अथैनमतः खनत्येव॥
एतद्वा एनं देवा अनुविद्याखनस्तथैवैनमयमेतदनुविद्य खनति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् पृथिव्याः सधस्थादग्निम् पुरीष्यमङ्गिरस्वत्खनामीति सवितृप्रसूत एवैनमेतदेताभिर्देवताभिः पृथिव्या उपस्थादग्निम् पशव्यमग्निवत्खनति॥
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमिति॥
ज्योतिष्मान्वा अयमग्निः सुप्रतीको ऽजस्रेण भानुना दीद्यतमित्यजस्रेणार्चिषा दीप्यमानमित्येतछिवम् प्रजाभ्यो ऽहिंसन्तम् पृथिव्याः सधस्थादग्निम् पुरीष्यमङ्गिरस्वत्खनाम इति शिवम् प्रजाभ्यो ऽहिंसन्त पृथिव्या उपस्थादग्निम् पशव्यमग्निवत्खनाम इत्येतत्॥
द्वाभ्यां खनति॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्खनत्यथो द्वयं ह्येवैतद्रूपम् मृच्चापश्च॥
स वै खनामि खनाम इति खनति॥
खनामीति वा एत प्रजापतिरखनत्खनाम इति देवास्तस्मात्खनामि खनाम इति॥
स वा अभ्र्या खनन्॥
वाचा खनामि खनाम इत्याह वाग्वा अभ्रिरारम्भायैवेयं वैणवी क्रियते वाचा वा एतमभ्र्या देवा अखनंस्तथैवैनमयमेतद्वाचैवाभ्र्या खनति॥
अथैनं कृष्णाजिने सम्भरति॥
यज्ञा वै कृष्णाजिनं यज्ञएवैनमेतत्सम्भरति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतत्सम्भरति तत्तूष्णीमुपस्तृणाति यज्ञो वै कृष्णाजिनम् प्रजापतिर्वै यज्ञो ऽनिरुक्तो वै प्रजापतिरुत्तरतस्तस्योपरि बन्धुः प्राचीनग्रीवे तद्धि देवत्रा॥
अथैन पुष्करपर्णे सम्भरति॥
योनिर्वै पुष्करपर्णं योनौ तद्रेतः सिञ्चति यद्वै योनौ रेतः सिच्यते तत्प्रजनिष्णु भवति तन्मन्त्रेणोपस्तृणाति वाग्वै मन्त्रो वाक्पुष्करपर्णम्॥
अपाम् पृष्ठमसि योनिरग्नेरिति॥
अपां ह्येतत्पृष्ठं योनिर्ह्येतदग्नेः समुद्रमभितः पिन्वमानमिति समुद्रो ह्येतदभितः पिन्वते वर्धमानो महां आ च पुष्कर इति वर्धमानो महीयस्व पुष्कर इत्येतद्दिवो मात्रया वरिम्णा पथस्वेत्यनुविमार्ष्ट्यसौ वा आदित्य एषो ऽग्निर्नो हैतमन्यो दिवो वरिमा यन्तुमर्हति द्यौर्भूत्वनं यछेत्येवैतदाह॥
तदुत्तरं कृष्णाजिनादुपस्तृणाति॥
यज्ञो वै कृष्णाजिनमियं वै कृष्णाजिनमियमु वै यज्ञो ऽस्यां हि यज्ञस्तायते द्यौष्पुष्करपर्णमापो वै द्यौरापः पुष्करपर्णमुत्तरो वा असावस्यै॥
अथैने अभिमृशति॥
सञ्ज्ञामेवाभ्यामेतत्करोति शर्म च स्थो वर्म च स्थ इति शर्म च ह्यस्यैते वर्म चाछिद्रे बहुले उभे इत्यछिद्रे ह्येते बहुले उभे व्यचस्वती संवसाथामित्यवकाशवती संवसाथामित्येतद्भृतमग्निम् पुरीष्यमिति बिभृतमग्निम् पशव्यमित्येतत्॥
संवसाथां स्वर्विदा॥
समीची उरसा त्मनेति संवसाथामेनं स्वर्विदा समीची उरसा चात्मना चेत्येतदग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमिदित्यसौ वा आदित्य एषो ऽग्निः स एष ज्योतिष्मानजस्रस्तमेते अन्तरा बिभृतस्तस्मादाह ज्योतिष्मन्तमजस्रमिदिति॥
द्वाभ्यामभिमृशति॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवाभ्यामेतत्सञ्ज्ञां करोत्यथो द्वयं ह्येवैतद्रूपं कृष्णाजिनं च पुष्करपर्ण च॥
अथ मृत्पिण्डमभिमृशति॥
पुरीष्यो ऽसीति पशव्यो ऽसीत्येतद्विश्वभरा इत्येष हीदं सर्वम् बिभर्त्यथर्वा त्वा प्रथमो निरमन्थदग्न इति प्राणो वा अथर्वा प्राणो वा एतमग्रे निरमन्थत्तद्यो ऽसावग्रे ऽग्निरसृज्यत सो ऽसीति तदाह तमेवैनमेतत्करोति॥
अथैनम् परिगृह्णाति॥
अभ्र्या च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतस्त्वामग्ने पुष्करादध्यथर्वा निरमन्थतेत्यापो वै पुष्करम् प्राणो ऽथर्वा प्राणो वा एतमग्रे ऽद्भ्यो निरमन्थन्मूर्ध्नो विश्वस्य वाघत इत्यस्य सर्वस्य मूर्ध्न इत्येतत्॥
तमु त्वा दध्यङ्ङृषिः॥
पुत्र ईधे अथर्वण इति वाग्वै दध्यङ्ङाथर्वणः स एनं तत ऐन्द्ध वृत्रहणम् पुरन्दरमिति पाप्मा वै वृत्रः पाप्महनम् पुरन्दरमित्येतत्॥
तमु त्वा पाथ्यो वृषा॥
समीधे दस्युहन्तममिति मनो वै पाथ्यो वृषा स एनं तत ऐन्द्ध धनञ्जयं रणे-रण इति यथैव यजुस्तथा बन्धुः॥
गायत्रीभिः॥
प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति न्नेतद्दधाति तासां नव पदानि नव वै प्राणाः सप्ततिसृभिस्त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मि शीर्षन्नवाञ्चो द्वौ तानेवास्मिन्नेतद्दधाति॥
अथैते त्रिष्टुभा उत्तरे भवतः॥
आत्मा वै त्रिष्टुबात्मानमेवास्यैताभ्यां संस्करोति सीद होत स्व उ लोके चिकित्वानित्यग्निर्वै होता तस्यैष स्वो लोको यत्कृष्णाजिनं चिकित्वानिति विद्वानित्येतत्सादया यज्ञं सुकृतस्य योनाविति कृष्णाजिनं वै कुकृतस्य योनिर्देवावीर्देवान्हविषा यजासीति देवः सन्देवानवन्हविषा यजासीत्येतदग्ने बृहद्यजमाने वयो धा इति यजमानायाशिषमाशास्ते॥
नि होता होतृषदने विदान इति॥
अग्निर्वै होता कृष्णाजिनं होतृषदनं विदान इति विद्वानित्येतत्त्वेषो दीदिवां असदत्सुदक्ष इति त्वेषो दीप्यमानो ऽसदत्सुदक्ष इत्येतददब्धव्रतप्रमतिर्वसिष्ठ इत्यदब्धव्रतप्रमतिर्ह्येष वसिष्ठः सहस्रम्भरः शुचिज्थ्वो अग्निरिति सर्वं वै सहस्रं सर्वम्भरः शुचिजिह्वो ऽग्निरित्येतद्द्वाभ्यामाग्नेयीभ्यां त्रिष्टुब्भ्यां तस्योक्तो बन्धुः॥
अथैषा बृहत्युत्तमा भवति॥
बृहतीं वा एष सञ्चितो ऽभिसम्पद्यते यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यदेतामत्र बृहतीं करोति तस्मादेष सञ्चितो बृहतीमभिसम्पद्यते॥
संसीदस्व महां असीति॥
इदमेवैतद्रेतः सिक्तं संसादयति तस्माद्योनौ रेतः सिक्तं संसीदति शोचस्व देववीतम इति दीप्यस्व देववीतम इत्येतद्वि धूममग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतमिति यदा वा एष समिध्यते ऽथैष धूममरुषं विसृजते दर्शतमिति ददृश इव ह्येषः॥
ताः षट् सम्पद्यन्ते॥
षदृतवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति यद्वेव संवत्सरमभिसम्पद्यते तद्बृहतीमभिसम्पद्यते बृहती हि संवत्सरो द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्यास्तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहती तं दक्षिणत उदञ्चमाहरति दक्षिणतो वा उदग्योनौ रेतः सिच्यत एषो अस्यैतर्हि योनिरविच्छेदमाहरति रेतसो ऽविच्छेदाय॥
अथ तत्राप उपनिनयति॥
यद्वा अस्यै क्षतं यद्विलिष्टमद्भिर्वै तत्सन्धीयते ऽद्भिरेवास्या एतत्क्षतं विलिष्टं सन्तनोति सन्दधाति॥
अपो देवीरुपसृज॥
मधुमतीरयक्ष्माय प्रजाभ्य इति रसो वै मधु रसवतीरयक्ष्मत्वाय प्रजाभ्य इत्येतत्तासामास्थानादुज्जिहतामोषधयः सुपिप्पला इत्यपां वा आस्थानादुज्जिहत ओषधयः सुपिप्पलाः॥
अथैनां वायुना सन्दधाति॥
यद्वा अस्यै क्षतं यद्विलिष्टं वायुना वै तत्सन्धीयते वायुनैवास्या एतत्क्षतं विलिष्टं सन्तनोति सन्दधाति॥
सं ते वायुर्मातरिश्वा दधात्विति॥
अयं वै वायुर्मातरिश्वा यो ऽयम् पवत उत्तानाया हृदयं यद्विकस्तमित्युत्तानाया ह्यस्या एतद्धृदयं विकस्तं यो देवानां चरसि प्राणथेनेत्येष हि सर्वेषां देवानां चरति प्राणथेन कस्मै देव वषडस्तु तुभ्यमिति प्रजापतिर्वै कस्तस्मा एवैतदिमां वषट्करोति नो हैतावत्यन्याहुतिरस्ति यथैषा॥
अथैनां दिग्भिः सन्दधाति॥
यद्वा अस्यै क्षतं यद्विलिष्टं दिग्भिर्वै तत्सन्धीयते दिग्भिरेवास्या एतत्क्षतं विलिष्टं सन्तनोति सन्दधाति स इमां चेमां च दिशौ सन्दधाति तस्मादेते दिशौ संहिते अथेमां चेमां च तस्माद्वेवैते संहिते इत्यग्रे ऽथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रानयानया वै भेषजं क्रियते ऽनयैवैनामेतद्भिषज्यति॥
अथ कृष्णाजिनं च पुष्करपर्णं च समुद्गृह्णाति॥
योनिर्वै पुष्करपर्णं योन्या तद्रेतः सिक्तं समुद्गृह्णाति तस्माद्योन्या रेतः सिक्तं समुद्गृह्यते सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्वरिति सुजातो ह्येष ज्योतिषा सह शर्म चैतद्वरूथं च स्वश्चासीदति॥
अथैनमुपनह्यति॥
योनौ तद्रेतो युनक्ति तस्माद्योनौ रेतो युक्तं न निष्पद्यते योक्त्रेण योक्त्रेण हि योग्यं युञ्जन्ति मौञ्जेन त्रिवृता तस्योक्तो बन्धुः॥
तत्पर्यस्यति॥
वासो अग्ने विश्वरूपं संव्ययस्व विभावसविति वरुण्या वै यज्ञे रज्जुरवरुण्यमेवैनदेतत्कृत्वा यथा वासः परिधापयेदेवम् परिधापयति॥
अथैनमादायोत्तिष्ठति॥
असौ वा आदित्य एषो ऽग्निरमु तदादित्यमुत्थापयत्युदु तिष्ठ स्वध्वरेत्यध्वरो वै यज्ञ उदु तिष्ठ सुयज्ञियेत्येतदवा नो देव्या धियेति या ते दैवी धीस्तया नो ऽवेत्येतद्दूशे च भासा बृहता सुशुक्वनिरिति दर्शनाय च भासा बृहता सुशुक्वनिरित्येतदाग्ने याहि सुशस्तिभिरिति ये वोढारस्ते सुशस्तय आग्ने याहि वोढृभिरित्येतत्॥
अथैनमित ऊर्ध्वम् प्राञ्चम् प्रगृह्णाति॥
असौ वा आदित्य एषो ऽग्निरमुं तदादित्यमित ऊर्ध्वम् प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ् धीयत ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितेति यथैव यजुस्तथा बन्धुरूर्ध्वो वाजस्य सनितेत्यूर्ध्वो वा एष तिष्ठन्वाजमन्नं सनोति यदञ्जिभिर्वाघद्भिर्विह्वयामह इति रश्मयो वा एतस्याञ्जयो वाघतस्तानेतदाह परोबाहु प्रगृह्णाति परोबाहु ह्येष इतो ऽथैनमुपावहरति तमुपावहृत्योपरिनाभि धारयति तस्योपरि बन्धुः॥
हस्त एष भवत्यथ पशूनभिमन्त्रयते॥
एतद्वा एषु देवाः सम्भरिष्यन्तः पुरस्ताद्वीर्यमदधुस्तथैवैष्वयमेतत्सम्भरिष्यन्पुरस्ताद्वीर्यं दधाति॥
सो ऽश्वमभिमन्त्रयते॥
स जातो गर्भो असि रोदस्योरितीते वै द्यावापृथिवी रोदसी तयोरेष जातो गर्भो ऽग्ने चारुर्विभृत ओषधीष्विति सर्वासु ह्येष चारुर्विभृत ओषधिषु चित्रः शिशुः परि तमांस्यक्तूनिति चित्रो वा एष शिशुः परेण तमांस्यक्तूनतिरोचते प्र मातृभ्यो अधि कनिक्रदद्गा इत्योषधयो वा एतस्य मातरस्ताभ्य एष कनिक्रदत्प्रैति तदश्वे वीर्यं दधाति॥
अथ रासभम्॥
स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन्निति स्थिरश्च भव वीड्वङ्गश्चाशुश्च भव वाजी चार्वन्नित्येतत्पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहण इति पृथुर्भव सुशीमस्त्वमग्नेः पशव्यवाहन इत्येतत्तद्रासभे वीर्यं दधाति॥
अथाजम्॥
शिखा भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिर इत्यङ्गिरा वा अग्निराग्नेयो ऽजः शमयत्येवैनमेतदहिंसायै मा द्यावापृथिवी अभिशोचीर्मान्तरिक्षम् मा वनस्पतीनित्येतत्सर्वम् मा हिंसीरित्येतत्तदजे वीर्यं दधाति॥
त्रिभिरभिमन्त्रयते॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैष्वेतद्वीर्य दधाति॥
अथैनमेतेषाम् पशूनामुपरिष्टात्प्रगृह्णाति॥
तदेनमेतैः पशुभिः सम्भरति नोपस्पृशति वज्रो वै पशवो रेत इदं नेदिदं रेतो वज्रेण हिनसानीत्यथो अग्निरयम् पशव इमे नेदयमग्निरिमान्पशून्हिनसदिति॥
तमश्वस्योपरिष्टात्प्रगृह्णाति॥
प्रैतु वाजी कनिक्रददिति प्रैतु वाजी कनिक्रद्यमान इत्येतन्नानदद्रासभः पत्वेति तदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधाति भरन्नग्निम् पुरीष्यम् मा पाद्यायुषः पुरेति भरन्नग्निम् पशव्य मो अस्मात्कर्मणः पुरा पादीत्येतत्तदेनमश्वेन सम्भरति॥
अथ रासभस्य॥
वृषाग्निं वृषणम् भरन्निति वृषा वा अग्निर्वृषा रासभः स वृषा वृषाणम् भरत्यपां गर्भं समुद्रियमित्यपां ह्येष गर्भः समुद्रियस्तदेनं रासभेन सम्भरति॥
अथापादत्ते॥
अग्न आयाहि वीतय इत्यवितव इत्येतत्तदेनम् ब्रह्मणा यजुषैतस्माछौद्राद्वर्णादपादत्ते॥
अथाजस्य॥
ऋतं सत्यमृतं सत्यमित्ययं वा अग्निरृतमसावादित्यः सत्यं यदि वासावृतमयं सत्यमुभयम्वेतदयमग्निस्तस्मादाह ऽर्तं सत्यमृतं सत्यमिति तदेनमजेन सम्भरति॥
त्रिभिः सम्भरति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्सम्भरति त्रिभिः पुरस्तादभिमन्त्रयते तत्षट् तस्योक्तो बन्धुः॥
अथैतान्पशूनावर्तयन्ति॥
तेषामजः प्रथम एत्यथ रासभो ऽथाश्वो ऽथेतो यतामश्वः प्रथम एत्यथ रासभो ऽथजः क्षत्रं वा अन्वश्वो वैश्यं च शूद्रं चानु रासभो ब्राह्मणमजः॥
तद्यदितो यताम्॥
अश्वः प्रथम एति तस्माक्षत्रियम् प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्त्यथ यदमुत आयतामजः प्रथम एति तस्माद्ब्राह्मणम् प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्त्यथ यन्नैवेतो यतां नामुतो रासभः प्रथम एति तस्मान्न कदा चन ब्राह्मणश्च क्षत्रिया वैश्यं च शूद्रं च पश्चादन्वितस्तस्मादेवं यन्त्यपापवस्यसायाथो ब्रह्मणा चैवैतत्क्षत्रेण चैतौ वर्णावभितः परिगृह्णीते ऽनपगृह्णीते कुरुते॥
अथानद्धापुरुषमीक्षते॥
अग्निम् पुरीष्यमङ्गिरस्वद्भराम इत्यग्निम् पशव्यमग्निवद्भराम इत्येतत्तदेनमनद्धापुरुषेण सम्भरति॥
तमजस्योपरिष्टात्प्रगृह्णन्नैति॥
आग्नेयो वा अजः स्वेनैवैनमेतदात्मना स्वया देवतया सम्भरत्यथो ब्रह्म वा अजो ब्रह्मणैवैनमेतत्सम्भरति॥
अथैनमुपावहरति॥
ओषधयः प्रतिमोदध्वमग्निमेतं शिवमायन्तमभ्यत्र युष्मा इत्येतद्धैतस्मादायत ओषधयो बिभ्यति यद्वै नो ऽयं न हिंस्यादिति ताभ्य एवैनमेतछमयति प्रत्येनम् मोदध्वं शिवो वो ऽभ्यैति न वो हिंसिष्यतीति व्यस्यन्विश्वा अनिरा अमीवा निषीदन्नो अप दुर्मतिं जहीति व्यस्यन्विश्वा अनिराश्चामीवाश्च निषीदन्नो ऽप सर्वम् पाप्मानं जहीत्येतत्॥
ओषधयः प्रतिगृभ्णीत॥
पुष्पवतीः सुपिप्पला इत्येतद्धैतासां समृद्धं रूपं यत्पुष्पवत्यः सुपिप्पलाः समृद्धा एनम् प्रतिगृह्णीतेत्येतदयं वो गर्भ ऋत्वियः प्रत्नं सधस्थमासददित्ययं वो गर्भ ऋतव्यः सनातनं सधस्थमासददित्येतत्॥
द्वाभ्यामुपावहरति॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपावहरति तं दक्षिणत उदञ्चमुपावहरति तस्योक्तो बन्धुरुद्धतमवोक्षितम् भवति यत्रैनमुपावहरत्युद्धते वा अवोक्षिते ऽग्निमादधति सिकता उपकीर्णा भवन्ति तासामुपरि बन्धुः॥
परिश्रितम् भवति॥
एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एताम् पुरम् पर्यश्रयंस्तथैवास्मा अयमेताम् पुरम् परिश्रयत्यथो योनिर्वा इयं रेत इदं तिर इव वै योनौ रेतः सिच्यते योनिरूपमेतत्क्रियते तस्मादपि स्वया जायया तिर इवैव चिचरिषति॥
अथैनं विष्यति॥
तद्यदेवास्यात्रोपनद्धस्य संशुच्यति तामेवास्मादेतछुचम् बहिर्धा दधात्यथो एतस्या एवैनमेतद्योनेः प्रजनयति॥
वि पाजसा पृथुना शोशुचान इति॥
वि पाजसा पृथुना दीप्यमान इत्येतद्बाधस्व द्विषो रक्षसो अमीवा इति बाधस्व सर्वान्पाप्मन इत्येतत्सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सहवस्य प्रणीतावित्याशिषमाशास्ते॥
अथाजलोमान्याछिद्य॥
उदीचः प्राचः पशून्प्रसृजत्येषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राच्येतस्यां तद्दिशि पशून्दधाति तस्मादुभये देवमनुष्याः पशूनुपजीवन्ति॥