अथातो नैरृतीर्हरन्ति॥
एतद्वै देवा गार्हपत्यं चित्वा समारोहन्नयं वै लोको गार्हपत्य इममेव तं लोकं संस्कृत्य समारोहंस्ते तम एवानतिदृश्यमपश्यन्॥
ते ऽब्रुवन्॥
उप तज्जानीत यथेदं तमः पाप्मानमपहनामहा इति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छित यथेदं तमः पाप्मानमपहनामहा इति॥
ते चेतयमानाः॥
एता इष्टका अपश्यन्नैरृतीस्ता उपादधत ताभिस्तत्तमः पाप्मानमपाघ्नत पाप्मा वै निरृतिस्तद्यदेताभिः पाप्मानं निरृतिम पाघ्नत तस्मादेता नैरृत्यः॥
तद्वा एतत्क्रियते॥
यद्देवा अकुर्वन्निदं नु तत्तम स पाप्मा देवैरेवापहतो यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा या निरृतिस्तमेताभिरपहते तद्य !देताभिः पाप्मानं निरृतिमपहते तस्मादेता नैरृत्यः॥
यद्वेवैता नैरृतीर्हरन्ति॥
प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वंस्तमुखायां योनौ रेतो भूतमसिञ्चन्योनिर्वा उखा तस्मा एतां संवत्सरे प्रतिष्ठां समस्कुर्वन्निममेव लोकमयं वै लोको गार्हपत्यस्तस्मिन्नेनम् प्राजनयंस्तस्य यः पाप्मा यः श्लेष्मा यदुल्बं यज्जरायु तदस्यैताभिरपाघ्नंस्तद्यदस्यैताभिः पाप्मानं निरृतिमपाघ्नंस्तस्मादेता नैरृत्यः॥
तथैवैतद्यजमानः॥
आत्मानमुखायां योनौ रेतो भूतं सिञ्चति योनिर्वा उखा तस्मा एतां संवत्सरे प्रतिष्ठां संस्करोतीममेव लोकमयं वै लोको गार्हपत्यस्तस्मिन्नेनम् प्रजनयति तस्य यः पाप्मा यः श्लेष्मा यदुल्बं यज्जरायु तदस्यैताभिरपहन्ति तद्यदस्यैताभिः पाप्मानं निरृतिमपहन्ति तस्मादेता नैरृत्यः॥
पादमात्र्यो भवन्ति॥
अधस्पदमेव तत्पाप्मानं निरृतिं कुरुते ऽलक्षणा भवन्ति यद्वै नास्ति तदलक्षणमसन्तमेव तत्पाप्मानं निरृतिं कुरुते तुषपक्वा भवन्ति नैरृता वै तुषा नैरृतैरेव तन्नैरृतं कर्म करोति कृष्णा भवन्ति कृष्णं हि तत्तम आसीदथो कृष्णा वै निरृतिः॥
ताभिरेतां दिशं यन्ति॥
एषा वै नैरृती दिङ्नैरृत्यामेव तद्दिशि निरृतिं दधाति स यत्र स्वकृतं वेरिणं श्वभ्रप्रदरो वा स्यात्तदेना उपदध्याद्यत्र वा अस्या अवदीर्यते यत्र वास्या ओषधयो न जायन्ते निरृतीर्हास्यै तद्गृह्णाति नैऋत एव तद्भूमेर्निरृतिं दधाति ताः पराचीर्लोकभाजः कृत्वोपदधाति॥
असुन्वन्तमयजमानमिच्छेति॥
यो वै न सुनोति न यजते तं निरृतिरृछति स्तेनस्येत्यामन्विहि तस्करस्येति स्तेनस्य चेत्यामन्विहि तस्करस्य चेत्येतदथो यथा स्तेनस्तस्करः प्रलायमेत्येवम् प्रलायमिहीत्यन्यमस्मदिच्छ सा त इत्येत्यनित्थंविद्वांसमिच्छेत्येतन्नमो देवि निरृते तुभ्यमस्त्विति नमस्कारेणैवैनामपहते॥
नमः सु ते निरृते तिग्मतेज इति॥
तिग्मतेजा वै निरृतिस्तस्या एतन्नमस्करोत्ययस्मयं विचृता बन्धमेतमित्ययस्मयेन ह वै तम् बन्धेन निरृतिर्बध्नाति यम् बध्नाति यमेन त्वं यम्या संविदानेत्यग्निर्वै यम इयं यम्याभ्यां हीदं सर्वं यतमाभ्यां त्वं संविदानेत्येतदुत्तमे नाके अधि रोहयैनमिति स्वर्गो वै लोको नाकः स्वर्गे लोके यजमानमधिरोहयेत्यतत्॥
यस्यास्ते घोर आसन्जुहोमीति॥
घोरा वै निरृतिस्तस्या एतदासन्जुहोति यत्तद्देवत्यं कर्म करोत्येषाम् बन्धानामवसर्जनायेति यैर्बन्धैर्बद्धो भवति यां त्वा जनो भूमिरिति प्रमन्दत इतीयं वै भूमिरस्यां वै स भवति यो भवति निरृतिं त्वाहम् परिवेद विश्वत इति निरृतिरिति त्वाहम् परिवेद सर्वत इत्येतदियं वै निरृतिरियं वै ते निरर्पयति यो निरृछति तद्यथा वै ब्रूयादसावामुष्यायणो ऽसि वेद त्वा मा मा हिंसीरित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति॥
नोपस्पृशति॥
पाप्मा वै निरृतिर्नेत्पाप्मना संस्पृशा इति न सादयति प्रतिष्ठा वै सादनं नेत्पाप्मानम् प्रतिष्ठापयानीति न सूददोहसाधिवदति प्राणो वै सूददोहा नेत्पाप्मानम् प्राणेन सन्तनवानि सन्दधानीति॥
ता हैके परस्तादर्वाचीरुपदधति॥
पाप्मा वै निरृतिर्नेत्पाप्मानं निरृतिमन्ववायामेति न तथा कुर्यात्पराचीरेवोपदध्यात्पराञ्चमेव तत्पाप्मानं निरृतिमपहते॥
तिस्र इष्टका उपदधाति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्पाप्मानं निरृतिमपहते॥
अथासन्दीं शिक्यम्॥
रुक्भपाशमिण्ड्वे तत्परार्धे न्यस्यति नैरृतो वै पाशो निरृतिपाशादेव तत्प्रमुच्यते यं ते देवी निरृतिराबबन्ध पाशं ग्रीवास्वविचृत्यमित्यनेवंविदुषा हाविचृत्यस्तं ते विष्याम्यायुषो न मध्यादित्यग्निर्वा आयुस्तस्यैतन्मध्यं यच्चितो गार्हपत्यो भवत्यचित आहवनीयस्तस्माद्यदि युवाग्निं चिनुते यदि स्थविर आयुषो न मध्यादित्येवाहाथैतम् पितुमद्धि प्रसूत इत्यन्नं वै पितुरथैतदन्नमद्धि प्रमुक्त इत्येतत्त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैव तत्पाप्मानं निरृतिमपहते॥
तिस्र इष्टका भवन्ति॥
आसन्दी शिक्यं रुक्भपाश इण्ड्वे तदष्टावष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्पाप्मानं निरृतिमपहते॥
अथान्तरेणोदचमसं निनयति॥
वज्रो वा आपो वज्रेणैव तत्पाप्मानं निरृतिमन्तर्धत्ते नमो भूत्यै येदं चकारेत्युपोत्तिष्ठन्ति भूत्यै वा एतदग्रे देवाः कर्माकुर्वत तस्या एतन्नमो ऽकुर्वन्भूत्या उ एवायमेतत्कर्म कुरुते तस्या एतन्नमस्करोत्यप्रतीक्षमायन्त्यप्रतीक्षमेव तत्पाप्मानं निरृतिं जहति॥
प्रत्येत्याग्निमुपतिष्ठते॥
एतद्वा एतदयथायथं करोति यदग्नौ सामिचित एतां दिशमेति तस्मा एवैतन्निह्नुते ऽहिंसायै॥
यद्वेवोपतिष्ठते॥
अयं वै लोको गार्हपत्यः प्रतिष्ठा वै गार्हपत्य इयमु वै प्रतिष्ठाथैतदपथमिवैति यदेतां दिशमेति तद्यदुपतिष्ठत इमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायाम् प्रतितिष्ठति॥
निवेशनः सङ्गमनो वसूनामिति॥
निवेशनो ह्ययं लोकः सङ्गमनो वसूनां विश्वा रूपाभिचष्टे शचीभिरिति सर्वाणि रूपाण्यभिचष्टे शचीभिरित्येतद्देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनामिति यथैव यजुस्तथा बन्धुः॥
अथ प्रायणीयं निर्वपति॥
तस्य हविष्कृता वाचं विसृजते वाचं विसृज्य स्तम्बयजुर्हरति स्तम्बयजुर्हृत्वा पूर्वेण परिग्रहेण परिगृह्य लिखित्वाह हर त्रिरिति हरति त्रिराग्नीध्रः॥
प्रत्येत्य प्रायणीयेन प्रचरति॥
प्रायणीयेन प्रचर्य सीरं युनक्त्येतद्वा एनं देवाः संस्करिष्यन्तः पुरस्तादन्नेन समार्धयंस्तथैवैनमयमेतत्संस्करिष्यन्पुरस्तादन्नेन समर्धयति सीरम् भवति सेरं हैतद्यत्सीरमिरामेवास्मिन्नेतद्दधाति॥
औदुम्बरम् भवति॥
ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति मौञ्जम् परिसीर्यं त्रिवृत्तस्योक्तो बन्धुः॥
सो ऽग्नेर्दक्षिणां श्रोणिम्॥
जघनेन तिष्ठन्नुत्तरस्यांसस्य पुरस्ताद्युज्यमानमभिमन्त्रयते सीरा युञ्जन्ति कवयो युगा वितन्वते पृथगिति ये विद्वांसस्ते कवयस्ते सीरं च युञ्जन्ति युगानि च वितन्वते पृथग्धीरा देवेषु सुम्नयेति यज्ञो वै सुम्नं धीरा देवेषु यज्ञं तन्वाना इत्येतत्॥
युनक्त सीरा वि युगा तनुध्वमिति॥
युञ्जन्ति हि सीरं वि युगानि तन्वन्ति कृते योनौ वपतेह बीजमिति बीजाय वा एषा योनिष्क्रियते यत्सीता यथा ह वा अयोनौ रेतः सिञ्चेदेवं तद्यदकृष्टे वपति गिरा च श्रुष्टिः सभरा असन्न इति वाग्वै गीरन्नं श्रुष्टिर्नेदीय इत्सृण्यः पक्वमेयादिति यदा वा अन्नम् पच्यते ऽथ तत्सृण्योपचरन्ति द्वाभ्यां युनक्ति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः॥
स दक्षिणमेवाग्रे युनक्ति॥
अथ सव्यमेवं देवत्रेतरथा मानुषे षड्गवम् भवति द्वादशगवं वा चतुर्विंशतिगवं वा संवत्सरमेवाभिसम्पदम्॥
अथैनं विकृषति॥
अन्नं वै कृषिरेतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तादन्नमदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादन्नं दधाति॥
स वा आत्मानमेव विकृषति॥
न पक्षपुछान्यात्मंस्तदन्नं दधाति यदु वा आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुछान्यथ यत्पक्षपुछेषु नैव तदात्मानमवति न पक्षपुछानि॥
स दक्षिणार्धेनाग्नेः॥
अन्तरेण परिश्रितः प्राचीम् प्रथमां सीतां कृषति शुनं सु फाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैरिति शुनं शुनमिति यद्वै समृद्धं तछुनं समर्धयत्येवैनामेतत्॥
अथ जघनार्धेनोदीचीम्॥
घृतेन सीता मधुना समज्यतामिति यथैव यजुस्तथा बन्धुर्विश्वैर्देवैरनुमता मरुद्भिरिति विश्वे च वै देवा मरुतश्च वर्षस्येशत ऊर्जस्वती पयसा पिन्वमानेति रसो वै पय ऊर्जस्वती रसेनान्नेन पिन्वमानेत्येतदस्मान्त्सीते पयसाभ्याववृत्स्वेत्यस्मान्त्सीते रसेनाभ्याववृत्स्वेत्येतत्॥
अथोत्तरार्धेन॥
लाङ्गलम् पवीरवदिति लाङ्गलं रयिमदित्येतत्सुशेवं सोमपित्सर्वित्यन्नं वै सोमस्तदुद्वपति गामविम् प्रफर्व्यं च पीवरीम् प्रस्थावद्रथवाहनमित्येतद्धि सर्वं सीतोद्वपति॥
अथ पूर्वार्धेन दक्षिणाम्॥
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च इन्द्रायाश्विभ्याम् पूष्णे प्रजाभ्य ओषधीभ्य इति सर्वदेवत्या वै कृषिरेताभ्यो देवताभ्यः सर्वान्कामान्धुक्ष्वेत्येतदित्यग्रे कृषत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा॥
चतस्रः सीता यजुषा कृषति॥
तद्यच्चतसृषु दिक्ष्वन्नं तदस्मिन्नेतद्दधाति तद्वै यजुषाद्धा वै तद्यद्यजुरद्धो तद्यदिमा दिशः॥
अथात्मानं विकृषति॥
तद्यदेव संवत्सरे ऽन्नं तदस्मिन्नेतद्दधाति तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवास्मिन्नेतदन्नं दधातीत्यग्रे कृषत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा॥
तिस्रस्तिस्रः सीताः कृषति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति॥
द्वादश सीतास्तूष्णीं कृषति॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति॥
ता उभय्यः षोडश सम्पद्यन्ते॥
षोडशकलः प्रजापतिः प्रजापतिरग्निरात्मंसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति॥
यद्वेवैनं विकृषति॥
एतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तात्प्राणानदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तात्प्राणान्दधाति लेखा भवन्ति लेखासु हीमे प्राणाः॥
चतस्रः सीता यजुषा कृषति॥
तद्य इमे शीर्षम्श्चत्वारो निरुक्ताः प्राणास्तानस्मिन्नेतद्दधाति तद्वै यजुषाद्धा वै तद्यद्यजुरद्धो तद्यदिमे शीर्षन्प्राणाः॥
यद्वेवात्मानं विकृषति॥
य एवेमे ऽन्तरात्मन्प्राणास्तानस्मिन्नेतद्दधाति तूष्णीं को हि तद्वेद यावन्त इमे ऽन्तरात्मन्प्राणाः॥
अथैनान्विमुञ्चति॥
आप्त्वा तं कामं यस्मै कामायैनान्युङ्क्ते विमुच्यध्वमघ्न्या इत्यघ्न्या हैते देवत्रा देवयाना इति दैवं ह्येभिः कर्म करोत्यगन्म तमसस्पारमस्येत्यशनाया वै तमो ऽगन्मास्या अशनायायै पारमित्येतज्ज्योतिरापामेति ज्योतिर्ह्याप्नोति यो देवान्यो यज्ञमथैनानुदीचः प्राचः प्रसृजति तस्योक्तो बन्धुस्तानध्वर्यवे ददाति स हि तै करोति तांस्तु दक्षिणानां काले ऽनुदिशेत्॥
अथ दर्भस्तम्बमुपदधाति॥
एतद्वै देवा ओषधीरुपादधत तथैवैतद्यजमान ओषधीरुपधत्ते॥
यद्वेव दर्भस्तम्बमुपदधाति॥
जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत उभयम्वेतदन्नं यद्दर्भा आपश्च ह्येता ओषधयश्च या वै वृत्राद्बीभत्समाना आपो धन्व दृभन्त्य उदायंस्ते दर्भा अभवन्यद्द्वभन्त्य उदायंस्तस्माद्दर्भास्ता हैताः शुद्धा मेध्या आपो वृत्राभिप्रक्षरिता यद्दर्भा यदु दर्भास्तेनौषधय उभयेनैवैन्मेतदन्नेन प्रीणाति॥
सीतासमरे॥
वाग्वै सीतासमरः प्राणा वै सीतास्तासामयं समयो वाची वै प्राणेभ्यो ऽन्नं धीयते मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति तूष्णीमनिरुक्तं वै तद्यतूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवास्मिन्नेतदन्ने दधाति॥
अथैनमभिजुहोति॥
जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते सर्वस्यो अस्यैष रसो यदाज्यमपां च ह्येष ओषधीनां च रसो ऽस्यैवैनमेतत्सर्वस्य रसेन प्रीणाति यावानु वै रसस्तावानात्मानेनैवैनमेतत्सर्वस्य रसेन प्रीणाति यावानु वै रसस्तावानात्मानेनैवैनमेतत्सर्वेण प्रीणाति पञ्चगृहीतेन पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति॥
यद्वेवैनमभिजुहोति॥
एतद्वै यत्रैतम् प्राणा ऋषयो ऽग्रे ऽग्निं समस्कुर्वंस्तदस्मिन्नेतम् पुरस्ताद्भागमकुर्वत तस्मात्पुरस्ताद्भागास्तद्यदभिजुहोति य एवास्मिंस्ते प्राणा ऋषयः पुरस्ताद्भागमकुर्वत तानेवैतत्प्रीणात्याज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः॥
यद्वेवैनमभिजुहोति॥
एतद्वै यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति यान्त्स्तोमान्यानि पृष्ठानि यानि छन्दांसि तेभ्य एतम् पुरस्ताद्भागं करोति तान्येवैतत्प्रीणान्याज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः॥
यद्वेवैनमभिजुहोति॥
एतद्वै देवा अबिभयुर्दीर्घं वा इद कर्म यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतामेतस्य कर्मणः पुरस्तात्संस्थामपश्यंस्तमत्रैव सर्वं समस्थापयन्नत्राचिन्वंस्तथैवैनमयमेतदत्रैव सर्वं संस्थापयत्यत्र चिनोति॥
सजूरब्द इति चितिः॥
अयवोभिरिति पुरीषं सजूरुषा इति चितिररुणीभिरिति पुरीषं सजोषसावश्विनेति चितिर्दंसोभिरिति पुरीषं सजूः सूर इति चितिरेतशेनेति पुरीषं सजूर्वैश्वानर इति चितिरिडयेति पुरीषं घृतेनेति चितिः स्वेति पुरीषं हेति चितिः॥
त्रयोदशैता व्याहृतयो भवन्ति॥
त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोत्याज्येन जुहोत्यग्निरेष यदाज्यमग्निमेवैतच्चिनोति पञ्चगृहीतेन पञ्चिचिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोत्यूर्ध्वामुद्गृह्णन्जुहोत्यूर्ध्वं तदग्निं चितिभिश्चिनोति॥
अथोदचमसान्निनयति॥
एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वृष्टिमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति॥
उदचमसा भवन्ति॥
आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधात्यौदुम्बरेण चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो वै दिशः सर्वाभ्य एवास्मिन्नेतद्दिग्भ्यो वृष्टिं दधाति॥
त्रींस्त्रीनुदचमसान्निनयति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति॥
द्वादशोदचमसान्कृष्टे निनयति॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति॥
स वै कृष्टे निनयति॥
तस्मात्कृष्टाय वर्षति स यत्कृष्ट एव निनयेन्नाकृष्टे कृष्टायैव वर्षेन्नाकृष्टायाथ यदकृष्ट एव निनयेन्न कृष्टे कृष्टायैव वर्षेन्न कृष्टाय कृष्टे चाकृष्टे च निनयति तस्मात्कृष्टाय चाकृष्टाय च वर्षति॥
त्रीन्कृष्टे चाकृष्टे च निनयति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति॥
यद्वेवोदचमसान्निनयति॥
एतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तादपो दधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादपो दधाति॥
त्रींस्त्रीनुदचमसान्निनयति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति॥
द्वादशोदचमसान्कृष्टे निनयति॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति॥
स वै कृष्टे निनयति॥
प्राणेषु तदपो दधाति स यत्कृष्ट एव निनयेन्नाकृष्टे प्राणेष्वेवापः स्युर्नेतरस्मिन्नात्मन्नथ यदकृष्ट एव निनयेन्न कृष्ट आत्मन्नेवापः स्युर्न प्राणेषु कृष्टे चाकृष्टे च निनयति तस्मादिमा उभयत्रापः प्राणेषु चात्मंश्च॥
त्रीन्कृष्टे चाकृष्टे च निनयति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति॥
पञ्चदशोदचमसान्निनयति॥
पञ्चदशो वै वज्र एतेनैवास्यैतत्पञ्चदशेन वज्रेण सर्वम् पाप्मानमपहन्ति॥
अथ सर्वौषधं वपति॥
एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना अन्नमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति॥
सर्वौषधम् भवति॥
सर्वमेव तदन्नं यत्सर्वौषधं सर्वमेवास्मिन्नेतदन्नं दधाति तेषामेकमन्नमुद्धरेत्तस्य नाश्नीयाद्यावज्जीवमौदुम्बरेण चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो वै दिशः सर्वाभ्य एवास्मिन्नेतद्दिग्भ्यो ऽन्नं दधात्यनुष्टुब्भिर्वपति वाग्वा अनुष्टुब्वाचो वा अन्नमद्यते॥
तिसृभिस्तिसृभिरृग्भिर्वपति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति॥
द्वादशभिरृग्भिः कृष्टे वपति॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति॥
स वै कृष्टे वपति॥
तस्मात्कृष्टे ऽन्नम् पच्यते यत्कृष्ट एव वपेन्नाकृष्टे कृष्ट एवान्नम् पच्येत नाकृष्टे ऽथ यदकृष्ट एव वपेन्न कृष्टे ऽकृष्ट एवान्नम् पच्येत न कृष्टे कृष्टे चाकृष्टे च वपति तस्मात्कृष्टे चाकृष्टे चान्नम् पच्यते॥
तिसृभिः कृष्टे चाकृष्टे च वपति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति॥
यद्वेव सर्वौषधं वपति॥
एतद्वा एन देवाः संस्करिष्यन्तः पुरस्तात्सर्वेण भेषजेनाभिषज्यंस्तथैवैनमयमेतत्संस्करिष्यन्पुरस्तात्सर्वेण भेषजेन भिषज्यति॥
सर्वौषधम् भवति॥
सर्वमेतद्भेषजं यत्सर्वौषधं सर्वेणैवैनमेतद्भेषजेन भिषज्यति॥
तिसृभिस्तिसभिरृग्भिर्वपति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति॥
द्वादशभिरृग्भिः कृष्टे वपति॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति॥
स वै कृष्टे वपति॥
प्राणांस्तद्भिषज्यति स यत्कृष्ट एव वपेन्नाकृष्टे प्राणानेव भिषज्येन्नेतरमात्मानमथ यदकृष्ट एव वपेन्न कृष्ट आत्मानमेव भिषज्येन्न प्राणान्कृष्टे चाकृष्टे च वपति प्राणांश्च तदात्मानं च भिषज्यति॥
तिसृभिः कृष्टे चाकृष्टे च वपति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति॥
पञ्चदशोदचमसान्निनयति पञ्चदशभिरृग्भिर्वपति तत्त्रिंशत्त्रिंशदक्षरा विराड्विराडु कृत्स्नमन्नं सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति॥
या ओषधीः पूर्वा जाताः॥
देवेभ्यस्त्रियुगम् पुरेत्यृतवो वै देवास्तेभ्य एतास्त्रिम् पुरा जायन्ते वसन्ता प्रावृषि शरदि मनै नुबभ्रूणामहमिति सोमो वै बभ्रुः सौम्या ओषधय ओषधः पुरुषः शतं धामानीति यदिदं शतायुः शतार्घः शतवीय एतानि हास्य तानि शतं धामानि सप्त चेति य एवेमे सप्त शीर्षन्प्राणास्तानेतदाह॥
शतं वो अम्ब धामानि॥
सहस्रमुत वो रुह इति यदिदं शतधा च सहस्रधा च विरूढा अधा शतक्रत्वो यूयमिमम् मे अगदं कृतेति यमिमम् भिषज्यामीत्येतत्॥
ता एता एकव्याख्यानाः॥
एतमेवाभि यथैतमेव भिषज्येदेतम् पारयेत्ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुब्वागु सर्वम् भेषजं सर्वेणैवैनमेतद्भेषजेन भिषज्यति॥
अथातो निरुक्तानिरुक्तानामेव॥
यजुषा द्वावनड्वाहौ युनक्ति तूष्णीमितरान्यजुषा चतस्रः कृषति तूष्णीमितरा स्तूष्णीं दर्भस्तम्बमुपदधाति यजुषाभिजुहोति तूष्णीमुदचमसान्निनयति यजुषा वपति॥
प्रजापतिरेषो ऽग्निः॥
उभयम्वेतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तम् परिमितं रूपं तदस्य तेन संस्करोत्यश्च यत्तूष्णीं यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य तेन संस्तरोति स ह वा एतं सर्वं कृत्स्नम् प्रजापतिं संस्करोति य एवं विद्वानेतदेवं करोति बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि पुशुरेष यदग्निस्तस्मात्पशोर्बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि॥