०४

केशवस्य पुरुषस्य॥
लोहायसमास्य आविध्यत्यवेष्टा दन्दशूका इति सर्वान्वा एष मृत्यूनतिमुच्यते सर्वान्बधान्यो राजसूयेन यजते तस्य जरैव मृत्युर्भवति तद्यो मृत्युर्यो बधस्तमेवैतदतिनयति यद्दन्दशूकान्॥
अथ यत्केशवस्य पुरुषस्य॥
न वा एष स्त्री न पुमान्यत्केशवः पुरुषो यदह पुमास्तेन न स्त्री यदु केशवस्तेनो न पुमान्नैतदयो न हिरण्यं यल्लोहायसं नैते क्रिमयो नाक्रिमयो यद्दन्दशूका अथ यल्लोहायसम् भवति लोहिता इव हि दन्दशूकास्तस्मात्केशवस्य पुरुषस्य॥
अथैनं दिशः समारोहयति॥
प्राचीमारोह गायत्री त्वावतु रथन्तरं साम त्रिवृत्स्तोमो वसन्त ऋतुर्ब्रह्म द्रविणम्॥
दक्षिणामारोह॥
त्रिष्टुप्त्वावतु बृहत्साम पञ्चदश स्तोमो ग्रीष्म ऋतुः क्षत्रं द्रविणम्॥
प्रतीचीमारोह॥
जगती त्वावतु वैरूपं साम सप्तदश स्तोमो वर्षा ऋतुर्विड् द्रविणम्॥
उदीचीमारोह॥
अनुष्टुप्त्वावतु वैराजं सामैकविंश स्तोमः शरदृतुः फलं द्रविणाम्॥
ऊर्ध्वामारोह॥
पङ्क्तिस्त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिंशौ स्तोमौ हेमन्तशिशिरावृतू वर्चो द्रविणमिति॥
तद्यदेनं दिशः समारोहयति॥
ऋतूनामेवैतद्रूपमृतूनेवैनमेतत्संवत्सरं समारोहयति स ऋतून्त्संवत्सरं समारुह्य सर्वमेवेदमुपर्युपरि भवत्यर्वागैवास्मादिदं सर्वम् भवति॥
शार्दूलचर्मणो जघनार्धे॥
सीसं निहितम् भवति तत्पदा प्रत्यस्यति प्रत्यस्तं नमुचेः शिर इति नमुचिर्ह वै नामासुर आस तमिन्द्रो निविव्याध तस्य पदा शिरो ऽभितष्ठौ स यदभिष्ठित उदबाधत स उछ्वङ्कस्तस्य पदा शिरः प्रचिच्छेद ततो रक्षः समभवत्तद्ध स्मैनमनुभाषते क्व गमिष्यसि क्व मे मोक्ष्यस इति॥
तत्सीसेनापजघान॥
तस्मात्सीसम् मृदु सृतजवं हि सर्वेण हि वीर्येणापजघान तस्माद्धिरण्यरूपं सन्न कियच्चनार्हति सृतजवं हि सर्वेण हि वीर्येणापजघान तद्वै स तन्नाष्ट्रा रक्षांस्यपजघान तथो एवैष एतन्नाष्ट्रा रक्षांस्यतो ऽपहन्ति॥
अथैनं शार्दूलचर्मारोहयति॥
सोमस्य त्विषिरसीति यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिस्तस्मादाह सोमस्य त्विषिरसीति तवेव मे त्विषिर्भूयादिति शार्दूलत्विषिमेवास्मिन्नेतद्दधाति तस्मादाह तवेव मे त्विषिर्भूयादिति॥
अथ रुक्ममधस्तादुपास्यति॥
मृत्योः पाहीत्यमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति॥
अथ रुक्मः शतवितृणो वा भवति॥
नववितृणो वा स यदि शतवितृणः शतायुर्वा अयम् पुरुषः शततेजाः शतवीर्यस्तस्माछतवितृणो यद्यु नववितृणो नवेमे पुरुषे प्राणास्तस्मान्नववितृणः॥
तमुपरिष्टाछीर्ष्णो निदधाति॥
ओजो ऽसि सहो स्यमृतमसीत्यमृतमायुर्हिरण्यं तदस्मिन्नमृतमायुर्दधाति तद्यद्रुक्मा उभयतो भवतो ऽमृतमायुर्हिरण्यं तदमृतेनैवैनमेतदायुषोभयतः परिबृंहति तस्माद्रुक्मा उभयतो भवतः॥
अथ बाहू उद्गृह्णाति॥
हिरण्यरूपा उषसो विरोक उभाविन्द्रो उदिथः सूर्यश्च आरोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं चेति बाहू वै मित्रावरुणौ गर्तस्तस्मादाहारोहतं वरुण मित्र गर्तमिति ततश्चक्षाथामदितिं दितिं चेति ततः पश्यतं स्वं चारणं चेत्येवैतदाह॥
नैतेनोद्गृह्णीयात्॥
मित्रो ऽसि वरुणो ऽसीत्येवोद्गृह्णीयाद्बाहू वै मित्रावरुणौ बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मान्मित्रो ऽसि वरुणो ऽसीत्येवोद्गृह्णीयात्॥
तद्यदेनमूर्ध्वबाहुमभिषिञ्चति॥
वीर्यं वा एतद्राजन्यस्य यद्बाहू वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति नेन्म इदं वीर्यं वीर्यमपां रसः सम्भृतो बाहूव्लिनादिति तस्मादेनमूर्ध्वबाहुमभिषिञ्चति॥
तं वै प्राञ्चं तिष्ठन्तमभिषिञ्चति॥
पुरस्ताद्ब्राह्मणो ऽभिषिञ्चत्यध्वर्युर्वा यो वास्य पुरोहितो भवति पश्चादितरे॥
सोमस्य त्वा द्युम्नेनाभिषिञ्चामीति॥
वीर्येणैतदाहाग्नेर्भ्राजसेति वीर्येणैवैतदाह सूर्यस्य वर्चसेति वीर्येणैवैतदाहेन्द्रस्येन्द्रियेणेति वीर्येणैवैतदाह क्षत्राणां क्षत्रपतिरेधीति राज्ञामधिराज एधीत्येवैतदाहाति दिद्यून्पाहीतीषवो वै दिद्यव इषुबधमेवैनमेतदतिनयति तस्मादाहाति दिद्यून्पाहीति॥
इमं देवाः॥
असपत्नं सुवध्वमितीमं देवा अभ्रातृव्यं सुवध्वमित्येवैतदाह महते क्षत्राय महते ज्यैष्ठ्यायेति नात्र तिरोहितमिवास्ति महते जानराज्यायेति महते जनानाम् राज्यायेत्येवैतदाहेन्द्रस्येन्द्रियायेति वीर्यायेत्येवैतदाह यदाहेन्द्रस्येन्द्रियायेतीमममुष्य पुत्रममुष्यै पुत्रमिति तद्यदेवास्य जन्म तत एवैतदाहास्यै विश इति यस्यै विशो राजा भवत्येष वो ऽमी राजा सोमो ऽस्माकम् ब्राह्मन्\आनां राजेति तदस्मा इदं सर्वमाद्य करोति ब्राह्मणमेवापोद्धरति तस्माद्ब्राह्मणो ऽनाद्यः सोमराजा हि भवति॥
अथैतमभिषेकम्॥
कृष्णविषाणयानुविमृष्टे वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चतीदम् मे वीर्यं सर्वमात्मानमुपस्पृशादिति तस्माद्वा अनुविमृष्टे॥
सो ऽनुविमृष्टे॥
प्र पर्वतस्य वृषभस्य पृष्ठादिति यथायम् पर्वतो ऽतिष्ठावा यथर्षभः पशूनतिष्ठावैवं वा एष इदं सर्वमतितिष्ठत्यर्वागेवास्मादिदं सर्वम् भवति यो राजसूयेन यजते तस्मादाह प्र पर्वतस्य वृषभस्य पृष्ठान्नावश्चरन्ति स्वसिच इयानाः ता आववृत्रन्नधरागुदक्ता अहिम् बुध्न्यमनु रीयमाणा इति॥
अथैनमन्तरेव शार्दूलचर्मणि विष्णुक्रमान्क्रमयति॥
विष्णोर्विक्रमणमसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसीतीमे वै लोका विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तं तदिमानेव लोकान्त्समारुह्य सर्वमेवेदमुपर्युपरि भवत्यर्वागेवास्मादिदं सर्वम् भवति॥
अथ ब्राह्मणस्य पात्रे॥
संस्रवान्त्समवनयति तद्ब्राह्मणं राजानमनु यशः करोति तस्माद्ब्राह्मणो राजानमनु यशः॥
तद्यो ऽस्य पुत्रः प्रियतमो भवति॥
तस्मा एतत्पात्रम् प्रयछतीदम् मे ऽयं वीर्यम् पुत्रो ऽनुसन्तनवदिति॥
अथ प्रतिपरेत्य गार्हपत्यमन्वारब्धे जुहोति॥
प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्त्वयममुष्य पितेति तद्यः पुत्रस्तम् पितरं करोति यः पिता तम् पुत्रं तदेनयोर्वीर्ये व्यतिषजत्यसावस्य पितेति तद्यः पिता तम् पितरं करोति यः पुत्रस्तम् पुत्रं तदेनयोर्वीर्ये व्यतिषज्य पुनरेव यथायथं करोति वयं स्याम पतयो रयीणां स्वाहेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते॥
अथ य एष संस्रवो ऽतिरिक्तो भवति तमाग्नीध्रीये जुहोत्यतिरिक्तो वा एष संस्रवो भवत्यतिरिक्त आग्नीध्रीयो गार्हपत्ये हवींषि श्रपयन्त्याहवनीये जुह्वत्यथैषो ऽतिरिक्तन्तदतिरिक्त एवैतदतिरिक्तं दधात्युत्तरार्धे जुहोत्येष ह्येतस्य देवस्य दिक्तस्मादुत्तरार्धे जुहोति स जुहोति रुद्र यत्ते क्रिवि परं नाम तस्मिन्हुतमस्यमेष्टमसि स्वाहेति॥
तद्यो ऽस्य स्वो भवति॥
तस्य शतं वा परःशता वा गा उत्तरेणाहवनीयं स्थापयति तद्यदेवं करोति॥
वरुणाद्ध वा अभिषिषिचानात्॥
इन्द्रियं वीर्यमपचक्राम शश्वद्य एषो ऽपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति सो ऽस्येन्द्रियं वीर्यं निर्जघान तत्पशुष्वन्वविन्दत्तस्मात्पशवो यशो यदेष्वन्वविन्दत्तत्पशुष्वनुविद्येन्द्रियं वीर्यम् पुनरात्मन्नधत्त तथो एवैष एतन्नाहैवास्मान्न्विन्द्रियं वीर्यमपक्रामति वरुणसवो वा एष यद्राजसूयमिति वरुणो करोदिति त्वेवैष एतत्करोति॥
अथ रथमुपावहरति॥
यद्वै राजन्यात्पराग्भवति रथेन वै तदनुयुङ्क्ते तस्माद्रथमुपावहरति॥
स उपावहरति॥
इन्द्रस्य वज्रो ऽसीति वज्रो वै रथ इन्द्रो वै यजमानो द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वज्रो ऽसीति॥
तमन्तर्वेद्यभ्यववर्त्य युनक्ति॥
मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति बाहू वै मित्रावरुणौ बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मादाह मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति॥
तं चतुर्युजं युनक्ति॥
स जघनेन सदो ऽग्रेण शालां येनैव दक्षिणा यन्ति तेन प्रतिपद्यते तं जघनेन चात्वालमग्रेणाग्नीध्रमुद्यछति॥
तमातिष्ठति॥
अव्यथायै त्वा स्वधायै त्वेत्यनार्त्यै त्वेत्येवैतदाह यदाहाव्यथायै त्वेति स्वधायै त्वेति रसाय त्वेत्येवैतदाहारिष्ठो अर्जुन इत्यर्जुनो ह वै नामेन्द्रो यदस्य गह्यं नाम द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहारिष्टो अर्जुन इति॥
अथ दक्षिणायुग्यमुपार्षति॥
मरुताम् प्रसवेन जयेति विशो वै मरुतो विशा वै तत्क्षत्रियो जयति यज्जिगीषति तस्मादाह मरुताम् प्रसवेन जयेति॥
अथ मध्ये गवामुद्यछति॥
आपाम मनसेति मनसा वा इदं सर्वमाप्तं तन्मनसैवैतत्सर्वमाप्नोति तस्मादाहापाम मनसेति॥
अथ धनुरार्त्न्या गामुपस्पृशति॥
समिन्द्रियेणेतीन्द्रियं वै वीर्यं गाव इन्द्रियमेवैतद्वीर्यमात्मन्धत्ते ऽथाह जिनामीमाः कुर्व इमा इति॥
तद्यत्स्वस्य गोषूद्यछति॥
यद्वै पुरुषात्पराग्भवति यशो वा किञ्चिद्वा स्वं हैवास्य तत्प्रतमामिवाभ्यपक्रामति तत्स्वादेवैतदिन्द्रियं वीर्यम् पुनरात्मन्धत्ते तस्मात्स्वस्य गोषूद्यछति॥
तस्मै तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति॥
न वा एष क्रूरकर्मणे भवति यद्यजमानः क्रूरमिव वा एतत्करोति यदाह जिनामीमाः कुर्व इमा इति तथो हास्यैतदक्रूरं कृतम् भवति तस्मात्तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति॥
अथ दक्षिणानायछति॥
सो ऽग्रेण यूपं दक्षिणेन वेदिं येनैव दक्षिणा यन्ति तेन प्रतिपद्यते तं जघनेन सदो ऽग्रेण शालामुद्यछति॥
मा न इन्द्र ते वयं तुराषाट्॥
अयुक्तासो अब्रह्मता विदसाम तिष्ठा रथमधि यं वज्रहस्ता रश्मीन्देव यमसे स्वश्वानित्युद्यछत्येवैतयाभीशवो वै रश्मयस्तस्मादाहा रश्मीन्देव यमसे स्वश्वानित्यथ रथविमोचनीयानि जुहोति प्रीतो रथो विमुच्याता इति तस्माद्रथविमोचनीयानि जुहोति॥
स जुहोति॥
अग्नये गृहपतये स्वाहेति स यदेवाग्नेयं रथस्य तदेवैतेन प्रीणाति वहा वा आग्नेया रथस्य वहानेवैतेन प्रीणाति श्रीर्वै गार्हपतं यावतो-यावत ईष्टे तछ्रियमेवास्यैतद्गार्हपतं राज्यमभिविमुच्यते॥
सोमाय वनस्पतये स्वाहेति॥
द्वयानि वै वानस्पत्यानि चक्राणि रथ्यानि चानसानि च तेभ्यो न्वेवैतदुभयेभ्यो ऽरिष्टिं कुरुते सोमो वै वनस्पतिः स यदेव वानस्पत्यं रथस्य तदेवैतेन प्रीणाति दारूणि वै वानस्पत्यानि रथस्य दारूण्येवैतेन प्रीणाति क्षत्रं वै सोमः क्षत्रमेवास्यैतद्राज्यमभिविमुच्यते॥
मरुतामोजसे स्वाहेति॥
स यदेव मारुतं रथस्य तदेवैतेन प्रीणाति चत्वारो ऽश्वा रथः पञ्चमो द्वौ सव्यष्ठृसारथी ते सप्त सप्त-सप्त व मारुतो गणः सर्वमेवैतेन रथम् प्रीणाति विशो वै मरुतो विशमेवास्यैतद्राज्यमभिविमुच्यते॥
इन्द्रस्येन्द्रियाय स्वाहेति॥
स यदेवैन्द्रं रथस्य तदेवैतेन प्रीणाति सव्यष्ठा वा ऐन्द्रो रथस्य सव्यष्ठारमेवैतेन प्रीणातीन्द्रियं वै वीर्यमिन्द्र इन्द्रियमेवास्यैतद्वीर्यं राज्यमभिविमुच्यते॥
अथ वाराह्या उपानहा उपमुञ्चते॥
अग्नौ ह वै देवा घृतकुम्भम् प्रवेशयां चक्रुस्ततो वराहः सम्बभूव तस्माद्वराहो मेदुरो घृताद्धि सम्भूतस्तस्माद्वराहे गावः सञ्जानते स्वमेवैतद्रसमभिसञ्जानते तत्पशूनामेवैतद्रसे प्रतितिष्ठति तस्माद्वाराह्या उपानहा उपमुञ्चते॥
अथेमाम् प्रत्यवेक्षमाणो जपति॥
पृथिवि मातर्मा मा हिंसीर्मो अहं त्वामिति वरुणाद्ध वा अभिषिषिचानात्पृथिवी बिभयां चकार महद्वा अयमभूद्यो ऽभ्यषेचि यद्वै मायं नावदृणीयादिति वरुण उ ह पृथिव्यै बिभयां चकार यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयमकुरुत न हि माता पुत्रं हिनस्ति न पुत्रो मातरम्॥
वरुणसवो वा एष यद्राजसूयम्॥
पृथिव्यु हैतस्माद्बिभेति महद्वा अयमभूद्यो ऽभ्यषेचि यद्वै मायं नावदृणीयादित्येष उ हास्यै बिभेति यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयं कुरुते न हि माता पुत्रं हिनस्ति न पुत्रो मातरं तस्मादेवं जपति॥
सो ऽवतिष्ठति॥
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्॥
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहदित्येतामतिच्छन्दसं जपन्नेषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथैनम् पाप्मा नान्ववतिष्ठति॥
तं न सङ्ग्रहीतान्ववतिष्ठेत्॥
नेत्तं लोकमन्ववतिष्ठाद्यं सुषुवाणो ऽन्ववास्थादिति तं सरथमेव रथवाहन आदधति ततो ऽवाङपप्रवते तथा तं लोकं नान्ववतिष्ठति यं सुषुवाणो ऽन्ववास्थात्॥
उत्तरेणाहवनीयम् पूर्वाग्निरुद्वृतो भवति॥
स रथवाहनस्य दक्षिणमन्वनुष्यन्दं शतमानौ प्रवृत्तावाबध्नाति॥
औदुम्बरीं शाखामुपगूहति॥
तयोरन्यतरमुपस्पृशतीयदस्यायुरस्यायुर्मयि धेहि युङ्ङसि वर्चो मयि धेहीति तदायुर्वर्च आत्मन्धत्ते॥
अथौदुम्बरीं शाखामुपस्पृशति॥
ऊर्गस्यूर्जम् मयि धेहीति तदूर्जमात्मन्धत्ते तस्यैतस्य कर्मण एतावेव शतमानौ प्रवृत्तौ दक्षिणा तौ ब्रह्मणे ददाति ब्रह्मा हि यज्ञं दक्षिणतो ऽभिगोपायति तस्मात्तौ ब्रह्मणे ददाति॥
अग्रेण मैत्रावरुणस्य धिष्ण्यम्॥
मैत्रावरुणी पयस्या निहिता भवति तामस्य बाहू अभ्युपावहरतीन्द्रस्य वां वीर्यकृतो बाहू अभ्युपावहरामीति पशूनां वा एष रसो यत्पयस्या तत्पशूनामेवास्यैतद्रसम् बाहू अभ्युपावहरति तद्यन्मैत्रावरुणी भवति मित्रावरुणा उ हि बाहू तस्मान्मैत्रावरुणी भवति॥
मैत्रावरुण्या पयस्यया प्रचरति॥
तस्या अनिष्ट एव स्विष्टकृद्भवत्यथास्मा आसन्दीमाहरन्त्युपरिसद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यं तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति सैषा खादिरी वितृणा भवति येयं वर्ध्रव्युता भरतानाम्॥
तामग्रेण॥
मैत्रावरुणस्य धिष्ण्यं निदधाति स्योनासि सुषदासीति शिवामेवैतछग्मां करोति॥
अथाधीवासमास्तृणाति॥
क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य योनिस्तामेवैतत्करोति॥
अथैनमासादयति॥
स्योनामासीद सुषदामासीदेति शिवां शग्मामासीदेत्येवैतदाह क्षत्रस्य योनिमासीदेति तद्यैव क्षत्रस्य योनिस्तस्यामेवैनमेतद्दधाति॥
अथान्तरांसे ऽभिमृश्य जपति॥
निषसाद घृतव्रत इति घृतव्रतो वै राजा न वा एष सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मणे यदेव साधु वदेद्यत्साधु कुर्यात्तस्मै वा एष च श्रोत्रियश्चैतौ ह वै द्वौ मनुष्येषु घृतव्रतौ तस्मादाह निषसाद घृतव्रत इति वरुणः पस्त्यास्वेति विशो वै पस्त्या विक्ष्वेत्येवैतदाह साम्राज्याय सुक्रतुरिति राज्यायेत्येवैतदाह यदाह साम्राज्याय सुक्रतुरिति॥
अथास्मै पञ्चाक्षान्पाणावावपति अभिभूरस्येतास्ते पञ्च दिशः कल्पन्तामित्येष वा अयानभिभूर्यत्कलिरेष हि सर्वानयानभिभवति तस्मादाहाभिभूरसीत्येतास्त पञ्च दिशः कल्पन्तामिति पञ्च वै दिशस्तदस्मै सर्वा एव दिशः कल्पयति॥
अथैनम् पृष्ठतस्तूष्णीमेव दण्डैर्घ्नन्ति॥
तं दण्डैर्घ्नन्तो दण्डबधमतिनयन्ति तस्माद्राजादण्ड्यो यदेनं दण्डबधमतिनयन्ति॥
अथ वरं वृणीते॥
यं ह वै कं च सुषुवाणो वरं वृणीते सो ऽस्मै सर्वः समृध्यते तस्माद्वरं वृणीते॥
स ब्रह्मन्नित्येव प्रथममामन्त्रयते॥
ब्रह्म प्रथममभिव्याहराणि ब्रह्मप्रसूतां वाचं वदानीति तस्माद्ब्रह्मन्नित्येव प्रथममामन्त्रयते त्वम् ब्रह्मासीतीतरः प्रत्याह सवितासि सत्यप्रसव इति वीर्यमेवास्मिन्नेतद्दधाति सवितारमेव सत्यप्रसवं करोति॥
ब्रह्मन्नित्येव द्वितीयमामन्त्रयते॥
त्वम् ब्रह्मासीतीतरः प्रत्याह वरुणो ऽसि सत्यौजा इति वीर्यमेवास्मिन्नेतद्दधाति वरुणमेव सत्यौजसं करोति॥
ब्रह्मन्नित्येव तृतीयमामन्त्रयते॥
त्वम् ब्रह्मासीतीतरः प्रत्याहेन्द्रो ऽसि विशौजा इति वीर्यमेवास्मिन्नेतद्दधातीन्द्रमेव विशौजसं करोति॥
ब्रह्मन्नित्येव चतुर्थमामन्त्रयते॥
त्वम् ब्रह्मासीतीतरः प्रत्याह रुद्रो ऽसि सुशेव इति तद्वीर्याण्येवास्मिन्नेतत्पूर्वाणि दधात्यथैनमेतछमयत्येव तस्मादेष सर्वस्येशानो मृडयति यदेनं शमयति॥
ब्रह्मन्नित्येव पञ्चममामन्त्रयते॥
त्वम् ब्रह्मासीतीतरो ऽनिरुक्तम् प्रत्याह परिमितं वै निरुक्तं तत्परिमितमेवास्मिन्नेतत्पूर्वं वीर्यं दधात्यथात्रानिरुक्तम् प्रत्याहापरिमितं वा अनिरुक्तं तदपरिमितमेवास्मिन्नेतत्सर्वं वीर्यं दधाति तस्मादत्रानिरुक्तम् प्रत्याह॥
अथ सुमङ्गलनामानं ह्वयति॥
बहुकार श्रेयस्कर भूयस्करेति य एवन्नामा भवति कल्याणमेवैतन्मानुष्यै वाचो वदति॥
अथास्मै ब्राह्मण स्फ्यम् प्रयछति॥
अध्वर्युर्वा यो वास्य पुरोहितो भवतीन्द्रस्य वज्रो ऽसि तेन मे रध्येति वज्रो वै स्फ्यः स एतेन वज्रेण ब्राह्मणो राजानमात्मनो ऽबलीयांसं कुरुते यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान्भवति तदमित्रेभ्य एवैनमेतद्बलीयांसं करोति॥
तं राजा राजभ्रात्रे प्रयछति॥
इन्द्रस्य वज्रो ऽसि तेन मे रध्येति तेन राजा राजभ्रातरमात्मनो ऽबलीयांसं कुरुते॥
तं राजभ्राता सूताय वा स्थपतये वा प्रयछति॥
इन्द्रस्य वज्रो ऽसि तेन मे रध्येति तेन राजभ्राता सूतं वा स्थपतिं वात्मनो ऽबलीयांसं कुरुते॥
तं सूतो वा स्थपतिर्वा ग्रामण्ये प्रयछति॥
इन्द्रस्य वज्रो ऽसि तेन मे रध्येति तेन सूतो वा स्थपतिर्वा ग्रामण्यमात्मनो ऽबलीयांसं कुरुते॥
तं ग्रामणीः सजाताय प्रयछति॥
इन्द्रस्य वज्रो ऽसि तेन मे रध्येति तेन ग्रामणीः सजातमात्मनो ऽबलीयांसं कुरुते तद्यदेवं सम्प्रयछन्ते नेत्पापवस्यसमसद्यथापूर्वमसदिति तस्मादेवं सम्प्रयछन्ते॥
अथ सजातश्च प्रतिप्रस्थाता च॥
एतेन सफ्येन पूर्वाग्नौ शुक्रस्य पुरोरुचाधिदेवनं कुरुतो ऽत्ता वै शुक्रो ऽत्तारमेवैतत्कुरुतः॥
अथ मन्थिनः पुरोरुचा विमितं विमिनुतः॥
आद्यो वै मन्थी तदत्तारमेवैतत्कृत्वाथास्मा एतदाद्यं जनयतस्तस्मान्मन्थिनः पुरोरुचा विमितं विमिनुतः॥
अथाध्वर्युः॥
चतुर्गृहीतमाज्यं गृहीत्वाधिदेवने हिरण्यं निधाय जुहोत्यग्निः पृथुर्धर्मणस्पतिर्जुषाणो अग्निः पृथुर्धर्मणस्पतिराज्यस्य वेतु स्वाहेति॥
अथाक्षान्निवपति॥
स्वाहाकृताः सूर्यस्य रश्मिभिर्यतध्वं सजातानाम् मध्यमेष्ठ्यायेत्येष वा अग्निः पृथुर्यदधिदेवनं तस्यैते ऽङ्गारा यदक्षास्तमेवैतेन प्रीणाति तस्य ह वा एषानुमता गृहेषु हन्यते यो वा राजसूयेन यजते यो वैतदेवं वेदैतेष्वक्षेष्वाह गां दीव्यध्वमिति पूर्वाग्निवाहौ दक्षिणा॥
अथाहाग्नये स्विष्टकृते ऽनुब्रूहीति॥
तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तदेनम् मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोति॥
अथेडामादधाति॥
उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सो ऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य॥
वरुणाद्ध वा अभिषिषिचानाद्भर्गो ऽपचक्राम॥
वीर्यं वै भर्ग एष विष्णुर्यज्ञः सो ऽस्मादपचक्राम शश्वद्य एषो ऽपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति सो ऽस्य भर्गं निर्जघान॥
तमेताभिर्देवताभिरनुसमसर्पत्॥
सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णः पशुभिरिन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुनैव दशम्या देवतयान्वविन्दत्॥
तद्यदेनमेताभिर्देवताभिरनुसमसर्पत्॥
तस्मात्संसृपो नामाथ यद्दशमे ऽहन्प्रसुतो भवति तस्माद्दशपेयो ऽथो यद्दश दशैकैकं चमसमनुप्रसृप्ता भवन्ति तस्माद्वेव दशपेयः॥
तदाहुः॥
दश पितामहान्त्सोमपान्त्सख्याय प्रसर्पेत्तथो हास्य सोमपीथमश्नुते दशपेयो हीति तद्वै ज्या द्वौ त्रीनित्येव पितामहान्त्सोमपान्विन्दन्ति तस्मादेता एव देवताः सङ्ख्याय प्रसर्पेत्॥
एताभिर्वै देवताभिर्वरुण एतस्य सोमपीथमाश्नुत॥
तथो एवैष एताभिरेव देवताभिरेतस्य सोमपीथमश्नुते तस्मादेता एव देवताः सङ्ख्याय प्रसर्पेदथ यदैवैषोदवसानीयेष्टिः सन्तिष्ठत एतस्याभिषेचनीयस्य॥
अथैतानि हवींषि निर्वपति॥
सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं सविता वै देवानाम् प्रसविता सवितृप्रसूत एव तद्वरुणो ऽनुसमसर्पत्तथो एवैष एतत्सवितृप्रसूत एवानुसंसर्पति तत्रैकम् पुण्डरीकम् प्रयछति॥
अथ सारस्वतं चरुं निर्वपति॥
वाग्वै सरस्वती वाचैव तद्वरुणो ऽनुसमसर्पत्तथो एवैष एतद्वाचैवानुसंसर्पति तत्रैकम् पुण्डरीकम् प्रयछति॥
अथ त्वाष्ट्रं दशकपालम् पुरोडाशं निर्वपति॥
त्वष्टा वै रूपाणामीष्टे त्वष्ट्रैव तद्रूपैर्वरुणो ऽनुसमसर्पत्तथो एवैष एतत्त्वष्ट्रैव रूपैरनुसंसर्पति तत्रैकम् पुण्डरीकम् प्रयछति॥
अथ पौष्णं चरुं निर्वपति॥
पशवो वै पूषा पशुभिरेव तद्वरुणो ऽनुसमसर्पत्तथो एवैष एतत्पशुभिरेवानुसंसर्पति तत्रैकम् पुण्डरीकम् प्रयछति॥
अथैन्द्रमेकादशकपालम् पुरोडाशं निर्वपति॥
इन्द्रियं वै वीर्यमिन्द्र इन्द्रियेणैव तद्वीर्येण वरुणो ऽनुसमसर्पत्तथो एवैष एतदिन्द्रियेणैव वीर्येणानुसंसर्पति तत्रैकम् पुण्डरीकम् प्रयछति॥
अथ बार्हस्पत्यं चरुं निर्वपति॥
ब्रह्म वै बृहस्पतिर्ब्रह्मणैव तद्वरुणो ऽनुसमसर्पत्तथो एवैष एतद्ब्रह्मणैवानुसंसर्पति तत्रैकम् पुण्डरीकम् प्रयछति॥
अथ वारुणं यवमयं चरुं निर्वपति॥
स येनैवौजसेमाः प्रजा वरुणो ऽगृह्णात्तेनैव तदोजसा वरुणो ऽनुसमसर्पत्तेनो एवैष तदोजसानुसंसर्पति तत्रैकम् पुण्डरीकम् प्रयछति॥
उपसदो दशम्यो देवताः॥
तत्र पञ्च पुण्डरीकाण्युपप्रयछति तां द्वादशपुण्डरीकां स्रज प्रतिमुञ्चते सा दीक्षा तया दीक्षया दीक्षते॥
अथ यद्द्वादश भवन्ति॥
द्वादश वै मासाः संवत्सरस्य सर्वं वै संवत्सरः सर्वेणैवैनमेतद्दीक्षयति यानि पुण्डरीकाणि तानि दिवो रूपं तानि नक्षत्राणां रूपं ये वधकास्ते ऽन्तरिक्षस्य रूपं यानि बिसानि तान्यस्यै तदेनमेषु लोकेष्वधि दीक्षयति॥
अथ राजानं क्रीत्वा॥
द्वेधोपनह्य परिवहन्ति ततो ऽर्धमासन्द्यामासाद्य प्रचरत्यथ य एषो ऽर्धो ब्रह्मणो गृहे निहितो भवति तमासन्द्यामासाद्यातिथ्येन प्रचरति यदातिथ्येन प्रचरत्यथोपसद्भिः प्रचरति यदोपसद्भिः प्रचरति॥
अथैतानि हवींषि निर्वपति॥
आग्नेयमष्टाकपालम् पुरोडाशं सौम्यं चरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन यथेष्ट्यैवं यजते॥
तदु तथा न कुर्यात्॥
ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य उपसत्पथादेति तस्मादुपसत्पथादेव नेयात्॥
स यदग्निं यजति॥
अग्निनैवैतत्तेजसानुसंसर्पत्यथ यत्सोमं यजति सोमेनैवैतद्राज्ञानुसंसर्पत्यथ यद्विष्णुं यजति यज्ञो वै विष्णुस्तद्यज्ञम् प्रत्यक्षमाप्नोति तम् प्रत्यक्षमाप्त्वात्मन्कुरुते॥
स एष सप्तदशो ऽग्निष्टोमो भवति॥
सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञम् प्रत्यक्षमाप्नोति तम् प्रत्यक्षमाप्त्वात्मन्कुरुते॥
तस्य द्वादश प्रथमगर्भाः पष्ठौह्यो दक्षिणा॥
द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञम् प्रत्यक्षमाप्नोति तम् प्रत्यक्षमाप्त्वात्मन्कुरुते॥
तासां द्वादश गर्भाः॥
ताश्चतुर्विंशतिश्चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञम् प्रत्यक्षमाप्नोति तम् प्रत्यक्षमाप्त्वात्मन्कुरुते॥
ता ब्रह्मणे ददाति॥
ब्रह्मा हि यज्ञं दक्षिणतो ऽभिगोपायति तस्मात्ता ब्रह्मणे ददाति हिरण्मयीं स्रजमुद्गात्रे रुक्मं होत्रे हिरण्मयौ प्राकाशावध्वर्युभ्यामश्वम् प्रस्तोत्रे वशाम् मैत्रावरुणायर्षभम् ब्राह्मणाछंसिने वाससी नेष्टापोतृभ्यामन्यतरतोयुक्तं यवाचितमछावाकाय गामग्नीधे॥
ता वा एताः॥
द्वादश वा त्रयोदश वा दक्षिणा भवन्ति द्वादश वा वै त्रयोदश वा संवत्सरस्य मासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञम् प्रत्यक्षमाप्नोति तम् प्रत्यक्षमाप्त्वात्मन्कुरुते॥