०३

तृतीयां चितिमुपदधाति॥
एतद्वै देवा द्वितीयां चितिं चित्वा समारोहन्यदूर्ध्वम् पृथिव्या अर्वाचीनमन्तरिक्षात्तदेव तत्संस्कृत्य समारोहन्॥
ते ऽब्रुवन्॥
चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना अन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यंस्तेभ्य एष लोको ऽछन्दयत्॥
त इन्द्राग्नी अब्रुवन्॥
युवं न इमां तृतीयां चितिमुपधत्तमिति किं नौ ततो भविष्यतीति युवमेव नः श्रेष्ठौ भविष्यथ इति तथेति तेभ्य एतामिन्द्राग्नी तृतीयां चितिमुपाधत्तां तस्मादाहुरिन्द्राग्नी एव देवानां श्रेष्ठाविति॥
स वा इन्द्राग्निभ्यामुपदधाति॥
विश्वकर्मणा सादयतीन्द्राग्नी च वै विश्वकर्मा चैतां तृतीयां चितिमपश्यंस्तस्मादिन्द्राग्निभ्यामुपदधाति विश्वकर्मणा सादयति॥
यद्वेवेन्द्राग्निभ्यामुपदधाति॥
विश्वकर्मणा सादयति प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्येन्द्राग्नी च विश्वकर्मा च मध्यमादायोत्कम्यातिष्ठन्॥
तानब्रवीत्॥
उप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति किं नस्ततो भविष्यतीति युष्मद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतदिन्द्राग्नी च विश्वकर्मा च प्रत्यदधुः॥
तद्यैषा मध्यमा स्वयमातृणा॥
एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति॥
इन्द्राग्नी अव्यथमानाम्॥
इष्टकां दृंहतं युवमिति यथैव यजुस्तथा बन्धुः पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधस इति पृष्ठेन ह्येषा द्यावापृथिवी अन्तरिक्षं च विबाधते॥
विश्वकर्मा त्वा सादयत्विति॥
विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य पृष्ठे व्यचस्वतीम् प्रथस्व तीमित्यन्तरिक्षस्य ह्येतत्पृष्ठं व्यचस्वत्प्रथस्वदन्तरिक्षं यछान्तरिक्षं दृंहान्तरिक्षम् मा हिंसीरित्यात्मानं यछात्मानं दृंहात्मानम् मा हिंसीरित्येतत्॥
विश्वस्मै प्राणायापानाय॥
व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः प्रतिष्ठा चरित्रं वायुष्ट्वाभिपात्विति वायुष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छर्दिषा शन्तमेनेति यच्छर्दिः शन्तमं तेनेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः॥
अथ दिश्या उपदधाति॥
दिशो वै दिश्या दिश एवैतदुपदधाति तद्याभिरदो वायुर्दिग्भिरनन्तर्हिताभिरुपैत्ता एतास्ता एवैतदुपदधाति ता उ एवामूः पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधात्यसौ वा आदित्य एता अमुं तदादित्यं दिक्ष्वध्यूहति दिक्षु चिनोति ता यत्तत्रैव स्युर्बहिर्धा तत्स्युर्बहिर्धो वा एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्ता यदिहाहृत्योपदधाति तदेना योनौ पुष्करपर्णे प्रतिष्ठापयति तथो हैता अबहिर्धा भवन्ति ता अनन्तर्हिताः स्वयमातृणाया उपदधात्यन्तरिक्षं वै मध्यमा स्वयमातृणानन्तर्हितास्तदन्तरिक्षाद्दिशो दधात्युत्तरा उत्तरास्तदन्तरिक्षाद्दिशो दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्दिशो दधाति तस्मादनयोर्दिशः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशः॥
यद्वेव दिश्या उपदधाति॥
छन्दांसि वै दिशो गायत्री वै प्राची दिक्त्रष्टुब्दक्षिणा जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वा पशवो वै छन्दांस्यन्तरिक्षम् मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः॥
यद्वेव दिश्या उपदधाति॥
छन्दांसि वै दिशः पशवो वै छन्दांस्यन्नम् पशवो मध्यम् मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः स्वयमातृणाया उपदधाति प्राणो वै स्वयमातृणानन्तर्हितं तत्प्राणादन्नं दधात्युत्तरा उत्तरं तत्प्राणादन्नं दधाति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतदन्नं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नतदन्नं दधाति॥
राञ्यसि प्राची दिक्॥
विराडसि दक्षिणा दिक्सम्राडसि प्रतीची दिक्स्वराडस्युदीची दिगधिपत्न्यसि बृहती दिगिति नामान्यासामेतानि नामग्राहमेवैना एतदुपदधाति ता नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हि दिशः॥
अथ विश्वज्योतिषमुपदधाति॥
वायुर्वै मध्यमा विश्वज्योतिर्वायुर्ह्येवान्तरिक्षलोके विश्वं ज्योतिर्वायुमेवैतदुपदधाति तामनन्तर्हितां दिश्याभ्य उपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु वायुः॥
यद्वेव विश्वज्योतिषमुपदधाति॥
प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतदुपदधाति तामनन्तर्हितां दिश्याभ्या उपदधाति दिक्षु तत्प्रजा दधाति तस्मात्सर्वासु दिक्षु प्रजाः॥
विश्वकर्मा त्वा सादयत्विति॥
विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमित्यन्तरिक्षस्य ह्ययम् पृष्ठे ज्योतिष्मान्वायुः॥
विश्वस्मै प्राणायापानाय॥
व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै प्राणो विश्वं ज्योतिर्यछेति सर्वं ज्योतिर्यछेत्येतद्वायुष्टे ऽधिपतिरिति वायुमवास्या अधिपतिं करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथ ऽर्तव्या उपदधाति॥
ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति नभश्च नभस्यश्च वार्षिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोत्यवकासूपदधात्यवकाभिः प्रछादयत्यापो वा अवका अपस्तदेतस्मिन्नृतौ दधाति तस्मादेतस्मिन्नृतौ भूयिष्ठं वर्षति॥
अथोत्तरे॥
इषश्चोर्जश्च शारदावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोत्यवकासूपदधात्यापो वा अवका अपस्तदेतस्य ऽर्तोः पुरस्ताद्दधाति तस्मादेतस्य ऽर्तोः पुरस्ताद्वर्षति नोपरिष्टात्प्रछादयति तस्मान्न तथेवोपरिष्टाद्वर्षति॥
तद्यदेता॥
अत्रोपदधाति संवत्सर एषो ऽग्निरिम उ लोकाः संवत्सरस्तस्यान्तरिक्षमेव मध्यमा चितिरन्तरिक्षमस्य वर्षाशरदावृत् तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति॥
यद्वेवैता अत्रोपदधाति॥
प्रजापतिरेषो ऽग्निः संवत्सर उ प्रजापतिस्तस्य मध्यमेव मध्यमा चितिर्मध्यमस्य वर्षाशरदावृतू तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति॥
ता वा एताः॥
चतस्र ऋतव्या मध्यमायां चिता उपदधाति द्वे-द्वे इतरासु चितिषु चतुष्पादा वै पशवो ऽन्तरिक्षम् मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः॥
यद्वेव चतस्रः चतुष्पादा वै पशवो ऽन्नम् पशवो मध्यम् मध्यमा चितिर्मध्यतस्तदन्नं दधाति॥
यद्वेव चतस्रः॥
चतुरक्षरं वा अन्तरिक्षं द्व्यक्षरा इतराश्चितयस्तद्यावदन्तरिक्षं तावत्तत्कृत्वोपदधाति॥
यद्वेव चतस्रः॥
पशुरेष यदग्निर्मध्यं तत्प्रति पशुं वरिष्ठं करोति तस्मान्मध्यम् प्रति पशुर्वरिष्ठः॥
ता वा एताः॥
चतस्र ऋतव्यास्तासां विश्वज्योतिः पञ्चमी पञ्च दिश्यास्तद्दश दशाक्षरा विराडन्नं विराण्मध्यम् मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः स्वयमातृणाया उपदधाति प्राणो वै स्वयमातृणानन्तर्हितं तत्प्राणादन्नं दधात्युत्तरा उत्तरं तत्प्राणादन्नं दधाति॥
अथ प्राणभृत उपदधाति॥
प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ता दश भवन्ति दश वै प्राणाः पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणा आयुर्मे पाहि ज्योतिर्मे यछेति प्राणो वै ज्योतिः प्राणम् मे यछेत्येवैतदाह ता अनन्तर्हिता ऋतव्याभ्य उपदधाति प्राणो वै वायुरृतुषु तद्वायुम् प्रतिष्ठापयति॥
अथ छन्दस्या उपदधाति॥
पशवो वै छन्दांस्यन्तरिक्षम् मध्यमा चितिरन्तरिक्षे तत्पशुं दधाति तस्मादन्तरिक्षायतनाः पशवः॥
यद्वेव छन्दस्या उपदधाति॥
पशवो वै छन्दांस्यन्न्म् पशवो मध्यम् मध्यमा चितिर्मध्यतस्तदन्नं दधाति॥
ता द्वादश-द्वादशोपदधाति॥
द्वादशाक्षरा वै जगती पशवो जगत्यन्तरिक्षम् मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः॥
यद्वेव द्वादश-द्वादश॥
द्वादशाक्षरा वै जगती पशवो वै जगत्यन्नम् पशवो मध्यम् मध्यमा चितिर्मध्यतस्तदन्न दधाति ता अनन्तर्हिताः प्राणभृद्भ्य उपदधात्यनन्तर्हितं तत्प्राणेभ्यो ऽन्नं दधात्युत्तरा उत्तरं तत्प्राणेभ्यो ऽन्नं दधाति॥
मा छन्द इति॥
अयं वै लोको मायं हि लोको मित इव प्रमा छन्द इत्यन्तरिक्षलोको वै प्रमान्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव प्रतिमा छन्द इत्यसौ वै लोकः प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इवास्रीवयश्छन्द इत्यन्नमस्रीवयस्तद्यदेषु लोकेष्वन्नं तदस्रीवयो ऽथो यदेभ्यो लोकेभ्यो ऽन्नं स्रवति तदस्रीवयो ऽथातो निरुक्तान्येव छन्दांस्युपदधाति॥
पङ्क्तिश्छन्दः॥
उष्णिक्छन्दो बृहती छन्दो ऽनुष्टुप्छन्दो विराट् छन्दो गायत्री छन्दस्त्रिष्टुप्छन्दो जगती छन्द इत्येतानि निरुक्तानि विराडष्टमानि छन्दांस्युपदधाति पृथिवी छन्दो ऽन्तरिक्षं छन्द इति यान्येतद्देवत्यानि छन्दांसि तान्येवैतदुपदधात्यग्निर्देवता वातो देवतेत्येता वै देवताश्छन्दांसि तान्येवैतदुपदधाति॥
स वै निरुक्तानि चानिरुक्तानि चोपदधाति॥
स यत्सर्वाणि निरुक्तान्युपाधास्यदन्तवद्धान्नमभविष्यदक्षेष्यत हाथ यत्सर्वाण्यनिरुक्तानि परो ऽक्षं हान्नमभविष्यन्न हैनदद्रक्ष्यंश्चन निरुक्तानि चानिरुक्तानि चोपदधाति तस्मान्निरुक्तमन्नमद्यमानं न क्षीयते॥
तानि वा एतानि॥
त्रीणि द्वादशान्युपदधाति तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहत्येषा वै सा बृहती यां तद्देवा अन्तरिक्षम् बृहतीं तृतीयां चितिमपश्यंस्तस्या एतस्यै देवा उत्तमाः॥
यद्वेवैता इष्टका उपदधाति॥
प्रजापतेर्विस्रस्तात्सर्वाणि भूतानि सर्वा दिशो ऽनु व्युदक्रामन्॥
स यः स प्रजापतिर्व्यस्रंसत॥
अयमेव स यो ऽयमग्निश्चीयते ऽथ यान्यस्मात्तानि भूतानि व्युदक्रामन्नेतास्ता इष्टकास्तद्यदेता उपदधाति यान्येवास्मात्तानि भूतानि व्युदक्रामंस्तान्यस्मिन्नेतत्प्रतिदधाति॥
तद्या दश प्रथमा उपदधाति॥
स चन्द्रमास्ता दश भवन्ति दशाक्षरा विराडन्नं विराडन्नमु चन्द्रमा अथ या उत्तराः षट्त्रिंशदर्धमासाश्च ते मासाश्च चतुर्विंशतिरर्धमासा द्वादश मासाश्चन्द्रमा वै संवत्सरः सर्वाणि भूतानि॥
तं यत्र देवाः समस्कुर्वन्॥
तदस्मिन्नेतानि सर्वाणि भूतानि मध्यतो ऽदधुस्तथैवास्मिन्नयमेतद्दधाति ता अनन्तर्हिता ऋतव्याभ्य उपदधात्यृतुषु तत्सर्वाणि भूतानि प्रतिष्ठापयति॥
अथ वालखिल्या उपदधाति॥
प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद्वालखिल्या नाम यद्वा उर्वरयोरसम्भिन्नम् भवति खिल इति वै तदाचक्षते वालमात्रादु हेमे प्राणा असम्भिन्नास्ते यद्वालसात्रादसम्भिन्नास्तस्माद्वालखिल्याः॥
स वै सप्त पुरस्तादुपदधाति॥
सप्त पश्चात्तद्याः सप्त पुरस्तादुपदधाति य एवेमे सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति॥
अथ याः सप्त पश्चात्॥
एषामेवैतत्प्राणानामेतान्प्राणान्प्रतीन्करोति तस्माद्यदेभिरन्नमत्ति तदेतैरत्येति॥
यद्वेव सप्त पुरस्तादुपदधाति॥
सप्त वा इमे पुरस्तात्प्राणाश्चत्वारि दोर्बाहवाणि शिरो ग्रीवा यदूर्ध्वं नाभेस्तत्सप्तममङ्गे ऽङ्गे हि प्राण एते वै सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति॥
अथ याः सप्त पश्चात्॥
सप्त वा इमे पश्चात्प्राणाश्चत्वार्यूर्वष्ठीवानि द्वै प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तममङ्गे ऽङ्गे हि प्राण एते वै सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधाति॥
मूर्धासि राट्॥
ध्रुवासि धरुणा धर्त्र्यसि धरणी यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्रीत्येतानेवास्मिन्नेतद्ध्रुवान्प्राणान्यछति॥
यद्वेव वालखिल्या उपदधाति॥
एतद्वै देवा वालखिल्याभिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो वालखिल्याभिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः॥
मूर्धासि राडितीमं लोकमरोहन्॥
ध्रुवासि धरुणेत्यन्तरिक्षलोकं धर्त्र्यसि धरणीत्यमुं धरणीत्यमुं लोकमायुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वेति चत्वारश्चतुष्पादाः पशवो ऽन्नम् पशवस्त एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिंलोके प्रत्यतिष्ठंस्तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिंलोके प्रतितिष्ठति॥
स स पराङिव रोहः॥
इयमु वै प्रतिष्ठा ते देवा इमाम् प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमाम् प्रति ष्हामभिप्रत्यैति॥
यन्त्रि राडित्यमुं लोकमरोहन्॥
यन्त्र्यसि यमनीत्यन्तरिक्षलोकं ध्रुवासि धरित्रीतीमं लोकमिषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वेति चत्वारश्चतुष्पादाः पशवो ऽन्नम् पशवस्त एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंलोके प्रत्यतिष्ठंस्तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंलोके प्रतितिष्ठति॥
अथातः संस्कृतिरेव॥
या अमूरेकादशेष्टका उपदधाति यो ऽसौ प्रथमो ऽनुवाकस्तदन्तरिक्षं स आत्मा तद्यत्ता एकादश भवन्त्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभमन्तरिक्षमथ या उत्तराः षष्टिः स वायुः स प्रजापतिः सो ऽग्निः स यजमानः॥
तद्याः पुरस्तादुपदधाति॥
शिरो ऽस्य तास्ता दश भवन्ति दश वै प्राणाः प्राणा उ वै शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः॥
अथ या दक्षिणतः॥
यदूर्ध्वम् मध्यादवाचीनं शीर्ष्णस्तदस्य ता अथ याः पश्चाद्यदूर्ध्वम् प्रतिष्ठाया अवाचीनम् मध्यात्तदस्य ताः प्रतिष्ठैवोत्तरतः॥
तद्याः सप्त पुरस्ताद्वालखिल्या उपदधाति॥
य एवेमे सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति ता अनन्तर्हिता एताभ्यो दशभ्य उपदधात्यनन्तर्हितांस्तछीर्ष्णः प्राणान्दधाति॥
अथ याः सप्त पश्चात्॥
य एवेमे सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधाति ता अनन्तर्हिता एताभ्यो द्वादशभ्य उपदधात्यनन्तर्हितांस्तदात्मनः प्राणान्दधाति स एष वायुः प्रजापतिरस्मिंस्त्रैष्टुभे ऽन्तरिक्षे समन्तम् पर्यक्नस्तद्यत्तृतीयां चितिमुपदधाति वायुं चैव तदन्तरिक्षं च सङ्क्कृत्योपधत्ते ऽथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः॥