चितो गार्हपत्यो भवति॥
अचित आहवनीयो ऽथ राजानं क्रीणात्ययं वै लोको गार्हपत्यो द्यौराहवनीयो ऽथ यो ऽयं वायुः पवत एष सोम एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण पवते॥
यद्वेव चिते गार्हपत्ये॥
अचित आहवनीये ऽथ राजानं क्रीणात्यात्मा वा अग्निः प्राणः सोम आत्मंस्तत्प्राणम् मध्यतो दधाति तस्मादयमात्मन्प्राणो मध्यतः॥
यद्वेव चिते गार्हपत्ये॥
अचित आहवनीये ऽथ राजानं क्रीणात्यात्मा वा अग्नी रसः सोम आत्मानं तद्रसेनानुषजति तस्मादयमान्तमेवात्मा रसेनानुषक्तः॥
राजानं क्रीत्वा पर्युह्य॥
अथास्मा आतिथ्यं हविर्निर्वपति तस्य हविष्कृता वाचं विसृजते ऽथ वा एतद्व्यतिषजत्यध्वरकर्म चाग्निकर्म च कर्मणः समानतायै समानमिदं कर्मासदिति॥
यद्वेव व्यतिषजति॥
आत्मा वा अग्निः प्राणो ऽध्वर आत्मंस्तत्प्राणम् मध्यतो दधाति तस्मादयमात्मन्प्राणो मध्यतः॥
यद्वेव व्यतिषजति॥
आत्मा वा अग्नी रसो ऽध्वर आत्मानं तद्रसेनानुषजति तस्मादयमान्तमेवात्मा रसेनानुषक्तो ऽथाहवनीयस्यार्धमैति॥
तद्धैके॥
उभयत्रैव पलाशशाखया व्युदूहन्त्युभयत्र वै चिनोतीति न तथा कुर्यादवस्यति वाव गार्हपत्येनोर्ध्व एवाहवनीयेन रोहति तस्मात्तथा न कुर्यात्॥
अथ गार्हपत्य एवोषान्निवपति॥
नाहवनीये ऽयं वै लोको गार्हपत्यः पशव ऊषा अस्मिंस्तल्लोके पशून्दधाति तस्मादिमे ऽस्मिंलोके पशवः॥
अथाहवनीय एव पुष्करपर्णमुपदधाति॥
न गार्हपत्य आपो वै पुष्करपर्णं द्यौराहवनीयो दिवि तदपो दधात्युभयत्र सिकता निवपति रेतो वै सिकता उभयत्र वै विक्रियते तस्माद्रेतसो ऽधि विक्रियाता इति॥
ता नाना मन्त्राभ्यां निवपति॥
मनुष्यलोको वै गार्हपत्यो देवलोक आहवनीयो नानो वा एतद्यद्दैवं च मानुषं च द्राघीयसा मन्त्रेणाहवनीये निवपति ह्रसीयसा गार्हपत्ये द्राघीयो हि देवायुषं ह्रसीयो मनुष्यायुषं स पूर्वाः परिश्रिद्भ्यो गार्हपत्ये सिकता निवपति रेतो वै सिकता अस्माद्रेतसो ऽदीमा विक्रियान्ता इति॥
तदाहुः॥
यद्योनिः परिश्रितो रेतः सिकता अथ पूर्वाः परिश्रिद्भ्यो गार्हपत्ये सिकता निवपति कथमस्यैतद्रेतो ऽपरासिक्तम् परिगृहीतम् भवतीत्युल्बं वा ऊषास्तद्यदूषान्पूर्वान्निवपत्येतेनो हास्यैतदुल्बेन रेतो ऽपरासिक्तम् परिगृहीतम् भवत्यथाहवनीये परिश्रितो ऽभिमन्त्रयते तस्योक्तो बन्धुरथ सिकता निवपति रेतो वै सिकता एतयो अस्यैतद्योन्या रेतो ऽपरासिक्तम् परिगृहीतम् भवति॥
अथाहवनीय एवाप्यानवतीभ्यामभिमृशति॥
न गार्हपत्ये ऽयं वै लोको गार्हपत्यः स्वर्गो लोक आहवनीयो ऽद्धो वा अयमस्मिंलोके जातो यजमानः स्वर्ग एव लोके प्रजिजनयिषितव्यस्तद्यदाहवनीय एवाप्यानवतीभ्यामभिमृशति न गार्हपत्ये स्वर्ग एवैनं तल्लोके प्रजनयति॥
अथ लोगेष्टका उपदधाति॥
इमे वै लोका एषो ऽग्निर्दिशो लोगेष्टका एषु तल्लोकेषु दिशो दधाति तस्मादिमा एषु लोकेषु दिशः॥
बाह्येनाग्निमाहरति॥
आप्ता वा अस्य ता दिशो या एषु लोकेष्वथ या इमांलोकान्परेण दिशस्ता अस्मिन्नेतद्दधाति॥
बहिर्वेदेरियं वै वेदिः॥
आप्ता वा अस्य ता दिशो या अस्यामथ या इमाम् परेण दिशस्ता अस्मिन्नेतद्दधाति॥
यद्वेव लोगेष्टका उपदधाति॥
प्रजापतेर्विस्रस्तस्य सर्वा दिशो रसो ऽनु व्यक्षरत्त यत्र देवाः समस्कुर्वंस्तदस्मिन्नेताभिर्लोगेष्टकाभिस्तं रसमदधुस्तथैवास्मिन्नयमेतद्दधाति॥
बाह्येनाग्निमाहरति॥
आप्तो वा अस्य स रसो य एषु लोकेष्वथ य इमांलोकान्पराङ्रसो ऽत्यक्षरत्तमस्मिन्नेतद्दधाति॥
बहिर्वेदेरियं वै वेदिः॥
आप्तो वा अस्य स रसो यो ऽस्यामथ य इमाम् पराङ्रसो ऽत्यक्षरत्तमस्मिन्नेतद्दधाति॥
स्फ्येनाहरति॥
वज्रो वै स्फ्यो वीर्यं वै वज्रो वित्तिरियं वीर्येण वै वित्तिं विन्दते॥
स पुरस्तादाहरति॥
मा मा हिंसीज्जनिता यः पृथिव्या इति प्रजापतिर्वै पृथिव्यै जनिता मा मा हिंसीत्प्रजापतिरित्येतद्यो वा दिवं सत्यधर्मा व्यानडिति यो वा दिवं सत्यधर्मासृजतेत्येतद्यश्चापश्चन्द्राः प्रथमो जजानेति मनुष्या वा आपश्चन्द्रा यो मनुष्यान्प्रथमो ऽसृजतेत्येतत्कस्मै देवाय हविषा विधेमेति प्रजापतिर्वै कस्तस्मै हविषा विधेमेत्येतत्तामाहृत्यान्तरेण परिश्रित आत्मन्नुपदधाति स यः प्राच्यां दिशि रसो ऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो प्राचीमेवास्मिन्नेतद्दिशं दधाति॥
अथ दक्षिणतः॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सहेति यथैव यजुस्तथा बन्धुर्वपां ते अग्निरिषितो अरोहदिति यद्वै किं चास्यां सास्यै वपा तामग्निरिषित उपादीप्तो रोहति तामाहृत्यान्तरेण पक्षसन्धिमात्मन्नुपदधाति स यो दक्षिणायां दिशि रसो ऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो दक्षिणामेवास्मिन्नेतद्दिशं दधाति॥
अथ पश्चात्॥
अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियमितीयं वा अग्निरस्यै तदाह तद्देवेभ्यो भरामसीति तदस्मै दैवाय कर्मणे हराम इत्येतत्तामाहृत्यान्तरेण पुछसन्धिमात्मन्नुपदधाति स यः प्रतीच्यां दिशि रसो ऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो प्रतीचीमेवास्मिन्नेतद्दिशं दधाति स न सम्प्रति पश्चादाहरेन्नेद्यज्ञपथाद्रसमाहराणीतीत इवाहरति॥
अथोत्तरतः॥
इषमूर्जमहमित आदमितीषमूर्जमहमित आदद इत्येतदृतस्य योनिमिति सत्यं वा ऋतं सत्यस्य योनिमित्येतन्महिषस्य धारामित्यग्निर्वै महिषः स हीदं जातो महान्त्सर्वमैष्णादा मा गोषु विशत्वा तनूष्वित्यात्मा वै तनूरा मा गोषु चात्मनि च विशत्वित्येतज्जहामि सेदिमनिराममीवामिति सिकताः प्रध्वंसयति तद्यैव सेदिर्यानिरा यामीवा तामेतस्यां दिशि दधाति तस्मादेतस्यां दिशि प्रजा अशनायुकास्तामाहृत्यान्तरेण पक्षसन्धिमात्मन्नुपदधाति स य उदीच्यां दिशि रसो ऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो उदीचीमेवास्मिन्नेतद्दिश दधाति॥
ता एता दिशः॥
ताः सक्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः सर्वतः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशस्ता नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हि दिशस्तिष्ठन्नुपदधाति तिष्ठन्तीव हि दिशो ऽथो तिष्ठन्वै वीर्यवत्तरः॥
ता एता यजुष्मत्य इष्टकाः॥
ता आत्मन्नैवोपदधाति न पक्षपुछेष्वात्मन्ह्येव यजुष्मत्य इष्टका उपधीयन्ते न पक्षपुछेषु॥
तदाहुः॥
कथमस्यैताः पक्वाः शृता उपहिता भवन्तीति रसो वा एताः स्वयंशृत उ वै रसो ऽथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगछति तत एव तत्पक्वं शृतमुपहितम् भवति॥
अथोत्तरवेदिं निवपति॥
इयं वै वेदिर्द्यैरुत्तरवेदिर्दिशो लोगेष्टकास्तद्यदन्तरेण वेदिं चोत्तरवेदिं च लोगेष्टका उपदधातीमौ तल्लोकावन्तरेण दिशो दधाति तस्मादिमौ लोकावन्तरेण दिशस्तां युगमात्रीं वा सर्वतः करोति चत्वारिंशत्पदां वा यतरथा कामयेताथ सिकता निवपति तस्योक्तो बन्धुः॥
ता उत्तरवेदौ निवपति॥
योनिर्वा उत्तरवेदिर्योनौ तद्रेतः सिञ्चति यद्वै योनौ रेतः सिच्यते तत्प्रजनिष्णु भवति ताभिः सर्वमात्मानम् प्रछादयति सर्वस्मिंस्तदात्मन्रेतो दधाति तस्मात्सर्वस्मादेवात्मनो रेतः सम्भवति॥
अग्ने तव श्रवो वय इति॥
धूमो वा अस्य श्रवो वयः स ह्येनममुष्मिंलोके श्रावयति महि भ्राजन्ते अर्चयो विभावसावेति महतो भ्राजन्ते ऽर्चयः प्रभूवसवित्येतद्बृहद्भानो शवसा वाजमुक्थ्यमिति बल वै शवो बृहद्भानो वलेनान्नमुक्थ्यमित्येतद्दधासि दाशुषे कव इति यजमानो वै दाश्वान्दधासि यजमानाय कव इत्येतत्॥
पावकवर्चाः शुक्रवर्चा इति॥
पवकवर्चा ह्येष शुक्रवर्चा अनूनवर्चा उदियर्षि भानुनेत्यनूनवर्चा उद्दीप्यसे भानुनेत्येतत्पुत्रो मातरा विचरन्नुपावसीति पुत्रो ह्येष मातरा विचरन्नुपावति पृणक्षि रोदसी उभे इतीमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमाम्॥
ऊर्जो नपाज्जातवेदः सुशस्तिभिरिति॥
ऊर्जो नपाज्जातवेदः सुष्टुतिभिरित्येतन्मन्दस्व धीतिभिर्हित इति दीप्यस्व धीतिभिर्हित इत्येतत्त्वे इषः सन्दधुर्भूरिवर्वस इति त्वे इषः सन्दधुर्बहुवर्पस इत्येतच्चित्रोतयो वामजाता इति यथैव यजुस्तथा बन्धुः॥
इरज्यन्नग्ने प्रथयस्व जन्तुभिरिति॥
मनुष्या वै जन्तवो दीप्यमानो ऽग्ने प्रथस्व मनुष्यैरित्येतदस्मे रायो अमर्त्येत्यस्मे रयिं दधदमर्त्येतत्सदर्शतस्य वपुशो विराजसीति दर्शतस्य ह्येष वपुषो विराजति पृणक्षि सानसिं क्रतुमिति पृणक्षि सनातनं क्रतुमित्येतत्॥
इष्कर्तारमध्वरस्य प्रचेतसमिति॥
अध्वरो वै यज्ञः प्रकल्पयितारं यज्ञस्य प्रचेतसमित्येतत्क्षयन्तं राधसो मह इति क्षयन्तं राधसि महतीत्येतद्रातिं वामस्य सुभगाम् महीमिषमिति रातिं वामस्य सुभगाम् महतीमिषमित्येतद्दधासि सानसिं रयिमिति दधासि सनातनं रयिमित्येतत्॥
ऋतावानमिति॥
सत्यावानमित्येतन्महिषमित्यग्निर्वै महिषो विश्वदर्शतमिति विश्वदर्शतो ह्येषो ऽग्निं सुम्नाय दधिरे पुरो जना इति यज्ञो वै सुम्नं यज्ञाय वा एतम् पुरो दधते श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगेत्याशृण्वन्तं सप्रथस्तमं त्वा गिरा देवम् मनुष्या हवामह इत्येतत्॥
स एषो ऽग्निरेव वैश्वानरः॥
एतत्षडृचमारम्भायैवेमाः सिकता न्युप्यन्ते ऽग्निमेवास्मिन्नेतद्वैश्वानरं रेतो भूतं शिञ्चति षडृचेन षडृतवः संवत्सरः संवत्सरो वैश्वानरः॥
तदाहुः॥
यद्रेतः सिकता उच्यन्ते किमासां रेतो रूपमिति शुक्ला इति ब्रूयाछुक्लं हि रेतो ऽथो पृश्नय इति पृश्नीव हि रेतः॥
तदाहुः॥
यदार्द्रं रेतः शुष्काः सिकता निवपति कथमस्यैता आर्द्रा रेतोरूपम् भवन्तीति रसो वै छन्दांस्यार्द्र उ वै रसस्तद्यदेनाश्छन्दोभिर्निवपत्येवमु हास्यैता आर्द्रा रेतोरूपम् भवन्ति॥
तदाहुः॥
कथमस्यैता अहोरात्राभ्यामुपहिता भवन्तीति द्वे वा अहोरात्रे शुक्लं च कृष्णं च द्व सिकते शुक्ला च कृष्णा चैवमु हास्यैता अहोरात्राभ्यामुपहिता भवन्ति॥
तदाहुः॥
कथमस्यैता अहोरात्रैः सम्पन्ना अन्यूना अनतिरिक्ता उपहिता भवन्तीत्यनन्तानि वा अहोरात्राण्यनन्ताः सिकता एवमु हास्यैता अहोरात्रैः सम्पन्ना अन्यूना अनतिरिक्ता उपहिता भवन्त्यथ कस्मात्समुद्रियं छन्द इत्यनन्तो वै समुद्रो ऽनन्ताः सिकतास्तत्समुद्रियं छन्दः॥
तदाहुः॥
कथमस्यैताः पृथङ्नाना यजुर्भिरुपहिता भवन्तीति मनो वै यजुस्तदिदम् मनो यजुः सर्वाः सिकता अनुविभवत्येवमु हास्यैताः पृथङ्नाना यजुर्भिरुपहिता भवन्ति॥
तदाहुः॥
कथमस्यैताः सर्वैश्छन्दोभिरुपहिता भवन्तीति यदेवैना एतेन षडृचेन निवपति यावन्ति हि सप्तानां छन्दसामक्षराणि तावन्त्येतस्य षडृचस्याक्षराण्येवमु हास्यैताः सर्वैश्छन्दोभिरुपहिता भवन्ति॥
यद्वेव सिकता निवपति॥
प्रजापतिरेषो ऽग्निः सर्वमु ब्रह्म प्रजापतिस्तद्धैतद्ब्रह्मण उत्सन्ने यत्सिकता अथ यदनुत्सन्नमिदं तद्यो ऽयमग्निश्चीयते तद्यत्सिकता निवपति यदेव तद्ब्रह्मण उत्सन्नं तदस्मिन्नेतत्प्रतिदधाति ता असङ्ख्याता अपरिमिता निवपति को हि तद्वेद यावत्तद्ब्रह्मण उत्सन्नं स ह वा एतं सर्वं कृत्स्नम् प्रजापतिं संस्करोति य एवं विद्वान्त्सिकता निवपति॥
तदाहुः॥
कैतासामसङ्ख्यातानां सङ्ख्येति द्वे इति ब्रूयाद्द्वे हि सिकते शुक्ला च कृष्णा चाथो सप्त विंशतिशतानीति ब्रूयादेतावन्ति हि संवत्सरस्याहोरात्राण्यथो द्वे द्वापञ्चाशे शते इत्येतावन्ति ह्येतस्य षडृचस्याक्षराण्यथो पञ्चविंशतिरिति पञ्चविंशं हि रेतः॥
ता एता यजुष्मत्य इष्टकाः॥
ता आत्मन्नेवोपदधाति न पक्षपुछेष्वात्मन्ह्येव यजुष्मत्य इष्टका उपधीयन्ते न पक्षपुछेषु न सादयति नेद्रेतः प्रजातिं स्थापयानीति॥
अथैना आप्यानवतीभ्यामभिमृशति॥
इदमेवैतद्रेतः सिक्तमाप्याययति तस्माद्योनौ रेतः सिक्तमाप्यायते सौमीभ्याम् प्राणो वै सोमः प्राणं तद्रेतसि दधाति तस्माद्रेतः सिक्तम् प्राणमभिसम्भवति पूयेद्ध यदृते प्राणात्सम्भवेदेषो हैवात्र सूददोहाः प्राणो वै सोमः सूददोहाः॥
आप्यायस्व समेतु ते॥
विश्वतः सोम वृष्ण्यमिति रेतो वै वृष्ण्यमाप्यायस्व समेतु ते सर्वतः सोम रेत इत्येतद्भवा वाजस्य सङ्गथ इत्यन्ने वै वाजो भवान्नस्य सङ्गथ इत्येतत्सं ते पयांसि समु यन्ति वाजा इति रसो वै पयो ऽन्ने वाजाः सं ते रसाः समु यन्त्वन्नानीत्येतत्सं वृष्ण्यभिमातिषाह इति सं रेतांसि पाप्मसह इत्येतदाप्यायमानो अमृताय सोमेति प्रजात्यां तदमृतं दधाति तस्मात्प्रजातिरमृता दिवि श्रवांस्युत्तमानि धिष्वेति चन्द्रमा वा अस्य दिवि श्रव उत्तमं स ह्येनममुष्मिंलोके श्रावयति द्वाभ्यामाप्याययति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः॥
अथाताः सम्पदेव॥
चतस्रो लोगेष्टका उपदधाति षडृचेन निवपति द्वाभ्यामाप्याययति तद्द्वादश द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
आप्यानवतीभ्यामभिमृश्य॥
प्रत्येत्यातिथ्येन प्रचरत्यातिथ्येन प्रचर्य प्रवर्ग्योपसद्भ्याम् प्रचरति प्रवर्ग्योपसद्भ्याम् प्रचर्याथैतां चर्मणि चितिं समवशमयन्ति तद्यच्चर्मणि चर्म वै रूपं रूपाणामुपाप्त्यै लोमतो लोम वै रूपं रूपाणामुपाप्त्यै रोहिते रोहिते ह सर्वाणि रूपाणि सर्वेषां रूपाणामुपाप्त्या आनडुहे ऽग्निरेष यदनड्वानग्निरूपाणामुपाप्त्यै प्राचीनग्नीवे तद्धि देवत्रा॥
तदग्रेण गार्हपत्यम्॥
अन्तर्वेद्युत्तरलोम प्राचीनग्नीवमुपस्तृणाति तदेतां चितिं समवशमयन्त्यथ प्रोक्षति तद्यत्प्रोक्षति शुद्धमेवैतन्मेध्यं करोत्याज्येन तद्धि शुद्धम् मेध्यमथो अनभ्यारोहाय न हि किं चनान्यद्धविराज्येन प्रोक्षन्ति तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवैतछुद्धम् मेध्यं करोत्यथो अनभ्यारोहाय न हि किं चनान्यद्धविस्तूष्णीम् प्रोक्षन्ति॥
यद्वेव प्रोक्षति॥
हविर्वा एतत्तदेतदभिघारयति यद्वै हविरभ्यक्तं यदभिघारितं तज्जुष्टं तन्मेध्यमाज्येनाज्येन हि हविरभिघारयन्ति तूष्णीं तूष्णीं हि हविरभिघारयन्ति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि देवानाम्॥
तदाहुः॥
यत्प्रथमामेव चितिम् प्रोक्षति कथमस्यैष सर्वो ऽग्निः प्रोक्षितो भवति कथं चर्मणि प्रणीतः कथमश्वप्रणीत इति यदेवात्र सर्वासां चितीनामिष्टकाः प्रोक्षत्येवमु हास्यैष सर्वो ऽग्निः प्रोक्षितो भवत्येवं चर्मणि प्रणीत एवमश्वप्रणीत उद्यछन्त्येतां चितिम्॥
अथाहाग्निभ्यः प्रह्रियमाणेभ्यो ऽनुब्रूहीति॥
एतद्वै देवानुपप्रैष्यत एतं यज्ञं तंस्यमानान्रक्षांसि नाष्ट्रा अजिघांसन्न यक्ष्यध्वे न यज्ञं तंस्यध्व इति तेभ्य एतानग्नीनेता इष्टका वज्रान्क्षुरपवीन्कृत्वा प्राहरंस्तैरेनानस्तृण्वत तान्त्स्तृत्वाभये ऽनाष्ट्रा एत यज्ञमतन्वत॥
तद्वा एतत्क्रियते॥
यद्देवा अकुर्वन्निदं नु तानि रक्षांसि देवैरेवोपहतानि यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो यदेव रक्षो यः पाप्मा तेभ्य एतानग्नीनेता इष्टका वज्रान्क्षुरपवीन्कृत्वा प्रहरति तैरेनान्त्स्तृणुते तान्त्स्तृत्वाभये ऽनाष्ट्रा एतं यज्ञं तनुते॥
तद्यदग्निभ्य इति॥
बहवो ह्येते ऽग्नयो यदेताश्चितयो ऽथ यत्प्रह्रियमाणेभ्य इति प्र हि हरति॥
तद्धैके ऽन्वाहुः॥
पुरीष्यासो अग्नयः प्रावणभिः सजोषस इति प्रायणरूपं न तथा कुर्यादाग्नेयीरेव गायत्रीः कामवतीरनुब्रूयादा ते वत्सो मनो यमत्तुभ्यं ता अङ्गिरस्तमाग्निः प्रियेषु धामस्विति॥
आग्नेयीरन्वाह॥
अग्निरूपाणामुपाप्त्य कामवतीः कामानामुपाप्त्यै गायत्रीर्गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तिस्रस्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति ताः सप्त सम्पद्यन्ते सह त्रिरनूक्ताभ्यां सप्तचितिको ऽग्निः सप्त ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवत्युपांश्वन्वाह रेतो वा अत्र यज्ञ उपांशु वै रेतः सिच्यते पश्चादनुब्रुवन्नन्वेति छन्दोभिरेवैतद्यज्ञम् पश्चादभिरक्षन्नेति॥
अथाश्वं शुक्लम् पुरस्तान्नयन्ति॥
एतद्वै देवा अबिभयुर्यद्वै न इह रक्षांसि नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमुमेवादित्यमसौ वा आदित्य एषो ऽश्वस्त एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्रे स्वस्ति समाश्नुवत तथैवैतद्यजमान एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्रे स्वस्ति समश्नुत आगघन्त्यग्निं दक्षिणतः पुछस्य चितिमुपनिदधत्युत्तरतो ऽश्वमाक्रमयन्ति॥
तमुत्तराधेनाग्नेः॥
अन्तरेण परिश्रितः प्राञ्चं नयन्ति तत्प्राच्यै दिशः पाप्मानमपहन्ति तं दक्षिणा तद्दक्षिणायै दिशः पाप्मानमपहन्ति तम् प्रत्यञ्चं तत्प्रतीच्यै दिशः पाप्मानमपहन्ति तमुदञ्चं तदुदीच्यै दिशः पाप्मानमपहन्ति सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याथैनमुदञ्चम् प्राञ्चम् प्रसृजति तस्योक्तो बन्धुः॥
तम् प्रत्यञ्चं यन्तम्॥
एतां चितिमवघ्रापयत्यसौ वा आदित्य एषो ऽश्व इमा उ सर्वाः प्रजा या इमा इष्टकास्तद्यदवघ्रादयत्यसावेव तदादित्य इमाः प्रजा अभिजिघ्रति तस्मादु हैतत्सर्वो ऽस्मीति मन्यते प्रजापतेर्वीर्येण तद्यत्प्रत्यञ्चं यन्तमवघ्रापयति प्रत्यङ् ह्येवैष यन्निमाः सर्वाः प्रजा अभिजिघ्रति॥
यद्वेवावघ्रापयति॥
असौ वा आदित्य एषो ऽश्व इम उ लोका एताः स्वयमातृणास्तद्यदवघ्रापयत्यसावेव तदादित्य इमांलोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रमुपरि तस्य बन्धुः॥
यद्वेवाघ्रापयति॥
अग्निर्देवेभ्य उदक्रामत्सो ऽपः प्राविशत्ते देवाः प्रजापतिमब्रुवंस्त्वमिममन्विच्छ स तुभ्यं स्वाय पित्र आविर्भविष्यतीति तमश्वः शुक्लो भूत्वान्वैछत्तमद्भ्य उपोदासृप्तम् पुष्करपर्णे विवेद तमभ्यवेक्षां चक्रे स हैनमुदुवोष तस्मादुवोष तस्मादश्वः शुक्ल उदुष्टमुख इवाथा ह दुरक्षो भावुकस्तमु वा ऋत्वेव हिंसित्वेव मेते तं होवाच वरं ते ददामीति॥
स होवाच॥
यस्त्वानेन रूपेणान्विच्छाद्विन्दादेव त्वा स इति स यो हैनमेतेन रूपेणान्विच्छति विन्दति हैनं वित्त्वा हैवैनं चिनुते॥
स शुक्लः स्यात्॥
तद्ध्येतस्य रूपं य एष तपति यदि शुक्लं न विन्देदप्यशुक्लः स्यादश्वस्त्वेव स्याद्यद्यश्वं न विन्देदप्यनड्वानेव स्यादाग्नेयो वा अनड्वानग्निरु सर्वेषाम् पाप्मनामपहन्ता॥
अथातो ऽधिरोहणस्यैव॥
तं हैके पुरस्तात्प्रत्यञ्चमधिरोहन्ति पश्चाद्वा प्राञ्चं न तथा कुर्यात्पशुरेष यदग्निर्यो वै पशुम् पुरस्तात्प्रत्यञ्चमधिरोहति विषाणाभ्यां तं हन्त्यथ यः पश्चात्प्राञ्चम् पद्भ्यां तमात्मनेवैनमारोहेद्यं वा आत्मना पशुमारोहन्ति स पारयति स न हिनस्त्युत्तरतो यं हि कं च पशुमारोहन्त्युत्तरत एवैनम्मारोहन्त्यारुह्याग्निमौत्तरवेदिकं कर्म कृत्वात्मन्नग्निं गृह्णीत आत्मन्नग्निं गृहीत्वा सत्यं साम गायति पुष्करपर्णमुपदधाति तस्यातः॥
अथैतं साये भूते ऽश्वम् परिणयन्ति॥
एतद्व देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतं वज्रमभिगोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एषो ऽश्वस्तथैवास्मा अयमेतं वज्रमभिगोप्तारं करोति॥
तं वा उपास्तमयमादित्यस्य परिणयति॥
एष वा अस्य प्रत्यक्षं दिवा गोप्ता भवति रात्रिसाचयान्यु वै रक्षांसि रात्र्या एवास्मा एतं वज्रमभिगोप्तारं करोति सर्वतः परिणयति सर्वत एवास्मा एतं वज्रमभिगोप्तारं करोति त्रिष्कृत्वः परिणयति त्रिवृतमेवास्मा एतं वज्रमभिगोप्तारं करोत्यथैनमुदञ्चम् प्राञ्चम् प्रसृजति तस्योक्तो बन्धुरथ स पुनर्विपल्ययते तस्योपरि बन्धुः॥