वनीवाह्येताग्निम् बिभ्रदित्याहुः॥
देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवाश्चक्रमचरञ्छालमसुरा आसंस्ते देवाश्चक्रेण चरन्त एतत्कमापश्यंश्चक्रेण हि वै देवाश्चरन्त एतत्कर्मापश्यंस्तस्मादनस एव पौरोडाशेषु यजूंष्यनसो ऽग्नौ॥
स यो वनीवाह्यते॥
देवान्कर्मणैति दैवं हास्य कर्म कतम् भवत्यथ यो न वनीवाह्यते ऽसुरान्कर्मणैत्यसुर्यं हास्य कर्म कृतम् भवति॥
तद्धैक आहुः॥
स्वयं वा एष वनीवाहितो विष्णुक्रमैर्वा एष प्रयाति वात्सप्रेणावस्यतीति न तथा विद्याद्दैवं वा अस्य तत्प्रयाणं यद्विष्णुक्रमा दैवमवसानं यद्वात्सप्रमथास्येदम् मानुषम् प्रयाणं यदिदम् प्रयाति मानुषमवसानं यदवस्यति॥
प्रजापतिरेषोग्निः॥
उभयम्वेतत्प्रजापतिर्यच्च देवा यच्च मनुष्यास्तद्यद्विष्णुक्रमवात्सप्रे भवतो यद्ववास्य दैवं रूपं तदस्य तेन संस्करोत्यथ यद्वनीवाह्यते यदेवास्य मानुषं रूपं तदस्यतेन संस्करोति स ह वा एतं सर्वं कृत्स्नम् प्रजापतिं संस्करोति य एवं विद्वान्वनीवाह्यते तस्मादु वनीवाह्येतैव॥
स यदहः प्रयास्यन्त्स्यात्॥
तदहरुत्तरतो ऽग्नेः प्रागन उपस्थाप्याथास्मिन्त्समिधमादधात्येतद्वा एनं देवा एष्यन्तम् पुरस्तादन्नेनाप्रीणन्नेतया समिधा तथैवैनमयमेतदेष्यन्तम् पुरस्तादन्नेन प्रीणात्येतया समिधा॥
समिधाग्निं दुवस्यतेति॥
समिधाग्निं नमस्यतेत्येतद्घृतैर्बोधयतातिथिमास्मिन्हव्या जुहोतनेति घृतैरह बोधयतातिथिमो अस्मिन्हव्यानि जुहुतेत्येतद्ब्रुद्धवत्येत्पायै ह्येनमेतद्बोधयति॥
अथैनमुद्यछति॥
उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति विश्वे वा एतमग्रे देवाश्चित्तिभिरुदभरन्नेतद्ध्येषां तदा चित्तमासीत्तथैवैनमयमेतच्चितिभिरुद्भरत्येतद्ध्यस्य तदा चित्तम् भवति स नो भव शिवस्त्वं सुप्रतीको विभावसुरिति यथैव यजुस्तथा बन्धुस्तं दक्षिणत उदञ्चमादधाति तस्यो बन्धु स्थाल्यां गार्हपत्यं समुप्यापरमादधाति स यदि कामयेतोपाधिरोहेत्पार्श्वतो वा व्रजेत्॥
अथानड्वाहौ युनक्ति॥
दक्षिणमग्रे ऽथ सव्यमेवं देवत्रेतरथा मानुषे स यां कां च दिशं यास्यन्त्स्यात्प्राङेवाग्रे प्रयायात्प्राची हि दिगग्नेः स्वामेव तद्दिशमनु प्रयाति॥
प्रेदग्ने ज्योतिष्मान्याहि॥
शिवेभिरर्चिभिष्ट्वामिति प्रेदग्ने त्वं ज्योतिष्मान्याहि शिवेभिरर्चिभिर्दीप्यमानैरित्येतद्बृहद्भिर्भानुभिर्भासन्मा हिंसीस्तन्वा प्रजा इति बृहद्भिरर्चिभिर्दीप्यमानैर्मा हिंसीरात्मना प्रजा इत्येतत्॥
स यदाक्ष उत्सर्जेत्॥
अथैतद्यजुर्जपेदसुर्या वा एषा वाग्याक्षस्य तामेतछमयति तामेतद्देवत्रा करोति॥
यद्वेवैतद्यजुर्जपति॥
यस्मिन्वै कस्मिंश्चाहिते ऽक्ष उत्सर्जति तस्यैव सा वाग्भवति तद्यदग्नावाहिते ऽक्ष उत्सर्जत्यग्नेरेव सा वाग्भवत्यग्निमेव तद्देवा उपास्तुवन्नुपामहयंस्तथैवैनमयमेतदुपस्तौत्युपमहयत्यक्रन्ददग्नि स्तनयन्निव द्यौरिति तस्योक्तो बन्धुः॥
स यदि पुरा वसत्यै विमुञ्चेत॥
अनस्येवाग्निः स्यादथ यदा वसत्यै विमुञ्चेत प्रागन उपस्थाप्योत्तरत उद्धत्यावोक्षति यत्रैनमुपावहरति तं दक्षिणत उदञ्चमुपावहरति तस्योक्तो बन्धुः॥
अथास्मिन्त्समिधमादधाति॥
एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्नेतया समिधा तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतया समिधा॥
प्र प्रायमग्निर्भरतस्य शृण्व इति॥
प्रजापतिर्वै भरतः स हीदं सर्वम् बिभर्ति वि यत्सूर्यो न रोचते बृहद्भा इति वि यत्सूर्य इव रोचते बृहद्भा इत्येतदभि यः पूरुम् पृतनासु तस्थाविति पूरुर्ह नामासुररक्षसमास तमग्निः पृतनास्वभितष्ठौ दीदाय दैव्यो अतिथिः शिवो न इति दीप्यमानो दैवो ऽतिथिः शिवो न इत्येतत्स्थितवत्या वसत्यै ह्येनं तत्स्थापयति॥
अथातः सम्पदेव॥
समिधम् प्रथमेनादधात्युद्यछत्येकेन प्रयात्येकेनाक्षमेकेनानुमन्त्रयते समिधमेव पञएमेनादधाति तत्पञ्च पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अथातो भस्मन एवाभ्यवहरणस्य॥
देवा वा एतदग्रे भस्मोदवपंस्ते ऽब्रुवन्यदि वा इदमित्थमेव सदात्मानमभिसंस्करिष्यामहे मर्याः कुणपा अनपहतपाप्मानो भविष्यामो यद्यु परावप्स्यामो यदत्राग्नेयम् बहिर्धा तदग्नेः करिष्याम उप तज्जानीत यथेदं करवामेति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेदं करवामेति॥
ते चेतयमानाः॥
एतदपश्यन्नप एवैनदभ्यवहरामापो वा अस्य सर्वस्य प्रतिष्ठा तद्यत्रास्य सर्वस्य प्रतिष्ठा तदेनत्प्रतिष्ठाप्य यदत्राग्नेयं तदद्भ्यो ऽधि जनयिष्याम इति तदपो ऽभ्यवाहरंस्तथैवैनदयमेतदपो ऽभ्यवहरति॥
आपो देवीः॥
प्रतिगृभ्णीत भस्मैतत्स्योने कृणुध्वं सुरभा उ लोक इति जग्धं वा एतद्यातयाम भवति तदेतदाह स्रभिष्ठ एनल्लोके कुरुध्वमिति तस्मै नमन्तां जनय इत्यापो वै जनयो ऽद्भ्यो हीदं सर्वं जायते सुपत्नीरित्यग्निना वा आपः सुपत्न्यो मातेव पुत्रम् बिभृताप्स्वेनदिनि यथा माता पुत्रमपस्थे बिभृयादेवमेनद्बिभृतेन्येतत्॥
अप्स्वग्ने सधिष्टवेति॥
अप्स्वग्ने योनिष्टवेत्येतत्सौषधीरनुरुध्यस इत्योषधीर्ह्येषो ऽनुरुध्यते गर्भो सन्जायसे पुनरिति गर्भो ह्येष सन्जायते पुनर्गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसीति तदेनमस्य सर्वस्य गर्भं करोति॥
त्रिभिरभ्यवहरति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनदेतदभ्यवहरत्येकेनाग्रे ऽथ द्वाभ्यां द्वाभ्यां वाग्रे ऽथैकेन द्विस्तु कृत्वो ऽभ्यवहरति तद्ये द्विपादाः पशवस्तैरेवैनदेतदभ्यवहरति॥
अथापादत्ते॥
तद्यदत्राग्नेयं तदेतदद्भ्यो ऽधि जनयत्यनयानया वै भेषजं क्रियते ऽनयैवैनमेतत्सम्भरति प्रसद्य भस्मना योनिमपश्च पृथिवीमग्न इति प्रसन्नो ह्येष भस्मना योनिमपश्च पृथिवीं च भवति संसृज्य मातृभिष्ट्वं ज्योतिष्मान्पुनरासद इति सङ्गत्य मातृभिष्ट्वं ज्योतिष्मान्पुनरासद इत्येतत्पुनरासद्य सदनम् पुनरूर्जा सह रय्येत्येतेन मासर्वेणाभिनिवर्तस्वेत्येतत्॥
चतुर्भिरपादत्ते॥
तद्ये चतुष्पादाः पशवस्तैरेवैनमेतत्सम्भरत्यथो अन्नं वै पशवो ऽन्नेनैवैनमेतत्सम्भरति त्रिभिरभ्यवहरति तत्सप्त सप्तचितिको ऽग्निः सप्त ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अपादाय भस्मनः प्रत्येत्य॥
उखायामोप्योपतिष्ठत एतद्वा एतदयथायथं करोति यदग्निमपो ऽभ्यवहरति तस्मा एवैतन्निह्नुते ऽहिंसाया आग्नेयीभ्यामग्नय एवैतन्निह्नुते बुद्धवतीभ्यां यथैवास्यैतदग्निर्वचो निबोधेत्॥
बोधा मे अस्य वचसो यविष्ठेति॥
बोध मे ऽस्य वचसो यविष्ठेत्येतन्मंहिष्ठस्य प्रभृतस्य स्वधाव इति भूयिष्ठस्य प्रभृतस्य स्वधाव इत्येतत्पीयति त्वो अनु त्वो गृणातीति पीयत्येको ऽन्वेको गृणाति वन्दारुष्टे तन्वं वन्दे अग्न इति वन्दिता ते ऽहं तन्वं वन्दे ऽग्न इत्येतत्स बोधि सूरिर्मघवा वसुपते वसुदावन् युयोध्यस्मद्द्वेषांसीति यथैवास्माद्द्वेषांसि युयादेवमेतदाह द्वाभ्यामुपतिष्ठते गायत्र्य:! च त्रिष्टुभा च तस्योक्तो बन्धुः॥
तानि नव भवन्ति॥
नव दिशो दिशो ऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अथ प्रायश्चित्ती करोति॥
सर्वेभ्यो वा एष एतं कामेभ्य आधत्ते तद्यदेवास्यात्र कामानां व्यवछिद्यते ऽग्नावपो ऽभ्यवह्रियमाणे तदेवैतत्सन्तनोति सन्दधात्युभे प्रायश्चित्ती करोति ये एवाग्नावनुगते तस्योक्तो बन्धुः॥
तानि दश भवन्ति॥
दशाक्षरा विराड्विराडग्निर्देश दिशो दिशो ऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥