०७

रुक्मम् प्रतिमुच्य बिभर्ति॥
सत्यं हैतद्यद्रुक्भः सत्यं वा एतं यन्तुमर्हति सत्येनैतं देवा अबिभरुः सत्येनैवैनमेतद्बिभर्ति॥
तद्यत्तत्सत्यम्॥
असौ स आदित्यः स हिरण्मयो भवति ज्योतिर्वै हिरण्यं ज्योतिरेषो ऽमृतं हिरण्यममृतमेष परिमण्डलो भवति परिमण्डलो ह्येष एकविंशतिनिर्बाध एकविंशो ह्येष बहिष्टान्निर्बाधम् बिभर्ति रश्मयो वा एतस्य निर्बाधा बाह्यत उ वा एतस्य रश्मयः॥
यद्वेव रुक्भम् प्रतिमुच्य बिभर्ति॥
असौ वा आदित्य एष रुक्भो नो हैतमग्निम् मनुष्यो मनुष्यरूपेण यन्तुमर्हत्येतेनैव रूपेणैतद्रूपम् बिभर्ति॥
यद्वेव रुक्भम् प्रतिमुच्य बिभर्ति॥
रेतो वा इदं सिक्तमयमग्निस्तेजो वीर्यं रुक्भो ऽस्मिंस्तद्रेतसि तेजो वीर्यं दधाति॥
यदेव रुक्भम् प्रतिमुच्य बिभर्ति॥
एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतमन्तिकाद्गोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एष रुक्भस्तथैवास्मा अयमेतमन्तिकाद्गोप्तारं करोति॥
कृष्णाजिने निष्यूतो भवति॥
यज्ञो वै कृष्णाजिनं यज्ञो वा एतं यन्तुमर्हति यज्ञेनैतं देवा अबिभरुर्यज्ञेनैवैतमेतद्बिभर्ति लोमतश्छन्दांसि वै लोमानि छन्दांसि वा एतं यन्तुमर्हन्ति छन्दोभिरेतं देवा अबिभरुश्छन्दोभिरेवैनमेतद्बिभर्ति॥
अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति॥
ऋक्सामयोर्हैते रूपे ऋक्सामे वा एतं यन्तुमर्हत ऋक्सामाभ्यामेतं देवा अबिभरुरृक्सामाभ्यामेवैनमेतद्बिभर्ति शाणो रुक्भपाशस्त्रिवृत्तस्योक्तो बन्धुः॥
तमुपरिनाभि बिभर्ति॥
असौ वा आदित्य एष रुक्भ उपरिनाभ्यु वा एषः॥
यद्बेवोपरिनाभि॥
अवाग्वै नाभे रेतः प्रजापतिस्तेजो वीर्यं रुक्भो नेन्मे रेतः प्रजातिं तेजो वीर्यं रुक्भः प्रदहादिति॥
यद्वेवोपरिनाभि॥
एतद्वै पशोर्मेध्यतरं यदुपरिनाभि पुरीषसंहिततरं यदवाङ्नाभेस्तद्यदेव पशोर्मेध्यतरं तेनैनमेतद्बिभर्ति॥
यद्वेवोपरिनाभि॥
यद्वै प्राणस्यामृतमूर्ध्वं तन्नाभेरूर्ध्वैः प्राणैरुच्चरत्यथ यन्मर्त्यम् पराक्तन्नाभिमत्येति तद्यदेव प्राणस्यामृतं तदेनमेतदभिसम्पादयति तेनैनमेतद्बिभर्ति॥
अथैनमासन्द्या बिभर्ति॥
इयं वा आसन्द्यस्यां हीदं सर्वमासन्नमियं वा एतं यन्तुमर्हत्यनयैतं देवा अबिभरुरनयैवैनमेतद्बिभर्ति॥
औदुम्बरी भवति॥
ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन बिभर्त्यथो सर्व एते वनस्पतयो यदुदुम्बरः सर्वे वा एतं वनस्पतयो यन्तुमर्हन्ति सर्वैरेतं वनस्पतिभिर्देवा अबिभरुः सर्वैरेवैनमेतद्वनस्पतिभिर्बिभर्ति॥
प्रादेशमात्र्यूर्ध्वा भवति॥
प्रादेशमात्रो वै गर्भो विष्णुर्योनिरेषा गर्भसम्मितां तद्योनिं करोत्यरत्निमात्री तिरश्ची बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति वीर्यं वा एतं यन्तुमर्हति वीर्येणैतं देवा अबिभरुर्वीर्येणैवैनमेतद्बिभर्ति॥
चतुःस्रक्तयः पादा बवन्ति॥
चतुःस्रक्तीन्यनूच्यानि चतस्रो वै दिशो दिशो वा एतं यन्तुमर्हन्ति दिग्भिरेतं देवा अबिभरुर्दिग्भिरेवैनमेतद्बिभर्ति मौञ्जीभी रज्जुभिर्व्युता भवति त्रिवृद्भिस्तस्योक्तो बन्धुर्मृदा दिग्धा तस्यो एवोक्तो ऽथो अनतिदाहाय॥
अथैनं शिक्येन बिभर्ति॥
इमे वै लोका एषो ऽग्निर्दिशः शिक्यं दिग्भिर्हीमे लोकाः शक्नुवन्ति स्थातुं यछक्नुवन्ति तस्माछिक्यं दिग्भिरेवैनमेतद्बिभर्ति षडुद्यामम् भवति षड्ढि दिशो मौञ्जं त्रिवृत्तस्योक्तो बन्धुर्मृदा दिग्धं तस्यो एवोक्तो ऽथो अनतिदाहाय॥
तस्याप एव प्रतिष्ठा॥
अप्सु हीमे लोकाः प्रतिष्ठिता आदित्य आसञ्जनमादित्ये हीमे लोका दिग्भिरासक्ताः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपम् बिभर्ति॥
यद्वेवैनं शिक्येन बिभर्ति॥
संवत्सर एषो ऽग्निरृतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति स्थातुं यछक्नोति तस्माछिक्यमृतुभिरेवैनमेतद्बिभर्ति षडुद्यामम् भवति षड्ढ्यृतवः॥
तस्याहोरात्रे एव प्रतिष्ठा॥
अहोरात्रयोर्ह्ययं संवत्सरः प्रतिष्ठितश्चन्द्रमा आसञ्जनं चन्द्रमसि ह्ययं संवत्सर ऋतुभिरासक्तः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपम् बिभर्ति तस्य ह वा एष संवत्सरभृतो भवति य एवं वेद संवत्सरोपासितो हैव तस्य भवति य एवं न वेदेत्यधिदेवतम्॥
अथाध्यात्मम्॥
आत्मैवाग्निः प्राणाः शिक्यम् प्राणैर्ह्ययमात्मा शक्नोति स्थतुं यछक्नोति तस्माछिक्यम् प्राणैरेवैनमेतद्बिभर्ति षडुद्यामम् भवति षड्ढि प्राणाः॥
तस्य मन एव प्रतिष्ठा॥
मनसि ह्ययमात्मा प्रतिष्ठितो ऽन्नमासञ्जनमन्ने ह्ययमात्मा प्राणैरासक्तः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपम् बिभर्ति॥
अथैनमुखया बिभर्ति॥
इमे वै लोका उखेमे वा एतं लोका यन्तुमर्हन्त्येभिरेतं लोकैर्देवा अबिभरुरेभिरेवैनमेतल्लोकैर्बिभर्ति॥
सा यदुखा नाम॥
एतद्वै देवा एतेन कर्मणैतयावृतेमांलोकानुदखनन्यदुदखनंस्तस्मादुत्खीत्खा ह वै तामुखेत्याचखते परो ऽक्षम् परो ऽक्षकामा हि देवाः॥
तद्वा उखेति द्वे अक्षरे॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्बिभर्ति सो एव कुम्भी सा स्थाली तत्षट् षडृतवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अथैनमिण्ड्वा परिगृह्णाति॥
असौ वा आदित्य एषो ऽग्निरहोरात्रे इण्ड्वे अमुं तदादित्यमहोरात्राभ्याम् परिगृह्णाति तस्मादेषो ऽहोरात्राभ्याम् परिगृहीतः॥
यद्वेवैननमिण्ड्वाभ्याम् परिगृह्णाति॥
असौ वा आदित्य एषो ऽग्निरिमा उ लोकाविण्ड्वे अमुम् तदादित्यमाभ्यां लोकाभ्याम् परिगृह्णाति तस्मादेष आभ्यां लोकाभ्याम् परिगृहीतः परिमण्डले भवतः परिमण्डलौ हीमौ लोकौ मौञ्जे त्रिवृती तस्योक्तो बन्धुर्मृदा दिग्धे तस्यो एवोक्तो ऽथो अनतिदाहाय॥
अथातः सम्पदेव॥
आसन्दो चोखा च शिक्यं च रुक्भपाशश्चाग्निश्च रुक्भश्च तत्षट् षडृतवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवतीण्ड्वे तदष्टावष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अथ सर्वसम्पत्॥
चत्वारः पादाश्चत्वार्यनूच्यानि शिक्यं च रुक्भपाशश्च यदु किं च रज्जव्यं शिक्यं तदनूखाग्नी रुक्भस्तत्त्रयोदश त्रयोदश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
तं तिष्ठन्प्रतिमुञ्चते॥
असौ वा आदित्य एष रुक्भस्तिष्ठतीव वा असावादित्यो ऽथो तिष्ठन्वै वीर्यवत्तर उदङ् प्राङ् तिष्ठंस्तस्योक्तो बन्धुः॥
दृशानो रुक्भ उर्व्या व्यद्यौदिति॥
दृश्यमानो ह्येष रुक्भ उर्व्या विद्योतते दुर्मर्षमायुः श्रिये रुचान इति दुर्मरं वा एतस्यायुः श्रियो एष रोचते ऽग्निरमृतो अभवद्वयोभिरिति सर्वैर्वा एष वयोभिरमृतो ऽभवद्यदेनं द्यौरजनयदिति द्यौर्वा एतमजनयत्सुरेता इति सुरेता ह्येषा यस्या एष रेतः॥
अथैनमिण्ड्वाभ्याम् परिगृह्णाति॥
नक्तोषासा समनसा विरूपे इत्यहोरात्रे वै नक्तोषासा समनसा विरूपे धापयेते शिशुमेकं समीची इति यद्वै किं चाहोरात्रयोस्तेनैतमेव समीची धापयेते द्यावाक्षामा रुक्भो अन्तर्विभातीति हरन्नेतद्यजुर्जपतीमे वै द्यावापृथिवी द्यावाक्षामा ते एष यन्नन्तरा विभाति तस्मादेतद्धरन्यजुर्जपति देवा अग्निं धारयन्द्रविणोदा इति परिगृह्य निदधाति प्राणा वै देवा द्रविणोदास्त एतमग्र एवमधारयंस्तैरेवैनमेतद्धारयति॥
अथ शिक्यपाशम् प्रतिमुञ्चते॥
विश्वा रूपाणि प्रतिमुञ्चतेकविरित्यसौ वा आदित्यः कविर्विश्वा रूपा शिक्यम् प्रासावीद्भद्रं द्विपदे चतुष्पद इत्युद्यन्वा एष द्विपदे चतुष्पदे च भद्रम् प्रसौति वि नाकमख्यत्सविता वरेण्य इति स्वर्गो वै लोको नाकस्तमेष उद्यन्नेवानुविपश्यन्यनु प्रयाणमुषसो विराजतीत्युषा वा अग्रे व्युछति तस्या एष व्युष्टिं विराजन्ननूदेति॥
अथैनमतो विकृत्या विकरोति॥
इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्यौनौ रेतः सिक्तं विक्रियते॥
सुपर्णो ऽसि गरुत्मानिति॥
वीर्यं वै सुपर्णो गरुत्मान्वीर्यमेवैनमेतदभिसंस्करोति त्रिवृत्ते शिर इति त्रिवृतमस्य स्तोमं शिरः करोति गायत्रं चक्षुरिति गायत्रं चक्षुः करोति बृहद्रथन्तरे पक्षाविति बृहद्रथन्तरे पक्षौ करोति स्तोम आत्मेति स्तोममात्मानं करोति पञ्चविंशं छन्दांस्यङ्गानीति छन्दांसि वा एतस्याङ्गानि यजूंषि नामेति यदेनमग्निरित्याचक्षते तदस्य यजूंषि नाम साम ते तनूर्वामदेव्यमित्यात्मा वै तनूरात्मा ते तनूर्वामदेव्यमित्येतद्यज्ञायज्ञियम् पुछमिति यज्ञायज्ञियम् पुछं करोति धिष्ण्याः शफा इति धिष्णयिर्वा एषो ऽस्मिंलोके प्रतिष्ठितः सुपर्णो ऽसि गरुत्मान्दिवं गछ स्वः पतेति तदेनं सुपर्णं गरुत्मन्तं कृत्वाह देवान्गछ स्वर्गं लोकम् पतेति॥
तं वा एतम्॥
अत्र पक्षपुछवन्तं विकरोति यादृग्वै योनौ रेतो विक्रियते तादृग्जायते तद्यदेतमत्र पक्षपुछवन्तं विकरोति तस्मादेषो ऽमुत्र पक्षपुछवान्जायते॥
तं हैके॥
एतया विकृत्याभिमन्त्र्यान्यां चितिं चिन्वन्ति द्रोणचितं वा रथचक्रचितं वा कङ्कचितं वा प्रौगचितं वोभयतः प्रउगं वा समुह्यपुरीषं वा न तथा कुर्याद्यथा पक्षपुछवन्तं गर्भम् परिवृश्चेत्तादृक्तत्तस्मादेनं सुपर्णचितमेव चिनुयात्॥
तमेतया विकृत्या॥
इत ऊर्ध्वम् प्राञ्चम् प्रगृह्णात्यसौ वा आदित्य एषो ऽग्निरमुं तदादित्यमित ऊर्ध्वम् प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ् धीयते परोबाहु प्रगृह्णाति परोबाहु ह्येष इतो ऽथैनमुपावहरति तमुपावहृत्योपरिनाभि धारयति तस्योक्तो बन्धुः॥
अथ विष्णुक्रमान्क्रमते॥
एतद्वै देवा विष्णुर्भूत्वेमांलोकानक्रमन्त यद्विष्णुर्भूत्वाक्रमन्त तस्माद्विष्णुक्रमास्तथैवैतद्यजमानो विष्णुर्भूत्वेमांलोकान्क्रमते॥
स यः स विष्णुर्यज्ञः सः॥
स यः स यज्ञो ऽयमेव स यो ऽयमग्निरुखायामेतमेव तद्देवा आत्मानं कृत्वेमांलोकानक्रमन्त तथैवैतद्यजमान एतमेवात्मानं कृत्वेमांलोकान्क्रमते॥
उदङ् प्राङ् तिष्ठन्॥
एतद्वै तत्प्रजापतिर्विष्णुक्रमैरुदङ् प्राङ् तिष्ठन्प्रजा असृजत तथैवैतद्यजमानो विष्णुक्रमैरुदङ् तिष्ठन्प्रजाः सृजते॥
विष्णोः क्रमो ऽसीति॥
विष्णुर्हि भूत्वा क्रमते सपत्नहेति सपत्नान्हात्र हन्ति गायत्रं छन्द आरोहेति गायत्रं छन्द आरोहति पृथिवीमनु विक्रमस्वेति पृथिवीमनु विक्रमते प्रहरति पादं क्रमत ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति॥
विष्णोः॥
क्रमो ऽसीति विष्णुर्हि भूत्वा क्रमते ऽभिमातिहेत्यभिमातीर्हात्र हन्ति त्रैष्टुभं छन्द आरोहेति त्रैष्टुभं छन्द आरोहत्यन्तरिक्षमनु विक्रमस्वेत्यन्तरिक्षमनु विक्रमत प्रहरति पादं क्रमत ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति॥
विष्णोः क्रमो ऽसीति॥
विष्णुर्हि भूत्वा क्रमते ऽरातीयतो हन्तेत्यरातीयतो हात्र हन्ति जागतं छन्द आरोहेति जागतं छन्द आरोहति दिवमनु विक्रमस्वेति दिवमनु विक्रमते प्रहरति पादं क्रमत ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति॥
विष्णोः क्रमो ऽसीति॥
विष्णुर्हि भूत्वा क्रमते शत्रूयतो हन्तेति शत्रुयतो हात्र हन्त्यानुष्टुभं छन्द आरोहेत्यानुष्टुभं छन्द आरोहति दिशो ऽनु विक्रमस्वेति सर्वा दिशो ऽनु वीक्षते न प्रहरति पादं नेदिमांलोकानतिप्रणश्यानीत्यूर्ध्वमेवाग्निमुद्गृह्णाति सं ह्यारोहति॥
अथैनमिति प्रगृह्णाति॥
एतद्वै देवा अकामयन्त पर्जन्यो रूपं स्यामेति त एतेनात्मना पर्जन्यो रूपमभवंस्तथैवैतद्यजमान एतेनात्मना पर्जन्यो रूपम् भवति॥
अक्रन्ददग्नि स्तनयन्निव द्यौरिति॥
क्रन्दतीव हि पर्जन्य स्तनयन्क्षामा रेरिहद्वीरुधः समञ्जन्निति क्षमा वै पर्जन्यो रेरिह्यमाणो वीरुधः समनक्ति सद्यो जज्ञानो वि हीमिद्धो अख्यदिति सद्यो वा एष जज्ञान इदं सर्वं विख्यापयत्या रोदसी भानुना भात्यन्तरितीमे वै द्यावापृथिवी रोदसी ते एष भानुनाभाति परोबाहु प्रगृह्णाति परोबाहु हि पर्जन्यः॥
अथैनमुपावहरति॥
एतद्वै यो ऽस्मिंलोके रसो यदुपजीवनं तेनैतत्सहोर्ध्व इमांलोकान्रोहत्यग्निर्वा अस्मिंलोके रसो ऽग्निरुपजीवनं तद्यत्तावदेव स्यान्न हास्मिंलोके रसो नोपजीवनं स्यादथ यत्प्रत्यवरोहत्यस्मिन्नेवैतल्लोके रसमुपजीवनं दधाति॥
यद्वेव प्रत्यवरोहति॥
एतद्वा एतदिमांलोकानित ऊर्ध्वो रोहति स स पराङिव रोह इयमु वै प्रतिष्ठा तद्यत्तावदेव स्यात्प्र हास्माल्लोकाद्यजमानश्च्यवेताथ यत्प्रत्यवरोहतीमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायाम् प्रतितिष्ठति॥
यदेवम् प्रत्यवरोहति॥
एतद्वा एतदिमांलोकानित ऊर्ध्वो जयति स स पराङिव जयो यो वै पराङेव जयत्यन्ये वै तस्य जितमन्ववस्यन्त्यथ य उभयथा जयति तस्य तत्र कामचरणम् भवति तद्यत्प्रत्यवरोहतीमानेवैतल्लोकानितश्चोर्ध्वानमुतश्चार्वाचो जयति॥
अग्ने ऽभ्यावर्तिन्॥
अभि मा निवर्तस्वाग्ने अङ्गिरः पुनरूर्जा सह रय्येत्येतेन मा सर्वेणाभिनिवर्तस्वेत्येतच्चतुष्कृत्वः प्रत्यवरोहति चतुर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो रोहति तावत्कृत्वः प्रत्यवरोहति तमुपावहृत्योपरिनाभि धारयति तस्योक्तो बन्धुः॥
अथैनमभिमन्त्रयते॥
आयुर्वा अग्निरायुरेवैतदात्मन्धत्त आ त्वाहार्षमित्या ह्येनं हरन्त्यन्तरभूरित्यायुरेवैतदात्मन्धत्ते ध्रुवस्तिष्ठाविचाचलिरित्यायुरेवैतद्ध्रुवमन्तरात्मन्धत्ते विशस्त्वा सर्वा वाञ्छन्त्वित्यन्नं वै विशो ऽन्नं त्वा सर्वं वाञ्चत्वित्येतन्मा त्वद्राष्ट्रमधिभ्रशदिति श्रीर्वै राष्ट्रम् मा त्वछ्रीरधिभ्रशदित्येतत्॥
अथ शिक्यपाशं च रुक्भपाशं चोन्मुञ्चते॥
वारुणो वै पाशो वरुणपाशादेव तत्प्रमुच्यते वारुण्य ऽर्चा स्वेनैव तदात्मना स्वया देवतया वरुणपाशात्प्रमुच्यत उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथायेति यथैव यजुस्तथा बन्धुरथा वयमादित्य व्रते तवानागसो अदितये स्यामेतीयं वा अदितिरनागसस्तुभ्यं चास्यै स्यामेत्येतत्॥
अथैनमिति प्रगृह्णाति॥
एतद्वा एनमदो विकृत्येत ऊर्ध्वम् प्राञ्चम् प्रगृह्णाति तं तत इति प्रगृह्णाति तद्यत्तावदेवाभविष्यदत्र हैवैष व्यरंस्यताथ यदेनमिति प्रगृह्णाति तस्मादेष इतीत्वाथेति पुनरैति॥
अग्रे बृहन्नुषसामूर्ध्वो अस्थादिति॥
अग्रे ह्येष बृहन्नुषसामूर्ध्वस्तिष्ठति निर्जगन्वान्तमसो ज्योतिषागादिति निर्जगन्वान्वा एष रात्र्यै तमसो ऽह्ना ज्योतिषैत्यग्निर्भानुना रुशता स्वङ्ग इत्यग्निर्वा एष भानुना रुशता स्वङ्ग आ जातो विश्वा सद्नान्यप्रा इतीमे वै लोका विश्वा सद्नानि तानेष जात आपूरयति परोबाहु प्रगृह्णाति परोबाहु ह्येष इतो ऽथैनमुपावहरतीमामेवैतत्प्रतिष्ठाम्मभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायाम् प्रतितिष्ठति जगत्या जगति हेमांलोकानमुतो ऽर्वाचो व्यश्नुते॥
हंसः शुचिषदिति॥
असौ वा आदित्यो हंसः शुचिषद्वसुरन्तरिक्षसदिति वायुर्वै वसुरन्तरिक्षसद्धोता वेदिषदित्यग्निर्वै होता वेदिषदतिथिरिति सर्वेषां वा एष भूतानामतिथिर्दुरोणसदिति विषमसदित्येतन्नृषदिति प्राणो वै नृषन्मनुष्या नरस्तद्यो ऽयम् मनुष्येषु प्राणो ऽग्निस्तमेतदाह वरसदिति सर्वेषु ह्येष वरेषु सन्न ऋतसदिति सत्यसदित्येतद्व्योमसदिति सर्वेषु ह्येष व्योमसु सन्नो ऽब्जा गोजा इत्यब्जाश्च ह्येष गोजाश्च ऽर्तजा इति सत्यजा इत्येतदद्रिजा इत्यद्रिजा ह्येष ऋतमिति सत्यमित्येतद्बृहदिति निदधाति बृहद्ध्येष तद्यदेष तदेनमेतत्कृत्वा निदधाति॥
द्वाभ्यामक्षराभ्याम्॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्याक्त्यस्य मात्रा तावतैवैनमेतन्निदधाति॥
अथैनमुपतिष्ठते॥
एतद्वा एनमेतल्लघूयतीव यदेनेन सहेति चेति चेमांलोकान्क्रमते तस्मा एवैतन्निह्नुते ऽहिंसायै॥
यद्वेवोपतिष्ठते॥
एतद्वै देवा अबिभयुर्यद्वै नो ऽयमिमांलोकानन्तिकान्न हिंस्यादिति तदेभ्य एवैनमेतल्लोकेभ्यो ऽशमयंस्तथैवैनमयमेतदेभ्यो लोकेभ्यः शमयति॥
सीद त्वम् मातुः॥
अस्या उपस्थे ऽन्तरग्ने रुचा त्वं शिवो भूत्वा मह्यमग्ने अथो सीद शिवस्त्वमिति शिवः-शिव इति शमयत्येवैनमेतदहिंसायै तथो हैष इमांलोकाञ्छान्तोन हिनस्ति॥
त्रिभिरुपतिष्ठते॥
त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मा एतन्निह्नुते ऽथो तावतैवैनमेतदेभ्यो लोकेभ्यः शमयति॥
अथ वात्सप्रेणोपतिष्ठते॥
एतद्वै प्रजापतिर्विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यमकरोत्तथैवैतद्यजमानो विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यं करोति॥
स हैष दाक्षायणहस्तः॥
यद्वात्सप्रं तस्माद्यं जातं कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत्तदस्मै जातायायुष्यं करोति तथो ह स सर्वमायुरेत्यथ यं कामयेत वीर्यवान्त्स्यादिति विकृत्यैनम् पुरस्तादभिमन्त्रयेत तथो ह स वीर्यवान्भवति॥
दिवस्परि प्रथमं जज्ञे अग्निरिति॥
प्राणो वै दिवः प्राणादु वा एष प्रथममजायतास्मद्द्वितीयम् परि जातवेदा इति यदेनमदो द्वितीयम् पुरुषविधो ऽजनयत्तृतीयमप्स्विति यदेनमदस्तृतीयमद्भ्यो ऽजनयन्नृमण अजस्रमिति प्रजापतिर्वै नृमणा अग्निरजस्र इन्धान एनं जरते स्वाधीरिति यो वा एनमिन्द्धे स एनं जनयते स्वाधीः॥
विद्ना ते अग्ने त्रेधा त्रयाणीति॥
अग्निर्वायुरादित्य एतानि हास्य तानि त्रेधा त्रयाणि विद्ना ते धाम विभृता पुरुत्रेति यदिदम् बहुधा विह्रियते विद्ना ते नाम परमं गुहा यदिति यविष्ठ इति वा अस्य तन्नाम परमं गुहा विद्ना तमुत्सं यत आजगन्थेत्यापो वा उत्सो ऽद्भ्यो वा एष प्रथममाजगाम समुद्रे त्वा नुमणा अप्स्वन्तरिति प्रजापतिर्वै नृमणा अप्सु त्वा प्रजापतिरित्येतन्नृचक्षा ईधे दिवो अग्न ऊधन्निति प्रजापतिर्वै नृचक्षा आपो दिव ऊधस्तृतीये त्वा रजसि तस्थिवांसमिति द्यौर्वै तृतीयं रजो ऽपामुपस्थे महिषा अवर्धन्निति प्राणा वै महिषा दिवि त्वा प्राणा अवर्धन्नित्येतत्॥
ता एता एकव्याख्यानाः॥
एतमेवाभि ता आग्नेय्यस्त्रिष्टुभस्ता यदाग्नेय्यस्तेनाग्निरथ यत्त्रिष्टुभो यदेकादश तेनेन्द्र ऐन्द्राग्नो ऽग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपतिष्ठत इन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो ऽग्निर्यावत्य॥
यद्वेव विष्णुक्रमवात्सप्रे भवतः॥
विष्णुक्रमैर्वै प्रजास्य मात्रा तावतैवैनमेतदुपतिष्टतेपतिरिमं लोकमसृजत वात्सप्रेणाग्निं विष्णुक्रमैर्वै प्रजापतिरन्तरिक्षमसृजत वात्सप्रेण वायं विष्णुक्रमैर्वै प्रजापतिर्दिवमसृजत वात्सप्रेणादित्यं विष्णुक्रमैर्वै प्रजापतिर्दिशो ऽसृजत वात्सप्रेण चन्द्रमसं विष्णुक्रमैर्वै प्रजापतिर्भूतमसृजत वात्सप्रेण भविष्यद्विष्णुक्रमैर्वै प्रजापतिर्वित्तमसृजत वात्सप्रेणाशां विष्णुक्रमैर्वै प्रजापतिरहरसृजत वात्सप्रेण रात्रिं विष्णुक्रमैर्वै प्रजापतिः पूर्वपक्षानसृजत वात्सप्रेणापरपक्षान्विष्णुक्रमैर्वै प्रजापतिरर्धमासानसृजत वात्सप्रेण मासान्विष्णुक्रमैर्वै प्रजापतिरृतूनसृजत वात्सप्रेण संवत्सरं तद्यद्विष्णुक्रमवात्सप्रे भवत एतदेव तेन सर्वं सृजते॥
यद्वेव विष्णुक्रमवात्सप्रे भवतः॥
विष्णुक्रमैर्वै प्रजापतिः स्वर्गं लोकमभिप्रायात्स एतदवसानमपश्यद्वात्सप्रं तेनावास्यदप्रदाहाय यद्धि युक्तं न विमुच्यते प्र तद्दह्यते तथैवैतद्यजमानो विष्णुक्रमैरेव स्वर्गं लोकमभिप्रयाति वात्सप्रेणावस्यति॥
स वै विष्णुक्रमान्क्रान्त्वा॥
अथ तदानीमेव वात्सप्रेणोपतिष्ठते यथा प्रयायाथ तदानीमेव विमुञ्चेत्तादृक्तद्देवानां वै विधामनु मनुष्यास्तस्मादु हेदमुत मानुषो ग्रामः प्रयायाथ तदानीमेवावस्यति॥
तद्वा अहोरात्रे एव विष्णुक्रमा भवन्ति॥
अहोरात्रे वात्सप्रमहोरात्रे एव तद्यात्यहोरात्रे क्षेम्यो भवति तस्मादु हेदमुत मानुषो ग्रामो ऽहोरात्रे यात्वाहोरात्रे क्षेम्यो भवति॥
स वा अर्धमेव संवत्सरस्य विष्णुक्रमान्क्रमते॥
अर्धं वात्सप्रेणोपतिष्ठते मध्ये ह संवत्सरस्य स्वर्गो लोकः स यत्कनीयो ऽर्धात्क्रमेत न हैतं स्वर्गं लोकमभिप्राप्नुयादथ यद्भूयो ऽर्धात्पराङ् हैतं स्वर्गं लोकमतिप्रणश्येदथ यदर्धं क्रमते ऽर्धमुपतिष्ठते तत्सम्प्रति स्वर्गं लोकमाप्त्वा विमुञ्चते॥
ताभ्यां वै विपर्यासमेति॥
यथा महान्तमध्वानं विमोकं समश्नुवीत तादृक्तत्स वै पुरस्ताच्चोपरिष्टाच्चोभे विष्णुक्रमवात्सप्रे समस्यत्यहर्वै विष्णुक्रमा रात्रिर्वात्सप्रमेमेतद्वा इदं सर्वम् प्रजापतिः प्रजनयिष्यंश्च प्रजनयित्वा चाहोरात्राभ्यामुभयतः परिगृह्णाति॥
तदाहुः॥
यदहर्विष्णुक्रमा रात्रिर्वात्सप्रमथोभे एवाहन्भवतो न रात्र्यां कथमस्यापि रात्र्यां कृते भवत इत्येतद्वा एने अदो दीक्षमाणः पुरस्तादपराह्ण उभे समस्यति रात्रिर्हैतद्यदपराह्णो ऽथैने एतत्सन्निवष्स्यन्नुपरिष्टात्पूर्वाह्ण उभे समस्यत्यहर्हैतद्यत्पूर्वाह्ण एवमु हास्योभे एवाहन्कृते भवत उभे रात्र्याम्॥
स यदहः सन्निवप्स्यन्त्स्यात् तदहः प्रातरुदित आदित्ये भस्मैव प्रथममुद्वपति भस्मोदुप्य वाचं विसृजते वाचं विसृज्य समिधमादधाति समिधमाधाय भस्मापो ऽभ्यवहरति यथैव तस्याभ्यवहरणं तथापादाय भस्मनः प्रत्येत्योखायामोप्योपतिष्ठते ऽथ प्रायश्चित्ती करोति॥
स यदि विष्णुक्रमीयमहः स्यात्॥
विष्णुक्रमान्क्रान्त्वा वात्सप्रेणोपतिष्ठेताथ यदि वात्सप्रीयं वात्सप्रेणोपस्थाय विष्णुक्रमान्क्रान्त्वा वात्सप्रमन्ततः कुर्यान्न विष्णुक्रमानन्ततः कुर्याद्यथा प्रयाय न विमुञ्चेत्तादृक्तदथ यद्वात्सप्रमन्ततः करोति प्रतिष्ठा वै वात्सप्रं यथा प्रतिष्ठापयेदवसाययेत्तादृक्तत्तस्मादु वात्सप्रेमेवान्ततः कुर्यात्॥