०१

प्राणभृत उपदधाति॥
प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ताः प्रथमायां चिता उपदधाति पूर्वार्ध एषो ऽग्नेर्यत्प्रथमा चितिः पुरस्तात्तत्प्राणान्दधाति तस्मादिमे पुरस्तात्प्राणाः॥
ता दश-दशोपदधाति॥
दश वै प्राणा यदु वा अपि बहु कृत्वो दश-दश दशैव तृत्पञ्च कृत्वो दश-दशोपदधाति पञ्च वा एतान्पशूनुपदधाति दश-दश वा एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दधात्यनन्तर्हिताः पशुभ्य उपदधात्यनन्तर्हितांस्तत्पशुभ्यः प्राणान्दधाति सर्वत उपदधाति सर्वत एवैष्वेतत्प्राणान्दधाति॥
यद्वेव प्राणभृत उपदधाति॥
प्रजापतेर्विस्रस्तात्प्राणा उदक्रामन्देवता भूत्वा तानब्रवीदुप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति स वै तदन्नं सृजस्व यत्ते वयम् पश्यन्त उपवसामेति ते वा उभये सृजामहा इति तथेति ते प्राणाश्च प्रजापतिश्चैतदन्नमसृजन्तैताः प्राणभृतः॥
स पुरस्तादुपदधाति॥
अयम् पुरो भुव इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्भुव इत्याहाग्निर्वै भुवो ऽग्नेर्हीदं सर्वम् भवति प्राणो हाग्निर्भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधाति॥
तस्य प्राणो भौवायन इति॥
प्राणं तस्माद्रूपादग्नेर्निरमिमीत वसन्तः प्राणायन इति वसन्तमृतुम् प्राणान्निरमिमीत गायत्री वासन्तीति गायत्रीं छन्दो वसन्तादृतोर्निरमिमीत गायत्र्यै गायत्रमिति गायत्र्यै छन्दसो गायत्रं साम निरमिमीत गायत्रादुपांशुरिति गायत्रात्साम्न उपांशुं ग्रहं निरमिमीतोपांशोस्त्रिवृदित्युपांशोर्ग्रहात्त्रिवृतं स्तोमं निरमिमीत त्रिवृतो रथन्तरमिति त्रिवृत स्तोमाद्रथन्तरम् पृष्ठं निरमिमीत॥
वसिष्ठ ऋषिरिति॥
प्राणो वै वसिष्ठ ऋषिर्यद्वै नु श्रेष्ठस्तेन वसिष्ठो ऽथो यद्वस्तृतमो वसति तेनो एव वसिष्ठः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतत्प्राणं गृह्णामि प्रजाभ्य इति प्राणम् पुरस्तात्प्रापादयत नानोपदधाति ये नानाकामाः प्राणे तांस्तद्दधाति सकृत्सादयत्येकं तत्प्राणं करोत्यथ यन्नाना सादयेत्प्राणं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका यजुः सादनं सूददोहास्तत्त्रिवृत्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तत्कृत्वोपदधाति॥
अथ दक्षिणतः॥
अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा यो ऽयम् पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति मनो ह वायुर्भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति॥
तस्य मनो वैश्वकर्मणमिति॥
मनस्तस्माद्रूपाद्वायोर्निरमिमीत ग्रीष्मो मानस इति ग्रीष्ममृतुम् मनसो निरमिमीत त्रिष्टुब्ग्रैष्मीति त्रिष्टुभं छन्दो ग्रीष्मादृतोर्निरमिमीत त्रिष्टुभः स्वारमिति त्रिष्टुभश्छन्दसः स्वारं साम निरमिमीत स्वारादन्तर्याम इति स्वारात्साम्नो ऽन्तर्यामं ग्रहं निरमिमीतान्तर्यामात्पञ्चदश इत्यन्तर्यामाद्ग्रहात्पञ्चदशं स्तोमं निरमिमीत पञ्चदशाद्बृहदिति पञ्चदशात्स्तोमाद्बृहत्पृष्ठं निरमिमीत॥
भरद्वाज ऋषिरिति॥
मनो वै भरद्वाज ऋषिरन्नं वाजो यो वै मनो बिभर्ति सो ऽन्नं वाजम् भरति तस्मान्मनो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतन्मनो गृह्णामि प्रजाभ्य इति मनो दक्षिणतः प्रापादयत नानोपदधाति ये नानाकामा मनसि तांस्तद्दधाति सकृत्सादयत्येकं तन्मनः करोत्यथ यन्नाना सादयेन्मनो ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः॥
अथ पश्चात्॥
अयम् पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम् प्रत्यञ्चमेव यन्तम् पश्यन्ति चक्षुर्हादित्यो भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधाति॥
तस्य चक्षुर्वैश्वव्यचसमिति॥
चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत वर्षाश्चाक्षुष्य इति वर्षा ऋतुं चक्षुषो निरमिमीत जगती वार्षीति जगतीं छन्दो वर्षाभ्य ऋतोर्निरमिमीत जगत्या ऋक्सममिति जगत्यै छन्दस ऋक्समं साम निरमिमीत ऽर्क्समाछुक्र इत्यृक्समात्साम्नः शुक्रं ग्रहं निरमिमीत शुक्रात्सप्तदश इति शुक्राद्ग्रहात्सप्तदशं स्तोमं निरमिमीत सप्तदशाद्वैरूपमिति सप्तदशात्स्तोमाद्वैरु:पम् पृष्ठं निरमिमीत॥
जमदग्निरृषिरिति॥
चक्षुर्वै जमदग्निरृषिर्यदेनेन जगत्पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निरृषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतच्चक्षुर्गृह्णामि प्रजाभ्य इति चक्षुः पश्चात्प्रापादयत नानोपदधाति ये नानाकामाश्चक्षुषि तांस्तद्दधाति सकृत्सादयत्येकं तच्चक्षुः करोत्यथ यन्नाना सादयेच्चक्षुर्ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः॥
अथोत्तरतः॥
इदमुत्तरात्स्वरिति दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा ह्यस्मात्सर्वस्माद्दिशो ऽथ यत्स्वरित्याह स्वर्गो हि लोको दिशः श्रोत्रं ह दिशो भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति॥
तस्य श्रोत्रं सौवमिति॥
श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत शरछ्रौत्रीति शरदमृतुं श्रोत्रान्निरमिमीतानुष्टुप्शारदीत्यनुष्टुभं छन्दः शरद ऋतोर्निरमिमीतानुष्टुभ ऐडमित्यनुष्टुभश्छन्दस ऐडं साम निरमिमीतैडान्मन्थीत्यैडात्साम्नो मन्थिनं ग्रहं निरमिमीत मन्थिन एकविंश इति मन्थिनो ग्रहादेकविंशं स्तोमं निरमिमीतैकविंशाद्वैराजमित्येकविंशात्स्तोमाद्वैराजम् पृष्ठं निरमिमीत॥
विश्वामित्र ऋषिरिति॥
श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रम् भवति तस्माछ्रोत्रं विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतछ्रोत्रं गृह्णामि प्रजाभ्य इति श्रोत्रमुत्तरतः प्रापादयत नानोपदधाति ये नानाकामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं तछ्रोत्रं करोत्यथ यन्नाना सादयेछ्रोत्रं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टक: तस्योक्तो बन्धुः॥
अथ मध्ये॥
इयमुपरि मतिरिति चन्द्रमा वा उपरि तद्यत्तमाहोपरोत्युपरि हि चन्द्रमा अथ यन्मतिरित्याह वाग्वै मतिर्वाचा हीदं सर्वम् मनुते वाग्घ चन्द्रमा भूत्वोपरिष्टात्तस्थौ तदेव तद्रूपमुपदधाति॥
तस्यै वाङ्नात्येति॥
वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत हेमन्तो वाच्य इति हेमन्तमृतुं वाचो निरमिमीत पङ्क्तिर्हैमन्तीति पङ्क्तिं छन्दो हेमन्तादृतोर्निरमिमीत पङ्क्त्यै निधनवदिति पङ्क्त्यै छन्दसो निधनवत्साम निरमिमीत निधनवत आग्रयण इति निधनवतः साम्न आग्रयणं ग्रहं निरमिमीताग्रयणात्त्रिणवत्रयस्त्रिंशावित्याग्रयणाद्ग्रहात्त्रिणवत्रयस्त्रिंशौ स्तोमौ निरमिमीत त्रिणवत्रयस्त्रिंश:!भ्यां शाक्वररैवते इति त्रिणवत्रयस्त्रिंशाभ्यां स्तोमाभ्यां शाक्वररैवते पृष्ठे निरमिमीत॥
विश्वकर्म ऋषिरिति॥
वाग्वै विश्वकर्म ऽर्षिर्वाचा हीदं सर्वं कृतं तस्माद्वाग्विश्वकर्म ऽर्षिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतद्वाचं गृह्णामि प्रजाभ्य इति वाचमुपरिष्टात्प्रापादयत नानोपदधाति ये नानाकामा वाचि तांस्तद्दधाति सकृत्सादयत्येकां तद्वाचं करोत्यथ यन्नाना सादयेद्वाचं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः॥
एतद्वै तदन्नम्॥
यत्तत्प्राणाश्च प्रजापतिश्चासृजन्तैतावान्वै सर्वो यज्ञो यज्ञ उ देवानामन्नम्॥
ता दश-द्शोपदधाति॥
दशाक्षरा विराड्विराडु कृत्स्नमन्नं सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नेतत्कृत्स्नमन्नं दधाति ता हैता विराज एतान्प्राणान्बिभ्रति यत्प्राणान्बिभ्रति तस्मात्प्राणभृतः॥
तदाहुः॥
किम् प्राणाः किम् प्राणभृत इति प्राणा एव प्राणा अङ्गानि प्राणभृन्त्यङ्गानि हि प्राणान्बिभ्रति प्राणास्त्वेव प्राणा अन्नम् प्राणभृदन्नं हि प्राणान्बिभर्ति॥
तदाहुः॥
कथमस्यैताः सर्वाः प्राजापत्या भवन्तीति यदेव सर्वास्वाह प्रजापतिगृहीतया त्वयेत्येवमु हास्यैताः सर्वाः प्राजापत्या भवन्ति॥
तदाहुः॥
यद्ग्रहाय गृहीताय स्तुवते ऽथ शंसत्यथ कस्मात्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधातीति संस्था वै कर्मणो ऽन्वीक्षितव्य ऽर्चा वै प्रतिपदा ग्रहो गृह्यत ऋचि साम गीयते तदस्यैतद्यत्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधात्यथ यदुपरिष्टाद्ग्रहाणां स्तुतशस्त्रे भवतस्तद्वस्यैतद्यदुपरिष्टाद्ग्रहाणां स्तोमांश्च पृष्ठानि चोपदधाति॥
तदाहुः॥
यदेतत्त्रयं सह क्रियते ग्रह स्तोत्रं शस्त्रमथात्र ग्रहं चैव स्तोत्रं चोपदधाति कथमस्यात्रापि शस्रमुपहितं यद्वाव स्तोत्रं तछस्त्रं यासु ह्येव स्तुवते ता उ एवानुशंसत्येवमु हास्यात्रापि शस्त्रमुपहितम् भवति॥
तदाहुः॥
यद्यथा पितुः पुत्रमेवं त्रीणि प्रथमान्याहाथ कस्मादृक्सामयोः सङ्क्रामतीति साम वा ऋचः पतिस्तद्यत्तत्रापि यथा पितुः पुत्रमेवम् ब्रूयाद्यथा पतिं सन्तम् पुत्रम् ब्रूयात्तादृक्तत्तस्मादृक्सामयोः सङ्क्रामति कस्मादु त्रिः सन्तनोतीति पितरम् पुत्रम् पौत्रं तांस्तत्सन्तनोति तस्मादु तेभ्य एक एव ददाति॥
तद्याः पुरस्तादुपदधाति॥
ताः प्राणभृतो ऽथ याः पश्चात्ताश्चक्षुर्भृतस्ता अपानभृतो ऽथ या दक्षिणतस्ता मनोभृतस्ता उ व्यानभृतो ऽथ या उत्तरतस्ताः श्रोत्रभृतस्ता उदानभृतो ऽथ या मध्ये ता वाग्भृतस्ता उ समानभृतः॥
तदु ह चरकाध्वर्यवः॥
अन्या एवापानभृतो व्यानभृत उदानभृतः समानभृतश्चक्षुर्भृतो मनोभृतः श्रोत्रभृतो वाग्भृत इत्युपदधति न तथा कुर्यादत्यहैव रोचयन्त्यत्रो एवैतानि सर्वाणि रूपाण्युपधीयन्ते॥
स वै पुरस्तादुपधाय पश्चादुपदधाति॥
प्राणो हापानो भूत्वाङ्गुल्यग्रेभ्य इति सञ्चरत्यपान उ ह प्राणो भूत्वाङ्गुल्यग्रेभ्य इति सञ्चरति तद्यत्पुरस्तादुपधाय पश्चादुपदधात्येनावेवैतत्प्राणौ सन्तनोति सन्दधाति तस्मादेतौ प्राणौ सन्ततौ संहितौ॥
अथ दक्षिणत उपधायोत्तरत उपदधाति॥
व्यानो होदानो भूत्वाङ्गुल्यग्रेभ्य इति सञ्चरत्युदान उ ह व्यानो भूत्वाङ्गुल्यग्रेभ्य इति सञ्चरति तद्यद्दक्षिणत उपधायोत्तरत उपदधात्येतावेवैतत्प्राणौ सन्तनोति सन्दधाति तस्मादेतौ प्राणौ सन्ततौ संहितौ॥
अथ या मध्य उपदधाति॥
स प्राणस्ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्प्राणं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नेतत्प्राणं दधात्यथो एवं हैष गुदः प्राणः समन्तं नाभिम् पर्यक्नो नूचीश्च तिरश्चीश्चोपदधाति तस्मादिमे ऽन्वञ्चश्च तिर्यञ्चश्चात्मन्प्राणाः संस्पृष्टा उपदधाति प्राणानेवैतत्सन्तनोति सन्दधाति तस्मादिमे प्राणाः सन्तताः संहिताः॥
ता हैके पुरुषमुपार्प्योपदधति॥
एष वै प्राणस्तमेता बिभ्रति यत्प्राणम् बिभ्रति तस्मात्प्राणभृत इति न तथा कुर्यादेषो ऽहैव प्राणो य एष हिरण्मयः पुरुषस्तस्य त्वयमात्मा यावदिदमभ्ययमग्निर्विहितस्तद्यद्धास्यैता अङ्ग नाभिप्राप्नुयुः प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणो ऽङ्गं नाभिप्राप्नोति शुष्यति वा वै तन्म्लायति वा तस्मादेनाः परिश्रित्स्वेवोपार्प्योपदध्यादथ य: मध्य उपदधाति ताभिरस्यैष आत्मा पूर्णस्ता उ एवैतस्मादनन्तर्हिताः॥
तदाहुः॥
यदयम् पुरो भुवो ऽयं दक्षिणा विश्वकर्मायम् पश्चाद्विश्वव्यचा इदमुत्तरात्स्वरियमुपरि मतिरिति सम्प्रति दिशो ऽभ्यनूच्यन्ते ऽथ कस्मादेना अक्ष्णयादेशेषूपदधातीति प्राणा वै प्राणभृतस्ता यत्सम्प्रति दिश उपदध्यात्प्रागपं हैवायम् प्राणः सञ्चरेदथ यदेना एवमभ्यनूक्ताः सतीरक्ष्णयादेशेषूपदधाति तस्मादयम् प्रागपम् प्राणः सन्नक्ष्णया सर्वाण्यङ्गानि सर्वमात्मानमनुसञ्चरति॥
स एष पशुर्यदग्निः॥
सो ऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः पुरस्तादुपदधाति तौ बाहू अथ याः पश्चात्ते सक्थय्:!वथ या मध्य उपदधाति स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो ह्ययमात्मा॥
तदाहुः॥
यत्पूर्वेषु गणेष्वेकैकं स्तोममेकैकम् पृष्ठमुपदधात्यथ कस्मादत्र द्वौ स्तोमौ द्वे पृष्ठे उपदधातीत्यात्मा वा अस्यैष आत्मानं तदङ्गानां ज्येष्ठं वरिष्ठं वीर्यवत्तमं करोति तस्मादयमात्माङ्गानां ज्येष्ठो वरिष्ठो वीर्यवत्तमः॥
तदाहुः॥
कथमस्यैषो ऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवतीति मज्जा यजुरस्थीष्टका मांसं सादनं त्वक्सूददोहा लोम पुरीषस्य यजुरन्नम् पुरीषमेवमु हास्यैषो ऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवति॥
स एष सार्वायुषो ऽग्निः॥
स यो हैतमेवं सार्वायुषमग्निं वेद सर्वं हैवायुरेति॥
अथातः समञ्चनप्रसारणस्यैव॥
सञ्चितं हैके समञ्चनप्रसारणेनेत्यभिमृशन्ति पशुरेष यदग्निर्यदा वै पशुरङ्गानि सं चाञ्चति प्र च सारयत्यथ स तैर्वीर्यं करोति॥
संवत्सरो ऽसि परिवत्सरो ऽसि॥
इदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि उषसस्ते कल्पन्तामहोरात्रास्ते कल्पन्तामर्धमासास्ते कल्पन्ताम् मासास्ते कल्पन्तामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पताम् प्रेत्या एत्यै सं चाञ्च प्र च सारय सुपर्णाचिदसि तया देवतयाङ्गिरस्वद्ध्रुवः सीदेति॥
अपि ह स्माह शाट्यायनिः॥
स्फोटतोर्हैकः पक्षयोरुपशुश्रावैतेनाभिमृष्टस्य तस्मादेनमेतेनाभ्येव मृशेदिति॥
अथ ह स्माह स्वर्हिन्नाग्नजितः॥
नग्नजिद्वा गान्धारः प्राणो वै समञ्चनप्रसारणं यस्मिन्वा अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति सञ्चितमेवैनम् बहिष्टादभ्यन्यात्तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति तथा सं चाञ्चति प्र च सारयतीति तदहैव समञ्चनप्रसारणं यत्स तदुवाच राजन्यबन्धुरिव त्वेव तदुवाच यन्नु शतं कृत्वो ऽथो सहस्रम् बहिष्टादभ्यन्युर्न वै तस्मिंस्ते प्राणं दध्युर्यो वा आत्मन्प्राणः स एव प्राणस्तद्यत्प्राणभृत उपदधाति तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति तथा सं चाञ्चति प्र च सारयत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः॥