०३

एतद्वै देवा अब्रुवन्॥
चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तेषां चेतयमानानां सवितैतानि सावित्राण्यमपश्यद्यत्सवितापश्यत्तस्मात्सावित्राणि स एतामष्टागृहीतामाहुतिमजुहोत्तां हुत्वेमामष्ठधाविहितामषाढामपश्यत्पुरैव सृष्टां सतीम्॥
ते यदब्रुवन् चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्यच्चेतयमाना अपश्यंस्तस्माच्चितिराहुतिर्वै यज्ञो यदिष्ट्वापश्यत्तस्मादिष्टका॥
तां वा एताम्॥
एकं सतीमष्टागृहीतामष्टाभिर्यजुर्भिर्जुहोति तस्मादियमेका सत्यष्टधाविहिता॥
तामूर्ध्वामुद्गृह्णन्जुहोति॥
इमां तदूर्ध्वां रूपैरुद्गृह्णाति तस्मादियमूर्ध्वा रूपैः॥
तां सन्ततां जुहोति॥
एतद्वै देवा अबिभयुर्यद्वै न इह रक्षांसि नाष्ट्रा नान्ववेयुरिति त एतं सन्ततहोममपश्यन्रक्षसां नाष्ट्राणामनन्ववायनाय तस्मात्सन्ततां जुहोति॥
यद्वेवैतामाहुतिं जुहोति॥
सवितैषो ऽग्निस्तमेतयाहुत्या पुरस्तात्प्रीणाति तमिष्ट्वा प्रीत्वाथैनं सम्भरति तद्यदेतया सवितारम् प्रीणाति तस्मासावित्राणि तस्माद्वा एतामाहुतिं जुहोति॥
यद्वेवैतामाहुतिं जुहोति॥
सवितैषो ऽग्निस्तमेतयाहुत्या पुरस्ताद्रेतो भूतं सिञ्चति यादृगुऐ योनौ रेतः सिच्यते तादृग्जायते तद्यदेतया सवितारं रेतो भूतं सिञ्चति तस्मात्सावित्राणि तस्माद्वा एतामाहुतिं जुहोति॥
स्रुवश्चात्र स्रुक्च प्रजुज्येते॥
वाग्वै स्रुक्प्राणः स्रुवो वाचा च वै प्राणेन चैतदग्रे देवाः कर्मान्वैछंस्तस्मात्स्रुवश्च स्रुक्च॥
यद्वेव स्रुवश्च स्रुक्च॥
यो वै स प्रजापतिरासीदेष स स्रुवः प्राणो वै स्रुवः प्राणः प्रजापतिरथ या सा वागासीदेषा सा स्रुग्योषा वै वाग्योषा स्रुगथ यास्ता आप आयन्वाचो लोकादेतास्ता यामेतामाहुतिं जुहोति॥
तां सन्ततां जुहोति॥
सन्तता हि ता आप आयन्नथ यः स प्रजापतिस्त्रय्या विद्यया सहापः प्राविशदेष स यैरेतद्यजुर्भिर्जुहोति॥
तद्यानि त्रीणि प्रथमानि॥
इमे ते लोका अथ यच्चुतुर्थं यजुस्त्रयी सा विद्या जगती सा भवति जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि त्रयी विद्याथ यानि चत्वार्युत्तमानि दिशस्तानीमे च वै लोका दिशश्च प्रजापतिरथैषा त्रयी विद्या॥
स जुहोति॥
यञ्जानः प्रथमम् मन इति प्रजापतिर्वै युञ्जानः स मन एतस्मै कर्मणे युङ्क्त तद्यन्मन एतस्मै कर्मणे ऽयुङ्क्त तस्मात्प्रजापतिर्युञ्जानः॥
तत्वाय सविता धिय इति॥
मनो वै सविता प्राणा धियो ऽग्नेर्ज्योतिर्निचाय्येत्यग्नेर्ज्योतिर्दृष्ट्वेत्येतत्पृथिव्या अध्याभरदिति पृथिव्यै ह्येनदध्याभरति॥
युक्तेन मनसा वयमिति॥
मन एवैतदेतस्मै कर्मणे युङ्क्ते न ह्युयुक्तेन मनसा किं चन सम्प्रति शक्नाति कर्तुं देवस्य सवितुः सव इति देवेन सवित्रा प्रसूता इत्येतत्स्वर्ग्याय शक्त्येति यथैतेन कर्मणा स्वर्गं लोकमियादेवमेतदाह शक्त्येति शक्त्या हि स्वर्गं लोकमेति॥
युक्त्वाय सविता देवानिति॥
मनो वै सविता प्राणा देवाः स्वर्यतो धिया दिवमिति स्वर्गं हैनांलोकं यतो धियैतस्मै कर्मणे युयुजे बृहज्ज्योतिः करिष्यत इत्यसौ वा आदित्यो बृहज्ज्योतिरेष उ एषो ऽग्निरेतम्वेते संस्करिष्यन्तो भवन्ति सविता प्रसुवाति तानिति सवितृप्रसूता एतत्कर्म करवन्नित्येतत्॥
युञ्जते मन उत युञ्जते धिय इति॥
मनश्चैवैतत्प्राणाश्चैतस्मै कर्मणे युङ्क्ते विप्रा विप्रस्येति प्रजापतिर्वै विप्रो देवा विप्रा बृहतो विपश्चित इति प्रजापतिर्वै बृहन्विपश्चिद्वि होत्रा दध इति यद्वा एष चीयते तदेष होत्रा विधत्ते चिते ह्येतस्मिन्होत्रा अधिविधीयन्ते वयुनाविदित्येष हीदं वयुनमविन्ददेक इदित्येको ह्येष इदं सर्वं वयुनमविन्दन्मही देवस्य सवितुः परिष्टुतिरिति महती देवस्य सवितुः परिष्टुतिरित्येतत्॥
युजे वाम् ब्रह्म पूर्व्यं नमोभिरिति॥
प्राणो वै ब्रह्म पूर्व्यमन्नं नमस्तत्तदेषैवाहुतिरन्नमेतयैव तदाहुत्यैतेन् सूरेरिति यथोभयेषु देवमनुष्येषु कीर्तिश्लोको यजमानसान्नेन प्राणानेतस्मै कर्मणे युङ्क्ते वि श्लोक एतु पथ्येवय स्यादेवमेतदाह शृण्वन्तु विश्वे अमृतस्य पुत्रा इति प्रजापतिर्वा अमृतस्तस्य विश्वे देवाः पुत्रा आ ये धामानि दिव्यानि तस्थुरितीमे वै लोका दिव्यानि धामानि तद्य एषु लोकेषु देवास्तानेतदाह॥
यस्य प्रयाणमन्वन्य इद्ययुरिति॥
प्रजापतिर्वा एतदग्रे कर्माकरोत्तत्ततो देवा अकुर्वन्देवा देवस्य महिमानमोजसेति यज्ञो वै महिमा देवा देवस्य यज्ञं वीर्यमोजसेत्येतद्यः पार्थिवानि विममे स एतश इति यद्वै किं चास्यां तत्पार्थिवं तदेष सर्व विमिमीते रश्मिभिर्ह्येनदभ्यवतनोति रजांसि देवः सविता महित्वनेतीमे वै लोका रजांस्यसावादित्यो देवः सविता तानेष महिम्ना विमिमीते॥
देव सवितः प्रसुव यज्ञम् प्रसुव यज्ञपतिम् भगायेति॥
असौ वा आदित्यो देवः सविता यज्ञो भगस्तमेतदाह प्रसुव यज्ञम् प्रसुव यज्ञपतिम् भगायेति दिव्यो गन्धर्वः केतपूः केतं नः पुनात्वित्यसौ वा आदित्यो दिव्यो गन्धर्वो ऽन्नं केतो ऽन्नपूरन्नं नः पुनात्वित्येतद्वाचस्पतिर्वाचं नः स्वदत्विति वाग्वा इदं कर्म प्राणो वाचस्पतिः प्राणो न इदं कर्म स्वदत्वित्येतत्॥
इमं नो देव सवितर्यज्ञम् प्रणयेति॥
असौ वा आदित्यो देवः सविता यदु वा एष यज्ञियं कर्म प्रणयति तदनार्तं स्वस्त्युदृचमश्नुते देवाव्यमिति यो देवानवदित्येतत्सखिविदं सत्राजितं धनजितं स्वर्जितमिति य एतत्सर्वं विन्दादित्येतदृचेत्यृचा स्तोमं समर्धय गायत्रेण रथन्तरम् बृहद्गायत्रवर्तनीति सामानि स्वाहेति यजूंषि सैषा त्रयी विद्या प्रथमं जायते यथैवादो ऽमुत्राजायतैवमथ यः सो ऽग्निरसृज्यतैष स यो ऽत ऊर्ध्वमग्निश्चीयते॥
तान्येतान्यष्टौ सावित्राणि॥
अष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तानि नव भवन्ति स्वाहाकारो नवमो नव दिशो दिशो ऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तानि दश भवन्त्याहुतिर्दशमी दशाक्षरा विराड्विराडग्निर्दश दिशो दिशो ऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
एतस्यामाहुत्यां हुतायाम्॥
अग्निर्देवेभ्य उदक्रामत्ते देवा अब्रुवन्पशुर्वा अग्निः पशुभिरिममन्विच्छाम स स्वाय रूपायाविर्भविष्यतीति तम् पशुभिरन्वैछन्त्स स्वाय रूपायाविरभवत्तस्मादु हैतत्पशुः स्वाय रूपायाविर्भवति गौर् वा गवे ऽश्वो वाश्वाय पुरुषो वा पुरुषाय॥
ते ऽब्रुवन्॥
यद्यह सर्वैरन्वेषिष्यामो यातयामा अनुपजीवनुर्वा गवे ऽश्वो वाश्वाय पुरुषो वा पुरुषाय ईया भविष्यन्ति यद्यु असर्वैरसर्वमनुवेत्स्याम इति त एतमेकम् पशुं द्वाभ्याम् पशुभ्याम् प्रत्यपश्यन्रासभं गोश्चावेश्च तद्यदेतमेकम् पशुं द्वाभ्याम् पशुभ्याम् प्रत्यपश्यंस्तस्मादेष एकः सन्द्विरेताः॥
अनद्धापुरुषम् पुरुषात्॥
एष ह वा अनद्धापुरुषो यो न देवानवति न पितॄन्न मनुष्यांस्तत्सर्वैरह पशुभिरन्वैछन्नो यातयामा अनुपजीवनीया अभवन्॥
त्रिभिरन्विच्छति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्विच्छति पञ्च सम्पदा भवन्ति पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
ते मौञ्जीभिरभिधानीभिरभिहिता भवन्ति॥
अग्निर्देवेभ्य उदक्रामत्स मुञ्जम् प्राविशत्तस्मात्स सुषिरस्तस्माद्वेवान्तरतो धूमरक्त इव सैषा योनिरग्नेर्यन्मुञ्चो ऽग्निरिमे पशवो न वै योनिर्गर्भं हिनस्त्याहिंसायै योनिर्वै जायमानो जायते योनेर्जायमानो जायाता इति॥
त्रिवृतो भवन्ति॥
त्रिवृद्ध्यग्निरश्वाभिधानीकृता भवन्ति सर्वतो वा अश्वाभिधानी मुखम् परिशेते सर्वतो योनिर्गर्भम् परिशेते योनिरूपमेतत्क्रियते॥
ते प्राञ्चस्तिष्ठन्ति॥
अश्वः प्रथमो ऽथ रासभो ऽथाज एवं ह्येते ऽनुपूर्वं यद्वै तदश्रु सक्षरितमासीदेष सो ऽश्वो ऽथ यत्तदरसदिवैष रासभो ऽथ यः स कपाले रसो लिप्त आसीदेष सो ऽजो ऽथ यत्तत्कपालमासीदेषा सा मृद्यामेतदाहरिष्यन्तो भवन्त्येतेभ्यो वा एष रूपेभ्यो ऽग्रे ऽसृज्यत तेभ्य एवैनमेतज्जनयति॥
ते दक्षिणतस्तिष्ठन्ति॥
एतद्वै देवा अबिभयुर्यद्वै नो यज्ञं दक्षिणतो रक्षांसि नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमुमेवादित्यमसौ वा आदित्य एषो ऽश्वस्त एतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्रा एतं यज्ञमतन्वत तथैवैतद्यजमान एतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्रा एतं यज्ञं तनुते॥
दक्षिणत आहवनीयो भवति॥
उत्तरत एषाभ्रिरुपशेते वृषा वा आहवनीयो योषाभ्रिर्दक्षिणतो वै वृषा योषामुपशेते ऽरत्निमात्रे ऽरत्निमात्राद्धि वृषा योषामुपशेते॥
सा वैणवी स्यात्॥
अग्निर्देवेभ्य उदक्रामत्स वेणुम् प्राविशत्तस्मात्स सुषिरः स एतानि वर्माण्यभितो ऽकुरुत पर्वाण्यननुप्रज्ञानाय यत्र-यत्र निददाह तानि कल्माषाण्यभवन्॥
सा कल्माषी स्यात्॥
सा ह्याग्नेयी यदि कल्माषीं न विन्देदप्यकल्माषी स्यात्सुषिरा तु स्यात्सैवाग्नेयी सैषा योनिरग्नेर्यद्वेणुरग्निरियम् मृन्न वै योनिर्गर्भं हिनस्त्यहिंसायै योनेर्वै जायमानो जायते योनेर्जायमानो जायाता इति॥
प्रादशमात्री स्यात्॥
प्रादेशमात्रं हीदमभि वाग्वदत्यरत्निमात्री त्वेव भवति बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति॥
अन्यतःक्ष्णुत्स्यात्॥
अन्यतररो हीदं वाचः क्ष्णुतमुभयतःक्ष्णुत्त्वेव भवत्युभयतो हीदं वाचः क्ष्णुतं यदेनया दैवं च वदति मानुषं चाथो यत्सत्यं चानृतं च तस्मादुभयतःक्ष्णुत्॥
यद्वेवोभयतःक्ष्णुत्॥
अतो वा अभ्रेर्वीर्यं यतो ऽस्यै क्ष्णुतमुभयत एवास्यामेतद्वीर्यं दधाति॥
यद्वेवोभयतःक्ष्णुत्॥
एतद्वा एनं देवा अनुविद्यैभ्यो लोकेभ्यो ऽखनस्तथैवैनमयमेतदनुविद्यैभ्यो लोकेभ्यः खनति॥
स यदिति खनति॥
तदेनमस्माल्लोकात्खनत्यथ यदूर्ध्वोच्चरति तदमुष्माल्लोकादथ यदन्तरेण सञ्चरति तदन्तरिक्षलोकात्सर्वेभ्य एवैनमेतदेभ्या लोकेभ्यः खनति॥
तामादत्ते॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् वितृप्रसूत एवैनामेतदेताभिर्देवताभिरादत्ते गायत्रेणपूष्णो हस्ताभ्यामाददे गायत्रेण छन्दसाङ्गिरस्वदिति स छन्दसाथो अस्यां गायत्रं छन्दो दधाति पृथिव्याः सधस्थादग्निम् पुरीष्यमङ्गिरस्वदाभरेति पशवो वै पुरीषम् पृथिव्या उपस्थादग्निम् पशव्यमग्निवदाभरेत्येतत्त्रैष्टुभेन छन्दसाङ्गिरस्वदिति तदेनां त्रैष्टुभेन छन्दसादत्ते ऽथो अस्यां त्रैष्टुभं छन्दो दधाति॥
अभ्रिरसीति॥
अभ्रिर्ह्येषा तदेनं सत्येनादत्ते नार्यसीति वज्रो वा अभ्रिर्योषा नारी न वै योषा कं चन हिनस्ति शमयत्येवैनामेतदहिंसायै त्वया वयमग्निं शकेम खनितुं सधस्थ एतीदं वै सधस्थं त्वया वयमग्निं शकेम खनितुमस्मिन्त्सधस्थ इत्येतज्जागतेन छन्दसाङ्गिरस्वदिति तदेनां जागतेन छन्दसादत्ते ऽथो अस्यां जागतं छन्दो दधाति॥
त्रिभिरादत्ते॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदादत्ते त्रिभिरादायाथैनां चतुर्थेनाभिमन्त्रयत एतद्वा एनां देवास्त्रिभिरादायाथास्यां चतुर्थेन वीर्यमदधुस्तथैवैनामयमेतत्त्रिभिरादायाथास्यां चतुर्थेन वीर्यं दधाति॥
हस्त आधाय सवितेति॥
हस्ते ह्यस्याहिता भवति बिभ्रदभ्रिमिति बिभर्ति ह्येनां हिरण्ययीमिति हिरण्मयी ह्येषा या छन्दोमय्यग्नेर्ज्योतिर्निचाय्येत्यग्नेर्ज्योतिर्दृष्ट्वेत्येतत्पृथिव्या अध्याभरदिति पृथिव्यै ह्येनदध्याभरत्यानुष्टुभेन छन्दसाङ्गिरस्वदिति तदेनामानुष्टुभेन छन्दसादत्ते ऽथो अस्यामानुष्टुभं छन्दो दधाति तान्येतान्येव छन्दांस्येषाभ्रिरारम्भायैवेयं वैणवी क्रियते॥
तां हैके हिरण्मयीं कुर्वन्ति॥
हिरण्ययीति वा अभ्युक्तेति न तथा कुर्याद्यद्वा एषा छन्दांसि तेनैषा हिरण्यममृतं हिरण्यममृतानि छन्दांसि॥
तां चतुर्भिरादत्ते॥
चतुरक्षरा वै सर्वा वाग्वागित्येकमक्षरमक्षरमिति त्र्यक्षरं तद्यत्तद्वागित्येकमक्षरं यैवैषानुष्टुबुत्तमा सा साथ यदक्षरमिति त्र्यक्षरमेतानि तानि पूर्वाणि यजूंषि सर्वयैवैतद्वाचाग्निं खनति सर्वया वाचा सम्भरति तस्माच्चतुर्भिः॥
यद्वेव चतुर्भिः॥
चतस्रो वै दिशश्चतसृषु तद्दिक्षु वाचं दधाति तस्माच्चतसृषु दिक्षु वाग्वदति छन्दोभिश्च यजुर्भिश्चादत्ते तदष्टौ चतस्रो दिशश्चतस्रो ऽवान्तरदिशः सर्वासु तद्दिक्षु वाचं दधाति तस्मात्सर्वासु दिक्षु वाग्वदति॥
हस्त एषाभ्रिर्भवत्यथ पशूनभिमन्त्रयते॥
एतद्वा एषु देवा अन्वेषिष्यन्तः पुरस्ताद्वीर्यमदधुस्तथैवैष्वयमेतदन्वेषिष्यन्पुरस्ताद्वीर्यं दधाति॥
सो ऽश्वमभिमन्त्रयते॥
प्रतुर्तं वाजिन्नाद्रवेति यद्वै क्षिप्रं तत्तूर्तमथ यत्क्षिप्रात्क्षेपीयस्तत्प्रतूर्त वरिष्ठामनु संवतमितीयं वै वरिष्ठा संवदिमामनु संवतमित्येतद्दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरिदिति तदेनमेता देवताः करोत्यग्निं वायुमादित्यं तदश्वे वीर्यं दधाति॥
अथ रासभम्॥
युञ्जाथां रासभं युवमित्यध्वर्युं चैतद्यजमानं चाहास्मिन्यामे वृषण्वसू इत्यस्मिन्कर्मणि वृषण्वसू इत्येतदग्निम् भरन्तमस्मयुमित्यग्निम् भरन्तमस्मत्प्रेषितमित्येतत्तद्रासभे वीर्यं दधाति॥
अथाजम्॥
योगे-योगे तवस्तरं वाजे-वाजे हवामह इत्यन्नं वै वाजः कर्मणि-कर्मणि तवस्तरमन्ने ऽन्ने हवामह इत्येतत्सखाय इन्द्रमूतय इतीन्द्रियवन्तमूतय इत्येतत्तदजे वीर्यं दधाति॥
त्रिभिरभिमन्त्रयते॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैष्वेतद्वीर्यं दधाति॥
अथैनान्प्राच उत्क्रमयति॥
तदेनमेतैः पशुभिरन्विच्छति नोपस्पृशत्यग्निरेष यत्पशवो नेन्मायमग्निर्हिनसदिति॥
सो ऽश्वमुत्क्रमयति॥
प्रतूर्वन्नेह्यवक्रामन्नशस्तीरेति पाप्मा वा अशस्तिस्त्वरमाण एह्यवक्रामन्पाप्मानमित्येतद्रुद्रस्य गाणपत्यम् मयोभूरेहीति रौद्रा वै पशवो या ते देवता तस्यै गाणपत्यम् मयोभूरेहीत्येतत्तदेनमश्वेनान्विच्छति॥
अथ रासभम्॥
उर्वन्तरिक्षं वीहि स्वस्तिगव्यूतिरभयानि कृण्वन्निति यथैव यजुस्तथा बन्धुः पूष्णा सयुजा सहेतीयं वै पूषानया सयुजा सहेत्येतत्तदेनं रासभेनान्विच्छति॥
अथाजम्॥
पृथिव्याः सधस्थादग्निम् पुरीष्यमङ्गिरस्वदाभरेति पृथिव्या उपस्थादग्निम् पशव्यमग्निवदाभरेत्येतत्तदेनमजेनान्विच्छति॥
त्रिभिरन्विच्छति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्विच्छति त्रिभिः पुरस्तादभिमन्त्रयते तत्षट् षडृतवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
प्रदीप्ता एते ऽग्नयो भवन्ति॥
अथ मृदमछयन्तीमे वै लोका एते ऽग्नयस्ते यदा प्रदीप्ता अथैत इमे लोकाः पुरो वा एतदेभ्यो लोकेभ्यो ऽग्रे देवाः कर्मान्वैछंस्तद्यदेतानग्नीनतीत्य मृदमाहरति तदेनम् पुरैभ्यो लोकेभ्यो ऽन्विच्छति॥
प्राञ्चो यन्ति॥
प्राची हि दिगग्नेः स्वायामेवैनमेतद्दिश्यन्विच्छति स्वायां दिशि विन्दति॥
ते प्रयन्ति॥
अग्निम् पुरीष्यमङ्गिरस्वदछेम इत्यग्निम् पशव्यमग्निवदछेम इत्येतत्॥
अथानद्धापुरुषमीक्षते॥
अग्निम् पुरीष्यमङ्गिरस्वद्भरिष्याम इत्यग्निम् पशव्यमग्निवद्भरिष्याम इत्येतत्तदेनमनद्धापुरुषेणान्विच्छति॥
अथ वल्मीकवपा सुषिरा व्यध्वे निहिता भवति॥
तामन्वीक्षत इयं वै वल्मीकुवपेयमु वा इमे लोका एतद्वा एनं देवा एषु लोकेषु विग्राहमैछंस्तथैवैनमयमेतदेषु लोकेषु विग्राहमिच्छति॥
अन्वग्निरुषसामग्रमख्यदिति॥
तदेनमुषःस्वैछन्नन्वहानि प्रथमो जातवेदा इति तदेनमहःस्वैछन्ननु सूर्यस्य रुरुत्रा च रश्मीनिति तदेनं सूर्यस्य रश्मिष्वैछन्ननु द्यावापृथिवी आततन्थेति तदेनं द्यावापृथिव्योरैछंस्तमविन्दंस्तथैवैनमयमेतद्विन्दति तं यदा परापश्यत्यथ तामवास्यत्यागछन्ति मृदम्॥
अथाश्वमभिमन्त्रयते॥
एतद्वै देवा अब्रुवन्पाप्मानमस्यापहनामेति श्रमो वै पाप्मा श्रममस्य पाप्मानमपहनामेति तस्य श्रमम् पाप्मानमपाघ्नंस्तथैवास्यायमेतछ्रमम् पाप्मानमपहन्ति॥
आगत्य वाज्यध्वानमिति॥
आगतो ह्यस्याध्वा भवति सर्वा मृधो विधूनुत इति पाप्मा वै मृधः सर्वान्पाप्मनो विधूनुत इत्येतत्तस्मादु हैतदश्वः स्यन्त्त्वा विधूनुते ऽग्निं सधस्थे महति चक्षुषा निचिकीष इतीदं वै महत्सधस्थमग्निमस्मिन्महति सधस्थे चक्षुषा दिदृक्षत इत्येतत्॥
अथैनमाक्रमयति॥
एतद्वा एष एतं देवेभ्यो ऽनुविद्य प्राबवीद्यथायमिहेवेत्येवम्॥
यद्वेवाक्रमयति॥
एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षां सि नाष्ट्रा न हन्युरिति तस्मा एतं वज्रमुपरिष्टदभिगोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एषो ऽश्वस्तथैवास्मा अयमेतं वज्रमुपरिष्टादभिगोप्तारं करोति॥
आक्रम्य वाजिन्॥
पृथिवीमग्निमिच्छ रुचा त्वमिति चक्षुर्वै रुगाक्रम्य त्वं वाजिन्पृथिवीमग्निमिच्छ चक्षुषेत्येतद्भूम्या वृत्त्वाय नो ब्रूहि यतः खनेम तं वयमिति भूमेस्तत्स्पाशयित्वाय नो ब्रूहि यत एनं खनेमेत्येतत्॥
अथैनमुन्मृशति॥
एतद्वा एनं देवाः प्रोचिवांसं वीर्येण समार्धयंस्तथैवैनमयमेतत्प्रोचिवांसं वीर्येण समर्धयति द्यौस्ते पृष्ठम् पृथिवी सधस्थमात्मान्तरिक्षं समुद्रो योनिरितीत्थमसीत्थमसीत्येवैतदाह विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यत इति विख्याय चक्षुषा त्वमभितिष्ठ सर्वान्पाप्मन इत्येतन्नोपस्पृशति वज्रो वा अश्वो नेन्मायं वज्रो हिनसदिति॥
अथैनमुत्क्रमयति॥
एतद्वै देवा अब्रुवन्किमिममभ्युत्क्रमिष्याम इति महत्सौभगमिति तम् महत्सौभगमभ्युदक्रमयंस्तथैवैनमयमेतन्महत्सौभगमभ्युत्क्रमयत्युत्क्राम महते सौभगायेत्युत्क्राम महत्ते सौभगमित्येतत्तस्मादु हैतदश्वः पशूनाम् भगितमो ऽस्मादास्थानादिति यत्रैतत्तिष्ठसीत्येतद्द्रविणोदा इति द्रविणं ह्येभ्यो ददाति वाजिन्निति वाजी ह्येष वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्या इति वयमस्मै पृथिव्यै सुमतौ स्यामाग्निमस्या उपस्थे खनन्त इत्येतत्॥
अथैनमुत्क्रान्तमभिमन्त्रयते॥
एतद्वा एनं देवाः प्रोचिवांसं यथा ददिवांसं वन्देतैवमुपास्तुवन्नुपामहयंस्तथैवैनमयमेतदुपस्तौत्युपमहयत्युदक्रमीदित्युद्ध्यक्रमीद्द्रविणोदा इति द्रविणं ह्येभ्यो ददाति वाज्यर्वेति वाजी च ह्येषो ऽर्वा चाकः सुलोकं सुकृतम् पृथिव्यामित्यकरः सुलोकं सुकृतम् पृथिव्यामित्येतत्ततः खनेम सुप्रतीकमग्निमिति तत एनं खनेमेत्येतत्सुप्रतीकमिति सर्वतो वा अग्निः सुप्रतीकः स्वो रुहाणा अधि नाकमुत्तममिति स्वर्गो वै लोको नाकः स्वर्गं लोकं रोहन्तो ऽधि नाकमुत्तममित्येतत्तं दक्षिणोपसङ्क्रमयति यत्रेतरौ पशू भवतस्ते दक्षिणतः प्राञ्चस्तिष्ठन्ति स य एवामुत्र दक्षिणत स्थानस्य बन्धुः सो ऽत्र॥
अथोपविश्य मृदमभिजुहोति॥
एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छ्रतेति वाव तदब्रुवंस्ते चेतयमाना एतामाहुतिमपश्यंस्तामजुहवुस्तां हुत्वेमांलोकानुखामपश्यन्॥
ते ऽब्रुवन्॥
चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना एतां द्वितीयामाहुतिमपश्यंस्तामजुहवुस्तां हुत्वा विश्वज्योतिषो ऽपश्यन्नेता देवता अग्निं वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिस्तथैवैतद्यजमान एते आहुती हुत्वेमांश्च लोकानुखाम् पश्यत्येताश्च देवता विश्वज्योतिषो व्यतिषक्ताभ्यां जुहोतीमांश्च तल्लोकानेताश्च देवता व्यतिषजति॥
यद्वेवैते आहुती जुहोति॥
मृदं च तदपश्च प्रीणाति ते इष्ट्वा प्रीत्वाथैने सम्भरति व्यतिषक्ताभ्यां जुहोति मृदं च तदपश्च व्यतिषजति॥
आज्येन जुहोति॥
वज्रो वा आज्यं वज्रमेवास्मा एतदभिगोप्तारं करोत्यथो रेतो वा आज्यं रेत एवैतत्सिञ्चति स्रुवेण वृषा वै स्रुवो वृषा वै रेतः सिञ्चति स्वाहाकारेण वृषा वै स्वाहाकारो वृषा वै रेतः सिञ्चति॥
आ त्वा जिघर्मि मनसा घृतेनेति॥
आ त्वा जुहोमि मनसा च घृतेन चेत्येतत्प्रतिक्षियन्तम् भुवनानि विश्वेति प्रत्यङ् ह्येष सर्वाणि भुवनानि क्षियति पृथुं तिरश्चा वयसा बृहन्तमिति पृथुर्वा एष तिर्यङ्वयसो बृहन्धूमेन व्यचिष्ठमन्ने रभसं दृशानमित्यवकाशवन्तमन्नैरन्नादं दीप्यमानमित्येतत्॥
आ विश्वतः प्रत्यञ्चं जिघर्मीति॥
आ सर्वतः प्रत्यञ्चं जुहोमीत्येतदरक्षसा मनसा तज्जुषेतेत्यहीडमानेन मनसा तज्जोषयेतेत्येतन्मर्यश्री स्पृहयद्वर्णो अग्निरिति मर्यश्रीर्ह्येष स्पृहयद्वर्णो ऽग्निर्नाभिमृशे तन्वा जर्भुराण इति न ह्येषो ऽभिमृशे तन्वा दीप्यमानो भवति॥
द्वाभ्यामभिजुहोति॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेततद्रेतो भूतं सिञ्चत्याग्नेयीभ्यामग्निमेवैतद्रेतो भूतं सिञ्चति ते यदाग्नेय्यो तेनाग्निरथ यत्त्रिष्टुभौ तेनेन्द्र ऐन्द्राग्नो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चतीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति॥
अश्वस्य पदे जुहोति॥
अग्निरेष यदश्वस्तथो हास्यैते अग्निमत्येवाहुती हुते भवतः॥
अथैनम् परिलिखति॥
मात्रामेवास्मा एतत्करोति यथैतावानसीत्येवम्॥
यद्वेवैनम् परिलिखति॥
एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एताम् पुरम् पर्यश्रयंस्तथैवास्मा अयमेताम् पुरम् परिश्रयत्यभ्र्या वज्रो वा अभ्रिर्वज्रमेवास्मा एतदभिगोप्तारं करोति सर्वतः परिलिखति सर्वत एवास्मा एतं वज्रमभिगोप्तारं करोति त्रिष्कृत्वः परिलिखति त्रिवृतमेवास्मा एतं वज्रमभिगोप्तारं करोति॥
परि वाजपतिः कविः॥
परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरित्यग्निमेवास्मा एतदुपस्तुत्य वर्म करोति परिवतीभिः परीव हि पुर आग्नेयीभिरग्निपुरामेवास्मा एतत्करोति सा हैषाग्निपुरा दीप्यमाना तिष्ठति तिसृभिस्त्रिपुरमेवास्मा एतत्करोति तस्मादु हैतत्पुराम् परमं रूपं यत्त्रिपुरं सवै वर्षीयसा-वर्षीयसा छन्दसा पराम्-परां लेखां वरीयसीं करोति तस्मात्पुराम् परा-परा वरीयसी लेखा भवन्ति लेखा हि पुरः॥
अथैनमस्यां खनति॥
एतद्वै देवा अबिभयुर्यद्वै न इममहि रक्षांसि नाष्ट्रा न हन्युरिति तस्मा इमामेवात्मानमकुर्वन्गुप्त्या आत्मात्मानं गोप्स्यतीति सा समम्बिला स्यात्तदस्येयमात्मा भवति यद्वेव समम्बिला योनिर्वा इयं रेत इदं यद्वै रेतसो योनिमतिरिच्यते ऽमुया तद्भवत्यथ यन्न्यूनं व्यृद्धं तदेतद्वै रेतसः समृद्धं यत्समम्बिलं चतुःस्रक्तिरेष भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति॥