०१

गार्हपत्यं चेष्यन्पलाशशाखया व्युदूहति॥
अवस्यति हैतद्यद्गार्हपत्यं चिनोति य उ वै के चाग्निचितो ऽस्यामेव ते ऽवसितास्तद्यद्व्युदूहत्यवसितानेव तद्व्युदूहति नेदवसितानध्यवस्यानीति॥
अपेत वीत वि च सर्पतात इति॥
अप चैवैत वि चेत व्यु च सर्पतात इत्येतद्य उदरसर्पिणस्तानेतदाह ये ऽत्र स्थ पुराण ये च नूतना इति ये ऽत्र स्थ सनातना ये चाधुनातना इत्येतत्॥
अदाद्यमो ऽवसानम् पृथिव्या इति॥
यमो ह वा अस्या अवसानस्येष्टे स एवास्मा अस्यामवसानं ददाति॥
अक्रन्निमम् पितरो लोकमस्मा इति॥
क्षत्रं वै यमो विशः पितरो यस्मा उ वै क्षत्रियो विशा संविदानो ऽस्यामवसानं ददाति तत्सुदत्तं तथो हास्मै क्षत्रं यमो विशा पितृभिः संविदानो ऽस्यामवसानं ददाति॥
पलाशशाखया व्युदूहति॥
ब्रह्म वै पलाशो ब्रह्मणैव तदवसितान्व्युदूहति मन्त्रेण ब्रह्म वै मन्त्रो ब्रह्मणैव तदवसितान्व्युदूहति तामुदीचीमुदस्यति॥
अथोषान्निवपति॥
अयं वै लोको गार्हपत्यः पशव ऊषा अस्मिंस्तल्लोके पशून्दधाति तस्मादिमे ऽस्मिंलोके पशवः॥
यद्वेवोषान्निवपति॥
प्रजापतिः प्रजा असृजता ता नानोल्बा असृजत ता न समजानत सो ऽकामयत सञ्जानीरन्निति ताः समानोल्बा अकरोत्तासामूषानुल्बमकरोत्ताः समजानत तस्मादप्येतर्हि समानोल्बाः समेव जानते देवैः समानोल्बो ऽसानीत्यु वै यजते यो यजते तद्यदूषान्निवपति देवैरेव तत्समानोल्बो भवति॥
सज्ञानमसीति॥
समजानत ह्येतेन कामधरणमिति पशवो वा ऊषाः कामधरणम् मयि ते कामधरणम् भूयादिति मयि ते पशवो भूयासुरित्येतत्तैः सर्वं गार्हपत्यम् प्रछादयति योनिर्वै गार्हपत्या चितिरुल्बमूषाः सर्वां तद्योनिमुल्बेन प्रछादयति॥
अथ सिकता निवपति॥
अग्नेरेतद्वैश्वानरस्य भस्म यत्सिकता अग्निमु वा एतं वैश्वानरं चेष्यन्भवति न वा अग्निः स्वम् भस्मातिदहत्यनतिदाहाय॥
यद्वेव सिकता निवपति॥
अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकता अग्निमु वा एतं वैश्वानरं चेष्यन्भवति न वा अरेतस्कात्किं चन विक्रियते ऽस्माद्रेतसो ऽधि विक्रियाता इति॥
अग्नेर्भस्मास्यग्नेः पुरीषमसीति॥
यातयाम वा अग्नेर्भस्मायातयाम्न्यः सिकता अयातयाममेवैनदेतत्करोति ताभिः सर्वं गार्हपत्यम् प्रछादयति योनिर्वै गार्हपत्या चिती रेतः सिकताः सर्वस्यां तद्योनौ रेतो दधाति॥
अथैनम् परिश्रिद्भिः परिश्रयति॥
योनिर्वै परिश्रित इदमेवैतद्रेतः सिक्तं योन्या परिगृह्णाति तस्माद्योन्या रेतः सिक्तम् परिगृह्यते॥
यद्वेवैनम् परिश्रिद्भिः परिश्रयति॥
अयं वै लोको गार्हपत्य आपः परिश्रित इमं तं लोकमद्भिः परितनोति समुद्रेण हैनं तत्परितनोति सर्वतस्तस्मादिमं लोकं सर्वतः समुद्रः पर्येति दक्षिणावृत्तस्मादिमं लोकं दक्षिणावृत्समुद्रः पर्येति खातेन तस्मादिमं लोकं खातेन समुद्रः पर्येति॥
चित स्थेति॥
चिनोति ह्येनाः परिचित स्थेति परि ह्येनाश्चिनोत्यूर्ध्वचितः श्रयध्वमित्यूर्ध्वा उपदधदाह तस्मादूर्ध्व एव समुद्रो विजते ऽथ यत्तिरश्चीरुपदध्यात्सकृद्धैवेदं सर्वं समुद्रो निर्मृज्यान्न सादयत्यसन्ना ह्यापो न सूददोहसाधिवदति॥
अस्थीनि वै परिश्रितः॥
प्राणः सूददोहा न वा अस्थिषु प्राणो ऽस्त्येकेन यजुषा बह्वीरिष्टका उपदधात्येकं ह्येतद्रूपं यदापो ऽथ यद्बह्व्यः परिश्रितो भवन्ति बह्व्यो ह्यापः॥
तद्वै योनिः परिश्रितः॥
उल्बमूषा रेतः सिकता बाह्याः परिश्रितो भवन्त्यन्तर ऊषा बाह्या हि योनिरन्तरमुल्बम् बाह्य ऊषा भवन्त्यन्तराः सिकता बाह्यं ह्युल्बमन्तरं रेत एतेभ्यो वै जायमानो जायते तेभ्य एवैनमेतज्जनयति॥
अथैनमतश्चिनोति॥
इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्योनौ रेतः सिक्तं विक्रियते॥
स चतस्रः प्राचीरुपदधाति॥
द्वे पश्चात्तिरश्च्यौ द्वे पुरस्तात्तद्याश्चतस्रः प्राचीरुपदधाति स आत्मा तद्यत्ताश्चतस्रो भवन्ति चतुर्विधो ह्ययमात्माथ ये पश्चात्ते सक्थ्यौ ये पुरस्तात्तौ बाहू यत्र वा आत्मा तदेव शिरः॥
तं वा एतम्॥
अत्र पक्षपुछवन्तं विकरोति यादृग्वै योनौ रेतो विक्रियते तादृग्जायते तद्यदेतमत्र पक्षपुछवन्तं विकरोति तस्मादेषो ऽमुत्र पक्षपुछवान्जायते॥
तं वै पक्षपुछवन्तमेव सन्तम्॥
न पक्षपुछवन्तमिव पश्यन्ति तस्माद्योनौ गर्भं न यथारूपम् पश्यन्त्यथैनममुत्र पक्षपुछवन्तम् पश्यन्ति तस्माज्जातं गर्भं यथारूपम् पश्यन्ति॥
स चतस्रः पूर्वा उपदधाति॥
आत्मा ह्येवाग्रे सम्भवतः सम्भवति दक्षिणत उदङ्ङासीन उत्तरार्ध्याम् प्रथमामुपदधाति तथो हास्यैषो ऽभ्यात्ममेवाग्निश्चितो भवति॥
अयं सो अग्निः॥
यस्मिन्त्सोममिन्द्रः सुतं दध इत्ययं वै लोको गार्हपत्य आपः सोमः सुतो ऽस्मिंस्तल्लोके ऽप इन्द्रो ऽधत्त जठरे वावशान इति मध्यं वै जठरं सहस्रियं वाजमत्यं न सप्तिमित्यापो वै सहस्रियो वाजः ससवान्त्सन्त्स्तूयसे जातवेद इति चितः संश्चीयसे जातवेद इत्येतत्॥
अग्ने यत्ते दिवि वर्च इति॥
आदित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वप्स्वा यजत्रेति य एवौषधिषु चाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः स त्वेषः स भानुरर्णवो नृचक्षा इति महान्त्स भानुरर्णवो नृचक्षा इत्येतत्॥
अग्ने दिवो अर्णमछा जिगासीति॥
आपो वा अस्य दिवो ऽर्णस्ता एष धूमेनाछैत्यछा देवां ऊचिषे धिष्ण्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इति रोचनो ह नामैष लोको यत्रैष एतत्तपति तद्याश्चैतम् परेणापो याश्चावरेण ता एतदाह॥
पुरीष्यासो अग्नय इति॥
पशव्यासो ऽग्नय इत्येतत्प्रावणेभिः सजोषस इति प्रायणरूपम् प्रायणं ह्येतदग्नेर्यद्गार्हपत्यो जुषन्तां यज्ञमद्रुहो ऽनमीवा इषो महीरिति जुषन्तां यज्ञमद्रुहो ऽनशनाया इषो महीरित्येतत्॥
नानोपदधाति॥
ये नानाकामा आत्मंस्तांस्तद्दधाति सकृत्सादयत्येकं तदात्मानं करोति सूददोहसाधिवदति प्राणो वै सूददोहाः प्राणेणैवैनमेतत्सन्तनोति सन्दधाति॥
अथ जघनेन परीत्य॥
उत्तरतो दक्षिणासीनो ऽपरयोर्दक्षिणामग्र उपदधातीडामग्ने पुरुदंसं सनिं गोरिति पशवो वा इडा पशूनामेवास्मा एतामाशिषमाशास्ते शश्वत्तमं हवमानाय साधेति यजमानो वै हवमानः स्यान्नः सूनुस्तनयो विजावेति प्रजा वै सूनुरग्ने सा ते सुमतिर्भूत्वस्मे इत्याशिषमाशास्ते॥
अथोत्तराम्॥
अयं ते योनिरृत्वियो यतो जातो अरोचथा इत्ययं ते योनिरृतव्यः सनातनो यतो जातो ऽदीप्यथा इत्येतत्तं जानन्नग्न आरोहाथा नो वर्धया रयिमिति यथैव यजुस्तथा बन्धुः॥
सक्थ्यावस्यैते॥
ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमे सक्थ्यौ द्वे भवतो द्वे हीमे सक्थ्यौ पश्चादुपदधाति पश्चाद्धीमे सक्थ्यावग्राभ्यां संस्पृष्टे भवत एवं हीमे सक्थ्यावग्राभ्यां संस्पृष्टे॥
अथ तेनैव पुनः परीत्य॥
दक्षिणत उदङ्ङा सीनः पूर्वयोरुत्तरामग्र उपदधाति चिदसि तया देवतयाङ्गिरस्वदृद्ध्रुवा सीदेत्यथ दक्षिणाम् परिचिदसि तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति॥
बाहू अस्यैते॥
ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमौ बाहू द्वे भवतो द्वौ हीमौ बाहू पूर्वार्ध उपदधाति पुरस्ताद्धीमौ बाहू अग्राभ्यां संस्पृष्टे भवत एवं हीमौ बाहू अग्राभ्यां संस्पृष्टौ स वा इतीमा उपदधातीतीमे इतीमे तद्दक्षिणावृत्तद्धि देवत्रा॥
अष्टाविष्टका उपदधाति॥
अष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति पञ्च कृत्वः सादयति पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावनग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोत्यष्टाविष्टकाः पञ्च कृत्वः सादयति तत्त्रयोदश त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अथ लोकम्पृणामुपदधाति॥
तस्या उपरि बन्धुस्तिस्रः पूर्वास्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति दशोत्तरास्तासामुपरि बन्धुर्द्वे वाग्रे ऽथ दशाथैकामेवं हि चितिं चिन्वन्ति तास्त्रयोदश सम्पद्यन्ते तस्योक्तो बन्धुः॥
ता उभय्य एकविंशतिः सम्पद्यन्ते॥
द्वादश मासाः पञ्च ऽर्तवस्त्रय इमे लोका असावादित्य एकविंशो ऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति॥
एकविंशतिर्वेव परिश्रितः॥
द्वादश मासाः पञ्च ऽर्तवस्त्रय इमे लोका अयमग्निरमुतो ऽध्येकविंश इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति तद्यदेता एवमुपदधात्येतावेवैतदन्यो ऽन्यस्मिन्प्रतिष्ठापयति तावेतावन्यो ऽन्यस्मिन्प्रतिष्ठितौ तौ वा एतावत्र द्वावेकविंशौ सम्पादयत्यत्र ह्येवेमौ तदोभौ भवत आहवनीयश्च गार्हपत्यश्च॥
अथ पुरीषं निवपति॥
तस्योपरि बन्धुस्तच्चात्वालवेलाया आहरत्यग्निरेष यच्चात्वालस्तथो हास्यैतदाग्नेयमेव भवति सा समम्बिला स्यात्तस्योक्तो बन्धुः॥
व्याममात्री भवति॥
व्याममात्रो वै पुरुषः पुरुषः प्रजापतिः प्रजापतिरग्निरात्मसम्मितां तद्योनिं करोति परिमण्डला भवति परिमण्डला हि योनिरथो अयं वै लोको गार्हपत्यः परिमण्डल उ वा अयं लोकः॥
अथैनौ सन्निवपति॥
सञ्ज्ञामेवाभ्यामेतत्करोति समितं सङ्कल्पेथां सं वाम् मनांसि सं व्रताग्ने त्वम् पुरीष्यो भवतं नः समनसाविति शमयत्येवैनावेतदहिंसायै यथा नान्यो ऽन्यं हिंस्याताम्॥
चतुर्भिः सन्निवपति॥
तद्ये चतुष्पदाः पशवस्तैरेवाभ्यामेतत्सञ्ज्ञां करोत्यथो अन्नं वै पशवो ऽन्नेनैवाभ्यामेतत्सञ्ज्ञां करोति॥
तां न रिक्तामवेक्षेत॥
नेद्रिक्तामवेक्षा इति यद्रिक्तामवेक्षेत ग्रसेत हैनम्॥
अथास्यां सिकता आवपति॥
अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकता अग्निमेवास्यामेतद्वैश्वानरं रेतो भूतं सिञ्चति सा समम्बिला स्यात्तस्योक्तो बन्धुः॥
अथैनां विमुञ्चति॥
अप्रदाहाय यद्धि युक्तं न विमुच्यते प्र तद्दह्यत एतद्वा एतद्युक्ता रेतो ऽभार्षीदेतमग्निं तमत्राजीजनदथापरं धत्ते योषा वा उखा तस्माद्यदा योषा पूर्वं रेतः प्रजनयत्यथापरं धत्ते॥
मातेव पुत्रम् पृथिवी पुरीष्यमिति॥
मातेव पुत्रम् पृथिवी पशव्यमित्येतदग्निं स्वे योनावभारुखेत्यग्निं स्वे योनावभार्षीदुखेत्येतत्तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चत्वियृतवो वै विश्वे देवास्तदेनां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चति तामुत्तरतो ऽग्नेर्निदधात्यरत्निमात्रे तस्योक्तो बन्धुः॥
अथास्याम् पय आनयति॥
एतद्वा एतद्रेतो धत्ते ऽथ पयो धत्ते योषा वा उखा तस्माद्यदा योषा रेतो धत्ते ऽथ पयो धत्ते ऽधराः सिकता भवन्त्युत्तरम् पयो ऽधरं हि रेत उत्तरम् पयस्तन्मध्य आनयति यथा तत्प्रति पुरुषशीर्षमुपदध्यात्॥
प्रजापतिः प्रजा असृजत॥
स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रंसत तस्माद्विस्रस्तात्प्राणो मध्यत उदक्रामदथास्माद्वीर्यमुदक्रामत्तस्मिन्नुत्क्रान्ते ऽपद्यत तस्मात्पन्नादन्नमस्रवद्यच्चक्षुरध्यशेत तस्मादस्यान्नमस्रवन्नो हेह तर्हि का चन प्रतिष्ठास॥
ते देवा अब्रुवन्॥
न वा इतो ऽन्या प्रतिष्ठास्तीममेव पितरम् प्रजापतिं संस्करवाम सैव नः प्रतिष्ठा भविष्यतीति॥
ते ऽग्निमब्रुवन्॥
न वा इतो ऽन्या प्रतिष्ठास्ति त्वयीमम् पितरम् प्रजापतिं संस्करवाम सैव नः प्रतिष्ठा भविष्यतीति किम् मे ततो भविष्यतीति॥
ते ऽब्रुवन्॥
अन्नं वा अयम् प्रजापतिस्त्वन्मुखा एतदन्नमदाम त्वन्मुखानां न एषो ऽन्नमसदिति तथेति तस्माद्देवा अग्निमुखा अन्नमदन्ति यस्यै हि कस्यै च देवतायै जुह्वत्यग्नावेव जुह्वत्यग्निमुखा हि तद्देवा अन्नमकुर्वत॥
स यो ऽस्मात्प्राणो मध्यत उदक्रामत्॥
अयमेव स वायुर्यो ऽयम् पवते ऽथ यदस्माद्वीर्यमुदक्रामदसौ स आदित्यो ऽथ यदस्मादन्नमस्रवद्यदेव संवत्सरे ऽन्नं तत्तत्॥
तं देवा अग्नौ प्रावृञ्जन्॥
तद्य एनम् प्रवृक्तमग्निरारोहद्य एवास्मात्स प्राणो मध्यत उदक्रामत्स एवैनं स आपद्यत तमस्मिन्नदधुरथ यदस्माद्वीर्यमुदक्रामत्तदस्मिन्नदधुरथ यदस्मादन्नमस्रवत्तदस्मिन्नदधुस्तं सर्वं कृत्स्नं संस्कृत्योर्ध्वमुदश्रयंस्तद्यं तमुदश्रयन्निमे स लोकाः॥
तस्यायमेव लोकः प्रतिष्ठा॥
अथ यो ऽस्मिंलोके ऽग्निः सो ऽस्यावाङ् प्राणो ऽथास्यान्तरिक्षमात्माथ यो ऽन्तरिक्षे वायुर्य एवायमात्मन्प्राणः सो ऽस्य स द्यौरेवास्य शिरः सूर्याचन्द्रमसौ चक्षुषी यच्चक्षुरध्यशेत स चन्द्रमास्तस्मात्स मीलितततरो ऽन्नं हि तस्मादस्रवत्॥
तदेषा वै सा प्रतिष्ठा॥
यां तद्देवाः समस्कुर्वन्त्सैवेयमद्यापि प्रतिष्ठा सो एवाप्यतो ऽधि भविता॥
स यः स प्रजापतिर्व्यस्रंसत॥
अयमेव स यो ऽयमग्निश्चीयत तद्यदेषोखा रिक्ता शेते पुरा प्रवर्जनाद्यथैव तत्प्रजापतिरुत्क्रान्ते प्राण उत्क्रान्ते वीर्ये स्रुते ऽन्ने रिक्तो ऽशयदेतदस्य तद्रूपम्॥
तामग्नौ प्रवृणक्ति॥
यथैवैनमदो देवाः प्रावृञ्जंस्तद्य एनाम् प्रवृक्तामग्निरारोहति य एवास्मात्स प्राणो मध्यत उदक्रामत्स एवैनं स आपद्यते तमस्मिन्दधात्यथ यद्रुक्भम् प्रतिमुच्य बिभर्ति यदेवास्माद्वीर्यमुदक्रामत्तदस्मिन्दधात्यथ याः समिध आदधाति यदेवास्मादन्नमस्रवत्तदस्मिन्दधाति॥
ता वै सायम् प्रातरादधाति॥
अह्नश्च हि तद्रात्रेश्चान्नमस्रवत्तान्येतानि सर्वस्मिन्नेव संवत्सरे स्युः संवत्सरो हि स प्रजापतिर्यस्मात्तान्युदक्रामंस्तदस्मिन्नेतत्सर्वस्मिन्नेव सर्वं दधाति यस्मिन्हास्यैतदतो न कुर्यान्न हास्य तस्मिन्नेतद्दध्यान्नासंवत्सरभृतस्येक्षकेण चन भवितव्यमिति ह स्माह वामकक्षायणो नेदिमम् पितरम् प्रजापतिं विच्छिद्यमानम् पश्यानीति तं संवत्सरे सर्वं कृत्स्नं संस्कत्योर्ध्वमुछ्रयति यथैवैनमदो देवा उदश्रयन्॥
तस्य गार्हपत्य एवायं लोकः॥
अथ यो गार्हपत्ये ऽग्निर्य एवायमस्मिंलोके ऽग्निः सो ऽस्य सो ऽथ यदन्तराहवनीयं च गार्हपत्यं च तदन्तरिक्षमथ य आग्नीध्रीये ऽग्निर्य एवायमन्तरिक्षे वायुः सो ऽस्य स आहवनीय एव द्यौरथ य आहवनीये ऽग्निस्तौ सूर्याचन्द्रमसौ सो ऽस्यैष आत्मैव॥
तस्य शिर एवाहवनीयः॥
अथ य आहवनीये ऽग्निर्य एवायं शीर्षन्प्राणः सो ऽस्य स तद्यत्स पक्षपुछवान्भवति पक्षपुछवान्ह्ययं शीर्षन्प्राणश्चक्षुः शिरो दक्षिणं श्रोत्रं दक्षिणः पक्ष उत्तरं श्रोत्रमुत्तरः पक्षः प्राणो मध्यमात्मा वाक्पुछम् प्रतिष्ठा तद्यत्प्राणा वाचान्नं जग्ध्वा प्रतितिष्ठन्ति तस्माद्वाक्पुछम् प्रतिष्ठा॥
अथ यदन्तराहवनीयं च गार्हपत्यं च॥
स आत्माथ य आग्नीध्रीये ऽग्निर्य एवायमन्तरात्मन्प्राणः सो ऽस्य स प्रतिष्ठैवास्य गार्हपत्यो ऽथ यो गार्हपत्ये ऽग्निः सो ऽस्यावाङ् प्राणः॥
तं हैके त्रिचितं चिन्वन्ति॥
त्रयो वा इमे वाञ्चः प्राणा इति न तथा कुर्यादति ते रेचयन्त्येकविंशसम्पदमथो अनुष्टुप्सम्पदमथो बृहतीसम्पदं ये तथा कुर्वन्त्येकं ह्येवैतद्रूपं योनिरेव प्रजातिरेव यदेते ऽवाञ्चः प्राणा यद्धि मूत्रं करोति यत्पुरीषम् प्रैव तज्जायते॥
अथातः सम्पदेव॥
एकविंशतिरिष्टका नव यजूंषि तत्त्रिंशत्सादनं च सूददोहाश्च तद्द्वात्रिन्तद्द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप्॥
एकविंशतिर्वेव परिष्रितः॥
यजुर्द्वाविंशं व्युदूहनस्य यजुरूषाश्च यजुश्च सिकताश्च यजुश्च पुरीषं च यजुश्च चतुर्भिः सन्निवपति विमुञ्चति पञ्चमेन ततस्त्रिभिरियं द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप्॥
अथैते द्वे यजुषी॥
सो अनुष्टुबेव वाग्वा अनुष्टुप्तद्यदिदं द्वयं वाचो रूपं दैवं च मानुषं चोच्चैश्च शनैश्च तदेते द्वे॥
ता वा एतास्तिस्रो ऽनुष्टुभः॥
चित एष गार्हपत्यस्तद्यदेता अत्र तिस्रो ऽनुष्टुभः सम्पादयन्त्यत्र ह्येवेमे तदा सर्वे लोका भवन्ति ततो ऽन्यतरां द्वात्रिंशदक्षरामनुष्टुभमाहवनीयं हरन्ति स आहवनीयः सा द्यौस्तछिरो ऽथेहान्यतरा परिशिष्यते स गार्हपत्यः सा प्रतिष्ठा स उ अयं लोकः॥
अथ ये एते द्वे यजुषी॥
एतत्तद्यदन्तराहवनीयं च गार्हपत्यं च तदन्तरिक्षं स आत्मा तद्यत्ते द्वे भवतस्तस्मादेतत्तनीयो यदन्तराहवनीयं च गार्हपत्यं च तस्मादेषां लोकानामन्तरिक्षलोकस्तनिष्ठः॥
सैषा त्रेधाविहिता वागनृष्टुप्॥
तामेषो ऽग्निः प्राणो भूत्वानुसञ्चरति य आहवनीये ऽग्निः स प्राणः सो ऽसावादित्यो ऽथ य आग्नीध्रीये ऽग्निः स व्यानः स उ अयं वायुर्यो ऽयम् पवते ऽथ यो गार्हपत्ये ऽग्निः स उदानः स उ अयं यो ऽयमस्मिंलोके ऽग्निरेवंविद्ध वाव सर्वां वाचं सर्वम् प्राणं सर्वमात्मानं संस्कुरुते॥
सैषा बृहत्येव॥
ये वै द्वे द्वात्रिंशतौ द्वात्रिंशदेव तदथैते द्वे यजुषी तच्चतुस्त्रिंशदग्निरेव पञ्चत्रिंशो नाक्षराच्छन्दो व्येत्येकस्मान्न द्वाभ्यां स उ द्व्यक्षरस्तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहती बृहतीं वा एष सञ्चितो ऽभिसम्पद्यते यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यदेतामत्र बृहतीं करोति तस्मादेष सञ्चितो बृहतीमभिसम्पद्यते॥
तदाहुः॥
यदयं लोको गार्हपत्यो ऽन्तरिक्षं धिष्ण्या द्यौराहवनीयो ऽन्तरिक्षलोक उ अस्माल्लोकादनन्तर्हितो ऽथ कस्माद्गार्हपत्यं चित्वाहवनीयं चिनोत्यथ धिष्ण्यानिति सह हैवेमावग्रे लोकावासतुस्तयोर्वियतोर्यो ऽन्तरेणाकाश आसीत्तदन्तरिक्षमभवदीक्षं हैतन्नाम ततः पुरान्तरा वा इदमीक्षमभूदिति तस्मादन्तरिक्षं तद्यद्गार्हपत्यं चित्वाहवनीयं चिनोत्येतौ ह्यग्रे लोकावसृज्येतामथ प्रत्येत्य धिष्ण्यान्निवपति कर्मण एवानन्तरयायाथो अन्तयोर्वाव संस्क्रियमाणयोर्मध्यं संस्क्रियते॥