असद्वा इदमग्र आसीत्॥
तदाहुः किं तदसदासीदित्यृषयो वाव ते ग्रे सदासीत्तदाहुः के त ऋषय इति प्राणा वा ऋषयस्ते यत्पुरास्मात्सर्वस्मादिदमिच्छन्तः श्रमेण तपसारिषंस्तस्मादृषयः ध्यत इन्द्रियेणैन्द्ध यदैन्द्ध तस्मादिन्ध इन्धो ह वै तम्॥
स यो यम् मध्ये प्राणः॥
एष एवेन्द्रस्तानेष प्राणान्मैन्द्र इत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवास्त इद्धाः सप्त नाना पुरुषानसृजन्त॥
ते ऽब्रुवन्॥
न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुमिमान्त्सप्त पुरुषानेकम् पुरुषं करवामेति त एतान्त्सप्त पुरुषानेकम् पुरुषमकुर्वन्यदूर्ध्वं नाभेस्तौ द्वौ समौब्जन्यदवाङ्नाभेस्तौ द्वौ पक्षः पुरुषः पक्षः पुरुषः प्रतिष्ठैक आसीत्॥
अथ यैतेषां सप्तानाम् पुरुषाणां श्रीः॥
यो रस आसीत्तमूर्ध्वं समुदौहस्तदस्य शिरो ऽभवद्यछ्रियं समुदौहंस्तस्माछिरस्तस्मिन्नेतस्मिन्प्राणा अश्रयन्त तस्माद्वेवैतछिरो ऽथ यत्प्राणा अश्रयन्त तस्मादु प्राणाः श्रियौ ऽथ यत्सर्वस्मिन्नश्रयन्त तस्मादु शरीरम्॥
स एव पुरुषः प्रजापतिरभवत्॥
स यः स पुरुषः प्रजापतिरभवदयमेव स यो ऽयमग्निश्चीयते॥
स वै सप्तपुरुषो भवति॥
सप्तपुरुषो ह्ययम् पुरुषो यच्च्त्वार आत्मा त्रयः पक्षपुछानि चत्वारो हि तस्य पुरुषस्यात्मा त्रयः पक्षपुछान्यथ यदेकेन पुरुषेणात्मानं वर्धयति तेन वीर्येणायमात्मा पक्षपुछान्युद्यछति॥
अथ यश्चिते ऽग्निर्निधीयते॥
यैवैतेषां सप्तानाम् पुरुषाणां श्रीर्यो रसस्तमेतदूर्ध्वं समुदूहन्ति तदस्यैतछिरस्तस्मिन्त्सर्वे देवाः श्रिता अत्र हि सर्वेभ्यो देवेभ्यो जुह्वति तस्माद्वेवैतछिरः॥
सो ऽयम् पुरुषः प्रजापतिरकामयत भूयान्त्स्याम् प्रजायेयेति सो ऽश्राम्यत्स तपो ऽतप्यत स श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत त्रयोमेव विद्यां सैवास्मै प्रतिष्ठाभवत्तस्मादाहुर्ब्रह्मास्य सर्वस्य प्रतिष्ठेति तस्मादनूच्य प्रतितिष्ठति प्रतिष्ठा ह्येषा यद्ब्रह्म तस्याम् प्रतिष्ठायाम् प्रतिष्ठितो ऽतप्यत॥
सो ऽपो ऽसृजत॥
वाच एव लोकाद्वागेवास्य सासृज्यत सेदं सर्वमाप्नोद्यदिदं किं च यदाप्नोत्तस्मादापो यदवृणोत्तस्माद्वाः॥
सो ऽकामयत॥
आभ्यो ऽद्भ्यो ऽधि प्रजायेयेति सो ऽनया त्रय्या विद्यया सहापः प्राविशत्तत आण्डं समवर्तत तदभ्यमृशदस्त्वित्यस्तु भूयो ऽस्त्वित्येव तदब्रवीत्ततो ब्रह्मैव प्रथममसृज्यत त्रय्येव विद्या तस्मादाहुर्ब्रह्मास्य सर्वस्य प्रथमजमित्यपि हि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यत तदस्य तन्मुखमेवासृज्यत तस्मादनूचानमाहुरग्निकल्प इति मुखं ह्येतदग्नेर्यद्ब्रह्म॥
अथ यो गर्भो ऽन्तरासीत्॥
सो ऽग्रिरसृज्यत स यदस्य सर्वस्याग्रमसृज्यत तस्मादग्रिरग्रिर्ह वै तमग्निरित्याचछते परो ऽक्षम् परो ऽक्षकामा हि देवा अथ यदश्रु सङ्क्षरितमासीत्सो ऽश्रुरभवदश्रुर्ह वै तमश्व इत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवा अथ यदरसदिव स रासभो ऽभवदथ यः कपाले रसो लिप्त आसीत्सो ऽजो ऽभवदथ यत्कपालमासीत्सा पृथिव्यभवत्॥
सो ऽकामयत॥
आभ्यो ऽद्यो ऽधीमाम् प्रजनयेयमिति तां सङ्क्ŀ̥श्याप्सु प्राविध्यत्तस्यै यः पराङ् रसो ऽत्यक्षरत्स कूर्मो ऽभवदथ यदूर्ध्वमुदौक्ष्यतेदं तद्यदिदमूर्ध्वमद्भ्यो ऽधि जायते सेयं सर्वाप एवानुव्यैत्तदिदमेकमेव रूपं समदृश्यताप एव॥
सो ऽकामयत॥
भूय एव स्यात्प्रजायेतेति सो ऽश्राम्यत्स तपो ऽतप्यत स श्रान्तस्तेपानः फेनमसृजत सो ऽवेदन्यद्वा एतद्रूपम् भूयो वै भवति श्राम्याण्येवेति स श्रान्तस्तेपानो मृदं शुष्कापमूषसिकतं शर्करामश्मानमयो हिरण्यमोषधिवनस्पत्यसृजत तेनेमाम् पृथिवीम् प्राछादयत्॥
ता वा एता नव सृष्टयः॥
इयमसृज्यत तस्मादाहुस्त्रिवृदग्निरितीयं ह्यग्निरस्यै हि सर्वो ऽग्निश्चीयते॥
अभूद्वा इयम् प्रतिष्ठेति॥
तद्भूमिरभवत्तामप्रथयत्सा पृथिव्यभवत्सेयं सर्वा कृत्स्ना मन्यमानागायद्यदगायत्तस्मादियं गायत्र्यथो आहुरग्निरेवास्यै पृष्ठे सर्वः कृत्स्नो मन्यमानो ऽगायद्यदगायत्तस्मादग्निर्गायत्र इति तस्मादु हैतद्यः सर्वः कृत्स्नो मन्यते गायति वैव गीते वा रमते॥
सो ऽकामयत प्रजापतिः॥
भूय एव स्यात्प्रजायेतेति सो ऽग्निना पृथिवीम् मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशत्पुष्यत्विति पुष्यतु भूयो ऽस्त्वित्येव तदब्रवीत्॥
स यो गर्भो ऽन्तरासीत्॥
स वायुरसृज्यताथ यदश्रु सङ्क्षरितमासीत्तानि वयांस्यभवन्नथ यः कपाले रसो लिप्त आसीत्ता मरीचयो ऽभवन्नथ यत्कपालमासीत्तदन्तरिक्षमभवत्॥
सो ऽकामयत॥
भूय एव स्यात्प्रजायेतेति स वायुनान्तरिक्षम् मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशद्यशो बिभृहीति ततो ऽसावादित्यो ऽसृज्यतैष वै यशो ऽथ यदश्रु सङ्क्षरितमासीत्सो ऽश्मा पृश्निरभवदश्रुर्ह वै तमश्मेत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवा अथ यः कपाले रसो लिप्त आसीत्ते रश्मयो ऽभवन्नथ यत्कपालमासीत्सा द्यौरभवत्॥
सो ऽकामयत॥
भूय एव स्यात्प्रजायेतेति स आदित्येन दिवम् मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशद्रेतो बिभृहीति ततश्चन्द्रमा असृज्यतैष वै रेतो ऽथ यदश्रु सङ्क्षरितमासीत्तानि नक्षत्राण्यभवन्नथ यः कपाले रसो लिप्त आसीत्ता अवान्तरदिशो ऽभवन्नथ यत्कपालमासीत्ता दिशो ऽभवन्॥
स इमांलोकान्त्सृष्ट्वाकामयत॥
ताः प्रजाः सृजेय या म एषु लोकेषु स्युरिति॥
स मनसा वाचम् मिथुनं समभवत्॥
सो ऽष्टौ द्रप्सान्गर्भ्यभवत्ते ऽष्टौ वसवो ऽसृज्यन्त तानस्यामुपादधात्॥
स मनसैव॥
वाचम् मिथुनं समभवत्स एकादश द्रप्सान्गर्भ्यभवत्त एकादश रुद्रा असृज्यन्त तानन्तरिक्ष उपादधात्॥
स मनसैव॥
वाचम् मिथुनं समभवत्स द्वादश द्रप्सान्गर्भ्यभवत्ते द्वादशादित्या असृज्यन्त तान्दिव्युपादधात्॥
स मनसैव॥
वाचम् मिथुनं समभवत्स गर्भ्यभवत्स विश्वान्देवानसृजत तान्दिक्षूपादधात्॥
अथो आहुः॥
अग्निमेव सृष्टं वसवो ऽन्वसृज्यन्त तानस्यामुपादधाद्वायुं रुद्रास्तानन्तरिक्ष आदित्यमादित्यास्तान्दिवि विश्वे देवाश्चन्द्रमसं तान्दिक्षूपादधादिति॥
अथो आहुः॥
प्रजापतिरेवेमांलोकान्त्सृष्ट्वा पृथिव्याम् प्रत्यतिष्ठत्तस्मा इमा ओषधयो ऽन्नमपच्यन्त तदाश्नात्स गर्भ्यभवत्स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत ये वाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजा इत्यतो यतमथासृजत तथासृजत प्रजापतिस्त्वेवेदं सर्वमसृजत यदिदं किं च॥
स प्रजाः सृष्ट्वा॥
सर्वमाजिमित्वा व्यस्रंसत तस्मादु हैतद्यः सर्वमाजिमेति व्येव स्रंसते तस्माद्विस्रस्तात्प्राणो मध्यत उदक्रामत्तस्मिन्नेनमुत्क्रान्ते देवा अजहुः॥
सो ऽग्निमब्रवीत्॥
त्वम् मा सन्धेहीति कि मे ततो भविष्यतीति त्वया माचक्षान्तै यो वै पुत्राणां राध्यते तेन पितरम् पितामहम् पुत्रम् पौत्रमाचक्षते त्वया माचक्षान्ता अथ मा सन्धेहीति तथेति तमग्निः समदधात्तस्मादेतम् प्रजापतिं सन्तमग्निरित्याचक्षत आ ह वा एनेन पितरम् पितामहम् पुत्रम् पौत्रं चक्षते य एवं वेद॥
तमब्रवीत्॥
कस्मिस्त्वोपधास्यामीति हित एवेत्यब्रवीत्प्राणो वै हितम् प्राणो हि सर्वेभ्यो भूतेभ्यो हितस्तद्यदेनं हित उपादधात्तस्मादाहोपधास्याम्युपदधामिति॥
तदाहुः॥
किं हितं किमुपहितमिति प्राण एव हितं वागुपहितम् प्राणे हीयं वागुपेव हिता प्राणस्त्वेव हितमङ्गान्युपहितम् प्राणे हीमान्यङ्गान्युपेव हितानि॥
सो ऽस्यैष चित्य आसीत्॥
चेतव्यो ह्यस्यासीत्तस्माच्चित्यश्चित्य उ एवायं यजमानस्य भवति चेतव्यो ह्यस्य भवति तस्माद्वेव चित्यः॥
तदेता वा अस्य ताः॥
पञ्च तन्वो व्यस्रंसन्त लोम त्वङ्नांसमस्थि मज्जा ता एवैताः पञ्च चितयस्तद्यत्पञ्च चितीश्चिनोत्येताभिरेवैनं तत्तनूभिश्चिनोति यच्चिनोति तस्माच्चितयः॥
स यः स प्रजापतिर्व्यस्रंसत॥
संवत्सरः सो ऽथ या अस्यैताः पञ्च तन्वो व्यश्रंसन्त ऽर्तवस्ते पञ्च वा ऋतवः पञ्चैताश्चितयस्तद्यत्पञ्च चितीश्चिनोत्यृतुभिरेवैनं तच्चिनोति यच्चिनोति तस्माच्चितयः॥
स यः स संवत्सरः प्रजापतिर्व्यस्रंसत॥
अयमेव स वायुर्यो ऽयम् पवते ऽथ या अस्य ता ऋतवः पञ्च तन्वो व्यस्रंसन्त दिशस्तॄः पञ्च वै दिशः पञ्चैताश्चितयस्तद्यत्पञ्च चितीश्चिनोति दिग्भिरेवैनं तच्चिनोति यच्चिनोति तस्माच्चितयः॥
अथ यश्चिते ऽग्निर्निधीयते॥
असौ स आदित्यः स एष एवैषो ऽग्निश्चित एतावन्नु तद्यदेनमग्निः समदधात्॥
अथो आहुः॥
प्रजापतिरेव विस्रस्तो देवानब्रवीत्सम् मा धत्तेति ते देवा अग्निमब्रुवंस्त्वयीमम् पितरम् प्रजापतिम् भिषज्यामेति स वा अहमेतस्मिन्त्सर्वस्मिन्नेव विशानीति तथेति तस्मादेतम् प्रजापतिं सन्तमग्निरित्याचक्षते॥
तं देवा अग्नावाहुतिभिरभिषज्यन्॥
ते यां यामाहुतिमजुहवुः सा-सैनम् पक्वेष्टका भूत्वाप्यपद्यत तद्यदिष्टात्समभवंस्तस्मादिष्टकास्तस्मादग्निनेष्टकाः पचन्त्याहुतीरेवैनास्तत्कुर्वन्ति॥
सो ऽब्रवीत्॥
यावद्यावद्वै जुहुथ तावत्तावन्म कम् भवतीति तद्यदस्मा इष्टे कमभवत्तस्माद्वेवेष्टकाः॥
तद्ध स्माहाक्ताक्ष्यः॥
य एव यजुष्मतीर्भूवसीरिष्टका विद्यात्सो ऽग्निं चिनुयाद्भूय एव तत्पितरम् प्रजापतिम् भिषज्यतीति॥
अथ ह स्माह ताण्ड्यः॥
क्षत्रं वै यजुष्मत्य इष्टका विशो लोकम्पृणा अत्ता वै क्षत्रियो ऽन्नं विड्यत्र वा अत्तुरन्न भूयो भवति तद्राष्ट्रं समृद्धम् भवति तदेधते तस्माल्लोकम्पृणा एव भूयसीरुपदध्यादित्येतदह तयोर्वचो ऽन्या त्वेवात स्थितिः॥
स एष पिता पुत्रः॥
यदेषो ऽग्निमसृजत तेनैषो ऽग्नेः पिता यदेतमग्निः समदधात्तेनैतस्याग्निः पिता यदेष देवानसृजत तेनैष देवानाम् पिता यदेतं देवाः समदधुस्तेनैतस्य देवाः पितरः॥
उभयं हैतद्भवति॥
पिता च पुत्रश्च प्रजापतिश्चाग्निश्चाग्निश्च प्रजापतिश्च प्रजापतिश्च देवाश्च प्रजापतिश्च य एवं वेद॥
स उपदधाति॥
तया देवतयेति वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवा सीदेति स्थिरा सीदेत्येतदथो प्रतिष्ठिता सीदेति वाचा चैवैनमेतत्प्राणेन च चिनोति वाग्वा अग्निः प्राण इन्द्र ऐन्द्राग्नो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतच्चिनोतीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतच्चिनोति॥
तदाहुः॥
कस्मादस्या अग्निश्चीयत इति यत्र वै सा देवता व्यस्रंसत तदिमामेव रसेनानु व्यक्षरत्तं यत्र देवाः समस्कुर्वंस्तदेनमस्या एवाधि समभरन्त्सैषैकैवेष्टकेयमेवेयं ह्यग्निरस्यै हि सर्वो ऽग्निश्चीयते सेयं चतुःस्रक्तिर्दिशो ह्यस्यै स्रक्तयस्तस्माच्चतुःक्रक्तय इष्टका भवन्तीमां ह्यनु सर्वा इष्टकाः॥
तदाहुः॥
यदेवमेकेष्टको ऽथ कथम् पञ्चेष्टक इतीयं न्वेव प्रथमा मृन्मयीष्टका तद्यत्किं चात्र मृन्मयमुपदधात्येकैव सेष्टकाथ यत्पशुशीर्षाण्युपदधाति सा पश्विष्टकाथ यद्रुक्भपुरुषा उपदधाति यद्धिरण्यशकलैः प्रोक्षति सा हिरण्येष्टकाथ यत्स्रुचा उपदधाति यदुलूखलमुसले याः समिध आदधाति सा वानस्पत्येष्टकाथ यत्पुष्करपर्णमुपदधाति यत्कूर्मं यद्दधि मधु घृतं यत्किं चात्रान्नमुपदधाति सैवान्नं पञ्चमीष्टकैवमु पञ्चेष्टकः॥
तदाहुः॥
कतरत इष्टकायाः शिर इति यत उपस्पृश्य यजुर्वदतीत्यु हैक आहुः स स्वयमातृणाया एवार्धादुपस्पृश्य यजुर्वदेत्तथो हास्यैताः सर्वाः स्वयमातृणामभ्यावृत्ता भवन्तीति न तथा कुर्यादङ्गानि वा अस्यैतानि परूंषि यदिष्टका यथा वा अङ्गे ऽङ्गे पर्वन्पर्वञ्छिरः कुर्यात्तादृत्कद्यो वाव चिते ऽग्निर्निधीयते तदेवैतासां सर्वासां शिरः॥
तदाहुः॥
कति पशवो ऽग्ना उपधीयन्त इति पञ्चेति न्वेव ब्रूयात्पञ्च ह्येतान्पशूनुपदधाति॥
अथो एक इति ब्रूयात्॥
अविरितीयं वा अविरियं हीमाः सर्वाः प्रजा अवतीयमु वा अग्निरस्यै हि सर्वो ऽग्निश्चीयते तस्मादेक इति ब्रूयात्॥
अथो द्वाविति ब्रूयात्॥
अवी इतीयं चासौ चेमे हीमाः सर्वाः प्रजा अवतो यन्मृदियं तद्यदापो ऽसौ तन्मृच्चापश्चेष्टका भवन्ति तस्माद्दाविति ब्रूयात्॥
अथो गौरिति ब्रूयात्॥
इमे वै लोका गौर्यद्धि किं च गछतीमांस्तल्लोकान्गछतीम उ लोका एषो ऽग्निश्चितस्तस्माद्गौरिति ब्रूयात्॥
तदाहुः॥
कस्मै कामायाग्निश्चीयत इति सुपर्णो मा भूत्वा दिवं वहादित्यु हैक आहुर्न तथा विद्यादेतद्वै रूपं कृत्वा प्राणाः प्रजापतिरभवन्नेतद्रूपं कृत्वा प्रजापतिर्देवानसृजतैतद्रूपं कृत्वा देवा अमृता अभवंस्तद्यदेवैतेन प्राणा अभवन्यत्प्रजापतिर्यद्देवास्तदेवैतेन भवति॥
प्रजापतिर्वा इदमग्र आसीत्॥
एक एव सो ऽकामयत स्याम् प्रजायेयेति सो ऽश्राम्यत्स तपो ऽतप्यत तस्माछ्रान्तात्तेपानादापो ऽसृज्यन्त तस्मात्पुरुषात्तप्तादापो जायन्ते॥
आपो ऽब्रुवन्॥
क्व वयम् भवामेति तप्यध्वमित्यब्रवीत्ता अतप्यन्त ताः फेनमसृजन्त तस्मादपां तप्तानाम् फेनो जायते॥
फेनो ऽब्रवीत्॥
क्वाहम् भवानीति तप्यस्वेत्यब्रवीत्सो ऽतप्यत स मृदमसृजतैतद्वै फेनस्तप्यते यदप्स्वावेष्टमानः प्लवते स यदोपहन्यते मृदेव भवति॥
मृदब्रवीत्॥
क्वाहम् भवानीति तप्यस्वेत्यब्रवीत्सातप्यत सा सिकता असृजतैतद्वै मृत्तप्यते यदेनां विकृषन्ति तस्माद्यद्यपि सुमार्त्स्नं विकृषन्ति सैकतमिवैव भवत्येतावन्नु तद्यत्क्वाहम् भवानि क्वाह भवानीति॥
सिकताभ्यः शर्करामसृजत॥
तस्मात्सिकताः शर्करैवान्ततो भवति शर्कराया अश्मानं तस्माछर्कराश्मैवान्ततो भवत्यश्मनो ऽयस्तस्मादश्मनो ऽयो धमन्त्ययसो हिरण्यं तस्मादयो बहुध्मातं हिरण्यसङ्काशमिवैव भवति॥
तद्यदसृज्यताक्षरत् तद्यदक्षरत्तस्मादक्षरं यदष्टौ कृत्वो ऽक्षरत्सैवाष्टाक्षरा गायत्र्य भवत्॥
अभूद्वा इयम् प्रतिष्ठेति॥
तद्भृमिरभवत्तामप्रथयत्सा पृथिव्यभवत्तस्यामस्याम् प्रतिष्ठायाम् भूतानि च भूतानां च प्रतिः संवत्सरायादीक्षन्त भूतानाम् प्रतिर्गृहपतिरासीदुषाः पत्नी॥
तद्यानि तानि भूतानि॥
ऋतवस्ते ऽथ यः स भूतानाम् पतिः संवत्सरः सो ऽथ या सोषाः पत्न्यौषसी सा तानीमानि भूतानि च भूतानां च पतिः संवत्सर उषसि रेतो ऽसिञ्चन्त्स संवत्सरे कुमारो ऽजायत सो ऽरोदीत्॥
तम् प्रजापतिरब्रवीत्॥
कुमार किं रोदिषि यछ्रमात्तपसो ऽधि जातो ऽसीति सो ऽब्रवीदनपहतपाप्मा वा अस्म्यहितनामा नाम म धेहीति तस्मात्पुत्रस्य जातस्य नाम कुर्यात्पाप्मानमेवास्य तदपहन्त्यपि द्वितीयमपि तृतीयमभिपूर्वमेवास्य तत्पाप्मानमपहन्ति॥
तमब्रवीद्रुद्रो ऽसीति॥
तद्यदस्य तन्नामाकरोदग्निस्तद्रूपमभवदग्निव रुद्रो यदरोदीत्तस्माद्रुद्रः सो ऽब्रवीज्ज्यायान्वा अतो ऽस्मि धेह्येव मे नामेति॥
तमब्रवीत्सर्वो ऽसीति॥
तद्यदस्य तन्नामाकरोदापस्तद्रूपमभवन्नापो वै सर्वो ऽद्भ्यो हीदं सर्वं जायते सो ऽब्रवीज्ज्यायान्वा अतो ऽस्मि धेह्येव मे नामेति॥
तमब्रवीत्पशुपतिरसीति॥
तद्यदस्य तन्नामाकरोदोषधयस्तद्रूपमभवन्नोषधयो वै पशुपतिस्तस्माद्यदा पशव ओषधीर्लभन्ते ऽथ पतीयन्ति सो ऽब्रवीज्ज्यायान्वा अतो ऽस्मि धेह्येव मे नामेति॥
तमब्रवीदुग्रो ऽसीति॥
तद्यदस्य तन्नामाकरोद्वायुस्तद्रूपम्भवद्वायुर्वा उग्रस्तस्माद्यदा बलवद्वायुग्रो वातोत्याहुः सो ऽब्रवीज्ज्यायान्वा अतो ऽस्मि धेह्येव मे नामेति॥
तमब्रवीदशनिरसीति॥
तद्यदस्य तन्नामाकरोद्विद्युत्तद्रूपमभवद्विद्युद्वा अशनिस्तस्माद्यं विद्युद्धन्त्यशनिरबधीदित्याहुः सो ऽब्रवीज्ज्यायान्वा अतो ऽस्मि धेह्येव मे नामेति॥
तमब्रवीद्भवो ऽसीति॥
तद्यदस्य तन्नामाकरोत्पर्जन्यस्तद्रूपमभवत्पर्जन्यो वै भवः पर्जन्याद्धीदं सर्वम् भवति सो ऽब्रवीज्ज्यायान्वा अतो ऽस्मि धेह्येव मे नामेति॥
तमब्रवीन्महान्देवो ऽसीति॥
तद्यदस्य तन्नामाकरोच्चन्द्रमास्तद्रूपमभवत्प्रजापतिर्वै चन्द्रमाः प्रजापतिर्वै महान्देवः सो ऽब्रवीज्ज्यायान्वा अतो ऽस्मि धेह्येव मे नामेति॥
तमब्रवीदीशानो ऽसीति॥
तद्यदस्य तन्नामाकरोदादित्यस्तद्रूपमभवदादित्यो वा ईशान आदित्यो ह्यस्य सर्वस्येष्टे सो ऽब्रवीदेतावान्वा अस्मि मा मेतः परो नाम धा इति॥
तान्येतान्यष्टावग्निरूपाणि॥
कुमारो नवमः सैवाग्निस्त्रिवृत्ता॥
यद्वेवाष्टावग्निरूपाणि॥
अष्टाक्षरा गायत्री तस्मादाहुर्गायत्रो ऽग्निरिति सो ऽयं कुमारो रूपाण्यनुप्राविशन्न वा अग्निं कुमारमिव पश्यन्त्येतान्येवास्य रूपाणि पश्यन्त्येतानि हि रूपाण्यनुप्राविशत्॥
तमेतं संवत्सर एव चिनुयात्॥
संवत्सरे ऽनुब्रूयाद्दूयोरित्यु हैक आहुः संवत्सरे वै तद्रेतो ऽसिञ्चन्त्स संवत्सरे कुमारो ऽजायत तस्माद्दूयोरेव चिनुयाद्वूयोरनुब्रूयादिति संवत्सरे त्वेव चिनुयात्संवत्सरे ऽनुब्रूयाद्यद्वाव रेतः सिक्तं तदेव जायते तत्ततो विक्रियमाणमेव वर्धमानं शेते तस्मात्संवत्सर एव चिनुयात्संवत्सरे ऽनुब्रूयात्तस्य चितस्य नाम करोति पाप्मानमेवास्य तदपहन्ति चित्रनामानं करोति चित्रो ऽसीति सर्वाणि हि चित्राण्यग्निः॥