पर्णकषायनिष्पक्वा एता आपो भवन्ति॥
स्थेम्ने न्वेव यद्वेव पर्णकषायेण सोमो वै पर्णश्चन्द्रमा उ वै सोम एतदु वा एकमग्निरूपमेतस्यैवाग्निरूपस्योपाप्त्यै॥
ता उपसृजति॥
आपो हि ष्ठा मयोभुव इति यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता स ऽर्क्सो देवता तद्यजुस्ता हैता आप एवैष त्रिचस्तद्या अमूराप एकं रूपं समदृश्यन्त ता एतास्तदेवैतद्रूपं करोति॥
अथ फेनं जनयित्वान्ववदधाति॥
यदेव तत्फेनो द्वितीयं रूपमसृज्यत तदेवैतद्रूपं करोत्यथ यामेव तत्र मृदं संयौति सैव मृद्यत्तत्ततीयं रूपमसृज्यतैतेभ्यो वा एष रूपेभ्यो ऽग्रे ऽसृज्यत तेभ्य एवैनमेतज्जनयति॥
अथाजलोमैः संसृजति॥
स्थेम्ने न्वेव यद्वेवाजलोमैरेतद्वा एनं देवाः पशुभ्यो ऽधि समभरंस्तथैवैनमयमेतत्पशुभ्यो ऽधि सम्भरति तद्यदजलोमैरेवाजे हि सर्वेषाम् पशूनां रूपमथ यल्लोम लोम हि रूपम्॥
मित्रः संसृज्य॥
पृथिवीम् भूमिं च ज्योतिषा सहेति प्राणो वै मित्रः प्राणो वा एतदग्रे कर्माकरोत्सुजातं जातवेदसमयक्ष्माय त्वा संसृजामि प्रजाभ्य इति यथैव यजुस्तथा बन्धुः॥
अथैतत्त्रयम् पिष्टम् भवति॥
शर्कराश्मायोरसस्तेन संसृजति स्थेम्ने न्वेव यद्वेव तेनैतावती वा इयमग्रे ऽसृज्यत तद्यावतीयमग्रे ऽसृज्यत तावतीमेवैनामेतत्करोति॥
रुद्राः संसृज्य॥
पृथिवीम् बृहज्ज्योतिः समीधिर इत्यसौ वा आदित्य एषो ऽग्निरेतद्वै तद्रुद्राः संसृज्य पृथिवीम् बृहज्ज्योतिः समीधिरे तेषाम् भानुरजस्र इछुक्रो देवेषु रोचत इत्येष वा एषाम् भानुरजस्रः शुक्रो देवेषु रोचते॥
द्वाभ्यां संसृजति॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्संसृजति॥
अथ प्रयौति॥
संसृष्टां वसुभि रुद्रैरिति संसृष्टा ह्येषा वसुभिश्च भवति यन्मित्रेण तद्वसुभिर्यद्रुद्रैस्तद्रुद्रैर्धीरैः कर्मण्याम् मृदमिति धीरा हि ते कर्मण्यो इयम् मृद्धस्ताभ्याम् मृद्वीं कृत्वा सिनीवाली कृणोतु तामिति वाग्वै सिनीवाली सैनां हस्ताभ्याम् मृद्वीं कृत्वा करोत्वित्येतत्॥
सिनीवाली सुकपर्दा सुकुरीरा स्वौपशेति॥
योषा वै सिनीवाल्येतदु वै योषायै समृद्धं रूपं यत्सुकपर्दा सुकुरीरा स्वौपशा समर्धयत्येवैनामेतत्सा तुभ्यमदिते मह्योखां दधातु हस्तयोरितीयं वा अदितिर्मह्यस्यै तदाह॥
उखां कृणोतु॥
शक्त्या बाहुभ्यामदितिर्धियेति शक्त्या च हि करोति बाहुभ्यां च धिया च माता पुत्रं यथोपस्थे साग्निम् बिभर्तु गर्भ एति यथा माता पुत्रमुपस्थे बिभृयादेवमग्निं गर्भे बिभर्त्वित्येतत्॥
त्रिभिः प्रयौति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रयौति द्वाभ्यां संसृजति तत्पञ्च पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति त्रिभिरप उपसृजति तदष्टावष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवत्यथो अष्टाक्षरा वा इयमग्रे ऽसृज्यत तद्यावतीयमग्रे ऽसृज्यत तावतीमेवैनामेतत्करोति॥
अथ मृत्पिण्डमपादत्ते॥
यावन्तं निधये ऽलम् मखस्य शिरो ऽसीति यज्ञो वै मखस्तस्यैतछिर आहवनीयो वै यज्ञस्य शिर आहवनीयमु वा एतं चेष्यन्भवति तस्मादाह मखस्य शिरो ऽसीति॥
यद्वेवाह मखस्य शिरो ऽसीति॥
जायत एष एतद्यच्चीयते शीर्षतो वै मुखतो जायमानो जायते शीषतो मुखतो जायमानो जायाता इति॥
तम् प्रथयति॥
वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसाङ्गिरस्वदित्ययं हैष लोको निधिस्तमेतद्वसवो गायत्रेण छन्दसाकुर्वंस्तथैवैनमयमेतद्गायत्रेण छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति पृथिव्यसीति पृथिवी ह्येष निधिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै वसव इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशासत तथैवैतद्यजमान इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशास्ते ताम् प्रादेशमात्रीं कृत्वाथास्यै सर्वतस्तीरमुन्नयति॥
अथ पूर्वमुद्धिमादधाति॥
रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदित्यन्तरिक्षं हैष उद्धिस्तमेतद्रुद्रास्त्रैष्टुभेन छन्दसाकुर्वंस्तथैवैनमयमेतत्त्रैष्टुभेन छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीत्यन्तरिक्षमसीत्यन्तरिक्षं ह्येष उद्धिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै रुद्रा अन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशासत तथैवैतद्यजमानो ऽन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशास्ते तां संलिप्य संश्लक्ष्ण्य॥
अथोत्तरमुद्धिमादधाति॥
आदित्यास्त्वा कृण्वन्तु जागतेन छन्दसाङ्गिरस्वदिति द्यौर्हैष उद्धिस्तमेतदादित्या जागतेन छन्दसाकुर्वंस्तथैवैनमयमेतज्जागतेन छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति द्यौरसीति द्यौर्ह्येष उद्धिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वा आदित्या दिवं कृत्वा तस्यामेतामाशिषमाशासत तथैवैतद्यजमानो दिवं कृत्वा तस्यामेतामाशिषमाशास्ते॥
अथैतेन चतुर्थेन यजुषा करोति॥
विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वदिति दिशो हैतद्यजुरेतद्वै विश्वे देवा वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो ऽदधुस्तथैवैतद्यजमान एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो दधात्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति दिशो ऽसीति दिशो ह्येतद्यजुर्धारय: मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै विश्वे देवा वैश्वानरा दिशः कृत्वा तास्वेतामाशिषमाशासत तथैवैतद्यजमानो दिशः कृत्वा तास्वेतामाशिषमाशास्ते॥
तेनैतेनान्तरतश्च बाह्यतश्च करोति॥
तस्मादेषां लोकानामन्तरतश्च बाह्यतश्च दिशा ऽपरिमितमेतेन करोत्यपरिमिता हि दिशः॥
ताम् प्रादेशमात्रीमेवोर्ध्वां करोति॥
प्रादेशमात्रीं तिरश्चीम् प्रादेशमात्रो वै गर्भो विष्णुर्योनिरेषा गर्भसम्मितां तद्योनिं करोति॥
सा यदि वर्षीयसी प्रादेशात्स्यात्॥
एतेन यजुषा ह्रसीयसीं कुर्याद्यदि ह्रसीयस्येतेन वर्षीयसीम्॥
स यद्येकः पशुः स्यात्॥
एकप्रादेशां कुर्यादथ यदि पञ्च पशवः स्युः पञ्चप्रादेशां कुर्यादिषुमात्रीं वा वीर्यं वा इषुवीर्यंसम्मितैव तद्भवति पञ्चप्रादेशा ह स्म त्वेव पुरेषुर्भवति॥
अथ तिरश्चीं रास्नाम् पर्यस्यति॥
दिशो हैव सैतद्वै देवा इमांलोकानुखां कृत्वा दिग्भिरदृंहन्दिग्भिः पर्यतन्वंस्तथैवैतद्यजमान इमांलोकानुखां कृत्वा दिग्भिदृंहति दिग्भिः परितनोति॥
तामुत्तरे वितृतीये पर्यस्यति॥
अत्र हैषां लोकानामन्ताः समायन्ति तदेवैनांस्तद्दूंहति॥
अदित्यै रास्नासीति॥
वरुण्या वै यज्ञे रज्जुरवरुण्यामेवैनामेतद्रास्नां कृत्वा पर्यस्यति॥
अथ चतस्र ऊर्ध्वाः करोति॥
तूष्णीमेव दिशो हैव ता एतद्वै देवा इमांलोकानुखां कृत्वा दिग्भिः सर्वतो ऽदृंहंस्तथैवैतद्यजमान इमांलोकानुखां कृत्वा दिग्भिः सर्वतो दृंहति॥
ता एता ऐतस्यै भवन्ति॥
एतद्वा एता एतामस्तभ्नुवस्तथैवैनामेतत्स्तभ्नुवन्ति तद्यदत ऊर्ध्वं तदेतया तिरश्च्या दृढमथ यदतो ऽर्वाक्तदेताभिः॥
तासामग्रेषु स्तनानुन्नयन्ति॥
एतद्वै देवा इमांलोकानुखां कृत्वैतै स्तनैः सर्वान्कामानदुहत तथैवैतद्यजमान इमांलोकानुखां कृत्वैतै स्तनैः सर्वान्कामान्दुहै॥
सैषा गौरेव॥
इमे वै लोका उखेमे लोका गौस्तस्या एतदूधो यैषा तिरश्ची रास्ना सा वितृतीये भवति वितृतीये हि गोरूधः॥
तस्यै स्तनानुन्नयति॥
ऊधसस्तत्स्तनानुन्नयति सा चतुस्तना भवति चतुस्तना हि गौः॥
तां हैके द्विस्तनां कुर्वन्ति॥
अथो अष्टस्तनां न तथा कुर्याद्ये वै गोः कनीयस्तनाः पशवो ये भूयस्तना अनुपजीवनीयतरा वा अस्यैते ऽनुपजीवनीयतरां हैनां ते कुर्वते ऽथो ह ते न गां कुर्वते शुनीं वाविं वा वडबां वा तस्मात्तथा न कुर्यात्॥
अथास्यै बिलमभिपद्यते॥
अदितिष्टे बिलं गृभ्णात्विति वाग्वा अदितिरेतद्वा एनां देवाः कृत्वा वाचादित्या निरष्ठापयंस्तथैवैनामयमेतत्कृत्वा वाचादित्या निष्ठापयति॥
ताम् परिगृह्य निदधाति॥
कृत्वाय सा महीमुखामिति कृत्वाय सा महतीमुखामित्येतन्मृन्मयीं योनिमग्नय इति मृन्मयी ह्येषा योनिरग्नेः पुत्रेभ्यः प्रायछददितिः श्रपयानित्येतद्वा एनामदितिः कृत्वा देवेभ्यः पुत्रेभ्यः श्रपणाय प्रायछत्तथैवैनामयमेतत्कृत्वा देवेभ्यः श्रपणाय प्रयछति॥
ता हैके तिस्रः कुर्वन्ति॥
त्रयो वा इमे लोका इमे लोका उखा इति वदन्तो ऽथो अन्यो ऽन्यस्यै प्रायश्चित्यै यदीतरा भेत्स्यते ऽथेतरस्याम् भरिष्यामो यदीतराथेतरस्यामिति न तथा कुर्याद्यो वा एष निधिः प्रथमो ऽयं स लोको यः पूर्व उद्धिरन्तरिक्षं तद्य उत्तरो द्यौः साथ यदेतच्चतुर्थं यजुर्दिशो हैव तदेतावद्वा इदं सर्व यावदिमे च लोका दिशश्च स यदत्रोपाहरेदति तद्रेचयेद्यदु वै यज्ञेऽतिरिक्तं क्रियते यजमानस्य तद्द्विषन्तम् भ्रातृव्यमभ्यतिरिच्यते यदु भिन्नायै प्रायश्चित्तिरुत्तरस्मिंस्तदन्वाख्याने॥
तस्या एतस्या अषाढाम् पूर्वां करोति॥
इयं वा अषाढेयमु वा एषां लोकानाम् प्रथमासृज्यत तामेतस्या एव मृदः करोत्येषां ह्येव लोकानामियम् महिषी करोति महिषी हीयं तद्यैव प्रथमा वित्ता सा महिषी॥
पादमात्री भवति॥
प्रतिष्ठा वै पाद इयमु वै प्रतिष्ठा त्र्यालिखिता भवति त्रिवृद्धीयम्॥
अथोखां करोति॥
इमांस्तल्लोकान्करोत्यथ विश्वज्योतिषः करोत्येता देवता अग्निं वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिस्ता एतस्या एव मृदः करोत्येभ्यस्तल्लोकेभ्य एतान्देवान्निर्मिमीते यजमानः करोति त्र्यलिखिता भवन्ति त्रिवृतो ह्येते देवा इत्यधिदेवतम्॥
अथाध्यात्मम्॥
आत्मैवोखा वागषाढा ताम् पूर्वा करोति पुरस्ताद्धीयमात्मनो वाक्तामेतस्या एव मृदः करोत्यात्मनो ह्येवेयं वाङ्नहिषि करोति महिषी हि वाक्त्र्यालिखिता भवति त्रेधाविहिता हि वागृचो यजूंषि सामान्यथो यदिदं त्रयं वाचो रूपमुपांशु व्यन्तरामुच्चैः॥
अथोखां करोति॥
आत्मानं तत्करोत्यथ विश्वज्योतिषः करोति प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतत्करोति ता एतस्या एव मृदः करोत्यात्मनस्तत्प्रजां निर्मिमीते यजमानः करोति यजमानस्तदात्मनः प्रजां करोत्यनन्तर्हिताः करोत्य नन्तर्हितां तदात्मनः प्रजां करोत्युत्तराः करोत्युत्तरां तदात्मनः प्रजां करोति त्र्यालिखिता भवन्ति त्रिवृद्धि प्रजातिः पिता माता पुत्रो ऽथो गर्भ उल्बं जरायु॥
ता एता यजुष्कृतायै करोति॥
अयजुष्कृताया इतरा निरुक्ता एआ भवन्त्यनिरुक्ता इतराः परिमिता एता भवन्त्यपरिमिता इतराः॥
प्रजापतिरेषो ऽग्निः॥
उभयम्वेतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्या यजुष्कृतायै करोति यदेवास्य निरुक्तम् परिमितं रूपं तदस्य तेन संस्करोत्यथ या अयजुष्कृतायै यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य तेन संस्करोति स ह वा एतं सर्वं कृत्स्नम् प्रजापतिं संस्करोति य एवं विद्वानेतदेवं करोत्यथोपशयायै पिण्डम् परिशिनष्टि प्रायश्चित्तिभ्यः॥
अथैनां धूपयति॥
स्थेम्ने न्वेवाथो कर्मणः प्रकृततायै यद्वेव धूपयति शिर एतद्यज्ञस्य यदुखा प्राणो धूमः शीर्षंस्तत्प्राणं दधाति॥
अश्वशकैर्धूपयति॥
प्राजापत्यो वा अश्वः प्रजापतिरग्निर्नो वा आत्मात्मानं हिनस्त्यहिंसायै तद्वै शक्नैव तद्धि जग्घं यातयाम तथो ह नैवाश्वं हिनस्ति नेतरान्पशून्॥
वसवस्त्वा धूपयन्तु॥
गायत्रेण छन्दसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयत्वित्येताभिरेवैनामेतद्देवताभिर्धूपयति॥
सप्ताश्वशकानि भवन्ति॥
स्प्त यजूंषि सप्ततय्य एता देवताः सप्त शीर्षन्प्राणा यदु वा अपि बहुकृत्वः सप्त-सप्त सप्तैव तछीर्षण्येव तत्सप्त प्राणान्दधाति॥
अथैनमस्यां खनति॥
एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा इमामेवात्मानमकुर्वन्गुप्त्या आत्मात्मानं गोप्स्यतीति॥
तं वा अदित्या खनति॥
इयं वा अदितिर्नो वा आत्मात्मानं हिनस्त्यहिंसायै यदन्यया देवतया खनेद्धिंस्याद्धैनम्॥
अदितिष्ट्वा देवी विश्वदेव्यावती॥
पृथिव्याः सधस्थे अङ्गिरस्वत्खनत्ववटेत्यवटो हैष देवत्रात्र सा वैणव्यभ्रिरुत्सीदति चतुःस्रक्तिरेष कूपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनत्यथ पचनमवधायाषाढामवदधाति तूष्णीमेव तां हि पूर्वां करोति॥
अथोखामवदधाति॥
देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वद्दधतूख इति देवानां हैतामग्रे पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद्दधुस्ताभिरेवैनामेतद्दधाति ता ह ता ओषधय एवौषधयो वै देवानाम् पत्न्य ओषधिभिर्हीदं सर्वं हितमोषधिभिरेवैनामेतद्दधात्यथ विश्वज्योतिषो ऽवदधाति तूष्णीमेवाथ पचनमवधायाभीन्द्धे॥
धिषणास्त्वा देवीः॥
विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वदभीन्धतामुख इति धिषणा हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वदभीधिरे ताभिरेवैनामेतदभीन्द्धे सा ह सा वागेव वाग्वै धिषणा वाचा हीदं सर्वमिद्धं वाचैवैनामेतदभीन्द्धे ऽथैतानि त्रीणि यजूंषीक्षमाण एव जपति॥
वरूत्रीष्ट्वा देवीः॥
विश्वदेव्यावतीः पृथिव्याः सधस्थ अङ्गिरस्वछ्रपयन्तूख इति वरूत्रीर्हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वछ्रपयां चक्रुस्ताभिरेवैनामेतछ्रपयति तानि ह तान्यहोरात्राण्येवाहोरात्राणि वै वरूत्रयो ऽहोरात्रैर्हीदं सर्वं वृतमहोरात्रैरेवैनामेतछ्रपयति॥
ग्नास्त्वा देवीः॥
विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वत्पचन्तूख इति ग्ना हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वत्पेचुस्ताभिरवैनामेतत्पचति तानि ह तानि छन्दांस्येव छन्दांसि वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गछन्ति छन्दोभिरेवैनामेतत्पचति॥
जनयस्त्वाछिन्नपत्रा देवीः॥
विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वत्पचन्तूख इति जनयो हैतामग्रे ऽछिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वत्पेचुस्ताभिरेवैनामेतत्पचति तानि ह तानि नक्षत्राण्येव नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्रैरेवैनामेतत्पचति॥
स वै खनत्येकेन॥
अवदधात्येकेनाभीन्द्ध एकेन श्रपयत्येकेन द्वाभ्याम् पचति तस्माद्द्विः संवत्सरस्यान्नम् पच्यते तानि षट् सम्पद्यन्ते षदृतवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अथ मित्रस्य चर्षणीधृत इति॥
मैत्रेण यजुषोपन्याचरति यावत्कियच्चोपन्याचरति न वै मित्रं कं चन हिनस्ति न मित्रं कश्चन हिनस्ति तथो हैष एतां न हिनस्ति नो एतमेषा तां दिवैवोपवपेद्दिवोद्वपेदहर्ह्याग्नेयम्॥
तां सावित्रेण यजुष्वोदपति॥
सविता वै प्रसविता सवितृप्रसूत एवैनामेतदुद्वपति देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुरुत शक्त्येति सर्वमु ह्येतत्सविता॥
अथैनाम् पर्यावर्तयति॥
अव्यथमाना पृथिव्यामाशा दिश आपृणेत्यव्यथमाना त्वम् पृथिव्यामाशा दिशो रसेनापूरयेत्येतत्॥
अथैनामुद्यछति॥
उत्थाय बृहती भवेत्युत्थाय हीमे लोका बृहन्त उदु तिष्ठ ध्रुवा त्वमित्युदु तिष्ठ स्थिरा त्वम् प्रतिष्ठितेत्येतत्॥
ताम् परिगृह्य निदधाति॥
मित्रैतां त उखा परिददाम्यभित्त्या एषा मा भेदित्ययं वै वायुर्मित्रो यो ऽयम् पवते तस्मा एवैनामेतत्परिददाति गुप्त्यै ते हेमे लोका मित्रगुप्तास्तस्मादेषां लोकानां न किं चन मीयते॥
अथैनामाछृणत्ति॥
स्थेम्ने न्वेवाथो कर्मणः प्रकृततायै यद्वेवाछूणत्ति शिर एतद्यज्ञस्य यदुखा प्राणः पयः शीर्पस्तत्प्राणं दधात्यथो योषा वा उखा योषायां तत्पयो दधाति तस्माद्योषायाम् पयः॥
अजायै पयसाछृणत्ति॥
प्रजापतेर्वै शोकादजा समभवन्प्रजापतिरग्निर्नो वा आत्मात्मानं हिनस्त्यहिंसायै यद्वेवाजाया अजा ह सर्वा ओषधीरत्ति सर्वासामेवैनामेतदोषधीनां रसेनाछृणत्ति॥
वसवस्त्वाछून्दन्तु॥
गायत्रेण छन्दसाङ्गिरस्वद्रुद्रास्त्वाछृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदादित्यास्त्वाछृन्दन्तु जागतेन छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा आछृन्दन्त्वानुष्टुभेन छन्दसाङ्गिरस्वदित्येताभिरेवैनामेतद्देवताभिराछृणत्ति स वै याभिरेव देवताभिः करोति ताभिर्धूपयति ताभिराछृणत्ति यो वाव कर्म करोति स एवं तस्योपचारं वेद तस्माद्याभिरेव देवताभिः करोति ताभिर्धूपयति ताभिराछृणत्ति॥