०४

आत्मन्नग्निं गृह्णीते चेष्यन्॥
आत्मनो वा एतमधिजनयति यादृशाद्व जायते तादृङ्ङेव भवति स यदात्मन्नगृहीत्वाग्निं चिनुयान्मनुष्यादेव मनुष्यं जनयेन्मर्त्यान्मर्त्यमनपहतपाप्मनो ऽनपहतपाप्मानमथ यदात्मन्नग्निं गृहीत्वा चिनोति तदग्नेरेवाध्यग्निं जनयत्यमृतादमृतमपहतपाप्मनो ऽपहतपाप्मानम्॥
स गृह्णाति॥
मयि गृह्णाम्यग्रे अग्निमिति तदात्मन्नेवाग्रे ऽग्निं गृह्णाति रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति तदु सर्वा आशिष आत्मन्गृह्णीते मामु देवताः सचन्तामिति तदु सर्वान्देवानात्मन्गृह्णीते तद्यत्किं चात्मनो ऽधि जनयिष्यन्भवति तत्सर्वमात्मन्गृह्णीते स वै तिष्ठन्नात्मन्नग्निं गृहीत्वानूपविश्य चिनोति पशुरेष यदग्निस्तस्मात्पशुस्तिष्ठन्गर्भं धित्वानूपविश्य विजायते॥
अथ सत्यं साम गायति॥
एतद्वै देवा अब्रुवन्त्सत्यमस्य मुखं करवाम ते सत्यम् भविष्यामः सत्यं नो ऽनुवर्त्स्यति सत्यो नः स कामो भविष्यति यत्कामा एतत्करिष्यामह इति॥
त एतत्सत्यं साम पुरस्तादगायन्॥
तदस्य सत्यम् मुखमकुर्वंस्ते सत्यमभवन्त्सत्यमेनानन्ववर्तत सत्य एषां स कामो ऽभवद्यत्कामा एतदकुर्वत॥
तथैवैतद्यजमानः॥
यत्सत्यं साम पुरस्ताद्गायति तदस्य सत्यम् मुखं करोति स सत्यम् भवति सत्यमेनमनुवर्तते सत्यो ऽस्य स कामो भवति यत्काम एतत्कुरुते॥
तद्यत्तत्सत्यम्॥
आप एव तदापो हि वै सत्यं तस्माद्येनापो यन्ति तत्सत्यस्य रूपमित्याहुरप एव तस्य सर्वस्याग्रमकुर्वंस्तस्माद्यदैवापो यन्त्यथेदं सर्वं जायते यदिदं किं च॥
अथ पुष्करपर्णमुपदधाति॥
योनिर्वै पुष्करपर्णं योनिमेवैतदुपदधाति॥
यद्वेव पुष्करपर्णमुपदधाति॥
आपो वै पुष्करं तासामियम् पर्णं यथा ह वा इदम् पुष्करपर्णमप्स्वध्याहितमेवमियमप्स्वध्याहिता सेयं योनिरग्नेरियं ह्यग्निरस्यै हि सर्वो ऽग्निश्चीयत इमामेवैतदुपदधाति तामनन्तर्हितां सत्यादुपदधातीमां तत्सत्ये प्रतिष्ठापयति तस्मादियं सत्ये प्रतिष्ठिता तस्माद्वियमेव सत्यमियं ह्येवैषां लोकानामद्धातमाम्॥
अपाम् पृष्ठमसि योनिरग्नेरिति॥
अपां हीयम् पृष्ठं योनिर्हीयमग्नेः समुद्रमभितः पिन्वमानमिति समुद्रो होमामभितः पिन्वते वर्धमानो महां आ च पुष्कर इति वर्धमानो महीयस्व पुष्कर इत्येतद्दिवो मात्रया वरिम्णा प्रथस्वेत्यनुविमार्ष्ट्यसौ वा आदित्य एषो ऽग्निर्नो हैतमन्यो दिवो वरिमा यन्तुमर्हति द्यौर्भूत्वैनं यछेत्येवैतदाह स्वराजोपद्धाति स्वाराज्यं ह्यपां सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथ रुक्भमुपदधाति॥
असौ वा आदित्य एष रुक्भ एष हीमाः सर्वाः प्रजा अतिरोचते रोचो ह वै तं रुक्भ इत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवा अमुमेवैतदादित्यमुपदधाति स हिरण्मयो भवति परिमण्डल एकविंशतिनिर्बाधस्तस्योक्तो बन्धुरधस्तान्निर्बाधमुपदधाति रश्मयो वा एतस्य निर्बाधा अवस्तादु वा एतस्य रश्मयः॥
तम् पुष्करपर्ण उपदधाति॥
योनिर्वै पुष्करपर्णं योनावेवैनमेतत्प्रतिष्ठापयति॥
यद्वेव पुष्करपर्ण उपदधाति॥
प्रतिष्ठा वै पुष्करपर्णमियं वै पुष्करपर्णमियमु वै प्रतिष्ठा यो वा अस्यामप्रतिष्ठितो ऽपि दूरे सन्नप्रतिष्ठित एव स रश्मिभिर्वा एषो ऽस्याम् प्रतिष्ठितो ऽस्यामेवैनमेतत्प्रतिष्ठायाम् प्रतिष्ठापयति॥
यद्वेव पुष्करपर्ण उपदधाति॥
इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानो ऽपः प्राविशत्ता अब्रवीद्बिभेमि वै पुरम् मे कुरुतेति स यो ऽपां रस आसीत्तमूर्ध्वं समुदौहंस्तामस्मै पुरमकुर्वंस्तद्यदस्मै पुरमकुर्वंस्तस्मात्पूष्करम् पूष्करं ह वै तत्पुष्करमित्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवास्तद्यत्पुष्करपर्ण उपदधाति यमेवास्यैतमापो रसं समुदौहन्यामस्मै पुरमकुर्वंस्तस्मिन्नेवैनमेतत्प्रतिष्ठापयति॥
ब्रह्म जज्ञानम् प्रथमम् पुरस्तादिति॥
असौ वा आदित्यो ब्रह्माहरहः पुरस्ताज्जायते वि सीमतः सुरुचो वेन आवरिति मध्यं वै सीमेमे लोकाः सुरुचो ऽसावादित्यो वेनो यद्वै प्रजिजनिषमाणो ऽवेनत्तस्माद्वेनस्तानेष सीमतो मध्यतो विवृण्वन्नुदेति स बुध्न्या उपमा अस्य विष्ठा इति दिशो वा अस्य बुध्न्या उपमा विष्ठास्ता ह्येष उपवितिष्ठते सतश्च योनिमसतश्च विवरितीमे वै लोकाः सतश्च योनिरसतश्च यच्च ह्यस्ति यच्च न तदेभ्य एव लोकेभ्यो जायते त्रिष्टुभोपदधाति त्रैष्टभो ह्येष सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथ पुरुषमुपदधाति॥
स प्रजापतिः सो ऽग्निः स यजमानः स हिरण्मयो भवति ज्योतिर्वै हिरण्यं ज्योतिरग्निरमृतं हिरण्यममृतमग्निः पुरुषो भवति पुरुषो हि प्रजापतिः॥
यद्वेव पुरुषमुपदधाति॥
प्रजापतेर्विस्रस्ताद्रम्या तनूर्मध्यत उदक्रामत्तस्यामेनमुत्कान्तायां देवा अजहुस्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतां रम्यां तनूम् मध्यतो ऽदधुस्तस्यामस्य देवा अरमन्त तद्यदस्यैतस्यां रम्यायां तन्वां देवा अरमन्त तस्माद्धिरम्यं हिरम्यं ह वै तद्धिरण्यमित्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवास्तथैवास्मिन्नयमेतां रम्यां तनूम् मध्यतो दधाति तस्य:मस्य देवा रमन्ते प्राणो वा अस्य सा रम्या तनूः प्राणमेवास्मिन्नेतम् मध्यतो दधाति॥
तं रुक्भ उपदधाति॥
असौ वा आदित्य एष रुक्भो ऽथ य एष एतस्मिन्मण्डले पुरुषः स एष तमेवैतदुपदधाति॥
उत्तानमुपदधाति॥
एतद्वै देवा अब्रुवन्यदि वा इमावर्वाञ्चा उपधास्यामः सर्वमेवेदम् प्रधक्ष्यतो यद्यु पराञ्चौ पराञ्चावेव तप्स्यतो यद्यु सम्यञ्चावन्तरैवैतावेतज्ज्योतिर्भविष्यत्यथो अन्यो ऽन्यं हिंसिष्यत इति ते ऽर्वाञ्चमन्यमुपादधुः पराञ्चमन्यं स एष रश्मिभिरर्वाङ् तपति रुक्भः प्राणैरेष ऊर्ध्वः पुरुषः प्राञ्चमुपदधाति प्राङ् ह्येषो ऽग्निश्चीयते॥
हिरण्यगर्भः समवर्तताग्र इति॥
हिरण्यगर्भो ह्येष समवर्तताग्रे भूतस्य जातः पतिरेक आसीदित्येष ह्यस्य सर्वस्य भूतस्य जातः पतिरेक आसीत्स दाधार पृथिवीं द्यामुतेमामित्येष वै दिवं च पृथिवीं च दाधार कस्मै देवाय हविष विधेमेति प्रजा पतिर्वै कस्तस्मै हविषा विधेमेत्येतत्॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिति॥
असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीत्यमूमितीमामिमं च योनिमनु यश्च पूर्व इतीमं च लोकममुं चेत्येतदथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमचीयतेति समानं योनिमनु सञ्चरन्तमिति समानं ह्येप एतं योनिमनु सञ्चरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति॥
द्वाभ्यामुपदधाति॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपदधाति त्रिष्टुब्भ्यां त्रैष्टुभो ह्येष सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथ साम गायति॥
एतद्वै देवा एतम् पुरुषमुपधाय तमेतादृशमेवापश्यन्यथैतछुष्कं फलकम्॥
ते ऽब्रुवन्॥
उप तज्जानीत यथास्मिन्पुरुषे वीर्यं दधामेति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्पुरुषे वीर्यं दधामेति॥
ते चेतयमानाः॥
एतत्सामापश्यंस्तदगायंस्तदस्मिन्वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति पुरुषे गायति पुरुषे तद्वीर्यं दधाति चित्रे गायति सर्वाणि हि चित्राण्यग्निस्तमुपधाय न पुरस्तात्परीयान्नेन्मायमग्निर्हिनसदिति॥
अथ सर्पनामैरुपतिष्ठत॥
इमे वै लोकाः सर्पास्ते हानेन सर्वेण सर्पन्ति यदिदं किं च सर्वेषामु हैष देवानामात्मा यदग्निस्ते देवा एतमात्मानमुपधायाबिभयुर्यद्वै न इमे लोका अनेनात्मना न सुर्पेयुरिति॥
त एतानि सर्पनामान्यपश्यन्॥
तैरुपातिष्ठन्त तैरस्मा इमांलोकानस्थापयंस्तैरनमयन्यदनमयंस्तस्मात्सर्पनामानि तथैवैतद्यजमानो यत्सर्पनामैरुपतिष्ठत इमानेवास्मा एतल्लोकान्त्स्थापयतीमांलोकान्नमयति तथो हास्यैत एतेनात्मना न सर्पन्ति॥
यद्वेव सर्पनामैरुपतिष्ठत॥
इमे वै लोकाः सर्पा यद्धि किं च सर्पत्येष्वेव तल्लोकेषु सर्पति तद्यत्सर्पनामैरुपतिष्ठते यैवैषु लोकेषु नाष्ट्रा यो व्यद्वरो या शिमिदा तदेवैतत्सर्वं शमयति॥
नमो ऽस्तु सर्पेभ्यो ये के च पृथिवीमनु॥
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नम इति य एवैषु त्रिषु लोकेषु सर्पास्तेभ्य एतन्नमस्करोति॥
या इषवो यातुधानानामिति॥
यातुधानप्रेषिता हैके दशन्ति ये वा वनस्पतीम्रनु ये वावटेषु शेरते तेभ्यः सर्पेभ्यो नम इति ये चैव वनस्पतिषु सर्पा ये चावटेषु शेरते तेभ्य एतन्नमस्करोति॥
ये वामी रोचने दिवो॥
ये वा सूर्यस्य रश्मिषु येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नम इति यत्र यत्रैते तदेवैभ्य एतन्नमस्करोति नमो नम इति यज्ञो वै नमो यज्ञेनैवैनानेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञिय ब्रूयान्नमस्त इति यथा हैनम् ब्रूयाद्यज्ञस्त इति तादृक्तत्॥
त्रिभिरुपतिष्ठते॥
त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मा एतदिमांलोकान्त्स्थापयत्यथो तावतैवैतदिदम् मर्वं शमयति तिष्ठन्नुपतिष्ठते तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरः॥
अथैनमुपविश्याभिजुहोति॥
आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः सर्वतः परिसर्पं सर्वाभ्य एवैनमेतद्दिग्भ्यो ऽन्नेन प्रीणाति॥
यद्वेवैनमभिजुहोति॥
एतद्वै देवा एतमात्मानमुपधायाबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्राक्षोघ्नान्प्रतिसरानपश्यन्कृणुष्व पाजः प्रसितिं न पृथ्वीमिति राक्षोघ्ना वै प्रतिसरास्त एतैः प्रतिसरैः सर्वाभ्यो दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एतैः प्रतिसरैः सर्वाभ्यो दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र एतमात्मानं सं स्कुरुते॥
आज्येन जुहोति॥
वज्रो वा आज्यं वज्रेणैवैतप्रक्षांसि नाष्ट्रा अपहन्ति पञ्चगृहीतेन पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्रक्षांसि नाष्ट्रा अपहन्त्याग्नेयीभिरग्निर्वै ज्योती रक्षोहाग्निनैवैतद्रक्षांसि नाष्ट्रा अपहन्ति त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैवैतद्रक्षांसि नाष्ट्रा अपहन्ति सर्वतः परिसर्पं सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहन्ति॥
पश्चादग्नेः प्राङासीनो॥
ऽथोत्तरतो दक्षिणाथ पुरस्तात्प्रत्यङ्ङथ जघनेन परीत्य दक्षिणत उदङ्ङासीनस्तद्दक्षिणावृत्तद्धि देवत्राथानुपरीत्य पश्चात्प्राङासीनस्तथो हास्यैतत्प्रागेव कर्म कृतम् भवति॥
अथ स्रुचा उपदधाति॥
बाहू वै स्रुचौ बाहू एवास्मिन्नेतत्प्रतिदधाति ते यत्स्रुचौ भवतः स्रुचौ हि बाहू इदमेव कपुछलमयं दण्दो द्वे भवतो द्वौ हीमौ बाहू पाश्वत उपदधाति पार्श्वतो हीमौ बाहू॥
कार्ष्मर्यमयीं दक्षिणत उपदधाति॥
एतद्वै देवा अबिभयुर्यद्वै नो यज्ञं दक्षिणतो रक्षांसि नाष्ट्रा न हन्युरिति त एतं रक्षोहणं वनस्पतिमपश्यन्कार्ष्मर्यं त एतेन वनस्पतिना दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र एतं यज्ञमतन्वत तथैवैतद्यजमान एतेन वनस्पतिना दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र एतं यज्ञं तनुत आज्येन पूर्णा भवति वज्रो वा आज्यं वज्रेणैवैतद्दक्षिणतो रक्षांसि नाष्ट्रा अपहन्ति॥
अथौदुम्बरीमुत्तरत उपदधाति॥
ऊर्ग्वै रस उदुम्बर ऊर्जमेवास्मिन्नेतद्रसं दधाति दध्ना पूर्णा भवति रसो वै दधि रसमेवास्मिन्नेतद्दधाति॥
यद्वेव स्रुचा उपदधाति॥
प्रजापतेर्विस्रस्तस्याग्निस्तेज आदाय दक्षिणाकर्षत्सो ऽत्रोदरमद्यत्कृष्ट्वोदरमत्तस्मात्कार्ष्मर्यो ऽथास्येन्द्र ओज आदायोदङ्ङदक्रामत्स उदुम्बरो ऽभवत्॥
तावब्रवीत्॥
उप मेतम् प्रति म एतद्धत्तं येन मे युवमुदक्रमिष्टमिति ताभ्यां वै नौ सर्वमन्नम् प्रयछेति तौ वै मा बाहू भूत्वा प्रपद्येथामिति तथेति ताभ्यां वै सर्वमन्नम् प्रायछत्तावेनम् बाहू भूत्वा प्रापद्येतां तस्माद्बाहुभ्यामेवान्नं क्रियते बाहुभ्यामद्यते बाहुभ्यां हि स सर्वमन्नम् प्रायछत्॥
स कार्ष्मर्यमयीं दक्षिणत उपदधाति॥
अग्नेष्ट्वा तेजसा सादयामीति यदेवास्य तदग्निस्तेज आदाय दक्षिणाकर्षत्तदस्मिन्नेतत्प्रतिदधात्यग्निर्मूर्धा दिवः ककुदित्येष उ सो ऽग्निर्गायत्र्या गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधाति घृतेन पूर्णा भवत्याग्नेयं वै घृतं स्वेनैवैनमेतद्भागेन स्वेन रमेन प्रीणाति॥
अथौदुम्बरीमुत्तरत उपदधाति॥
इन्द्रस्य त्वौजसा सादयामीति यदेवास्य तदिन्द्र ओज आदायोदङ्ङुदक्रामत्तदस्मिन्नेतत्प्रतिदधाति भुवो यज्ञस्य रजसश्च नेतेत्येष उ स इन्द्रः सा यदाग्नेय्यग्निकर्म ह्यथ यत्त्रिष्टुप्त्रैष्टुभो हीन्द्र ऐन्द्राग्नो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधातीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधाति दध्ना पूर्णा भवत्यैन्द्रं वै दधि स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति॥
तावस्यैताविन्द्राग्नी एव बाहू॥
तावेनं तेजसा च वीर्येण च सह प्रपद्येते स सम्प्रत्युरः पुरुषमाकाश्य यत्राभ्याप्नोति तदालिख्यैने उपदधात्येष हैतयोर्लोकः॥
ते हैके तिरश्च्या उपदधति॥
तिर्यञ्चौ वा इमौ बाहू इति न तथा कुर्यात्प्राच्यावेवोपदध्यात्प्राङ् ह्येषो ऽग्निश्चीयते ऽथो एवं वै बाहू वीर्यवत्तरौ ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमौ बाहू॥
तदाहुः॥
नैतस्य पुरुषस्य बाहू कुर्यादेतौ वा अस्य बाहू ये एते स्रुचौ नेदतिरेचयानीति स वै कुर्यादेवैतौ वा अस्य बाहू अन्वेते स्रुचावथो एतौ पक्षावथो यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति यान्त्स्तोमान्यानि पृष्ठानि यानि छन्दांस्येतयोरेव सा संस्कृतिरेतयोर्वृद्धिस्तस्मादु कुर्यादेवैतस्य पुरुषस्य बाहू॥
स्वयमातृणामुपदधाति॥
इयं वै स्वयमातृणेमामेवैतदुपदधाति तामनन्तर्हिताम् पुरुषादुपदधात्यन्नं वै स्वयमातृणेयं वै स्वयमातृणेयमु वा अन्नमस्यां हि सर्वमन्नम् पच्यते ऽनन्तर्हितमेवास्मादेतदन्न दधात्युत्तरामुत्तरमेवास्मादेतदन्नं दधाति॥
यद्वेव स्वयमातृणामुपदधाति॥
प्राणो वै स्वयमातृणा प्राणो ह्येवैतत्स्वयमात्मन आतृन्त्ते प्राणमेवैतदुपदधाति तामनन्तर्हिताम् पुरुषादुपदधाति प्राणो वै स्वयमातृणेयं वै स्वयमातृणेयमु वै प्राणो यद्धि किं च प्राणीयं तत्सर्वम् बिभर्त्यनन्तर्हितमेवास्मादेतत्प्राणं दधात्युत्तरामुत्तरमेवास्मादेतत्प्राणं दधाति॥
यद्वेव स्वयमातृणामुपदधाति॥
प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तासु व्युत्क्रामन्तीषु प्रतिष्ठामभिपद्योपाविशत्॥
स यः स प्रजापतिर्व्यस्रंसत॥
अयमेव स यो ऽयमग्निश्चीयते ऽथ या सा प्रतिष्ठैषा सा प्रथमा स्वयमातृणा तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति॥
तां वै प्रजापतिनोपदधाति॥
प्रजापतिर्ह्येवैतत्स्वयमात्मनः प्रत्यधत्त ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति धरुणेति प्रतिष्ठा वै धरुणमास्तृता विश्वकर्मणेति प्रजापतिर्वै विश्वकर्मा तेनास्तृतासीत्येतन्मा त्वा समुद्र उद्वधीन्मा सुपर्ण इति रुक्भो वै समुद्रः पुरुषः सुपर्णस्तौ त्वा मोद्वधिष्टामित्येतदव्यथमाना पृथिवीं दृंहेति यथैव यजुस्तथा बन्धुः॥
प्रजापतिष्ट्वा सादयत्विति॥
प्रजापतिर्ह्येताम् प्रथमां चितिमपश्यदपाम् पृष्ठे समुद्रस्येमन्नित्यपां हीयम् पृष्ठं समुद्रस्य हीयमेम व्यचस्वतीम् प्रथस्वतीमिति व्यचस्वती च हीयम् प्रथस्वती च प्रथस्व पृथिव्यसीति प्रथस्व पृथिवी चासीत्येतत्॥
भूरसीति॥
भूर्हीयम् भूमिरसीति भूमिर्हीयमदितिरसीतीयं वा अदितिरियं हीदं सर्वं ददते विश्वधाया इत्यस्यां हीदं सर्वं हितं विश्वस्य भुवनस्य धर्त्रीति सर्वस्य भुवनस्य धर्त्रीत्येतत्पृथिवीं यछ पृथिवीं दृंह पृथिवीम् मा हिंसीरित्यात्मानं यछात्मानं दृंहात्मानम् मा हिंसीरित्येतत्॥
विश्वस्मै प्राणायापानाय॥
व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः प्रतिष्ठा चरित्रमग्निष्ट्वाभिपात्वित्यग्निष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छर्दिषा शन्तमेनेति यच्छर्दिः शन्तमं तेनेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः॥
तदाहुः॥
कथमेप पुरुषः स्वयमातृणयानभिनिहितो भवतीत्यन्नं वै स्वयमातृणा प्राणः स्वयमातृणानभिनिहितो व् ऐ पुरुषो ऽन्नेन च प्राणेन च॥
अथ दूर्वेष्टकामुपदधाति॥
पशवो वै दूर्वेष्टका पशूनेवैतदुपदधाति तद्यैरदो ऽग्निरनन्तर्हितैः पशुभिरुपैत्त एते तानेवैतदुपदधाति तामनन्तर्हितां स्वयमातृणाया उपदधातीयं वै स्वयमातृणानन्तर्हितांस्तदस्यै पशून्दधात्युत्तरामुत्तरांस्तदस्यै पशून्दधाति॥
यद्वेव दूर्वेष्टकामुपदधाति॥
प्रजापतेर्विस्रस्तस्य यानि लोमान्यशीयन्त ता इमा ओषधयो ऽभवन्नथास्मात्प्राणो मध्यत उदक्रामत्तस्मिन्नुत्क्रान्ते ऽपद्यत॥
सो ऽब्रवीत्॥
अयं वाव माधूर्वीदिति यदब्रवीदधूर्वीन्मेति तस्माद्धूर्वा धूर्वा ह वै तां दूर्वेत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवास्तदेतत्क्षत्रम् प्राणो ह्येष रसो लोमान्यन्या ओषधय एतामुपदधत्सर्वा ओषधीरुपदधाति॥
तं यत्र देवाः समस्कुर्वम्॥
स्तदस्मिन्नेतम् प्राणं रसम् मध्यतो ऽदधुस्तथैवास्मिन्नयमेतद्दधाति तामनन्तर्हितां स्वयमातृणाय उपदधातीयं वै स्वयमातृणानन्नर्हितास्तदस्या ओषधीर्दधात्युत्तरामुत्तरास्तदस्या ओषधीर्दधाति सा स्यात्समूला साग्रा कृत्स्नतायै यथा स्वयमातृणायामुपहिता भूमिम् प्राप्नुयादेवमुपदध्यादस्यां ह्येवैता जायन्त इमामनु प्ररोहन्ति॥
काण्डात्काण्डात्प्ररोहन्ती॥
परुषः-परुषस्परीति काण्डात्काण्डाद्ध्येषा पर्वणः-पर्वणः प्ररोहत्येवा नो पूर्वे प्रतनु सहस्रेण शतेन चेति यथैव यजुस्तथा बन्धुः॥
या शतेन प्रतनोषि॥
सहस्रेण विरोहसीति शतेन ह्येषा प्रतनोति सहस्रेण विरोहति तस्यास्ते देवीष्टके विधेम हविषा वयमिति यथैव यजुस्तथा बन्धुर्द्वाभ्यामुपदधाति तस्योक्तो बन्धुः सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथ द्वियजुषमुपदधाति॥
इन्द्राग्नी अकामयेतां स्वर्गं लोकमियावेति तावेतामिष्टकामपश्यतां द्वियजुषमिमामेव तामुपादधातां तामुपधायास्यै प्रतिष्ठायै स्वर्गं लोकमैतां तथैवैतद्यजमानो यद्द्वियजुषमुपदधाति येन रूपेण यत्कर्म कृत्वेन्द्राग्नी स्वर्गं लोकमैतां तेन रूपेण तत्कर्म कृत्वा स्वर्गं लोकमयानीति सा यद्द्वियजुर्नाम द्वे ह्येतां देवते अपश्यतां यद्वेव द्वियजुषमुपदधाति यजमानो वै द्वियजुः॥
तदाहुः॥
यदसावेव यजमानो यो ऽसौ हिरण्मयः पुरुषो ऽथ कतमदस्येदं रूपमिति दैवो वा अस्य स आत्मा मनुषो ऽयं तद्यत्स हिरण्मयो भवत्यमृतं वा अस्य तद्रूपं देवरूपममृतं हिरण्यमथ यदियम् मृदः कृता भवति मानुषं ह्यस्येदं रूपम्॥
स यदमूमेवोपदध्यात्॥
नेमामपशिंष्यात्क्षिप्रे हास्माल्लोकाद्यजमानः प्रेयादथ यदिमामपशिनष्टि यदेवास्येदम् मानुषं रूपं तदस्यैतदपशिनष्टि तथो हानेनात्मना सर्वमायुरेति॥
स यन्नानूपदध्यात्॥
न हैतं दैवमात्मानमनुप्रजानीयादथ यदनूपदधाति तथो हैतं दैवमात्मानमनुप्रजानाति तामनन्तर्हितां दूर्वेष्टकाया उपदधाति पशवो वै दूर्वेष्टका यजमानं तत्पशुषु प्रतिष्ठापयति॥
तदाहुः॥
कथमस्यैतावात्मानौ प्राणेन सन्ततावव्यवछिन्नौ भवत इति प्राणो वै स्वयमातृणा प्राणो दूर्वेष्टका यजमानो द्वियजुः स यदनन्तर्हितां स्वयमातृणायै दूर्वेष्टकामुपदधाति प्राणेणैव तत्प्राणं सन्तनोति सन्दधात्यथ यदनन्तर्हितां दूर्वेष्टकायै द्वियजुषमुपदधाति प्राणो वै दूर्वेष्टका यजमानो द्वियजुरेवमु हास्यैतावात्मानौ प्राणेन सन्ततावव्यवछिन्नौ भवतः॥
यास्ते अग्ने सूर्ये रुचो॥
या वो देवाः सूर्ये रुच इति रुचं रुचमित्यमृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद्दधाति द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो द्वयं ह्येवैतद्रूपम् मृच्चापश्च सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथ रेतःसिचा उपदधाति॥
इमौ वै लोकौ रेतःसिचाविमौ ह्येव लोकौ रेतः सिञ्चत इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमं सामुत्र वृष्टिर्भवति तामसावमुतो वृष्टिं तदिमा अन्तरेण प्रजायन्ते तस्मादिमौ लोकौ रेतःसिचौ॥
विराड्ज्योतिरधारयदिति॥
अयं वै लोको विराट् स इममग्निं ज्योतिर्धारयति स्वराड्ज्योतिरधारयदित्यसौ वै लोकः स्वराट् सो मुमादित्यं ज्योतिर्धारयति विराड्वहेमौ लोकौ स्वराट्च नानोपदधाति नाना हीमौ लोकौ सकृत्सादयति समानं तत्करोति तस्मादु हानयोर्लोकयोरन्ताः समायन्ति॥
यद्वेव रेतःसिचा उपदधाति॥
आण्डौ वै रेतःसिचौ यस्य ह्याण्डौ भवतः स एव रेतः सिञ्चति विराड्ज्योतिरधारयत्स्वराड्ज्योतिरधारयदिति विराड्वहेमावाण्डौ स्वराट्च तावेतज्ज्योतिर्धारयतो रेत एव प्रजापतिमेव नानोपदधाति नाना होमावाण्डौ सकृत्सादयति समानं तत्करोति तस्मात्समानसम्बन्धनौ ते अनन्तर्हिते द्वियजुष उपदधाति यजमानो वै द्वियजुरनन्तर्हितौ तद्यजमानादाण्डौ दधाति॥
अथ विश्वज्योतिषमुपदधाति॥
अग्निर्वै प्रथमा विश्वज्योतिरग्निर्ह्येवास्मिंलोके विश्वं ज्योतिरग्निमेवैतदुपदधाति तामनन्तर्हितां रेतःसिग्भ्यामुपदधातीमौ वै लोकौ रेतःसिचावनन्तर्हितं तदाभ्यां लोकाभ्यामग्निं दधात्यन्तरेवोपदधात्यन्तरेव हीमौ लोकावग्निः॥
यद्वेव विश्वज्योतिषमुपदधाति॥
प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतदुपदधाति तामनन्तर्हितां रेतःसिग्भ्यामुपदधात्याण्डौ वै रेतःसिचावनन्तर्हितां तदाण्डाभ्याम् प्रजातिं दधात्यन्तरेवोपदधात्यन्तरेव ह्याण्डौ प्रजाः प्रजायन्ते॥
प्रजापतिष्ट्वा सादयत्विति॥
प्रजापतिर्ह्येताम् प्रथमां चितिमपश्यत्पृष्ठे पृथिव्या ज्योतिष्मतीमिति पृष्ठे ह्ययम् पृथिव्यै ज्योतिष्मानग्निः॥
विश्वस्मै प्राणायापानाय॥
व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ एतस्मै प्राणो विश्वं ज्योतिर्यछेति सर्वं ज्योतिर्यछेत्येतदग्निष्टे ऽधिपतिरित्यग्निमेवास्या अधिपतिं करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
अथ ऽर्तव्ये उपदधाति॥
ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति मधुश्च माधवश्च वासन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति॥
तद्यदेते अत्रोपदधाति॥
संवत्सर एषो ऽग्निरिम उ लोकाः संवत्सरस्तस्यायमेव लोकः प्रथमा चितिरयमस्य लोको वसन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति॥
यद्वेवैते अत्रोपदधाति॥
प्रजापतिरेषो ऽग्निःसंवत्सर उ प्रजापतिस्तस्य प्रतिष्ठैव प्रथमा चितिः प्रतिष्ठो अस्य वसन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति ते अनन्तर्हिते विश्वज्योतिष उपदधाति प्रजा वै विश्वज्योतिरनन्तर्हितास्तत्प्रजा ऋतुभ्यो दधाति तस्मात्प्रजा ऋतूनेवानुप्रजायन्त ऋतुभिर्ह्येव गर्भे सन्तं सम्पश्यन्त्युतुभिर्जातम्॥
अथाषाढामुपदधाति॥
इयं वा अषाढेमामेवैतदुपदधाति ताम् पूर्वार्ध उपदधाति प्रथमा हीयमसृज्यत॥
सा यदषाढा नाम॥
देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवा एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत तामुपधायासुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त यदसहन्त तस्मादषाढा तथैवैतद्यजमान एतामुपधाय दिषन्तम् भ्रातृव्यमस्मात्सर्वस्मात्सहते॥
यद्वेवाषाढामुपदधाति॥
वाग्वा अषाढा वाचैव तद्दैवा असुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त तथैवैतद्यजमानो वाचैव द्विषन्तम् भ्रातृव्यमस्मात्सर्वस्मात्सहते वाचमेव तद्देवा उपादधत तथैवैतद्यजमानो वाचमेवोपधत्ते॥
सेयं वामभृत्॥
प्राणा वै वामं यद्धि किं च प्राणीयं तत्सर्वम् बिभर्ति तेनेयं वामभृद्वाग्घ त्वेव वाभृत्प्राणा वै वामं वाचि वै प्राणेभ्यो ऽन्नं धीयते तस्माद्वाग्वामभृत्॥
त एते सर्वे प्राणा यदषाढा॥
ताम् पूर्वार्ध उपदधाति पुरस्तात्तत्प्राणान्दधाति तस्मादिमे पुरस्तात्प्राणास्तान्नान्यया यजुष्मत्येष्टकया पुरस्तात्प्रत्युपदध्यादेतस्यां चितौ नेत्प्राणानपिदधानीति॥
यद्वपस्याः पञ्च पुरस्तादुपदधाति॥
अन्नं वा आपो ऽनपिहिता वा अन्नेन प्राणास्तामनन्तर्हितामृतव्याभ्यामुपदधात्यृतुषु तद्वाचम् प्रतिष्ठापयति सेयं वागृतुषु प्रतिष्ठिता वदति॥
तदाहुः॥
यत्प्रजा विश्वज्योतिर्वागषाढाय कस्मादन्तरेण ऽर्तव्ये उपदधातीति संवत्सरो वा ऋतव्ये संवत्सरेण तत्प्रजाभ्यो वाचमन्तर्दधाति तस्मात्संवत्सरवेलायाम् प्रजा वाचम् प्रवदन्ति॥
अषाढासि सहमानेति॥
असहन्त ह्येतया देवा असुरान्त्सहस्वारातीः सहस्व पृतनायत इति यथैव यजुस्तथा बन्धुः सहस्रवीर्यासि सा मा जिन्वेति सर्वं वै सहस्रं सर्ववीर्यासि सा मा जिन्वेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः॥
तदाहुः॥
कस्मादभिस्वयमातृणमन्या इष्टका उपधीयन्ते प्राच्य एता इति द्वे वै योनी इति ब्रूयाद्देवयोनिरन्यो मनुष्ययोनिरन्यः प्राचीनप्रजनना वै देवाः प्रतीचीनप्रजनना मनुष्यास्तद्यदेताः प्राचीरुपदधाति देवयोनेरेवैतद्यजमानम् प्रजनयति॥