०५

कूर्ममुपदधाति॥
रसो वै कूर्मो रसमेवैतदुपदधाति यो वै स एषां लोकानामप्सु प्रविद्धानाम् पराङ्रसो ऽत्यक्षरत्स एष कूर्मस्तमेवैतदुपदधाति यावानु वै रसस्तावानात्मा स एष इम एव लोकाः॥
तस्य यदधरं कपालम्॥
अयं स लोकस्तत्प्रतिष्ठितमिव भवति प्रतिष्ठित इव ह्ययं लोको ऽथ यदुत्तरं सा द्यौस्तद्ब्यवगृहीतान्तमिव भवति व्यवगृहीतान्तेव हि द्यौरथ यदन्तरा तदन्तरिक्षं स एष इम एव लोका इमानेवैतल्लोकानुपदधाति॥
तमभ्यनक्ति॥
दध्ना मधुना घृतेन दधि हैवास्य लोकस्य रूपं घृतमन्तरिक्षस्य मध्वमुष्य स्वेनैवैनमेतद्रूपेण समर्धयत्यथो दधि हैवास्य लोकस्य रसो घृतमन्तरिक्षस्य मध्वमुष्य स्वेनैवैनमेतद्रसेन समर्धयति॥
मधु वाता ऋतायत इति॥
यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता स ऽक्सो देवता तद्यजुस्तद्धैतन्मध्वेवैष त्रिचो रसो वै मधु रसमेवास्मिन्नेतद्दधाति गायत्रीभिस्तिसृभिस्तस्योक्तो बन्धुः॥
स यत्कूर्मो नाम॥
एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत यदसृजताकरोत्तद्यदकरोत्तस्मात्कूर्मः कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति॥
स यः कूर्मो ऽसौ स आदित्यो॥
ऽमुमेवैतदादित्यमुपदधाति तं पुरस्तात्प्रत्यञ्चमुपदधात्यमुं तदादित्यम् पुरस्तात्प्रत्यञ्चं दधाति तस्मादसावादित्यः पुरस्तात्प्रत्यङ् धीयते दक्षिणतो ऽषाढायै वृषा वै कूर्मो योषाषाढा दक्षिणतो वै वृषा योषामुपशेते ऽरत्निमात्रे ऽरत्निमात्राद्धि वृषा योषामुपशेते सैषा सर्वासामिष्टकानाम् महिषी यदषाढैतस्यै दक्षिणतः सन्त्सर्वासामिष्टकान:ं दक्षिणतो भवति॥
यद्वेव कूर्ममुपदधाति॥
प्राणो वै कूर्मः प्राणो हीमाः सर्वाः प्रजाः करोति प्राणमेवैतदुपदधाति तम् पुरस्तात्प्रत्यञ्चमुपदधाति पुरस्तात्तत्प्रत्यञ्चम् प्राणं दधाति तस्मात्पुरस्तात्प्रत्यङ् प्राणो धीयते पुरुषमभ्यावृत्तं यजमाने तत्प्राणं दधाति दक्षिणतो ऽषाढायै प्राणो वै कूर्मो वागषाढा प्राणो वै वाचो वृषा प्राणो मिथुनम्॥
अपां गम्भन्त्स्तीदेति॥
एतद्धापां गम्भिष्ठं यत्रैष एतत्तपति मा त्वा सूर्यो ऽभिताप्सीन्माग्निर्वैश्वानर इति मैव त्वा सूर्यो हिंसीन्मो अग्निर्वैश्वानर इत्येतदछिन्नपत्राः प्रजा अनुवीक्षस्वेतीमा वै सर्वाः प्रजा या इमा इष्टकास्ता अरिष्टा अनार्ता अनुवीक्षस्वेत्येतदनु त्वा दिव्या वृष्टिः सचतामिति यथैवैनं दिव्या वृष्टिरनुसचेतैवमेतदाह॥
अथैनमेजयति॥
त्रीन्त्समुद्रान्त्समसृपत्स्वर्गानितीमे वै त्रयः समुद्राः स्वर्गा लोकास्तानेष कूर्मो भूत्वानुसंससर्पापाम् पतिर्वृषभ इष्टकानामित्यपां ह्येष पतिर्वृषभ इष्टकानाम् पुरीषं वसानः सुकृतस्य लोक इति पशवो वै पुरीषम् पशून्वसानः सुकृतस्य लोक इत्येतत्तत्र गछ यत्र पूर्वे परेता इति तत्र गछ यत्रैतेन पूर्वे कर्मणेयुरित्येतत्॥
मही द्यौः पृथिवी च न इति॥
महती द्यौः पृथिवी च न इत्येतदिमं यज्ञम् मिमिक्षतामितीमं यज्ञमवतामित्येतत्पिपृतां नो भरीमभिरिति बिभृतां नो भरीमभिरित्येतद्द्यावापृथिव्ययोत्तमयोपदधाति द्यावापृथिव्यो हि कूर्मः॥
त्रिभिरुपदधाति॥
त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपदधाति त्रिभिरभ्यनक्ति तत्षट्तस्योक्तो बन्धुरवका अधस्ताद्भवन्त्यवका उपरिष्टादापो वा अवका अपामेवैनमेतन्मध्यतो दधाति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथोलूखलमुसले उपदधाति॥
विष्णुरकामयतान्नादः स्यामिति स एते इष्टके अपश्यदुलूखलमुसले ते उपाधत्त ते उपधायान्नादो ऽभवत्तथैवैतद्यजमानो यदुलूखलमुसले उपदधाति येन रूपेण यत्कर्म कृत्वा विष्णुरन्नादो ऽभवत्तेन रूपेण तत्कर्म कृत्वान्नादो ऽसानीति तदेतत्सर्वमन्नं यदुलूखलमुसले उलूखलमुसलाभ्यां ह्येवान्नं क्रियत उलूखलमुसलाभ्यामद्यते॥
ते रेतःसिचोर्वेलयोपदधाति॥
पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतदन्नं दधात्युत्तरे उत्तरमेवास्मादेतदन्नं दधात्यरत्निमात्रे ऽरत्निमात्राद्ध्यन्नमद्यते॥
प्रादेशमात्रे भवतः॥
प्रादेशमात्रो वै गर्भो विष्णुरन्नमेतदात्मसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति॥
औदुम्बरे भवतः॥
ऊर्ग्वै रस उदुम्बर ऊर्जमेवास्मिन्नेतद्रसं दधात्यथो सर्व एते वनस्पतयो यदुदुम्बर एते उपदधत्सर्वान्वनस्पतीनुपदधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वनस्पतीन्दधाति तस्मादनयोर्वनस्पतयश्चतुःस्रक्ति भवति चतस्रो वै दिशः सर्वासु तद्दिक्षु वनस्पतीन्दधाति तस्मात्सर्वासु दिक्षु वनस्पतयो मध्ये सङ्गृहीतम् भवत्युलूखलरूपतायै॥
यद्वेवोलूखलमुसले उपदधाति॥
प्रजापतेर्विस्रस्तात्प्राणो मध्यत उदचिक्रमिषत्तमन्नेनागृह्णात्तस्मात्प्राणो ऽन्नेन गृहीतो यो ह्येवान्नमत्ति स प्राणिति॥
प्राणे गृहीते ऽस्मादन्नमुदचिक्रमिषत्तत्प्राणेनागृह्णात्तस्मात्प्राणेनान्नं गृहीतं यो ह्येव प्राणिति सो ऽन्नमत्ति॥
एतयोरुभयोर्गृहीतयोः॥
अस्मादूर्गुदचिक्रमिषत्तामेताभ्यामुभाभ्यामगृह्णात्तस्मादेताभ्यामुभाभ्यामूर्ग्गृहीता यो ह्येवान्नमत्ति स प्राणिति तमूर्जयति॥
ऊर्जि गृहीतायाम्॥
अस्मादेते उभे उदचिक्रमिषतां ते ऊर्जागृह्णात्तस्मादेते उभे ऊर्जा यं ह्येवोर्जयति स प्राणिति सो ऽन्नमत्ति॥
तान्येतान्यन्यो ऽन्येन गृहीतानि॥
तान्यन्यो ऽन्येन गृहीत्वात्मन्प्रापादयत तदेतदन्नम् प्रपद्यमानं सर्वे देवा अनुप्रापद्यन्तान्नजीवनं हीदं सर्वम्॥
तदेष श्लोको ऽभ्युक्तः॥
तद्वै स प्राणो ऽभवदिति तद्धि स प्राणो ऽभवन्महा भूत्वा प्रजापतिरिति महान्हि स तदभवद्यदेनमेते देवाः प्रापद्यन्त भुजो भुजिष्या वित्त्वेति प्राणा वै भुजो ऽन्नम् भुजिष्या एतत्सर्वं वित्त्वेत्ये तद्यत्प्राणान्प्राणयत्पुरीत्यात्मा वै पूर्यद्वै प्राणान्प्राणयत्तस्मात्प्राणा देवा अथ यत्प्रजापतिः प्राणयत्तस्मादु प्रजापतिः प्राणो यो वै स प्राण एषा सा गायत्र्यथ यत्तदन्नमेष स विष्णुर्देवताथ या सो ऽर्गेष स उदुम्बरः॥
सो ऽब्रवीत्॥
अयं वाव मा सर्वस्मात्पाप्मन उदभार्षीदिति यदब्रवीदुदभार्षीन्मेति तस्मादुपुम्भर उदुम्भरो ह वै तमुदुम्बर इत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवा उरु मे करदिति तस्मादुरुकरमुरुकरं ह वै तदुलूखलमित्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवाः सैषा सर्वेषाम् प्राणानां योनिर्यदुलूखलं शिरो वै प्राणानां योनिः॥
तत्प्रादेशमात्रम् भवति॥
प्रादेशमात्रमिव हि शिरश्चतुःस्रक्ति भवति चतुःस्रक्तीव हि शिरो मध्ये सङ्गृहीतम् भवति मध्ये सङ्गृहीतमिव हि शिरः॥
तं यत्र देवाः समस्कुर्वन्॥
तदस्मिन्नेतत्सर्वम् मध्यतो ऽदधुः प्राणमन्नमूर्जं तथैवास्मिन्नयमेतद्दधाति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्सर्वं दधाति॥
विष्णोः कर्माणि पश्यतेति॥
वीर्यं वै कर्म विष्णोर्वीर्याणि पश्यतेत्येतद्यतो व्रतानि पस्पश इत्यन्नं वै व्रतं यतो ऽन्नं स्पाशयां चक्र इत्येतदिन्द्रस्य युज्यः सखेतीन्द्रस्य ह्येष युज्यः सखा द्विदेवत्ययोपदधाति द्वेह्युलूखलमुमले सकृत्सादयति समानं तत्करोति समानं ह्येतदन्नमेव सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथोखामुपदधाति योनिर्वा उखा योनिमेवैतदुपदधाति तामुलूखल उपदधात्यन्तरिक्षं वा उलूखलं यद्वै किं चास्या ऊर्ध्वमन्तरिक्षमेव तन्मध्यं वा अन्तरिक्षम् मध्यतस्तद्योनिं दधाति तस्मात्सर्वेषाम् भूतानाम् मध्यतो योनिरपि वनस्पतीनाम्॥
यद्वेवोखामुपदधाति॥
यो वै स प्रजापतिर्व्यस्रंससतैषा सोखेमे वै लोका उखेमे लोकाः प्रजापतिस्तामुलूखल उपदधाति तदेनमेतस्मिन्त्सर्वस्मिन्प्रतिष्ठापयति प्राणे ऽन्न ऊर्ज्यथो एतस्मादेवैनमेतत्सर्वस्मादनन्तर्हितं दधाति॥
अथोपशयाम् पिष्ट्वा॥
लोकभाजमुखां कृत्वा पुरस्तादुखाया उपनिवपत्येष हैतस्यै लोकस्तथो हास्यैषानन्तरिता भवति॥
तदाहुः॥
कथमस्यैषा पक्वा शृतोपहिता भवतीतिं यदेव यजुष्कृता तेनाथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगछति तत एव तत्पक्वं शृतमुपहितम् भवति॥
ध्रुवासि धरुणेति॥
तस्योक्तो बन्धुरितो जज्ञे प्रथममेभ्यो योनिभ्यो अधि जातवेदा इत्येतेभ्यो हि योनिभ्यः प्रथमं जातवेदा अजायत स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन्नित्येतैर्वा एष छन्दोभिर्देवेभ्यो हव्यं वहति प्रजानन्॥
इषे राये रमस्व॥
सहसे द्युम्न ऊर्जे अपत्यायेत्येतस्मै सर्वस्मै रमस्वेत्येतत्सम्राडसि स्वराडसीति सम्राट्च ह्येष स्वराट्च सारस्वतौ त्वोत्सौ प्रापवतामिति मनो वै सरस्वान्वाक्सरस्वत्येतौ सारस्वता उत्सौ तौ त्वा प्रावतामित्येतद्द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो द्वयं ह्येवैतद्रूपम् मृच्चा पश्च सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथैनामभिजुहोति॥
एतद्वा अस्यामेतत्पूर्वं रेतः सिक्तम् भवति सिकतास्तदेतदभिकरोति तस्माद्योनौ रेतः सिक्तमभिक्रियत आज्येन जुहोति स्रुवेण स्वाहाकारेण द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्यां तस्योक्तो बन्धुः॥
अग्ने युक्ष्वा हि ये तव॥
युक्ष्वा हि देवहूतमानिति युक्तवतीभ्यामिदमेवैतद्योनौ रेतो युनक्ति तस्माद्योनौ रेतो युक्तं न निष्पद्यते॥
स यदि संवत्सरभृतः स्यात्॥
अथाभिजुहुयात्सर्वं वै त् अद्यत्संवत्सरभृतः सर्वं तद्यदभिजुहीत्यथ यद्यसंवत्सरभृतः स्यादुपैव तिष्ठेतासर्वं वै तद्यदसंवत्सरभृतो ऽसर्वं तद्यदुपतिष्ठते ऽभि त्वेव जुहुयात्॥
पशुरेष यदग्निः॥
सो ऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्यावाङ् प्राणः स्वयमातृणा श्रोणी द्वियजुः पृष्टयो रेतःसिचौ कीकसा विश्वज्योतिः ककुदमृतव्ये ग्रीवा अषाढा शिरः कूर्मो ये कूर्मे प्राणा ये शीर्षन्प्राणास्ते ते॥
तं वा एतम्॥
इत ऊर्ध्वम् प्राञ्चं चिनोत्यसौ वा आदित्य एषो ऽग्निरमु तदादित्यमित ऊर्ध्वम् प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ् धीयते॥
अथैनम् प्रसलव्यावर्तयति॥
अमुं तदादित्य प्रसलव्यावर्तयति तस्मादसावादित्य इमांलोकान्प्रसलव्यनुपर्यैति॥
उदरमुखा॥
योनिरुलूखलमुत्तरोखा भवत्यधरमुलूखलमुत्तरं ह्युदरमधरा योनिः शिश्नम् मुसलं तद्वृत्तमिव भवति वृत्तमिव हि शिश्नं तद्दक्षिणत उपदधाति दक्षिणतो वै वृषा योषामुपशेते यदु पशोः संस्कृतस्यान्नं तद्दूर्वेष्टका तस्य वा एतस्योत्तरो ऽर्ध उदाहिततरो भवति पशुरेष यदग्निस्तस्मात्पशोः सुहितस्योत्तरः कुक्षिरुन्नततरो भवति॥
पशुशीर्षाण्युपदधाति॥
पशवो वै पशुशीर्षाणि पशूनेवैतदुपदधाति तान्युखायामुपदधातीमे वै लोका उखा पशवः पशुशीर्षाण्येषु तल्लोकेषु पशून्दधाति तस्मादिम एषु लोकेषु पशवः॥
यद्वेवोखायाम्॥
योनिर्वा उखा पशवः पशुशीर्षाणि योनौ तत्पशून्प्रतिष्ठापयति तस्मादद्यमानाः पच्यमानाः पशवो न क्षीयन्ते योनौ ह्येनान्प्रतिष्ठापयति॥
यद्वेव पशुशीर्षाण्युपदधाति॥
या वै ताः श्रिय एतानि तानि पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पञ्च चितयस्तद्यास्ताः पञ्च चितय इमे ते लोकास्तद्ये त इमे लोका एषा सोखा तद्यदुखायाम् पशुशीर्षाण्युपदधात्येतैरेव तछीर्षभिरेतानि कुसिन्धानि सन्दधाति॥
तान्पुरस्तात्प्रतीच उपदधाति॥
एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत त आलिप्स्यमाना उदचिक्रमिषंस्तान्प्राणेषु समगृह्णात्तान्प्राणेषु सङ्गृह्य पुरस्तात्प्रतीच आत्मन्नधत्त॥
तद्वा एतत्क्रियते॥
यद्देवा अकुर्वन्निदं न्वस्मात्ते पशवो नोच्चिक्रमिषन्ति यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो प्राणेष्वेवैनानेतत्सङ्गृह्य पुरस्तात्प्रतीच आत्मन्धत्ते॥
यद्वेव पशुशीर्षाण्युपदधाति॥
प्रजापतिर्वा इदमग्र आसीदेक एव सो ऽकामयतान्नं सृजेय प्रजायेयेति स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुष चक्षुषो ऽश्वम् प्राणाद्गां श्रोत्रादविं वाचो ऽजं तद्यदेनान्प्राणेभ्यो ऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानाम् प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे घ्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव इति पुरुषस्य ह्येवैते सर्वे भवन्ति॥
तदेतदन्नं सृष्ट्वा॥
पुरस्तात्प्रत्यगात्मन्नधत्त तस्माद्यः कश्चान्नं सृजते पुरस्तादेवैनत्प्रत्यगात्मन्धत्ते तद्वा उखायामुदरं वा उखोदरे तदन्नं दधाति॥
अथैषु हिरण्यशकलान्प्रत्यस्यति॥
प्राणो वै हिरण्यमथ वा एतेभ्यः पशुभ्यः सञ्ज्ञप्यमानेभ्य एव प्राणा उत्कामन्ति तद्यद्धिरण्यशकलान्प्रत्यस्यति प्राणानेवैष्वेतद्दधाति॥
सप्त प्रत्यस्यति॥
सप्त वै शीर्षन्प्राणास्तानस्मिन्नेतद्दधात्यथ यदि पञ्च पशवः स्युः पञ्चैव कृत्वः सप्त-सप्त प्रत्यस्येत्पञ्च वा एतान्पशूनुपदधाति सप्त-सप्त वा एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दधाति॥
तद्धैके ऽपि॥
यद्येकः पशुर्भवति पञ्चैव कृत्वः सप्त-सप्त प्रत्यस्यन्ति पञ्च वा एतान्पशूनुपदधाति सप्त-सप्त वा एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दध्म इति न तथा कुर्यादेतस्मिन्वै पशौ सर्वेषाम् पशूनां रूपं तद्यदेतस्मिन्प्रत्यस्यति तदेवैषु सर्वेषु प्राणान्दधाति॥
मुखे प्रथमम् प्रत्यस्यति॥
सम्यक्स्रवन्ति सरितो न धेना इत्यन्नं वै धेनास्तदिदं सम्यङ्मुखमभिसंस्रवत्यन्तर्हृदा मनसा पूयमाना इत्यन्तर्वै हृदयेन मनसा सतान्नम् पूतं य ऋजुस्तस्य घृतस्य धारा अभिचाकशीमीति या एवैतस्मिन्नग्नावाहुतीर्होष्यन्भवति ता एतदाह हिरण्ययो वेतसो मध्ये अग्नेरिति य एवैष हिरण्मयः पुरुषस्तमेतदाह॥
ऋचे त्वेतीह॥
प्राणो वा ऋक्प्राणेन ह्यर्चति रुचे त्वेतीह प्राणो वै रुक्प्राणेन हि रोचते ऽथो प्राणाय हीदं सर्वं रोचते भासे त्वेतीह ज्योतिषे त्वेतीह भास्वती हीमे ज्योतिष्मती चक्षुषी अभूदिदं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य चेतीहाग्निर्ज्योतिषा ज्योतिष्मान्रुक्भो वर्चसा वर्चस्वानितीह विश्वावतीभ्यां विश्वं हि श्रोत्रम्॥
अथ पुरुषशीर्षमुद्गृह्णाति॥
महयत्येवैनदेतत्सहस्रदा असि सहस्राय त्वेति सर्वं वै सहस्रं सर्वस्य दातासि सर्वस्मै त्वेत्येतत्॥
अथैनानुपदधाति॥
पुरुषम् प्रथमम् पुरुषं तद्वीर्येणाप्त्वा दधाति मध्ये पुरुषमभित इतरान्पशून्पुरुषं तत्पशूनाम् मध्यतो ऽत्तारं दधाति तस्मात्पुरुष एव पशूनाम् मध्यतो ऽत्ता॥
अश्वं चाविं चोत्तरत॥
एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ॥
गां चाजं च दक्षिणत॥
एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ॥
पयसि पुरुषमुपदधाति॥
पशवो वै पयो यजमानं तत्पशुषु प्रतिष्ठापयत्यादित्यं गर्भम् पयसा समङ्ग्धीत्यादित्यो वा एष गर्भो यत्पुरुषस्तम् पयसा समङ्ग्धीत्येतत्सहस्रस्य प्रतिमां विश्वरूपमिति पुरुषो वै सहस्रस्य प्रतिमा पुरुषस्य ह्येव सहस्रम् भवति परिवृङ्ग्धि हरसा माभिमंस्था इति पर्येनं वृङ्ग्ध्यर्चिषा मैनं हिंसीरित्येतछतायुषं कृणुहि चीयमान इति पुरुषं तत्पशून:!ं शतायुं करोति तस्मात्पुरुष एव पशूनां शतायुः॥
अथोत्तरतो ऽश्वम्॥
वातस्य जूतिमिति वातस्य वा एष जूतिर्यदश्वो वरुणस्य नाभिमिति वारुणो ह्यश्वो ऽश्वं जज्ञानं सरिरस्य मध्य इत्यापो वै सरिरमप्सुजा उ वा अश्वः शिशुं नदीनां हरिमद्रिबुध्नमिति गिरिर्वा अद्रिर्गिरिबुध्ना उ वा आपो ऽग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनम् मा हिंसीरित्येतत्॥
अथ दक्षिणतो गाम्॥
अजस्रमिन्दुमरुषमिति सोमो वा इन्दुः स हैष सोमो ऽजस्रो यद्गौर्भुरण्युमिति भर्तारमित्येतदग्निमीडे पूर्वचित्तिं नमोभिरित्याग्नेयो वै गौः पूर्वचित्तिमितिमिति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्ति स पर्वभिरृतुशः कल्पमान इति यद्वा एष चीयते तदेष पर्वभिरृतुशः कल्पते गाम् मा हिंसीरदितिं विराजमिति विराड्वै गौरन्नं वै विराडन्नमु गौः॥
अथोत्तरतो ऽविम्॥
वरूत्रीं त्वष्टुर्वरुणस्य नाभिमिति वारुणी च हि त्वाष्ट्री चाविरविं जज्ञानां रजसः परस्मादिति श्रोत्रं वै परं रजो दिशो वै श्रोत्रम् परं रजो महीं साहस्रीमसुरस्य मायामिति महतीं साहस्रीमसुरस्य मायामित्येतदग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनम् मा हिंसीरित्येतत्॥
अथ दक्षिणतो ऽजम्॥
यो अग्निरग्नेरध्यजायतेत्यग्निर्वा एषो ऽग्नेरध्यजायत शोकात्पृथिव्या उ त वा दिवस्परीति यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै च शोकादजायत येन प्रजा विश्वकर्मा जजानेति वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्त्विति यथैव यजुस्तथा बन्धुः॥
त एते पशवः॥
तान्नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना ह्येते पशवः॥
अथ पुरुषशीर्षमभिजुहोति॥
आहुतिर्वै यज्ञः पुरुषं तत्पशूनां यज्ञियं करोति तस्मात्पुरुष एव पशूनां यजते॥
यद्वेवैनदभिजुहोति॥
शीर्षंस्तद्वीर्यं दधात्याज्येन जुहोति वज्रो वा आज्यं वीर्यं वै वज्रो वीर्यमेवास्मिन्नेतद्दधाति स्वाहाकारेण वृषा वै स्वाहाकारो वीर्यं वै वृषा वीर्यमेवास्मिन्नेतद्दधाति प्रिष्टुभा वज्रो वै त्रिष्टुब्वीर्यं वै वज्रो वीर्यं त्रिष्टुब्वीर्येणैवास्मिन्नेतद्वीर्यं दधाति॥
स वा अर्धर्चमनुद्रुत्य स्वाहाकरोति॥
अस्थि वा ऋगिदं तछीर्षकपालं विहाप्य यदिदमन्तरतः शीर्ष्णो वीर्यं तदस्मिन्दधाति॥
अथोत्तरमर्धर्चमनुद्रुत्य स्वाहाकरोति॥
इदं तछीर्षकपालं सन्धाय यदिदमुपरिष्टाछीर्ष्णो वीर्यं तदस्मिन्दधाति॥
चित्रं देवानामुदगादनीकमिति॥
असौ वा आदित्य एष पुरुषस्तदेतच्चित्रं देवानामुदेत्यनीकं चक्षुर्मित्रस्य वरुणस्याग्नेरित्युभयेषां हैतद्देवमनुष्याणां चक्षुराप्रा द्यावापृथिवी अन्तरिक्षमित्युद्यन्वा एष इमांलोकानापूरयति सूर्य आत्मा जगतस्तस्थुषश्चेत्येष ह्यस्य सर्वस्यात्मा यच्च जगद्यच्च तिष्ठति॥
अथोत्सर्गैरुपतिष्ठत॥
एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत त आलिप्स्यमाना अशोचंस्तेषामेतैरुत्सर्गैः शुचम् पाप्मानमपाहंस्तथैवैषामयमेतदेतैरुत्सर्गैः शुचम् पाप्मानमपहन्ति॥
तद्धैके॥
यं-यमेव पशुमुपदधति॥
तस्यातस्य शुचमुत्सृजन्ति नेछुचम् पाप्मानमभ्युपदधामहा इति ते ह ते शुचम् पाप्मानमभ्युपदधति यां हि पूर्वस्य शुचमुत्सृजन्ति तामुत्तरेण सहोपदधति॥
विपरिक्राममु हैक उपतिष्ठन्ते॥
ऊर्ध्वां शुचमुत्सृजाम इति ते ह ते शुचम् पाप्मानमनूद्यन्त्यूर्ध्वो ह्येतेन कर्मणैत्यूर्ध्वामु शुचमुत्सृजन्ति॥
बाह्येनैवाग्निमुत्सृजेत्॥
इमे वै लोका एषो ऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्धा शुचं दधाति बहिर्वेदीयं वै वेदिरस्यै तद्बहिर्धा शुचं दधात्युदङ् तिष्ठन्नेतस्यां ह दिश्येते पशवस्तद्यत्रैते पशवस्तदेवैष्वेतछुचं दधाति॥
पुरुषस्य प्रथममुत्सृजति॥
तं हि प्रथममुपदधातीमम् मा हिंसीर्द्विपादम् पशुमिति द्विपाद्वा एष पशुर्यत्पुरुषस्तम् मा हिंसीरित्येतत्सहस्राक्षो मेधाय चीयमान इति हिरण्यशकलैर्वा एष सहस्राक्षो मेधायेत्यन्नायेत्येतन्मयुम् पशुम् मेधमग्ने जुषस्वेति किम्पुरुषो वै मयुः किम्पुरुषमग्ने जुषस्वेत्येतत्तेन चिन्वानस्तन्वो निषीदेत्यात्मा वै तनूस्तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतन्मयुं ते शुगृछतु यं द्विष्मस्तं ते शुगृछत्विति तन्मयौ च शुचं दधाति यं च द्वेष्टि तस्मिंश्च॥
अथाश्वस्य॥
इमम् मा हिंसीरेकशफम् पशुमित्येकशफो वा एष पशुर्यदश्वस्तम् मा हिंसीरित्येतत्कनिक्रदं वाजिनं वाजिनेष्विति कनिक्रदो वा एष वाज्यु वाजिनेषु गौरमारण्यमनु ते दिशामीति तदस्मै गौरमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतद्गौरं ते शुगृछतु यं द्विषमस्तं ते शुगृछत्विति तद्गौरे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च॥
अथ गोः॥
इमं साहस्रं शतधारमुत्ममिति साहस्रो वा एष शतधार उत्सो यद्गौर्व्यच्यमानं सरिरस्य मध्य इतीमे वै लोकाः सरिरमुपजीव्यमानमेषु लोकेष्वित्येतद्वृतं दुहानामदितिं जनायेति घृतं वा एषादितिर्जनाय दुहे ऽग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनम् मा हिंसीरित्येतद्गवयमारण्यमनु ते दिशामीति तदस्मै गवयमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतद्गवयं ते शुगृछतु यं द्विषास्तं ते शुगृछत्विति तद्गवये च शुचं दधाति यं च द्वेष्टि तस्मिंश्च॥
अथावेः॥
इममूर्णायुमित्यूर्णावलिमित्येतद्वरुणस्य नाभिमिति वारुणो ह्यविस्त्वचम् पशूनां द्विपदां चतुष्पदामित्युभयेषां हैष पशूनां त्वग्द्विपदां च चतुष्पदां च त्वष्टुः प्रजानाम् प्रथमं जनित्रमित्येतद्ध त्वष्टा प्रथमं रूपं विचकाराग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनम् मा हिंसीरित्येतदुष्ट्रमारण्यमनु ते दिशामीति तदस्मा उष्ट्रमारन्\यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरष्वेत्येतदुष्ट्रं ते शुगृछतु यं द्विष्मस्तं ते शुगृछत्विति तदुष्ट्रे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च॥
अथाजस्य॥
अजो ह्यग्नेरजनिष्ट शो कादिति यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत सो अपश्यज्जनितारमग्र इति प्रजापतिर्वै जनिता सो पश्यत्प्रजापतिमग्र इत्येतत्तेन देवा देवतामग्र आयन्निति वाग्वा अजो वाचो वै देवा देवतामग्रमायंस्तेन रोहमायन्नुप मेध्यास इति स्वर्गो वै लोको रोहस्तेन स्वर्गं लोकमायुन्नुप मेध्यास इत्येतछरभमारण्यमनु ते दिशामीति तदस्मै शरभमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतछरभं ते शुगृछतु यं द्विष्मस्तं ते शुगृछत्विति तछरभे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च॥
तदाहुः॥
यां वै तत्प्रजापतिरेतेषाम् पशूनां शुचम् पाप्मानमपाहंस्त एते पञ्च पशवो ऽभवंस्त एत उत्क्रान्तमेधा अमेध्या अयज्ञियास्तेषाम् ब्राह्मणो नाश्नीयात्तानेतस्यां दिशि दधाति तस्मादेतस्यां दिशि पर्जन्यो न वर्षुको यत्रैते भवन्ति॥
प्रत्येत्याग्निमुपतिष्ठते॥
एतद्वा एतदयथायथं करोति यदग्नौ सामिचिते बहिर्वेद्येति तस्मा एवैतन्निह्नुते ऽहिंसाया आग्नेय्याग्नय एवैतन्निह्नुते गायत्र्या गायत्र्यो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मा एतन्निह्नुते ऽनिरुक्तया सर्वं वा अनिरुक्तं सर्वेणैवास्मा एतन्निह्नुते यविष्टवत्यैतद्धास्य प्रियं धाम यद्यविष्ठ इति यद्वै जात इदं सर्वमयुवत तस्माद्यविष्ठः॥
त्वं यविष्ठ दाशुष इति॥
यजमानो वै दाश्वान्नृः पाहीति मनुष्या वै नरः शृणुधी गिर इति शृणु न इमां स्तुतिमित्येतद्रक्षा तोकमुत त्मनेति प्रजा वै तोकं रक्ष प्रजां चात्मानं चेत्येतत्॥
आरुह्याग्निं जघनेन स्वयमातृणाम् परीत्यापस्या उपदधाति॥
आप एता यदपस्या अथ वा एतेभ्यः पशुभ्य आप उत्क्रान्ता भवन्ति तद्यदपस्या उपदधात्येष्वेवैतत्पशुष्वपो दधात्यनन्तर्हिताः पशुभ्य उपदधात्यनन्तर्हितास्तत्पशुभ्यो ऽपो दधाति पञ्च-पञ्चोपदधाति पञ्च ह्येते पशवः सर्वत उपदधाति सर्वत एवैष्वेतदपो दधाति॥
तद्याः पञ्चदश पूर्वाः॥
ता अपस्या वज्रो वा आपो वज्रः पञ्चदशस्तस्मान्द्येनापो यन्त्यपैव तत्र पाप्मानं घ्नन्ति वज्रो हैव तस्यार्धस्य पाप्मानमपहन्ति तस्माद्वर्षत्यप्रावृतो व्रजेदयम् मे वज्रः पाप्मानमपहनदिति॥
अथ याः पञ्चोत्तराः॥
ताश्छन्दस्याः पशवो वै छन्दांस्यन्नम् पशवो ऽन्नमु पशोर्मांसमथ वा एतेभ्यः पशुभ्यो मांसान्युत्क्रान्तानि भवन्ति तद्यच्छन्दस्या उपदधात्येष्वेवैतत्पशुषु मांसानि दधात्यनन्तर्हिताः पशुभ्य उपदधात्यनन्तर्हितानि तत्पशुभ्यो मांसानि दधात्यन्तरा अपस्या भवन्ति बाह्याश्छन्दस्या अन्तरा ह्यापो बाह्यानि मांसानि॥
तदाहुः॥
यदिमा आप एतानि मांसान्यथ क्व त्वक्व्व लोमेत्यन्नं वाव पशोस्त्वगन्नं लोम तद्यच्छन्दस्या उपदधाति सैव पशोस्त्वक्तल्लोमाथो यान्यमून्युखायामजलोमानि तानि लोमानि बाह्योखा भवत्यन्तराणि पशुशीर्षाणि बाह्यानि हि लोमान्यन्तर आत्मा यदीतरेण यदीतरेणेति ह स्माह शाण्डिल्यः सर्वानेव वयं कृत्स्नान्पशून्त्संस्कुर्म इति॥
यद्वेवापस्या अपदधाति॥
प्रजापतेर्विस्रस्तादाप आयंस्तास्वितास्वविशद्यदविशत्तस्माद्विंशतिस्ता अस्याङ्गुलिभ्यो ऽध्यस्रवन्नन्तो वा अङ्गुलयो ऽन्तत एवास्मात्ता आप आयन्॥
स यः स प्रजापतिर्व्यस्रंसत॥
अयमेव स यो ऽयमग्निश्चीयते ऽथ या अस्मात्ता आप आयन्नेतास्ता अपस्यास्तद्यदेता उपदधाति या एवास्मात्ता आप आयंस्ता अस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति॥
अपां त्वेमन्त्सादयामीति॥
वायुर्वा अपामेम यदा ह्येवैष इतश्चेतश्च वात्यथापो यन्ति वायौ तां सादयति॥
अपां त्वोद्मन्त्सादयामीति॥
ओषधयो वा अपामोद्म यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयो जायन्त ओषधिषु तां सादयति॥
अपां त्वा भस्मन्त्सादयामीति॥
अभ्रं वा अपाम् भस्माभ्रे तां सादयति॥
अपां त्वा ज्योतिषि सादयामीति॥
विद्युद्वा अपां ज्योतिर्विद्युति तां सादयति॥
अपां त्वायने सादयामीति॥
इयं वा अपामयनमस्यां ह्यापो यन्त्यस्यां तां सादयति तद्या अस्यैतेभ्यो रूपेभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रूपाणि दधाति॥
अर्णवे त्वा सदने सादयामीति॥
प्राणो वा अर्णवः प्राणे तां सादयति॥
समुद्रे त्वा सदने सादयामीति॥
मनो वै समुद्रा मनसो वै समुद्राद्वाचाभ्र्या देवास्त्रियीं विद्यां निरखनंस्तदेष श्लोको ऽभ्युक्तो ये समुद्रान्निरखनन्देवास्तीक्ष्णाभिरभ्रिभिः सुदेवो अद्य तद्विद्याद्यत्र निर्वपणं दधुरिति मनः समुद्रो वाक्तीक्ष्णाभ्रिस्त्रयी विद्या निर्वपणमेतदेष श्लोको ऽभ्युक्तो मनसि तां सादयति॥
सरिरे त्वा सदने सादयामीति॥
वाग्वै सरिरं वाचि तां सादयति॥
अपां त्वा क्षये सादयामीति॥
चक्षुर्वा अपां क्षयस्तत्र हि सर्वदैवापः क्षियन्ति चक्षुषि तां सादयति॥
अपां त्वा सधिषि सादयामीति॥
ओत्रं वा अपां सधिः श्रोत्रे तां सादयति तद्या अस्यैतेभ्यो रूपेभ्यो आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रूपाणि दधाति॥
अपां त्वा सदने सादयामीति॥
द्यौर्वा अपां सदनं दिवि ह्यापः सन्ना दिवि तां सादयति॥
अपां त्वा सधस्थे सादयामीति अन्तरिक्षं वा अपां सधस्थमन्तरिक्षे तां सादयति॥
अपां त्वा योनौ सादयामीति॥
समुद्रो वा अपां योनिः समुद्रे तां सादयति॥
अपां त्वा पुरीषे सादयामीति॥
सिकता वा अपाम् पुरीषं सिकतासु तां सादयति॥
अपां त्वा पाथसि सादयामीति॥
अन्नं वा अपाम् पाथो ऽन्ने तां सादयति तद्या अस्यैतेभ्यो रूपेभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रूपाणि दधाति॥
गायत्रेण त्वा छन्दसा सादयामि॥
त्रैष्टुभेन त्वा छन्दसा सादयामि जागतेन त्वा छन्दसा सादयाम्यानुष्टुभेन त्वा छन्दसा सादयामि पाङ्क्तेन त्वा छन्दमा सादयामीति तद्या अस्यैतेभ्यश्छन्दोभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतच्छन्दांसि दधाति॥
ता एता अङ्गुलयः॥
ताः॥
सर्वत उपदधाति सर्वतो हीमा अङ्गुलयो ऽन्तेषूपदधात्यन्तेषु हीमा अङ्गुलयश्चतुर्धोपदधाति चतुर्धा हीमा अङ्गुलयः पञ्च-पञ्चोपदधाति पञ्च-पञ्च हीमा अङ्गुलयो नानोपदधाति नाना हीमा अङ्गुलयः सकृत्सकृत्सादयति समानं तत्करोति तस्मात्समानसम्बन्धनाः॥