प्रजापतिरग्निरूपाण्यभ्यध्यायत्॥
स यो ऽयं कुमारो रूपाण्यनुप्रविष्ट आसीत्तमन्वैछत्सो ऽग्निरवेदनु वै मा पिता प्रजापतिरिच्छति हन्त तद्रूपमसानि यन्म एष न वेदेति॥
स एतान्पञ्च पशूनपश्यत्॥
पुरुषमश्वं गामविमजं यदपश्यत्तस्मादेते पशवः॥
स एतान्पञ्च पशून्प्राविशत्॥
स एते पञ्च पशवो ऽभवत्तमु वै प्रजापतिरन्वेवैछत्॥
स एतान्पञ्च पशूनपश्यत्॥
यदपश्यत्तस्मादेते पशवस्तेष्वेतमपश्यत्तस्माद्वेवैते पशवः॥
स ऐक्षत॥
इमे वा अग्निरिमानेवात्मानमभिसंस्करवै यथा वा अग्निः समिद्धो दीप्यत एवमेषां चक्षुर्दीप्यते यथाग्नेर्धूम उदयत एवमेषामूष्मोदयते यथाग्निरभ्यहितं दहत्येवम् बप्सति यथाग्नेर्भस्म सीदत्येवमेषाम् पुरीषं सीदतीमे वा अग्निरिमानेवात्मानमभिसंस्करवा इति तान्नाना देवताभ्य आलिप्सत वैश्वकर्मणम् पुरुषं वारुणमश्वमैन्द्रमृषभं त्वाष्ट्रमविमाग्नेयमजम्॥
स ऐक्षत॥
नाना वा इदं देवताभ्य आलिप्से ऽग्नेर्वहं रूपाणि कामये हन्तैनानग्निभ्यः कामायालभा इति तानग्निभ्यः कामायालभत तद्यदग्निभ्य इति बहूनि ह्यग्निरूपाण्यभ्यध्यायदथ यत्कामायेति कामेन ह्यालभत तानाप्रीतान्पर्यग्निकृतानुदाचो नीत्वा समज्ञपयत्॥
स ऐक्षत॥
या वै श्रीरभ्यधासिषमिमास्ताः शीर्षसु हन्त शीर्षाण्येवोपदधा इति स शीर्षाण्येवोत्कृत्योपाधत्ताथेतराणि कुसिन्धान्यप्सु प्राप्लावयदजेन यज्ञं समस्थापयन्नेन्मे यज्ञो विकृष्टो ऽसदित्यात्मा वै यज्ञो नेन्मे ऽयमात्मा विकृष्टो ऽसदित्येतेन पशुनेष्ट्वा तत्प्रजापतिरपश्यद्यथैतस्याग्नेरन्तं न पर्यैत्॥
स ऐक्षत॥
यमिममात्मानमप्सु प्रापिप्लवं तमन्विच्छानीति तमन्वैछत्तद्यदेषामप्सु प्रविद्धानाम् प्रत्यतिष्ठत्ता अपः समभरदथ यदस्यां ताम् मृदं तदुभयं सम्भृत्य मृदं चापश्चेष्टकामकरोक्षस्मादेतदुभयमिष्टका भवति मृच्चापश्च॥
स ऐक्षत॥
यदि वा इदमित्थमेव सदात्मानमभिसंस्करिस् पचानीति तदग्निनापचत्तदेनदमृतमकरोदेतद्वै हविरमृ\ये मर्त्य कुणपो ऽनपहतपाप्मा भविष्यामि हन्तैतदग्निनातम् भवति यदग्निना पचन्ति तस्मादग्निनेष्टकाः पचन्त्यमृता एवैनास्तत्कुर्वन्ति॥
तद्यदिष्ट्वा पशुनापश्यत्॥
तस्मादिष्टकास्तस्मादिष्ट्वैव पशुनेष्टकाः कुर्यादनिष्टका ह ता भवन्ति याः पुरा पशोः कुर्वन्त्यथो ह तदन्यदेव॥
तद्यास्ताः श्रियः॥
एतानि तानि पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पञ्च चितयस्तद्यत्पशुशीर्षाण्युपधाय चितीश्चिनोत्येतैरेव तछीर्षभिरेतानि कुसिन्धानि सन्दधाति॥
त एते सर्वे पशवो यदग्निः॥
तस्मादग्नौ पशवो रमन्ते प्!स्मिन्नग्निराधीयते ऽग्निर्ह्येष यत्पशवस्ततो वै प्रजापतशुभिरेव तत्पशवो रमन्ते तस्माद्यस्य पशवो भवन्ति तैरग्निरभवत् एतैरत्र सर्वैः प्रजापतिरयक्ष्यत तदेवाग्नेरन्तम् पर्॥
तद्धैके आहुः॥
अत्रैवैतैः सर्वैः पशुभिर्यजेत यद्वायैष्यत्तद्यदेतैरत्र सर्वैर्यजेत तदेवाग्नेरन्तम् परीयादिति न तथा कुर्याद्देवानां तदितादियादथो पथस्तदियादथो किं ततः सम्भरेदेतानि वा एतत्कुसिन्धान्येताश्चितीः सम्भरति तस्मात्तथा न कुर्यात्॥
यद्वेवैतान्पशूनालभते॥
आयतनमेवैतदग्नये करोति न ह्यनायतने कश्चन रमते ऽन्नं वा आयतनं तदेतत्पुरस्तान्निदधाति तदेनम् पश्यन्नग्निरुपावर्तते॥
पुरुषो ऽश्वो गौरविरजो भवन्ति॥
एतावन्तो वै सर्वे पशवो ऽन्नम् पशवस्तद्यावदन्नं तदेतत्पुरस्तान्निदधाति तदेनम् पश्यन्नग्निरुपावर्तते॥
पञ्च भवन्ति॥
पञ्च ह्येते ऽग्नया यदेताश्चितयस्तेभ्य एतत्पञ्चायतनानि निदधाति तदेनम् पश्यन्नग्निरुपावर्तते॥
तद्यदग्निभ्य इति॥
बहवो ह्येते ऽग्नयो यदेताश्चितयो ऽथ यत्कामायेति यथा तं काममाप्नुयाद्यजमानो यत्काम एतत्कर्म कुरुते॥
पुरुषम् प्रथममालभते॥
पुरुषो हि प्रथमः पशूनामथाश्वम् पुरुषं ह्यन्वश्वो ऽथ गामश्वं ह्यनु गौरथाविं गां ह्यन्वविरथाजमविं ह्यन्वजस्तदेनान्यथापूर्वं यथाश्रेष्ठमालभते॥
तेषां विषमा रशनाः स्युः॥
पुरुषस्य वर्षिष्ठाथ ह्रसीयस्यथ ह्रसीयसी तद्यथारूपम् पशूनां रशनाः करोत्यपपवस्यसाय सर्वास्त्वेव समाः स्युः सर्वाः सदृश्यः सर्वे ह्येते समाः सर्वे सदृशा अग्नयो ह्युच्यन्ते ऽन्नं ह्युच्यन्ते तेन समास्तेन सदृशाः॥
तदाहुः॥
कथमस्यैषो ऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धा भवतीति पुरोडाशकपालेषु न्वेवाप्यत इयम् प्रथमा मृन्मयीष्टकाथ यत्पशुमालभते तेन पश्विष्टकाप्यते ऽथ यद्वपामभितो हिरण्यशकलौ भवतस्तेन हिरण्येष्टकाप्यते ऽथ यदिध्मो यूपः परिधयस्तेन वानस्पत्येष्टकाप्यते ऽथ यदाज्यम् प्रोक्षण्यः पुरोडाशस्तेनान्नम् पञ्चमीष्टकाप्यत एवमु हास्यैषो ऽग्निः पञ्चेष्टकः सर्वः पशुश्वारब्धो भवति॥
तेषां चतुर्विंशतिः सामिधेन्यः॥
चतुर्विंशत्यर्धमासो वै संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे॥
यद्वेव चतुर्विंशतिः॥
चतुर्विंशत्यक्षरा वै गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे॥
यद्वेव चतुर्विंशतिः॥
चतुर्विंशो वै पुरुशो दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे॥
उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह॥
प्राणो गायत्र्यात्मा त्रिश्टुप्प्राणमेवास्य गायत्रीभिः समिन्द्ध आत्मानं त्रिष्टुब्भिर्मध्ये त्रिष्टुभो भवन्त्यभितो गायत्र्यो मध्ये ह्ययमात्माभितः प्राणा भूयसीः पुरस्ताद्गायत्रीरन्वाह कनीयसीरुपरिष्टाद्भूयांसो हीमे पुरस्तात्प्राणाः कनीयांस उपरिष्टात्॥
सो ऽन्वाह॥
समास्त्वाग्न ऋतवो वर्धयन्त्विति प्रजापतिं विस्रस्तं यत्राग्निः समदधात्तमब्रवीद्या मत्सम्मिताः सामिधेन्यस्ताभिर्मा समिन्त्स्वेति॥
स एता अपश्यत्॥
समास्त्वाग्न ऋतवो वर्धयन्त्विति समाश्च त्वाग्न ऋतवश्च वर्धयन्त्वित्येतत्संवत्सरा ऋषयो यानि सत्येति संवत्सराश्च तुअ ऽर्षयश्च सत्यानि च वर्धयन्त्वित्येतत्सं दिव्येन दीदिहि रोचनेनेत्यसौ वा आदित्यो दिव्यं रोचनं तेन सन्दीदिहीत्येतद्विश्वा आभाहि प्रदिशश्चतस्र इति सर्वा आभाहि प्रदिशश्चतस्र इत्येतत्॥
ता एता एकव्याख्यानाः॥
एतमेवाभि यथैतमेव संस्कुर्यादेतं सन्दध्यादेतं जनयेत्ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिं सतैन्द्ध तेन प्राजापत्याः॥
द्वादशाप्रियः॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति॥
यद्वेव द्वादश॥
द्वादशाक्षरा वै जगतीयं वै जगत्यस्यां हीदं सर्वं जगदियमु वा अग्निरस्यै हि सर्वो ऽग्निश्चीयते यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति॥
यद्वेव द्वादश॥
द्वादशाक्षरा वै जगती जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति॥
ता एता ऊर्ध्वा अस्य समिधो भवन्तीति॥
प्रजापतिं विस्रस्तं यत्राग्नः समदधात्तमब्रवीद्या मत्सम्मिता आप्रियस्ताभिर्माप्रीणीहीति॥
स एता अषश्यत्॥
ऊर्ध्वा अस्य समिधो भवन्तीत्यूर्ध्वा ह्येतस्य समिद्धस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्यग्नेरित्यूर्ध्वानि ह्येतस्य शुक्राणि शोचींष्यर्चींषि भवन्ति द्युमत्तमेति वीर्यवत्तमेत्येतत्सुप्रतीकस्येति सर्वतो वा अग्निः सुप्रतीकः सूनोरिति यदेनं जनयति तेनास्यैष सूनुः॥
ता एता एकव्याख्यानाः॥
एतमेवाभि यथैतमेव संस्कुर्यादेतं सन्दध्यादेतं जनयेत्ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिमाप्रीणात्तेन प्राजापत्याः॥
ता विषमा विषमपदाः॥
विषमाक्षरा विषमाणि हि छन्दांस्यथो यान्यस्याध्यात्ममङ्गानि विषमाणि तान्यस्यैताभिराप्रीणाति॥
वैश्वानरः पशुपुरोडाशः॥
वैश्वानरो वै सर्वे ऽग्नयः सर्वेषामग्नीनामुपाप्त्यै॥
यद्वेव वैश्वानरः॥
ऋतवो हैते यदेताश्चितयो ऽग्नयो वा ऋतव ऋतवः संवत्सरः संवत्सरो वैश्वानरो यदग्नय इति स्यादति तद्रेचयेद्द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरो वैश्वानर आग्नेय्यो याज्यानुवाक्या अग्निरूपाणामुपात्यै कामवत्यः कामानामुपात्यै॥
तद्धैके॥
इत्येवैतानि पशुषीर्षाणि वित्त्वोपदधत्युभयेनैते पशव इति ते ह ते मर्त्याः कुणपाः सम्भवन्त्यनाप्रीतानि हि तानि तद्ध तथाषाढेः सौश्रोमतेयस्योपदधुः स ह क्षिप्र एव ततो ममार॥
हिरण्मयान्यु हैके कुर्वन्ति॥
अमृतेष्टका इति वदन्तस्ता ह ता अनृतेष्टका न हि तानि पशुशीर्षाणि॥
मृन्मयान्यु हैके कुर्वन्ति॥
उत्सन्ना वा एते पशवो यद्वै किञ्चोत्सन्नमियं तस्य सर्वस्य प्रतिष्ठा तद्यत्रैते पशवो गतास्तत एनानधि सम्भराम इति न तथा कुर्याद्यो वा एतेषामावृतं च ब्राह्मणं च न विद्यात्तस्यैत उत्सन्नाः स्युः स एतानेव पञ्च पशूनालभेत यावदस्य वशः स्यात्तान्हैतान्प्रजापतिः प्रथम आलेभे श्यापर्णः सायकायनो ऽन्तमो ऽथ ह स्मैतानेवान्तरेणालभन्ते ऽथैतर्हीमौ द्वावेवालभ्येते प्राजापत्यश्च वायव्यश्च तयोरतो ब्राह्मणमुद्यते॥
प्राजापत्यं चरका आलभन्ते॥
प्रजापतिरग्निं चित्वाग्निरभवत्तद्यदेतमालभते तदेवाग्नेरन्तम् पर्येतीते॥
श्यामो भवति॥
द्वयानि वै श्यामस्य लोमानि शुक्लानि च कृष्णानि च द्वन्द्वम् मिथुनम् प्रजननं तदस्य प्राजापत्यं रूपं तूfअरो भवति तूपरो हि प्रजापतिः॥
तस्यैकविंशति सामिधेन्यः॥
द्वादश मासाः पञ्च ऽर्तवस्त्रय इमे लोका असावादित्य एकविंश एष प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे॥
यद्वेवैकविंशतिः॥
एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशः पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे॥
उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह॥
तासामुक्तो बन्धुरुक्तम्वेवान्वृचं हिरण्यगर्भवत्याघारमाघारयति प्रजापतिर्वै हिरण्यगर्भः प्रजापतिरग्निर्द्वादशाप्रियस्तासामुक्तो बन्धुरुक्तम्वेवान्वृच प्राजापत्यः पशुपुरोडाशो य एव पशोर्बन्धुः स पुरोडाशस्य द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः कद्वत्यो याज्यानुवाक्याः को हि प्रजापतिः॥
अथैतं वायवे नियुत्वते॥
शुक्लं तूपरमालभते प्रजापतिः प्रजाः सृष्ट्वानुव्यैक्षत तस्यात्यानन्देन रेतः परापतत्सो ऽजः शुक्लस्तूपरो लप्सुद्यभवद्रसो वै रेतो यावानु वै रसस्तावानात्मा तद्यदेतमालभते तदेवाग्नेरन्तम् पर्येति शुक्लो भवति शुक्लं हि रेतस्तूपरो भवति तूपरं हि रेतो वायवे भवति प्राणो वै वायुर्नियुत्वते भवत्युदानो वै नियुतः प्राणोदानावेवास्मिन्नेतद्दधाति॥
यद्वेवैतं वायवे नियुत्वते॥
शुक्लं तूपरमालभते प्रजापतिं विस्त्रस्तं यत्र देवाः समस्कुर्वन्त्स यो ऽस्मात्प्राणो मध्यत उदक्रामत्तमस्मिन्नेतेन पशुनादधुस्तथैवास्मिन्नयमेतद्दधाति वायवे भवति प्राणो वै वायुर्नियुत्वते भवत्युदानो वै नियुतः प्राणोदानावेवास्मिन्नेतद्दधाति शुक्लो भवति शुक्लो हि वायुस्तूपरो भवति तूपरो हि वायुः॥
तस्य सप्तदश सामिधेन्यः॥
सप्तदशो वै संवत्सरो द्वादश मासाः पञ्च ऽर्तवः संवत्सरः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे॥
यद्वेव सप्तदश॥
सप्तदशो वै पुरुषो दश प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदशो ग्रीवाः षोडश्यः शिरः सप्तदशम् पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे॥
उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह॥
तासामुक्तो बन्धुरुक्तम्वेवान्वृचं द्वादशाप्रियस्तासामुक्तो बन्धुरुक्तम्वेवान्वृचम् प्राजापत्यः पशुपुरोडाशो ऽत्रो स काम उपाप्त इति ह स्माह माहित्थिर्यं चरकाः प्राजापत्ये पशावाहुरिति॥
यद्वेव वायव्यः पशुर्भवति॥
प्राजापत्यः पशुपुरोडाशो ऽर्धं ह प्रजापतेर्वायुरर्धम् प्रजापतिस्तद्यदुभौ वायव्यौ स्यातामुभौ वा प्राजापत्यावर्धं हैवास्य कृतं स्यान्नार्धमथ यद्वायव्यः पशुर्भवति प्राजापत्यः पशुपुरोडाशस्तेन हैवैतं सर्वं कृत्स्नम् प्रजापतिं सस्करोति॥
यद्वेव वायव्यः पशुर्भवति॥
प्राजापत्यः पशुपुरोडाशः प्रजापतिं विस्त्रस्तं यत्र देवाः समस्कुर्वन्त्स यो ऽस्मात्प्राणो मध्यत उदक्रामत्तमस्मिन्नेतेन पशुनादधुरथास्यैतेन पुरोडाशेनात्मानं समस्कुर्वन्त्स यत्प्राजापत्यो भवति प्रजापतिर्ह्यात्मा द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः कद्वत्यौ याज्यानुवाक्ये को हि प्रजापतिः॥
तद्यद्वपाम् पुरस्ताज्जुहोति॥
य एवायम् पुरस्तात्प्राणस्तमस्मिन्नेतद्दधात्यथ यदेतेन मध्यतश्चरन्ति मध्यतो ह्ययमात्माथ यद्धविषोपरिष्टाच्चरन्ति य एवायमुपरिष्टात्प्राणस्तमस्मिन्नेतद्दधाति शुक्लवत्यो याज्यानुवाक्याः स्युः शुक्लरूपाणामुपाप्त्यै नियुत्वत्यो यदेव नियुत्वद्रूपं तस्योपाप्त्यै॥
तदु वा आहुः॥
वपाया एव शुक्लवत्यौ स्यातामेतावद्वै पशौ शुक्लं यद्वपाशुक्लवत्यौ नियुत्वत्यौ हविषो यदेव नियुत्वद्रूपं तस्योपाप्त्या इति॥
यद्वेवैतम् पशुमालभते॥
एतस्मिन्ह पशौ सर्वेषाम् पशूनां रूपं यत्तूपरो लप्सुदी तत्पुरुषस्य रूपं तूपरो हि लप्सुदी पुरुषो यत्तूपरः केसरवांस्तदश्वस्य रूपं तूपरो हि केसरवानश्वो यदष्टाशफस्तद्गो रूपमष्टाशफो हि गौरथ यदस्यावेरिव शफास्तदवे रूपं यदजस्तदजस्य तद्यदेतमालभते तेन हैवास्यैते सर्वे पशव आलब्धा भवन्त्यतो यतमदस्य कर्मोपकल्पेतैते वा पञ्च पशव एष वा प्राजापत्य एष वा नियुत्वतीयः॥
तम् पौर्णमास्यामालभेत॥
अमावास्यायामालभेतेत्यु हैक आहुरसौ वै चन्द्रः प्रजापतिं स एतां रात्रिमिह वसति तद्यथोपतिष्ठन्तमालभेतैवं तदिति॥
तद्वै पौर्णमास्यामेव॥
असौ वै चन्द्रः पशुस्तं देवाः पौर्णमास्यामालभन्ते यत्रैनं देवा आलभन्ते तदेनमालभा इति तस्मात्पौर्णमास्यां यद्वेव पौर्णमास्याम् पौर्णमासी ह वाव प्रथमा व्युवास तस्माद्वेव पौर्णमास्याम्॥
तद्वै फाल्गुन्यामेव॥
एषा ह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी योत्तरैषोत्तमा या पूर्वा मुखत एव तत्संवत्सरमारभते॥
स वा इष्ट्वैव पौर्णमासेन॥
अथ पशुमालभेत पौर्णमासेन वा इन्द्रो वृत्रम् पाप्मानं हत्वापहतपाप्मैतत्कर्मारभत तथैवैतद्यजमानः पौर्णमासेनैव वृत्रम् पाप्मानं हत्वापहतपाप्मैतत्कर्मारभते॥
तद्वा उपांशु भवति॥
एतद्धैतैः प्रजापतिः पशुभिः कर्मेयेष तद्धात्रानद्धेवैवासानिरुक्तमिव तस्मादुपांशु॥
यद्वेवोपांशु॥
प्राजापत्यं वा एतत्कर्म प्रजापतिं ह्येतेन कर्मणारभते ऽनिरुक्तो वै प्रजापतिः॥
यद्वेवोपांशु॥
रेतो वा अत्र यज्ञ उपांशु वै रेतः सिच्यते वपा पशुपुरोडाशो हविरेतावान्हि पशुः॥
अष्टकायामुखां सम्भरति॥
प्राजापत्यमेतदहर्यदष्टका प्राजापत्यमेतत्कर्म यदुखा प्राजापत्य एव तदहन्प्राजापत्यं कर्म करोति॥
यद्वेवाष्टकायाम्॥
पर्वैतत्सवत्सरस्य यदष्टका पर्वैतदग्नेर्यदुखा पर्वण्येव तत्पर्व करोति॥
यद्वेवाष्टकायाम्॥
अष्टका वा उखा निधिर्द्वा उद्धी तिरश्ची रास्ना तच्चतुश्चितस्र ऊर्ध्वास्तदष्टावष्टकायामेव तदष्टकां करोति॥
अमावास्यायां दीक्षते॥
अमावास्यायै वा अधि यज्ञस्तायते यतो यज्ञस्तायते ततो यज्ञं जनयानीति॥
यद्वेवामावास्यायाम्॥
रेतो वा एतद्भूतमात्मानं सिञ्चत्युखायां योनौ यद्दीक्षते तस्मा एतम् पुरस्ताल्लोकं करोति यद्दीक्षितो भवति तं कृतं लोकमभि जायते तस्मादाहुः कृत लोकम् पुरुषो ऽभि जायत इति॥
स यत्कनीयः संवत्सराद्दीक्षितः स्यात्॥
अलोका इष्टका उपदध्यादेष्टका लोकानतिरिच्येरन्नथ यद्भूयसो लोकान्कृत्वेष्टका नानूपदध्याल्लोका इष्टका अतिरिच्येरन्नथ यदमावास्यायां दीक्षित्वामावास्यायां क्रीणाति तद्यावन्तमेव लोकं करोति तावतीरिष्टका उपदधात्यथास्यापूर्यमाणपक्षे सर्वो ऽग्निश्चीयते॥
तदाहुः॥
यद्यावत्य एतस्याग्नेरिष्टकास्तावन्ति क्रये ऽहोरात्राणि सम्पद्यन्ते ऽथ यान्यूर्ध्वानि क्रयादहानि कथमस्य ते लोका अनूपहिता भवन्तीति यद्वा अमावास्यायां दीक्षित्वामावास्यायां क्रीणाति तद्यावन्तमेव लोकं करोति तावतीरिष्टका उपदधात्यथ यान्यूर्ध्वानि क्रयादहानि तस्मिन्नवकाशे ऽध्वर्युरग्निं चिनोति क्वो हि चिनुयान्न च सो ऽवकाशः स्याद्यावन्ति वै संवत्सरस्याहोरात्राणि तावत्य एतस्याग्नेरिष्टका उप च त्रयोदशो मासस्त्रयोदशो वा एष मासो यान्यूर्ध्वानि क्रयादहानि तद्या अमूस्त्रयोदशस्य मास इष्टकास्ताभिरस्य ते लोका अनूपहिता भवन्ति तत्समा लोकाश्चेष्टकाश्च भवन्ति॥
एतद्वै यैव प्रथमा पौर्णमासी॥
तस्याम् पशुमालभते या प्रथमाष्टका तस्यामुखां सम्भरति या प्रथमामावास्या तस्यां दीक्षत एतद्वै यान्येव संवत्सरस्य प्रथमान्यहानि तान्यस्य तदारभते तानि च तदाप्नोत्यथातः सम्पदेव॥
तदाहुः॥
कथमस्यैतत्कर्म संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इत्येतेषां वै पञ्चानाम् पशूनां चतुर्विंशतिः सामिधेन्यो द्वादशाप्रियस्तत्षट्त्रिंशदेकादशानुयाजा एकादशोपयजस्तदष्टा पञ्चाशत्॥
ततो याष्टाचत्वारिंशत्॥
साष्टाचत्वारिंशदक्षरा जगतीयं वै जगत्यस्यां हीदं सर्वं जगदियमु वा अग्निरस्यै हि सर्वो ऽग्निश्चीयते यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
यद्वेवाष्टाचत्वारिंशत्॥
अष्टाचत्वारिंशदक्षरा वै जगती जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
अथ यानि दश॥
सा दशाक्षरा विराड्विराडग्निर्दश दिशो दिशो ऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
वपा पशुपुरोडाशः॥
तत्षष्टिः षष्टिर्मासस्याहोरात्राणि तन्मासमाप्नोति मास आप्त ऋतुमाप्नोत्यृतुः संवत्सरं तत्संवत्सरमग्निमाप्नोति ये च संवत्सरे कामा अथ यदतो ऽन्यद्यदेव संवत्सरे ऽन्नं तत्तत्॥
अथैतस्य प्राजापत्यस्य॥
एकविंशतिः सामिधेन्यो द्वादशाप्रियस्तत्त्रयस्त्रिंशदेकादशानुयाजा एकादशोपयज तत्पञ्चपञ्चाशद्वपा पशुपुरोडाशो हविस्तदष्टापञ्चाशत्स यो ऽष्टापञ्चाशति कामो ऽत्रैव तमाप्नोति द्वावाघारौ तत्षष्टिः स यः षष्ट्यां कामो ऽत्रैव तमाप्नोत्यथ यदतो ऽन्यद्यदेवं संवत्सरे ऽन्नं तत्तत्॥
अथैतस्य नियुत्वतीयस्य॥
सप्तदश सामिधेन्यो द्वादशाप्रियस्तदेकां न त्रिंशदेकादशानुयाजा एकादशोपयजस्तदेकपञ्चाशद्वपा पशुपुरोडाशो हविस्तच्चतुष्पञ्चाशद्द्वावाघारौ द्वौ स्विष्टकृतौ तदष्टापञ्चाशत्स यो ऽष्टापञ्चाशति कामो ऽत्रैव तमाप्नोति वनस्पतिश्च वसाहोमश्च तत्षष्टिः स यः षष्ट्यां कामो ऽत्रैव तमाप्नोत्यथ यदतो ऽन्यद्यदेव संवत्सरे ऽन्नं तत्तदेवमु हास्यैतत्कर्म संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यते॥
तदाहुः॥
नैतस्य पशोः समिष्टयजूंषि जुहुयान्न हृदयशूलेनावभृथमभ्यवेयादारम्भो वा एषो ऽग्नेः पशुर्व्यवसर्गो देवतानां समिष्टयजूंषि संस्थावभृथो नेदारम्भे देवता व्यवसृजानि नेद्यज्ञं संस्थापयानीति स वै समेव स्थापयेदेतेन पशुनेष्ट्वा तत्प्रजापतिरपश्यद्यथैतस्याग्नेरन्तं न पर्यैत्तस्मात्संस्थापयेद्यद्वेव संस्थापयति प्राण एष पशुस्तस्य यदन्तरियात्प्राणस्य तदन्तरियाद्यदु वै प्राणस्यान्तरियात्तत एवम् म्रियेत तस्मात्समेव स्थापयेदथातो व्रतानामेव॥
तदाहुः॥
नैतेन पशुनेष्ट्वोपरि शयीत न मांसमश्नीयान्न मिथुनमुपेयात्पूर्वदीक्षा वा एष पशुरनवकॢप्तं वै तद्यद्दीक्षित उपरि शयीत यन्मांसमश्नीयाद्यन्मिथुनमेपेयादिति नेत्वेवैषा दीक्षा नेव हि मेखलास्ति न कृष्णाजिनमिष्टकां वा एतां कुरुते तस्मादु काममेवोपरि शयीतैतदु सर्वमन्नं यदते पशवस्तदस्यात्राप्तमारब्धम् भवति तद्यानि कानि चामधुनो ऽशनानि तेषामस्य सर्वेषां कामाशनं यदि लभेत मिथुनं तु नोपेयात्पुरा मैत्रावरुण्य पयस्यायै तस्योपरि बन्धुः॥
तदाहुः॥
दद्यादेतस्मिन्यज्ञे दक्षिणां नेन्मे ऽयं यज्ञो ऽदक्षिणो ऽसद्ब्रह्मण आदिष्टदक्षिणां दद्याद्ब्रह्मा वै सर्वो यज्ञस्तदस्य सर्वो यज्ञो भिषज्जयितो भवतीति न तथा कुर्यादिष्टकां वा एतां कुरुते तद्यथेष्टकायामिष्टकायां दद्यात्तादृक्तदमुर्ह्येव दद्याद्यदस्योपकल्पेत॥
एतद्वै देवा अब्रुवन्॥
चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तेषां चेतयमानानाम् प्रजापतिरिमाम् प्रथमां स्वयमातृणां चितिमपश्यत्तस्मात्ताम् प्रजापतिनोपदधाति॥
तमग्निरब्रवीत्॥
उपाहमायानीति केनेति पशुभिरिति तथेति पश्विष्टकया ह तदुवाचैषा वाव पश्विष्टका यद्दूर्वेष्टका तस्मात्प्रथमायै स्वयमातृणाया अनन्तर्हिता दूर्वेष्टकोपधीयते तस्मादस्या अनन्तर्हिता ओषधयो ऽनन्तर्हिताः पशवो ऽनन्तर्हितो ऽग्निरनन्तर्हितो ह्येष एतयोपैत्॥
ते ऽब्रुवन्॥
चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति तेषां चेतयमानानामिन्द्राग्नी च विश्वकर्मा चान्तरिक्षं द्वितीयां स्वयमातृणां चितिमपश्यंस्तस्मात्तामिन्प्राग्निभ्यां च विश्वकर्मणा चोपदधाति॥
तान्वायुरब्रवीत्॥
उपाहमायानीति केनेति दिग्भिरिति तथेति दिश्याभिर्ह तदुवाच तस्माद्द्वितीयायै स्वयमातृणाया अनन्तर्हिता दिश्या उपधीयन्ते तस्मादन्तरिक्षादनन्तर्हिता दिशो ऽनन्तर्हितो वायुरनन्तर्हितो ह्येष एताभिरुपैत्॥
ते ऽब्रुवन्॥
चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति तेषां चेतयमानानाम् परमेष्ठी दिवं तृतीयं स्वयमातृणां चितिमपश्यत्तस्मात्ताम् परमेष्ठिनोपदधाति॥
तमसावादित्यो ऽब्रवीत्॥
उपाहमायानीति केनेति लोकम्पृणयेति तथेत्येष वाव लोकम्पृणात्मना हैव तदुवाच तस्मात्तृतीया स्वयमातृणानन्तर्हिता लोकम्पृणाया उपधीयते तस्मादशावादित्यो ऽनन्तर्हितो दिवो ऽनन्तर्हितो ह्येष एतयोपैत्॥
तदेता वाव षड् देवताः॥
इदं सर्वमभवन्यदिदं किं च ते देवाश्च ऽर्षयश्चाब्रुवन्निमा वाव षड् देवता इदं सर्वमभूवन्नुप तज्जानीत यथा वयमिहाप्यसामेति ते ऽब्रुवंश्चेतग्रध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथा वयमिहाप्यसामेति तेषां चेतयमानानां देवा द्वितीयां चितिमपश्यन्नृषयश्चतुर्थीम्॥
ते ऽब्रुवन्॥
उप वयमायामेति केनेति यदेषु लोकेषूपेति तथेति तद्यदूर्ध्वम् पृथिव्या अर्वाचीनमन्तरिक्षात्तेन देवा उपायंस्तदेषा द्वितीया चितिरथ यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तेन ऽर्षय उपायंस्तदेषा चतुर्थी चितिः॥
ते यदब्रुवन्॥
चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्यच्चेतयमाना अपश्यंस्तस्माच्चितयः॥
प्रजापतिः प्रथमां चितिमपश्यत्॥
प्रजापतिरेव तस्या आर्षेयं देवा द्वितीयां चितिमपश्यन्देवा एव तस्या आर्षेयमिन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यंस्त एव तस्या आर्षेयमृषयश्चतुर्थीं चितिमपश्यन्नृषय एव तस्या आर्षेयम् परमेष्ठी पञ्चमीं चितिमपश्यत्परमेष्ठ्येव तस्या आर्षेयं स यो हैतदेवं चितीनामार्षेयं वेदार्षेयवत्यो हास्य बन्धुमत्यश्चितयो भवन्ति॥