्म वै चतुर्थी चितिस्तस्मादाहुर्ब्रह्मणा द्यावापृथिवी विष्टब्धे इति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधाति॥
यद्वेव स्तोमानुपदधाति॥
एतद्वै देवाः प्रजापतिमब्रुवंस्त्वामिहोपदधामहा इति तथेति स वै नाब्रवीत्किम् मे ततो भविष्यतीति यदु ह किं च प्रजापतिर्देवेष्वीषे किमस्माकं ततो भविष्यतीत्येवोचुस्तस्मादु हैतद्यत्पिता पुत्रेष्विच्छते किमस्माकं ततो भविष्यतीत्येवाहुरथ यत्पुत्राः पितरि तथेत्येवाहैवं हि तदग्रे प्रजापतिश्च देवाश्च समवदन्त स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै प्रजापतिः प्रजापतिमेवैतदुपदधाति॥
यद्वेव स्तोमानुपदधाति॥
ये वै ते प्राणा ऋषय एतां चतुर्थीं चितिमपश्यन्ये त एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वा ऋषय ऋषीनेवैतदुपदधाति॥
यद्वेव स्तोमानुपदधाति॥
प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य युदूर्ध्वम् मध्यादवाचीनं शीर्ष्णस्तदस्य वायुरादायोत्क्रम्यातिष्ठद्देवताश्च भूत्वा संवत्सररूदाणि च॥
तमब्रवीत्॥
उप मेहि प्रति म एतद्धेहि येन मे त्वमुदक्रमीरिति किम् मे ततो भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतद्वायुः प्रत्यपधात्॥
तद्या एता अष्टादश प्रथमाः॥
एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणाउ वै वायुर्वायुमेवैतदुपदधाति॥
स पुरस्तादुपदधाति॥
आशुस्त्रिवृदिति य एव त्रिवृत्स्तोमस्तं तदुपदधाति तद्यत्तमाहाशुरित्येष हि स्तोमानामाशिष्ठो ऽथो वायुर्वा आशुस्त्रिवृत्स एषु त्रिषु लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषाम् भूतानामाशिष्ठो वायुर्ह भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधाति॥
भान्तः पञ्चदश इति॥
य एव पञ्चदश स्तोमस्तं तदुपदधाति तद्यत्तमाह भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशो ऽथो चन्द्रमा वै भान्तः पञ्चदशः स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति॥
व्योमा सप्तदश इति॥
य एव सप्तदश स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापतिर्वै व्योमा प्रजापतिः सप्तदशो ऽथो संवत्सरो वाव व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्च ऽर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति॥
धरुण एकविंश इति॥
य एवैकविंश स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशो ऽथो असौ वा आदित्यो धरुण एकविंशस्तस्य द्वादश मासाः पञ्च ऽर्तवस्त्रय इमे लोका असावेवादित्यो धरुण एकविंशस्तद्यत्तमाह धरुण इति यदा ह्येवैषो ऽस्तमेत्यथेदं सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ संवत्सररूपाण्युपदधाति॥
प्रतूर्तिरष्टादश इति॥
य एवाष्टादश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्च ऽर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधाति॥
तपो नवदश इति॥
य एव नवदश स्तोमस्तं तदुपदधात्यथो संवत्सरो तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपदधाति॥
अभीवर्तः सविंश इति॥
य एव सविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वा अभीवर्तः सविंशस्तस्य द्वादश मासाः सप्त ऽर्तवः संवत्सर एवाभीवर्तः सविंशस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेव तद्रूपमुपदधाति॥
वर्चो द्वाविंश इति॥
य एव द्वाविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव वर्चो द्वाविंशस्तस्य द्वादश मासाः सप्त ऽर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो द्वाविंशस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषाम् भूतानां वर्चस्वितमस्तदेव तद्रूपमुपदधाति॥
सम्भरणस्त्रयोविंश इति य एव त्रयोविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव सम्भरणस्त्रयोविंसस्तस्य त्रयोदश मासा सप्त ऽर्तवो द्वे अहोरात्रे संवत्सर एव सम्भरणस्त्रयोविंशस्तद्यत्तमाह सम्भरण इति संवत्सरो हि सर्वाणि भूतानि सम्भृतस्तदेव तद्रूपमुपदधाति॥
योनिश्चतुर्विंश इति॥
य एव चतुर्विंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव योनिश्चतुर्विंशस्तस्य चतुर्विंशतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषाम् भूतानां योनिस्तदेव तद्रूपमुपदधाति॥
गर्भाः पञ्चविंश इति॥
य एव पञ्चविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव गर्भाः पञ्चविंशस्तस्य चतुर्विंशतिरर्धमासाः संवत्सर एव गर्भाः पञ्चविंशस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्व ऽर्तून्प्रविशति तदेव तद्रूपमुपदधाति॥
ओजस्त्रिणव इति॥
य एव त्रिणव स्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति व्!ज्रो वा ओजो वज्रस्त्रिणवो ऽथो संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विंशतिरर्धमासा द्वे अहोरात्रे संवत्सर एवौजस्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषाम् भूतानामोजस्वितमस्तदेव तद्रूपमुपदधाति॥
क्रतुरेकत्रिंश इति॥
य एवैकत्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव क्रतुरेकत्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षदृतवः संवत्सर एव क्रतुरेकत्रिंशस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोति तदेव तद्रूपमुपदधाति॥
प्रतिष्ठा त्रयस्त्रिंश इति॥
य एव त्रयस्त्रिंश स्तोमस्तं तदुपदधाति तद्यत्तमाह प्रतिष्ठेति प्रतिष्ठा हि त्रयस्त्रिंशो ऽथो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षदृतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिंशस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषाम् भूतानाम् प्रतिष्ठा तदेव तद्रूपमुपदधाति॥
ब्रध्नस्य विष्टपं चतुस्त्रिंश इति॥
य एत चतुस्त्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तस्य चतुर्विंशतिरर्धमासाः सप्त ऽर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तद्यत्तमाह ब्रध्नस्य विष्टपमिति स्वाराज्यं वै ब्रध्नस्य विष्टपं स्वाराज्य चतुस्त्रिंशस्तदेव तद्रूपमुपदधाति॥
नाकः षट्त्रिंश इति॥
य एव षट्त्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव नाकः षट्त्रिंशस्तस्य चतुर्विंशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न हि तत्र गताय कस्मै चनाकम् भवत्यथो संवत्सरो वाव नाकः संवत्सरः स्वर्गो लोकस्तदेव तद्रूपमुपदधाति॥
विवर्तो ऽष्टाचत्वारिंश इति॥
य एवाष्टाचत्वरिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव विवर्तो ऽष्टाचत्वारिंशस्तस्य षड्विंशतिरर्धमासास्त्रयोदश मासाः सप्त ऽर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते तदेव तद्रूपमुपदधाति॥
धर्त्रं चतुष्टोम इति॥
य एव चतुष्टोम स्तोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रम् प्रतिष्ठा चतुष्टोमो ऽथो वायुर्वाव धर्त्रं चतुष्टोमः स आभिश्चतसृभिर्दिग्भि स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रं वायुरु सर्वेषाम् भूतानाम् प्रतिष्ठा तदेव तद्रूपमुपदधाति स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णाति॥
ता वा एताः॥
अष्टादशेष्टका उपदधाति तौ द्वौ त्रिवृतौ प्राणो वै त्रिवृद्वायुरु प्राणो वायुरेषा चितिः॥
यद्वेवाष्टादश॥
अष्टादशो वै संवत्सरो द्वादश मासाः पञ्च ऽर्तवः संवत्सर एव प्रजापतिरष्टादशः प्र्जापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तत्कृत्वोपदधाति॥
अथ स्पृत उपदधाति॥
एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते सर्वाणि भूतानि गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात्॥
स देवानब्रवीत्॥
युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणवानीति किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तम् भागो नो ऽस्त्वित्येके ऽब्रुवन्नाधिपत्यं नो ऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाण् इ भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात्स्पृतस्तथैवैतद्यजमानो भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणोति तस्मादु सर्वास्वेव स्पृतं-स्पृतमित्यनुवर्तते॥
अग्निर्भागो ऽसि॥
दीक्षाया आधिपत्यमिति वाग्वै दीक्षाग्नये भागं कृत्वा वाच आधिपत्यमकरोद्ब्रह्म स्पृतं त्रिवृत्स्तोम इति ब्रह्म प्रजानां त्रिवृता स्तोमेन पाप्मना मृत्योरस्पृणोत्॥
इन्द्रस्य भागो ऽसि॥
विष्णोराधिपत्यमितीन्द्राय भागं कृत्वा विष्णव आधिपत्यमकरोत्क्षत्रं स्पृतम् पञ्चदश स्तोम इति क्षत्रम् प्रजानाम् पञ्चदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्॥
नृचक्षसाम् भागो ऽसि॥
धातुराधिपत्यमिति देवा वै नृचक्षसो देवेभ्यो भागं कृत्वा धात्र आधिपत्यमकरोज्जनित्रं स्पृतं सप्तदश स्तोम इति विड्वै जनित्रं विशम् प्रजानां सप्तदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्॥
मित्रस्य भागो ऽसि॥
वरुणस्याधिपत्यमिति प्राणो वै मित्रो ऽपानो वरुणः प्राणाय भागं कृत्वापानायाधिपत्यमकरोद्दिवो वृष्टिर्वात स्पृत एकविंश स्तोम इति वृष्टिं च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्॥
वसूनाम् भागो ऽसि॥
रुद्राणामाधिपत्यमिति प्राणो वै मित्रो ऽपानो वरुणः प्राणाय भागं कृत्वापानायाधिपत्यमकरोद्दिवो वृष्टिर्वात स्पृत एकविंश स्तोम इति वृष्टिं च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्॥
आदित्यानाम् भागो ऽसि॥
मरुतामाधिपत्यमित्यादित्येभ्यो भागं कृत्वा मरुद्भ्य आधिपत्यमकरोद्गर्भा स्पृताः पञ्चविंश स्तोम इति गर्भान्प्रजानाम् पञ्चविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्॥
अदित्यै भागो ऽसि॥
पूष्णं आधिपत्यमितीयं वा अदितिरस्यै भागं कृत्वा पूष्ण आधिपत्यमकरोदोज स्पृतं त्रिणव स्तोम इत्योजः प्रजानां त्रिणवेन स्तोमेन पप्मनो मृत्योरस्पृणोत्॥
देवस्य सवितुर्भागो ऽसि॥
बृहस्पतेराधिपत्यमिति देवाय सवित्रे भागं कृत्वा बृहस्पतय आधिपत्यमकरोत्समीचीर्दिश स्पृताश्चतुष्टोम स्तोम इति सर्वा दिशः प्रजानां चतुष्टोमेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्॥
यवानाम् भागो ऽसि॥
अयवानामाधिपत्यमिति पूर्वपक्षा वै यवा अपरपक्षा अयवास्ते हीदं सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं कृत्वापरपक्षेभ्य आधिपत्यमकरोत्प्रजा स्पृताश्चतुश्चत्वारिंश स्तोम इति सर्वाः प्रजाश्चतुश्चत्वारिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्॥
ऋभूणाम् भागो ऽसि॥
विष्वेषां देवानामाधिपत्यमित्यृभुभ्यो भागं कृत्वा विश्वेभ्यो देवेभ्य आधिपत्यमकरोद्भूतं स्पृतं त्रयस्त्रिंश स्तोम इति सर्वाणि भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्तथैवैतद्यजमानः सर्वाणि भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्यो स्पृणोति॥
ता वा एता दशेष्टका उपदधाति॥
दशाक्षरा विराड्विराडग्निर्दश दिशो दिशो ऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तदेतानि सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणोति॥
अथ ऽर्तव्ये उपदधाति॥
ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति सहश्च सहस्यश्च हैमन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति॥
तद्यदेते अत्रोपदधाति॥
संवत्सर एषो ऽग्निरिम उ लोकाः संवत्सरस्तस्य यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति॥
यद्वेवैते अत्रोपदधाति॥
प्रजापतिरेषो ऽग्निः संवत्सर उ प्रजापतिस्तस्य यदूर्ध्वम् मध्यादवाचीनं शीर्ष्णस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति॥
अथ सृष्टीरुपदधाति॥
एतद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो मृत्योर्मुक्त्वाकामयत प्रजाः सृजेय प्रजायेयेति॥
स प्राणानब्रवीत्॥
युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह इति मया चैव युष्माभिश्चेति तथेति ते प्राणैश्चैव प्रजापतिना चास्तुवत यदु ह किं च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यज्ञो वै स्तोमो यज्ञेनैव तत्कुर्वते तस्मादु सर्वास्वेवास्तुवतास्तुवतेत्यनुवर्तते॥
एकयास्तुवतेति॥
वाग्वा एका वाचैव तदस्तुवत प्रजा अधीयन्तेति प्रजा अत्राधीयन्त प्रजापतिरधिपतिरासीदिति प्रजापतिरत्राधिपतिरासीत्॥
तिसृभिरस्तुवतेति॥
त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेव तदस्तुवत ब्रह्मासृज्यतेति ब्रह्मात्रासृज्यत ब्रह्मणस्पतिरधिपतिरासीदिति ब्रह्मणस्पतिरत्राधिपतिरासीत्॥
पञ्चभिरस्तुवतेति॥
य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत भूतान्यसृज्यन्तेति भूतान्यत्रासृज्यन्त भूतानाम् पतिरधिपतिरासीदिति भूतानाम् पतिरत्राधिपतिरासीत्॥
सप्तभिरस्तुवतेति॥
य एवेमे सप्त शीर्षन्प्राणास्तैरेव तदस्तुवत सप्त ऋषयो ऽसृज्यन्तेति सप्त ऽर्षयो ऽत्रासृज्यन्त धाताधिपतिरासीदिति धातात्राधिपतिरासीत्॥
नवभिरस्तुवतेति॥
नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैरेव तदस्तुवत पितरो ऽसृज्यन्तेति पितरो ऽत्रासृज्यन्तादितिरधिपत्न्यासीदित्यदितिरत्राधिपत्न्यासीत्॥
एकादशभिरस्तुवतेति॥
दश प्राणा आत्मैकादशस्तेनैव तदस्तुवत ऋतवो ऽसृज्यन्तेत्यृतवो ऽत्रासृज्यन्तार्तवा अधिपतय आसन्नित्यार्तवा अत्राधिपतय आसन्॥
त्रयोदशभिरस्तुवतेति॥
दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशस्तेनैव तदस्तुवत मासा असृज्यन्तेति मासा अत्रासृज्यन्त संवत्सरो ऽधिपतिरासीदिति संवत्सरो ऽत्राधिपतिरासीत्॥
पञ्चदशभिरस्तुवतेति॥
दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं नाभेस्तत्पञ्चदशं तेनैव तदस्तुवत क्षत्रमसृज्यतेति क्षत्रमसृज्यतेति क्षत्रमत्रासृज्यतेन्द्रो ऽधिपतिरासीदितीन्द्रो ऽत्राधिपतिरासीत्॥
सप्तदशभिरस्तुवतेति॥
दश पाद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तदशं तेनैव तदस्तुवत ग्राम्याः पशवो ऽसृज्यन्तेति ग्राम्याः पशवो ऽत्रासृज्यन्त बृहस्पतिरधिपतिरासीदिति बृहस्पतिरत्राधिपतिरासीत्॥
नवदशभिरस्तुवतेति॥
दश हस्त्या अङ्गुलयो नव प्राणास्तैरेव तदस्तुवत शूद्रार्यावसृज्येतामिति शूद्रार्यावत्रासृज्येतामहोरात्रे अधिपत्नी आस्तामित्यहोरात्रे अत्राधिपत्नी आस्ताम्॥
एकविंशत्यास्तुवतेति॥
दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तेनैव तदस्तुवतैकशफाः पशवो ऽसृज्यन्तेत्येकशफाः पशवो ऽत्रासृज्यन्त वरुणो ऽधिपतिरासीदिति वरुणो ऽत्राधिपतिरासीत्॥
त्रयोविंशत्यास्तुवतेति॥
दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा त्रयोविंशस्तेनैव तदस्तुवत क्षुद्राः पशवो ऽसृज्यन्तेति क्षुद्राः पशवो ऽत्रासृज्यन्त पूषाधिपतिरासीदिति पूषाधिपतिरासीत्॥
पञ्चविंशत्यास्तुवतेति॥
दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गान्यात्मा पश्चविंशस्तेनैव तदस्तुवतारण्याः पशवो ऽसृज्यन्तेत्यारण्याः पशवो ऽत्रासृज्यन्त वायुरधिपतिरासीदिति वायुरत्राधिपतिरासीत्॥
सप्तविंशत्यास्तुवतेति॥
दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे आत्मा सप्तविंशस्तेनैव तदस्तुवत द्यावापृथिवी व्यैतामिति द्यावापृथिवी अत्र व्यैतां वसवो रुद्रा आदित्या अनुव्यायन्निति वसवो रुद्रा आदित्या अत्रानुव्यायंस्त एवाधिपतय आसन्निति त उ एवात्राधिपतय आसन्॥
नवविंशत्यास्तुवतेति॥
दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणास्तैरेव तदस्तुवत वनस्पतयो ऽसृज्यन्तेति वनस्पतयो ऽत्रासृज्यन्त सोमो ऽधिपतिरासीदिति सोमो ऽत्राधिपतिरासीत्॥
एकत्रिंशतास्तुवतेति॥
दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिंशस्तेनैव तदस्तुवत प्रजा असृज्यन्तेति प्रजा अत्रासृज्यन्त यवाश्चायवाश्चाधिपतय आसन्निति पूर्वपक्षापरपक्षा एवात्राधिपतय आसन्॥
त्रयस्त्रिंशतास्तुवतेति॥
दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयस्त्रिंशस्तेनैव तदस्तुवत भूतान्यशाम्यन्निति सर्वाणि भूतान्यत्राशाम्यन्प्रजापतिः परमेष्ठ्यधिपतिरासीदिति प्रजापतिः परमेष्ठ्यत्राधिपतिरासीत्॥
ता वा एताः॥
सप्तदशेष्टका उपदधाति सप्तदशो वै संवत्सरः प्रजापतिः स प्रजनयिता तदेतेन वै सप्तदशेन संवत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः प्राजनयद्यत्प्राजनयदसृजत तद्यदसृजत तस्मात्सृष्टयस्ताः सृष्ट्वात्मन्प्रापादयत तथैवैतद्यजमान एतेन सप्तदशेन संवत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः प्रजनयति ताः सृष्ट्वात्मन्प्रपादयते रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति॥
अथातो ऽन्वावृतम्॥
त्रिवृद्वतीम् पुरस्तादुपदधात्येकविंशवतीम् पश्चात्पञ्चदशवतीं दक्षिणतः सप्तदशवतीमुत्तरतः॥
एतद्वै प्रजापतिम्॥
त्रिवृद्वत्यामुपहितायाम् पञ्चदशवत्याम् मृत्युरसीददिमामत उपधास्यते तमत्र ग्रहीष्यामीति तम् प्रापश्यत्तम् प्रख्याय परिक्रम्यैकविंशवतीमुपाधत्तैकविंशवतीम् मृत्युरागछत्पञ्चदशवतीमुपाधत्त पञ्चदशवतीम् मृत्युरागछत्सप्तदशवतीमुपाधत्त सो ऽत्रैव मृत्युं न्यकरोदत्रामोहयत्तथैवैतद्यजमानो ऽत्रैव सर्वान्पाप्मनो निकरोत्यत्र मोहयति॥
अथोत्तराः॥
त्रिवृद्वत्यामेव त्रिवृद्वतीमनूपदधात्येकविंशवत्यामेकविंशवतीम् पञ्चदशवत्यां सप्तदशवतीं सप्तदशवत्याम् पञ्चदशवतीं ता यदेवं व्यतिहारमुपदधाति तस्मादक्ष्णयास्तोमीया अथो यदेते स्तोमा अतो ऽन्यथानुपूर्वं तस्माद्वेवाक्ष्णयास्तोमीया अथो एवं देवा उपादधतेतरथासुरास्ततो देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद॥
स एष पशुर्यदग्निः॥
सो ऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य त्रिवृद्वत्यावेव शिरस्ते यत्त्रिवृद्वत्यौ भवतस्त्रिवृद्धि शिरो द्वे भवतो द्विकपालं हि शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः॥
प्रतिष्ठैकविंशवत्यौ॥
ते यदेकविंशवत्यौ भवतः प्रतिष्ठा ह्येकविंशो द्वे भवतो द्वन्द्वं हि प्रतिष्ठा पश्चादुपदधाति पश्चाद्धीयम् प्रतिष्ठा॥
बाहू पञ्चदशवत्यौ॥
ते यत्पञ्चदशवत्यौ भवतः पञ्चदशौ हि बाहू द्वे भवतो द्वौ हीमौ बाहू पार्श्वत उपदधाति पार्श्वतो हीमौ बाहू॥
अन्नं सप्तदशवत्यौ॥
ते यत्सप्तदशवत्यौ भवतः सप्तदशं ह्यन्नं द्वे भवतो द्व्यक्षरं ह्यन्नं ते अनन्तर्हिते पञ्चदशवतीभ्यामुपदधात्यनन्तर्हितं तद्बाहुभ्यामन्नं दधाति बाह्ये पञ्चदशवत्यौ भवतो ऽन्तरे सप्तदशवत्यौ बाहुभ्यां तदुभयतो ऽन्नम् परिगृह्णाति॥
अथ या मध्य उपदधाति॥
स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो ह्ययमात्माथ यदतो ऽन्यदतिरिक्तं तद्यद्वै देवानामतिरिक्तं छन्दांसि तानि तद्यानि तानि छन्दांसि पशवस्ते तद्ये ते पशवः पुण्यास्ता लक्ष्म्यस्तद्यास्ताः पुण्या लक्ष्म्यो ऽसौ स आदित्यः स आसामेष दक्षिणतः॥
ता हैके ऽनन्तर्हितास्त्रिवृद्वतीभ्यामुपदधति॥
जिह्वाहनू इति वदन्तो याश्चतुर्दश ते हनू याः षट् सा जिह्वेति न तथा कुर्यादति ते रेचयन्ति यथा पूर्वयोर्हन्वोरपरे हनू अनूपदध्याद्यथा पूर्वस्यां जिह्वायामपरां जिह्वामनूपदध्यात्तादृक्तद्यत्राहैव शिरस्तदेव हनू तज्जिह्वा॥
अस्मिन्नु हैके ऽवान्तरदेश उपदधति॥
असौ वा आदित्य एता अमुं तदादित्यमेतस्यां दिशि दध्म इति न तथा कुर्यादन्यानि वाव तानि कर्माणि यैरेतमत्र दधाति॥
दक्षिणत उ हैक उपदधति॥
तदेताः पुण्या लक्ष्मीर्दक्षिणतो दध्मह इति तस्माद्यस्य दक्षिणतो लक्ष्म भवति तम् पुण्यलक्ष्मीक इत्याचक्षत उत्तरत स्त्रिया उत्तरतआयतना हि स्त्री तत्तत्कृतमेव पुरस्तात्त्वेवैना उपदध्याद्यत्राहैव शिरस्तदेव हनू तज्जिह्वाथैताः पुण्या लक्ष्मीर्मुखतो धत्ते तस्माद्यस्य मुखे लक्ष्म भवति तम् पुण्यलक्ष्मीक इत्याचक्षते॥
सैषा ब्रह्मचितिः॥
यद्ब्रह्मोपादधत तस्माद्ब्रह्मचितिः सा प्रजापतिचितिर्यत्प्रजापतिमुपादधत तस्मात्प्रजापतिचितिः स ऽर्षिचितिर्यदृषीनुपादधत तस्मादृषिचितिः सा वायुचितिर्यद्वायुमुपादधत तस्माद्वायुचितिः सा स्तोमचितिर्यत्स्तोमानुपादधत तस्मात्स्तोमचितिः सा प्राणचितिर्यत्प्राणानुपादधत तस्मात्प्राणचितिरतो यतमदेव कतमच्च विद्यात्तेन हैवास्यैषार्षेयवती बन्धुमती चितिर्भवत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः॥