द्वितीयां चितिमुपदधाति॥
एतद्वै देवाः प्रथमां चितिं चित्वा समारोहन्नयं वै लोकः प्रथमा चितिरिममेव तल्लोकं संस्कृत्य समारोहन्॥
ते ऽब्रुवन्॥
चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना एतां द्वितीयां चितिमपश्यन्यदूर्ध्वम् पृथिव्या अर्वाचीनमन्तरिक्षात्तेषामेष लोको ऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत्॥
ते ऽश्विनावब्रुवन्॥
युवं वै ब्रह्माणौ भिषजौ स्थो युवं न इमां द्वितीयां चितिमुपधत्तमिति किं नौ ततो भविष्यतीति युवमेव नो ऽस्या अग्निचित्याया अध्वर्यू भविष्यथ इति तथेति तेभ्य एतामश्विनौ द्वितीयां चितिमुपाधत्तां तस्मादाहुरश्विनावेव देवानामध्वर्यू इति॥
स उपदधाति॥
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति यद्वै स्थिरं यत्प्रतिष्ठितं तद्ध्रुवमथ वा एषामेष लोको ऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत्तमेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्तां ध्रुवं योनिमासीद साधुयेति स्थिरं योनिमासीद साधुयेत्येतदुख्यस्य केतुम् प्रथमं जुषाणेत्ययं वा अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तं जुषाणेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम्॥
कुलायिनी घृतवती पुरन्धिरिति॥
कुलायमिव वै द्वितीया चितिः स्योने सीद सदने पृथिव्या इति पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदन इत्येतदभि त्वा रुद्रा वसवो गृणन्त्वित्येतास्त्वां देवता अभिगृणन्त्वित्येतदिमा ब्रह्म पीपिहि सौभगायेतीमा ब्रह्माव सौभगायेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम्॥
स्वैर्दक्षैर्दक्षपितेह सीदेति॥
स्वेन वीर्येणेह सीदेत्येतद्देवानां सम्ने बृहते रणायेति देवानां सुम्नाय महते रणायेत्येतत्पितेवैधि सूनव आ सुशेवेति यथा पिता पुत्राय स्योनः सुशेव एवं सुशेवैधीत्येतत्स्वावेशा तन्वा संविशास्वेत्यात्मा वै तनूः स्वावेशेनात्मना संविशस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम्॥
पृथिव्याः पुरीषमसीति॥
पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव यद्द्वितीयाप्सो नामेति रसो नामेत्येतत्तां त्वा विश्वे अभिगृणन्तु देवा इति तां त्वा सर्वे ऽभिगृणन्तु देवा इत्येतत्स्तोमपृष्ठा घृतवतीह सीदेति यान्त्स्तोमानस्यां तंस्यमानो भवति तैरेषा स्तोमपृष्ठा प्रजावदस्मे द्रविणायजस्वेति प्रजावदस्मे द्रविणमायजस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम्॥
ता एता दिशः॥
ता रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तद्दिशो दधाति तस्मादनयोर्दिशः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः सर्वतः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशस्ता नानोपदधाति नाना सादयति नाना सूददोहसा ऽधिवदति नाना हि दिशः॥
अथ पञ्चमीं दिश्यामुपदधाति॥
ऊर्ध्वा ह सा दिक्सा या सोर्ध्वा दिगसौ स आदित्यो ऽमुमेवैतदादित्यमुपदधाति तामन्तरेण दक्षिणां दिश्यामुपदधात्यमुं तदादित्यमन्तरेण दक्षिणां दिशं दधाति तस्मादेषो ऽन्तरेण दक्षिणां दिशमेति॥
अदित्यास्त्वा पृष्ठे सादयामीति॥
इयं वा अदितिरस्यामेवैनमेतत्प्रतिष्ठायाम् प्रतिष्ठापयत्यन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीम् भुवनानामित्यन्तरिक्षस्य ह्येष धर्ता विष्टम्भनो दिशामधिपतिर्भुवनानामूर्मिर्द्रप्सो अपामसीति रसो वा ऊर्मिर्विश्वकर्मा त ऋषिरिति प्रजापतिर्वै विश्वकर्मा प्रजापतिसृष्टासीत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम्॥
यद्वेवैता आश्विनीरुपदधाति॥
प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य यदूर्ध्वम् प्रतिष्ठाया अवाचीनम् मध्यात्तदस्याश्विनावादायोत्क्रम्यातिष्ठताम्॥
तावब्रवीत्॥
उप मेतम् प्रति म एतद्धत्तं येन मे युवमुद !क्रमिष्टमिति किं नौ ततो भविष्यतीति युवद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतदश्विनौ प्रत्यधत्ताम्॥
तद्या एताः पञ्चाश्विन्यः॥
एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति॥
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति॥
यद्वै स्थिरं यत्प्रतिष्ठितं तद्ध्रुवमथ वा अस्यैतदस्थिरमिवाध्रुवमिवात्मन आसीत्तदेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्ताम्॥
कुलायिनी घृतवती पुरन्धिरिति॥
कुलायमिव वा अस्यैतदात्मनः स्वैर्दक्षैर्दक्षपितेह सीदेत्यदक्षयतामेवास्यैतदात्मनः पृथिव्याः पुरीषमसीति पुरीषसंहितमिव वा अस्यैतदात्मनो रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ पृष्टिसाचयमिव वा अस्यैतदात्मनः सर्वत उपदधाति सर्वतो ह्यस्यैतदश्विनावात्मनः प्रत्यधत्ताम्॥
अथ ऽर्तव्ये उपदधाति॥
ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति शुक्रश्च शुचिश्च ग्रैष्मावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति॥
तद्यदेते अत्रोपदधाति॥
संवत्सर एषो ऽग्निरिम उ लोकाः संवत्सरस्तस्य यदूर्ध्वम् पृथिव्या अर्वाचीनमन्तरिक्षात्तदस्यैषा द्वितीयां चितिस्तद्वस्य ग्रीष्म ऋतुस्तद्यदेते अत्रोपदधाति॥
यद्वेवैते अत्रोपदधाति॥
प्रजापतिरेषो ऽग्निः संवत्सर उ प्रजापतिस्तस्य यदूर्ध्वम् प्रतिष्ठाया अवाचीनम् मध्यात्तदस्यैषा द्वितीया चितिस्तद्वस्य ग्रीष्म ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति॥
अथ वैश्वदेवीरुपदधाति॥
एषा वै सा द्वीतीया चितिर्यामेभ्यस्तदश्विना उपाधत्तां तामुपधायेदं सर्वमभवतां यदिदं किं च॥
ते देवा अब्रुवन्॥
अश्विनौ वा इदं सर्वमभूतामुप तज्जानीत यथा व्यमिहाप्यसामेति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथा वयमिहाप्यसामेति ते चेतयमाना एता इष्टका अपश्यन्वैश्वदेवीः॥
ते ऽब्रुवन्॥
अश्विनौ वा इदं सर्वमभूतामश्विभ्यामेवाश्विनोश्चितिमनूपदधामहा इति ते ऽश्विभ्यामेवाश्विनोश्चितिमनूपादधत तस्मादेतामाश्विनी चितिरित्याचक्षते तस्माद्यथैव पूर्वासामुदर्क एवमेतासामिश्विभ्यां ह्येवाश्विनोश्चितिमनूपादधत॥
यद्वेव वैश्वदेवीरुपदधाति॥
ये वै ते विश्वे देवा एतां द्वितीयां चितिमपश्यन्ये त एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति ता एताः सर्वाः प्रजास्ता रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तत्प्रजा दधाति तस्मादनयोः प्रजाः सर्वत उपदधाति सर्वतस्तत्प्रजा दधाति तस्मात्सर्वतः प्रजा दिश्या अनूपदधाति दिक्षु तत्प्रजा दधाति तस्मात्सर्वासु दिक्षु प्रजाः॥
यद्वेव वैश्वदेवीरुपदधाति॥
प्रजापतेर्विस्रस्तात्सर्वाः प्रजा मध्यत उदक्रामन्नेतस्या अधि योनेस्ता एनमेतस्मिन्न्:त्मनः प्रतिहिते प्रापद्यन्त॥
स यः स प्रजापतिर्व्यस्रंसत॥
अयमेव स यो ऽयमग्निश्चीयते ऽथ या अस्मात्ताः प्रजा मध्यत उदक्रामन्नेतास्ता वैश्वदेव्य इष्टकास्तद्यदेता उपदधाति या एवास्मात्ताः प्रजा मध्यत उदक्रामंस्ता अस्मिन्नेतत्प्रपादयति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति॥
यद्वेव वैश्वदेवीरुपदधाति॥
एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते ऽकामयत प्रजाः सृजेय प्रजायेयेति स ऋतुभिरद्भिः प्राणैः संवत्सरेणाश्विभ्यां सयुग्भूत्वैताः प्रजाः प्राजनयत्तथैवैतद्यजमान एताभिर्देवताभिः सयुग्भूत्वैताः प्रजाः प्रजनयति तस्मादु सर्वास्वेव सजूः-सजूरित्यनुवर्तते॥
सजूरृतुभिरिति॥
तदृतून्प्राजनयदृतुभिर्वै सयुग्भूत्वा प्राजनयत्सजूर्विधाभिरित्यापो वै विधा अद्भिर्हीदं सर्वं विहितमद्भिर्वै सयुग्भूत्वा प्राजनयत्सजूर्देवैरिति तद्देवान्प्राजनयद्यद्देवा इत्याचक्षते सजूर्देवैर्वयोनाधैरिति प्राणा वै देवा वयोनाधाः प्राणैर्हीदं सर्वं वयुनं नद्धमथो छन्दांसि वै देवा वयोनाधाश्छन्दोभिर्हीदं सर्वं वयुनं नद्धम् प्राणैर्वै सयुग्भूत्वा प्राजनयदग्नये त्वा वैश्वानरायेति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरेण वै सयुग्भूत्वा प्राजनयदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विभ्यां वै सयुग्भूत्वा प्राजनयत्॥
सजूर्वसुभिरिति दक्षिणतः॥
तद्वसून्प्राजनयत्सजू रुद्रैरिति पश्चात्तद्रुद्रान्प्राजनयत्सजूरादित्यैरित्युत्तरतस्तदादित्यान्प्राजनयत्सजूर्विश्वैर्देवैरित्युपरिष्टात्तद्विश्वान्देवान्प्राजनयत्ता वै समानप्रभृतयः समानोदर्का नाना मध्यतस्ता यत्समानप्रभृतयः समानीभिर्हि देवताभिः पुरस्ताच्चोपरिष्टाच्च सयुग्भूत्वा प्राजनयदथ यन्नाना मध्यतो ऽन्या-अन्या हि प्रजा मध्यतः प्राजनयत्॥
अथ प्राणभृत उपदधाति॥
एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वायुमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति॥
प्राणभृत उपदधाति॥
प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वायुं दधाति तस्मादनयोर्वायुः सर्वत उपदधाति सर्वतस्तद्वायुं दधाति तस्मात्सर्वतो वायुः सर्वतः समीचीः सर्वतस्तत्सम्यञ्चं वायुं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो वाति दिश्या अनूपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु वायुः॥
यद्वेव प्राणभृत उपदधाति॥
आस्वेवैतत्प्रजासु प्राणान्दधाति ता अनन्तर्हिता वैश्वदेवीभ्य उपदधात्यनन्तर्हितांस्तत्प्रजाभ्यः प्राणान्दधाति प्राणम् मे पाह्यपानम् मे पाहि व्यानम् मे पाहि चक्षुर्म उर्व्या बिभाहि श्रोत्रम् मे श्लोकयेत्येतानेवास्वेतत्कॢप्तान्प्राणान्दधाति॥
अथापस्या उपदधाति॥
एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वृष्टिमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति॥
अपस्या उपदधाति॥
आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वृष्टिं दधाति तस्मादनयोर्वर्षति सर्वत उपदधाति सर्वतस्तद्वृष्टिं दधाति तस्मात्सर्वतो वर्षति सर्वतः समीचीः सर्वतस्तमीचीं वृष्टिं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो वर्षति वायव्या अनूपदधाति वायौ तद्वृष्टिं दधाति तस्माद्यां दिशं वायुरेति तां दिशं वृष्टिरन्वेति॥
यद्वेवापस्या उपदधाति॥
एष्वेवैतत्प्राणेष्वपो दधाति ता अन्तर्हिताः प्राणभृद्भ्य उपदधात्यनन्तर्हितास्तत्प्राणेभ्यो ऽपो दधात्यथो अन्नं वा आपो ऽनन्तर्हितं तत्प्राणेभ्यो ऽन्नं दधात्यपः पिन्वौषधीर्जिन्व द्विपादव चतुष्पात्पाहि दिवो वृष्टिमेरयेत्येता एवैष्वेतत्कॢप्ता अपो दधाति॥
अथ छन्दस्या उपदधाति॥
एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमानाः पशूनेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति॥
छन्दस्या उपदधाति॥
पशवो वै छन्दांसि पशूनेवास्मिन्नेतद्दधाति सर्वत उपदधाति सर्वतस्तत्पशून्दधाति तस्मात्सर्वतः पशवो ऽपस्या अनूपदधात्यप्सु तत्पशून्प्रतिष्ठापयति तस्माद्यदा वर्षत्यथ पशवः प्रतितिष्ठन्ति॥
यद्वेव छन्दस्या उपदधाति॥
प्रजापतेर्विस्रस्तात्पशव उदक्रामंश्छन्दांसि भूत्वा तान्गायत्री छन्दो भूत्वा वयसाप्नोत्तद्यद्गायत्र्याप्नोदेतद्धि छन्द आशिष्ठं सा तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत्॥
मूर्धा वय इति॥
प्रजापतिर्वै मूर्धा स वयो ऽभवत्प्रजापतिश्छन्द इति प्रजापतिरेव छन्दो ऽभवत्॥
क्षत्रं वय इति॥
प्रजापतिर्वै क्षत्रं स वयो ऽभवन्मयन्दं छन्द इति यद्वा अनिरुक्तं तन्मयन्दमनिरुक्तो वै प्रजापतिः प्रजापतिरेव छन्दो ऽभवत्॥
विष्टम्भो वय इति॥
प्रजापतिर्वै विष्टम्भः स वयो ऽभवदधिपतिश्छन्द इति प्रजापतिर्वा अधिपतिः प्रजापतिरेव छन्दो ऽभवत्॥
विश्वकर्मा वय इति॥
प्रजापरिर्वै विश्वकर्मा स वयो ऽभवत्परमेष्ठी छन्द इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव परमेष्ठी छन्दो ऽभवत्॥
तानि वा एतानि॥
चत्वारि वयांसि चत्वारि छन्दांसि तदष्टावष्टाक्षरा गायत्र्येषा वै सा गायत्री या तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत्तस्माज्जीर्णम् पशुं वयसाप्त इत्याचक्षते तस्मादु सर्वास्वेव वयो वय इत्यमुवर्तते ऽथ ये ऽस्मात्ते पशव उदक्रामन्नेते ते पञ्चदशोत्तरे वज्रो वै पशवो वज्रः पञ्चदशस्तस्माद्यस्य पशवो भवन्त्यपैव स पाप्मानं हते वज्रो हैव तस्य पाप्मानमपहन्ति तस्माद्यां कां च दिशम् पशुमानेति वज्रविहितां हैव तामन्वेति॥
बस्तो वय इति बस्तं वयसाप्नोद्विवलं छन्द इत्येकपदा वै विवलं छन्द एकपदा ह भूत्वाजा उच्चक्रमुः॥
वृष्णिर्वय इति॥
वृष्णिं वयसाप्नोद्विशालं छन्द इति द्विपदा वै विशालं चन्दो द्विपदा ह भूत्वावय उच्चक्रमुः॥
पुरुषो वय इति॥
पुरुषं वयसाप्नोत्तन्द्रं छन्द इति पङ्क्तिर्वै तन्द्रं छन्दः पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः॥
व्याघ्रो वय इति॥
व्याघ्रं वयसाप्नोदनाधृष्टं छन्द इति विराड्वा अनाधृष्टं छन्दो ऽन्नं वै विराडन्नमनाधृष्टं विराडृ भूत्वा व्याघ्रा उच्चक्रमुः॥
सिंहो वय इति॥
सिंहं वयसाप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि छन्दांसि छादयत्यतिच्छन्दा ह भूत्वा सिंहा उच्चक्रमुरथातो निरुक्तानेव पशून्निरुक्तानि छन्दांस्युपदधाति॥
पष्ठवाड्वय इति॥
पष्ठवाहं वयसाप्नोद्बृहती छन्द इति बृहती ह भूत्वा पष्ठवाह उच्चक्रमुः॥
उक्षा वय इति॥
उक्षाणं वयसाप्नोत्ककुप्छन्द इति ककुब्भ भूत्वोक्षाण उच्चक्रमुः॥
ऋषभो वय इति॥
ऋषभं वयसाप्नोत्सतोबृहती छन्द इति सतोबृहती ह भूत्व ऽर्षभा उच्चक्रमुः॥
अनड्वान्वय इति॥
अनड्वाहं वयसाप्नोत्पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वानड्वाह उच्चक्रमुः॥
धेनुर्वय इति॥
धेनुं वयसाप्नोज्जगती छन्द इति जगती ह भूत्वा धेनव उच्चक्रमुः॥
त्र्यविर्वय इति॥
त्र्यविं वयसाप्नोत्त्रिष्टुप्छन्द इति त्रिष्टुब्भ भूत्वा त्र्यवय उच्चक्रमुः॥
दिव्यवाड्वय इति॥
दित्यवाहं वयसाप्नोद्विराट् छन्द इति विराड भूत्वा दित्यवाह उच्चक्रमुः॥
पञ्चाविर्वय इति॥
पञ्चाविं वयसाप्नोद्गायत्री छन्द इति गायत्री ह भूत्वा पञ्चावय उच्चक्रमुः॥
त्रिवत्सो वय इति॥
त्रिवत्सं वयसाप्नोदुष्णिक्छन्द इत्युष्णिग्घ भूत्वा त्रिवत्सा उच्चक्रमुः॥
तुर्यवाड्वय इति॥
तुर्यवाहं वयसाप्तोदनुष्टुप्छन्द इत्यनुष्टुब्भ भूत्वा तुर्यवाह उच्चक्रमुः॥
एते वै ते पशवः॥
यांस्तत्प्रजापतिर्वयसाप्नोत्स वै पशुम् प्रथममाहाथ वयो ऽथ छन्दो वयसा च ह्येनांश्छन्दसा च परिगत्यात्मन्नधत्तात्मन्नकुरुत तथैवैनानयमेतद्वयसा चैव छन्दसा च परिगत्यात्मन्धत्त आत्मन्कुरुते॥
स एष पशुर्यदग्निः॥
सो ऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः पुरस्तादुपदधाति शिरो ऽस्य ता अथ या दक्षिणतश्चोत्तरतश्च स आत्माथ याः पश्चात्तत्पुछम्॥
स वै पुरस्तादेवाग्र उपदधाति॥
शिरो हि प्रथमं जायमानस्य जायते ऽथ दक्षिणत उपधायोत्तरत उपदधाति सार्धमयमात्मा जायाता इत्यथ पश्चात्पुछं ह्यन्ततो जायमानस्य जायते॥
तद्यानि वर्षिष्ठानि छन्दांसि॥
ये स्थविष्ठाः पशवस्तान्मध्य उपदधाति मध्यं तत्प्रति पशुं वरिष्ठं करोति तस्मान्मध्यम् प्रति पशुर्वरिष्ठो ऽथ ये वीर्यवत्तमाः पशवस्तान्दक्षिणत उपदधाति दक्षिणं तदर्धम् पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणो ऽर्धः पशोर्वीयत्तरः॥
पूर्वार्धं च जघनार्धं चाणिष्ठौ करोति॥
यदहामूश्चतस्रस्तेनैना अणिष्ठा अथ यदिह ह्रसिष्ठान्पशूनुपदधाति तेनो एता अणिष्ठाः पूर्वार्धं च तज्जघनार्धं च पशोरणिष्ठौ करोति तस्मात्पूर्वार्धश्च जघनार्धश्च पशोरणिष्ठौ तस्मात्पूर्वार्धेन च जघनार्धेन च पशुरुच्च तिष्ठति सं च विशत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः॥