०३

अरण्योरग्नी समारोह्य॥
सेनान्यो गृहान्परेत्याग्नये ऽनीकवते ऽष्ठाकपालम् पुरोडाशं निर्वपत्यग्निर्वै देवतानामनीकं सेनाया वै सेनानीरनीकं तस्मादग्नये ऽनीकवत एतद्वा अस्यैकं रत्नं यत्सेनानीस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणा॥
अथ श्वो भूते॥
पुरोहितस्य गृहान्परेत्य बार्हस्पत्यं चरुं निर्वपति बृहस्पतिर्वै देवानां पुरोहित एष वा एतस्य पुरोहितो भवति तस्माद्बार्हस्पत्यो भवत्येतद्वा अस्यैकं रत्नं यत्पुरोहितस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य शितिपृष्ठो गौर्दक्षिणैषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्थास्तस्माछितिपृष्ठो बार्हस्पत्यस्य दक्षिणा॥
अथ श्वो भूते॥
सूयमानस्य गृह ऐन्द्रमेकादशकपालम् पुरोडाशं निर्वपति क्षत्रं वा इन्द्रः क्षत्रं सूयमानस्तस्मादैन्द्रो भवति तस्यर्षभो दक्षिणा स ह्यैन्द्रो यदृषभः॥
अथ श्वो भूते॥
महिष्यै गृहान्परेत्य आदित्यं चरुं निर्वपतीयं वै पृथिव्यदितिः सेयं देवानाम् पत्न्येषा वा एतस्य पत्नी भवति तस्मादादित्यो भवत्येतद्वा अस्यैकं रत्नं यन्महिषी तस्या एवैतेन सूयते तां स्वामनपक्रमिणीं कुरुते तस्यै धेनुर्दक्षिणा धेनुरिव वा इयम् मनुष्येभ्यः सर्वान्कामान्दुहे माता धेनुर्मातेव वा इयम् मनुष्यान्बिभर्ति तस्माद्धेनुर्दक्षिणा॥
अथ श्वो भूते॥
सूतस्य गृहान्परेत्य वारुणं यवमयं चरुं निर्वपति सवो वै सूतः सवो वै देवानां वरुणस्तस्माद्वारुणो भवत्येतद्वा अस्यैकं रत्नं यत्सूतस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्याश्वो दक्षिणा स हि वारुणो यदश्वः॥
अथ श्वो भूते॥
ग्रामण्यो गृहान्परेत्य मारुतं सप्तकपालम् पुरोडाशं निर्वपति विशो वै मरुतो वैश्यो वै ग्रामणीस्तस्मान्मारुतो भवत्येतद्वा अस्यैकं रत्नं यद्ग्रामणीस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य पृषन्गौर्दक्षिणा भूमा वा एतद्रूपाणां यत्पृषतो गोर्विशो वै मरुतो भूमो वै विट्तस्मात्पृषन्गौर्दक्षिणा॥
अथ श्वो भूते॥
क्षत्तुर्गृहान्परेत्य सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति सविता वै देवानाम् प्रसविता प्रसविता वै क्षत्ता तस्मात्सावित्रो भवत्येतद्वा अस्यैकं रत्नं यत्क्षत्ता तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य श्येतो ऽनड्वान्दक्षिणैष वै सविता य एष तपत्येति वा एष एत्यनड्वान्युक्तस्तद्यछ्येतो भवति श्येत इव ह्येष उद्यंश्चास्तं च यन्भवति तस्माछ्येतो ऽनड्वान्दक्षिणा॥
अथ श्वो भूते॥
सङ्ग्रहीतुर्गृहान्परेत्याश्विनं द्विकपालम् पुरोडाशं निर्वपति सयोनी वा अश्विनौ सयोनी सव्यष्ठृसारथी समानं हि रथमधितिष्ठतस्तस्मादाश्विनो भवत्येतद्वा अस्यैकं रत्नं यत्सङ्ग्रहीता तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य यमौ गावौ दक्षिणा तौ हि सयोनी यद्यमौ यदि यमौ न विन्देदप्यनूचीनगर्भावेव गावौ दक्षिणा स्यातां ता उ ह्यपि समानयोनी॥
अथ श्वो भूते॥
भागदुघस्य गृहान्परेत्य पौष्णं चरुं निर्वपति पूषा वै देवानाम् भागदुघ एष वा एतस्य भागदुघो भवति तस्मात्पौष्णो भवत्येतद्वा अस्यैकं रत्नं यद्भागदुघस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य श्यामो गौर्दक्षिणा तस्यासावेव बन्धुर्यो ऽसौ त्रिषंयुक्तेषु॥
अथ श्वो भूते॥
अक्षावापस्य च गृहेभ्यो गोविकर्तस्य च गवेधुकाः सम्भृत्य सूयमानस्य गृहे रौद्रं गावेधुख्!ं चरुं निर्वपति ते वा एते द्वे सती रत्ने एकं करोति सम्पदः कामाय तद्यदेतेन यजते यां वा इमां सभायां घ्नन्ति रुद्रो हैतामभिमन्यते ऽग्निर्वै रुद्रो ऽधिदेवनं वा अग्निस्तस्यैते ऽङ्गारा यदक्षास्तमेवैतेन प्रीणाति तस्य ह वा एषानुमता गृहेषु हन्यते यो वा राजसूयेन यजते यो वैतदेवं वेदैतद्वा अस्यैकं रत्नं यदक्षावापश्च गोविकर्तश्च ताभ्यामेवैतेन सूयते तौ स्वावनपक्रमिणौ कुरुते तस्य द्विरूपो गौर्दक्षिणा शितिबाहुर्वा शितिवालो वासिर्नखरो वालदाम्नाक्षावपनम् प्रबद्धमेतदु हि तयोर्भवति॥
अथ श्वो भूते॥
पालागलस्य गृहान्परेत्य चतुर्गृहीतमाज्यं गृहीत्वाध्वन आज्यं जुहोति जुषाणो ऽध्वाज्यस्य वेतु स्वाहेति प्रहेयो वै पालागलो ऽध्वानं वै प्रहित एति तस्मादध्वन आज्यं जुहोत्येतद्वा अस्यैकं रत्नं यत्पालागलस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य दक्षिणा प्युक्ष्णवेष्टितं धनुश्चर्ममया वाणवन्तो लोहित उष्णीष एतदु हि तस्य भवति॥
तानि वा एतानि॥
एकादश रत्नानि सम्पादयत्येकादशाक्षरा वै त्रिष्टुब्वीर्यं त्रिष्टुब्वीर्यमेवैतद्रत्नान्यभिसम्पादयति तद्यद्रत्निनां हविर्भिर्यजत एतेषां वै राजा भवति तेभ्य एवैतेन सूयते तान्त्स्वाननपक्रमिणः कुरुते॥
अथ श्वो भूते॥
परिवृत्यै गृहान्परेत्य नैरृतं चरुं निर्वपति या वा अपुत्रा पत्नी सा परिवृत्ती स कृष्णानां व्रीहीणां नखैर्निर्भिद्य तण्डुलान्नैरृतं चरुं श्रपयति स जुहोत्येष ते निरृते भागस्तं जुषस्व स्वाहेति या वा अपुत्रा पत्नी सा निरृतिगृहीता तद्यदेवास्य अत्र नैरृतं रूपं तदेवैतछमयति तथो हैनं सूयमानं निरृतिर्न गृह्णाति तस्य दक्षिणा कृष्णा गौः परिमूर्णी पर्यारिणी सा ह्यपि निरृतिगृहीता तामाह मा मे ऽद्येशायां वात्सीदिति तत्पाप्मानमपादत्ते॥
उपरिष्टाद्रत्नानां सौमारौद्रेण यजते॥
स श्वेतायै श्वेतवत्सायै पयसि शृतो भवति तद्यदुपरिष्टाद्रत्नानां सौमारौद्रेण यजते॥
स्वर्भानुर्ह वा आसुरः॥
सूर्यं तमसा विव्याध स तमसा विद्धो न व्यरोचत तस्य सोमारुद्रावेवैतत्तमो ऽपाहतां स एषो ऽपहतपाप्मा तपति तथो एवैष एतत्तमः प्रविशत्येतं वा तमः प्रविशति यदयज्ञियान्यज्ञेन प्रसजत्ययज्ञियान्वा एतद्यज्ञेन प्रसजति शूद्रांस्त्वद्यांस्त्वत्तस्य सोमारुद्रावेवैतत्तमो ऽपहतः सो ऽपहतपाप्मैव दीक्षते तद्यछ्वेतायै श्वेतवत्सायै पयसि शृतो भवति कृष्णं वै तमस्तत्तमो ऽपहन्ति तस्यैषैव श्वेता श्वेतवत्सा दक्षिणा॥
स हैतेनापि यजेत॥
यो ऽलं यशसे सन्न यशो भवति यो वा अनूचानः सो ऽलं यशसे सन्न यशो भवति यो न यशो भवति स तमसा वै स तत्प्रावृतो भवति तस्य सोमारुद्रावेवैतत्तमो ऽपहतः सो ऽपहतपाप्मा ज्योतिरेव श्रिया यशसा भवति॥
अथ मैत्राबार्हस्पत्यं चरुं निर्वपति॥
ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्यदयज्ञियान्यज्ञेन प्रसजत्ययज्ञियान्वा एतद्यज्ञेन प्रसजति शूद्रांस्त्वद्यांस्त्वन्मित्राबृहस्पती वै यज्ञपथो ब्रह्म हि मित्रो ब्रह्म हि यज्ञो ब्रह्म हि बृहस्पतिर्ब्रह्म हि यज्ञस्तत्पुनर्यज्ञपथमपिपद्यते सो ऽपिपद्यैव यज्ञपथं दीक्षते तस्मान्मैत्राबार्हस्पत्यं चरुं निर्वपति॥
तस्यावृत्॥
या स्वयम्प्रशीर्णाश्वत्थी शाखा प्राची वोदीची वा भवति तस्यै मैत्रम् पात्रं करोति वरुण्या वा एषा या परशुवृक्णाथैषा मैत्री या स्वयम्प्रशीर्णा तस्मात्स्वयम्प्रशीर्णायै शाखायै मैत्रम् पात्रं करोति॥
अथातच्य दधि॥
विनाट आसिच्य रथं युक्त्वाबध्य देदीयितवा आह तद्यत्स्वयमुदितं नवनीतं तदाज्यम् भवति वरुण्यं वा एतद्यन्मथितमथैतन्मैत्रं यत्स्वयमुदितं तस्मात्स्वयमुदितमाज्यम् भवति॥
द्वेधा तण्डुलान्कुर्वन्ति॥
स ये ऽणीयांसः परिभिन्नास्ते बार्हस्पत्या अथ ये स्थवीयांसो ऽपरिभिन्नास्ते मैत्रा न वै मित्रः कं चन हिनस्ति न मित्रं कश्चन हिनस्ति नैनं कुशो न कण्टको विभिनत्ति नास्य व्रणश्चनास्ति सर्वस्य ह्येव मित्रो मित्रम्॥
अथ बार्हस्पत्यं चरुमधिश्रयति॥
तम् मैत्रेण पात्रेणापिदधाति तदाज्यमानयति तत्तण्डुलानावपति स एष ऊष्मणैव श्रप्यते वरुण्यो वा एष यो ऽग्निना शृतो ऽथैष मैत्रो य ऊष्मणा शृतस्तस्मादूष्मणा शृतो भवति तयोरुभयोरवद्यन्नाह मित्राबृहस्पतिभ्यामनुब्रूहीत्याश्राव्याह मित्राबृहस्पती यजेति वषट्कृते जुहोति॥
स वै दीक्षते॥
स उपवसथे ऽग्नीषोमीयम् पशुमालभते तस्य वपया प्रचर्याग्नीसोमीयमेकादशकपालम् पुरोडाशम् निर्वपति तदनु देवस्वां हवींषि निरुप्यन्ते॥
सवित्रे सत्यप्रसवाय॥
द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति प्लाशुकानां व्रीहीणां सविता वा देवानाम् प्रसविता सवितृप्रसूतः सूया इत्यथ यत्प्लाशुकानां व्रीहीणां क्षिप्रे मा प्रसुवानिति॥
अथाग्नये गृहपतये॥
अष्टाकपालम् पुरोडाशं निर्वपत्याशूनां श्रीर्वै गार्हपतं यावतो-यावत ईष्टे तदेनमग्निरेव गृहपतिर्गार्हपतमभि परिणयत्यथ यदाशूनां क्षिप्रे मा परिणयानिति॥
अथ सोमाय वनस्पतये॥
श्यामाकं चरुम् निर्वपति तदेनं सोम एव वनस्पतिरोषधिभ्यः सुवत्यथ यछ्यामाको भवत्येते वै सोमस्यौषधीनां प्रत्यक्षतमां यछ्यामाकास्तस्माछ्यामाको भवति॥
अथ बृहस्पतये वाचे॥
नैवारं चरुं निर्वपति तदेनम् बृहस्पतिरेव वाचे सुवत्यथ यन्नैवारो भवति ब्रह्म वै बृहस्पतिरेते वै ब्रह्मणा पच्यन्ते यन्नीवारास्तस्मान्नैवारो भवति॥
अथेन्द्राय ज्येष्ठाय॥
हायनानां चरुं निर्वपति तदेनमिन्द्र एव ज्येष्ठो ज्यैष्ठ्यमभि परिणयत्यथ यद्धायनानाम् भवत्यतिष्ठा वा एता ओषधयो यद्धायना अतिष्ठो वा इन्द्रस्तस्माद्धायनानाम् भवति॥
अथ रुद्राय पशुपतये॥
रौद्रं गावेधुकं चरुं निर्वपति तदेनं रुद्र एव पशुपतिः पशुभ्यः सुवत्यथ यद्गावेधुको भवति वास्तव्यो वा एष देवो वास्तव्या गवेधुकास्तस्माद्गावेधुको भवति॥
अथ मित्राय सत्याय॥
नाम्बानां चरुं निर्वपति तदेनम् मित्र एव सत्यो ब्रह्मणे सुवत्यथ यन्नाम्बानाम् भवति वरुण्या वा एता ओषधयो याः कृष्टे जायन्ते ऽथैते मैत्रा यन्नाम्बास्तस्मान्नाम्बानाम् भवति॥
अथ वरुणाय धर्मपतये॥
वारुणं यवमयं चरुं निर्वपति तदेनं वरुण एव धर्मपतिर्धर्मस्य पतिं करोति परमता वै सा यो धर्मस्य पतिरसद्यो हि परमतां गछति तं हि धर्म उपयन्ति तस्माद्वरुणाय धर्मपतये॥
अथाग्नीषोमीयेन पुरोडाशेन प्रचरति॥
तस्यानिष्ट एव स्विष्टकृद्भवत्यथैतैर्हविर्भिः प्रचरति यदैतैर्हविर्भिः प्रचरति॥
अथैनं दक्षिणे बाहावभिपद्य जपति॥
सविता त्वा सवानां सुवतामग्निर्गृहपतीनां सोमो वनस्पतीनाम् बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम्॥
इमं देवाः॥
असपत्नं सुवध्वमितीमं देवा अभ्रातृव्यं सुवध्वमित्येवैतदाह महते क्षत्राय महते ज्यैष्ठ्यायेति नात्र तिरोहितमिवास्ति महते जानराज्यायेति महते जनानां राज्यायेत्येवैतदाहेन्द्रस्येन्द्रियायेति वीर्यायेत्येवैतदाह यदाहेन्द्रस्येन्द्रियायेतीमममुष्यै पुत्रममुष्यै पुत्रमिति तद्यदेवास्य जन्म तत एवैतदाहास्यै विश इति यस्यै विशो राजा भवत्येष वो ऽमी राजा सोमो ऽस्माकम् ब्राह्मणानां राजेति तदस्मा इदं सर्वमाद्यं करोति ब्राह्मणमेवापोद्धरति तस्माद्ब्राह्मणो ऽनाद्यः सोमराजा हि भवति॥
एता ह वै देवाः सवस्येशते॥
तस्माद्देवस्वो नाम तदेनमेता एव देवताः सुवते ताभिः सूतः श्वः सूयते॥
ता वै द्विनाम्न्यो भवन्ति॥
द्वन्द्वं वै वीर्यं वीर्यवत्यः सुवान्ता इति तस्माद्द्विनाम्न्यो भवन्ति॥
अथाहाग्नये स्विष्टकृते ऽनुब्रूहीति॥
तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्तेतदेनम् मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्नये स्विष्टकृते प्रेष्येति वषट्कृते जुहोति॥
स वा अपः सम्भरति॥
तद्यदपः सम्भरति वीर्यं वा आपो वीर्यमेवैतद्रसमपां सम्भरति॥
औदुम्बरे पात्रे॥
अन्नं वा ऊर्गुदुम्बर ऊर्जो ऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरे पात्रे॥
स सारस्वतीरेव प्रथमा गृह्णाति॥
अपो देवा मधुमतीरगृभ्णन्नित्यपो देवा रसवतीरगृह्णन्नित्येवैतदाहोर्जस्वती राजस्वश्चिताना इति रसवतीरित्येवैतदाह यदाहोर्जस्वतीरिति राजस्वश्चिताना इति याः प्रज्ञाता राजस्व इत्येवैतदाह याभिर्मित्रावरुणावभ्यषिञ्चन्नित्येताभिर्हि मित्रावरुणावभ्यषिञ्चन्याभिरिन्द्रमनयन्नत्यरातीरित्येताभिर्हीन्द्रं नाष्ट्रा रक्षांस्यत्यनयंस्ताभिरभिषिन्=चति वाग्वै सरस्वती वाचैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथाध्वर्युः॥
चतुर्गृहीतमाज्यं गृहीत्वापो ऽभ्यवैति तद्या ऊर्मी व्यर्दतः पशौ वा पुरुषे वाभ्यवेते तौ गृह्णाति॥
स यः प्राङ्गुदर्दति॥
तं गृह्णाति वृष्ण ऊर्मिरसि राष्ट्रदा मे देहि स्वाहा वृष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रममुष्मै देहीति॥
अथ यः प्रत्यङ्ङुदर्दति॥
तं गृह्णाति वृषसेनो ऽसि राष्ट्रदा राष्ट्रम् मे देहि स्वाहा वृषसेनो ऽसि राष्ट्रदा राष्ट्रममुष्मै देहीति ताभिरभिषिञ्चति वीर्यं वा एतदपामुदर्दति पशौ वा पुरुषे वाभ्यवेते वीर्येणैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ स्यन्दमाना गृह्णाति॥
अर्थेत स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहार्थेत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति वीर्येण वा एताः स्यन्दन्ते तस्मादेनाः स्यन्दमाना न किञ्चन प्रतिधारयते वीर्येणैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ याः स्यन्दमानानाम् प्रतीपं स्यन्दन्ते॥
ता गृह्णात्योजस्वती स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहौजस्वती स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति वीर्येण वा एताः स्यन्दमानानाम् प्रतीपं स्यन्दन्ते वीर्येणैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथापयतीर्गृह्णाति॥
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चत्येतस्यै वा एषापछिद्यैषैव पुनर्भवत्यपि ह वा अस्यान्यराष्ट्रीयो राष्ट्रे भवत्यप्यन्यराष्ट्रीयमवहरते तथास्मिन्भूमानं दधाति भूम्नैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ नदीपतिं गृह्णाति॥
अपाम् पतिरसि राष्ट्रदा राष्ट्रम् मे देहि स्वाहापाम् पतिरसि राष्ट्रदा राष्ट्रममुष्मै देहीति ताभिरभिषिञ्चत्यपां वा एष पतिर्यन्नदीपतिर्विशामेवैनमेतत्पतिं करोत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ निवेष्यं गृह्णाति॥
अपां गर्भो ऽसि राष्ट्रदा राष्ट्रम् मे देहि स्वाहापां गर्भो ऽसि राष्ट्रदा राष्ट्रममुष्मै देहीति ताभिरभिषिञ्चति गर्भं वा एतदाप उपनिवेष्टन्ते विशामेवैनमेतद्गर्भं करोत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ यः स्यन्दमानानां स्थावरो ह्रदो भवति॥
प्रत्यातापे ता गृह्णाति सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति वर्चसैवैनमेतदभिषिञ्चति सूर्यत्वचसमेवैनमेतत्करोति वरुण्या वा एता आपो भवन्ति याः स्यन्दमानानां न स्यन्दन्ते वरुणसवो वा एष यद्राजसूयं तस्मादेताभिरभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ या आतपति वर्षन्ति॥
ता गृह्णाति सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति वर्चसैवैनमेतदभिषिञ्चति सूर्यवर्चसमेवैनमेतत्करोति मेध्या वा एता आपो भवन्ति या आतपति वर्षन्त्यप्राप्ता हीमाम् भवन्त्यथैना गृह्णाति मेध्यमेवैनमेतत्करोत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ वैशन्तीर्गृह्णाति॥
मान्दा स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा मान्दा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति विशमेवास्मा एतत्स्थावरामनपक्रमिणीं करोत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ कूप्या गृह्णाति॥
व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा व्रजक्षित स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति तद्या इमाम् परेणापस्ता एवैतत्सम्भरत्यपामु चैव सर्वत्वाय तस्मादेताभिरभिश्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ प्रुष्वा गृह्णाति॥
वाशा स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा वाशा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चत्यन्नाद्येनैवैनमेतदभिषिञ्चत्यन्नाद्यमेवास्मिन्नेतद्दधातीदं वा असावादित्य उद्यन्नेव यथायमग्निर्निर्दहेदेवमोषधीरन्नाद्यं निर्दहति तदेता आपो ऽभ्यवयत्यः शमयन्ति न ह वा इहान्नाद्यं परिशिष्यते यदेता आपो नाभ्यवेयुरन्नाद्येनैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ मधु गृह्णाति॥
शविष्टा स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा शविष्ठा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चत्यपां चैवैनमेतदोषधीनां च रसेनाभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ गोर्विजायमानाया उल्ब्या गृह्णाति॥
शक्वरो स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा शक्वरी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति पशुभिरेवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ पयो गृह्णाति॥
जनभृत स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा जनभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति पशुभिरेवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ घृतं गृह्णाति॥
विश्वभृत स्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा विश्वभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति पशूनामेवैनमेतद्रसेनाभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति॥
अथ मरीचीः॥
अञ्जलिना सङ्गृह्यापिसृजत्यापः स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेत्येता वा आपः स्वराजो यन्मरीचयस्ता यत्स्यन्दन्त इवान्यो ऽन्यस्या एवैतछ्रिया अतिष्ठमाना उत्तराधरा इव भवन्त्यो यन्ति स्वाराज्यमेवास्मिन्नेतद्दधात्येता वा एका आपस्ता एवैतत्सम्भरति॥
ता वा एताः॥
सप्तदशापः सम्भरति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञस्तस्मात्सप्तदशापः सम्भरति॥
षोडश ता आपो या अभिजुहोति॥
षोडशाहुतीर्जुहोति ता द्वात्रिंशद्द्वयीषु न जुहोति सारस्वतीषु च मरीचिषु च ताश्चतुस्त्रिंशत्त्रयस्त्रिंशद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तदेनम् प्रजापतिं करोति॥
अथ यद्धुत्वा-हुत्वा गृह्णाति॥
वज्रो वा आज्यं वज्रेणैवैतदाज्येन स्पृत्वा-स्पृत्वा स्वीकृत्य गृह्णाति॥
अथ यत्सारस्वतीषु न जुहोति॥
वाग्वै सरस्वती वज्र आज्यं नेद्वज्रेणाज्येन वाचं हिनसानीति तस्मात्सारस्वतीषु न जुहोति॥
अथ यन्मरीचिषु न जुहोति॥
नेदनद्धेवैतामाहुतिं जुहवानीति तस्मान्मरीचिषु न जुहोति॥
ताः सार्धमौदुम्बरे पात्रे समवनयति॥
मधुमतीर्मधुमतीभिः पृच्यन्तामिति रसवती रसवतीभिः पृच्यन्तामित्येवैतदाह महि क्षत्रं क्षत्रियाय वन्वाना इति तत्परो ऽक्षं यजमानायाशिषमाशास्ते यदाह महि क्षत्रं क्षत्रियाय वन्वाना इति॥
ता अग्रेण मैत्रावरुणस्य धिष्ण्यं सादयति॥
अनाधृष्टाः सीदत सहौजस इत्यनाधृष्टाः सीदत रक्षोभिरित्येवैतदाह सहौजस इति सवीर्या इत्येवैतदाह महि क्षत्रं क्षत्रियाय दधतीरिति तत्प्रत्यक्षं क्षत्रं यजमानायाशिषमाशास्ते यदाह महि क्षत्रं क्षत्रियाय दधतीरिति॥
तं वै माध्यदिने सवने ऽभिषिञ्चति॥
एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तदेनम् मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति॥
अगृहीते माहेन्द्रे॥
एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रो ऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानस्तदेनं स्व एवायतने ऽभिषिञ्चति तस्मादगृहीते माहेन्द्रे॥
अग्रेण मैत्रावरुणस्य धिष्ण्यम्॥
शार्दूलचर्मोपस्तृणाति सोमस्य त्विषिरसीति यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिस्तस्मादाह सोमस्य त्विषिरसीति तवेव मे त्विषिर्भूयादिति शार्दूलत्विषिमेवास्मिन्नेतद्दधाति तस्मादाह तवेव मे त्विषिर्भूयादिति॥
अथ पार्थानि जुहोति॥
पृथा ह वै वैन्यो मनुष्याणाम् प्रथमो ऽभिषिषिचे सो ऽकामयत सर्वमन्नाद्यमवरुन्धीयेति तस्मा एतान्यजुहवुः स इदं सर्वमन्नाद्यमवरुरुधे ऽपि ह स्मास्मा आरण्यान्पशूनभिह्वयन्त्यसावेहि राजा त्वा पक्ष्यत इति तथेदं तर्वमन्नाद्यमवरुरुधे सर्वं ह वा अन्नाद्यमवरुन्द्धे यस्यैवं विदुष एतानि हूयन्ते॥
तानि वै द्वादश भवन्ति॥
द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश भवन्ति॥
षट् पुरस्तादभिषेकस्य जुहोति॥
षडुपरिष्टात्तदेनम् मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति॥
स यानि पुरस्तादभिषेकस्य जुहोति॥
बृहस्पतिस्तेषामुत्तमो भवत्यथ यान्युपरिष्टादभिषेकस्य जुहोतीन्द्रस्तेषाम् प्रथमो भवति ब्रह्म वै बृहस्पतिरिन्द्रियं वीर्यमिन्द्र एताभ्यामेवैनमेतद्वीर्याभ्यामुभयतः परिबृंहति॥
स जुहोति॥
यानि पुरस्तादभिषेकस्य जुहोत्यग्नये स्वाहेति तेजो वा अग्निस्तेजसैवैनमेतदभिषिञ्चति सोमाय स्वाहेति क्षत्रं वै सोमः क्षत्रेणैवैनमेतदभिषिञ्चति सवित्रे स्वाहेति सविता वै देवानाम् प्रसविता सवितृप्रसूत एवैनमेतदभिषिञ्चति सरस्वत्यै स्वाहेति वाग्वै सरस्वती वाचैवैनमेतदभिषिञ्चति पूष्णे स्वाहेति पशवो वै पूषा पशुभिरेवैनमेतदभिषिञ्चति बृहस्पतये स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनमेतदभिषिञ्चत्येतानि पुरस्तादभिषेकस्य जुहोति तान्येतान्यग्निनामानीत्याचक्षते॥
अथ जुहोति॥
यान्युपरिष्टादभिषेकस्य जुहोतीन्द्राय स्वाहेति वीर्य वा इन्द्रो वीर्येणैवैनमेतदभिषिञ्चति घोषाय स्वाहेति वीर्यं वै घोषो वीर्येणैवैनमेतदभिषिञ्चति श्लोकाय स्वाहेति वीर्यं वै श्लोको वीर्येणैवैनमेतदभिषिञ्चत्यंशाय स्वाहेति वीर्यं वा अंशो वीर्येणैवैनमेतदभिषिञ्चति भगाय स्वाहेति वीर्यं वै भागो वीर्येणैवैनमेतदभिषिञ्चत्यर्यम्णे स्वाहेति तदेनमस्य सर्वस्यार्यमणं करोत्येतान्युपरिष्टादभिषेकस्य जुहोति तान्येतान्यादित्यनामानीत्याचक्षते॥
अग्रेण मैत्रावरुणस्य धिष्ण्यम्॥
अभिषेचनीयानि पात्राणि भवन्ति यत्रैता आपो ऽभिषेचनीया भवन्ति॥
पालाशम् भवति॥
तेन ब्राह्मणो ऽभिषिञ्चति ब्रह्म वै पलाशो ब्रह्मणैवैनमेतदभिषिञ्चति॥
औदुम्बरम् भवति॥
तेन स्वो ऽभिषिञ्चत्यन्नं वा ऊर्गुदुम्बर ऊर्ग्वै स्वं यावद्वै पुरुषस्य स्वम् भवति नैव तावदशनायति तेनोर्क्स्वं तस्मादौदुम्बरेण स्वो ऽभिषिञ्चति॥
नैयग्रोधपादम् भवति॥
तेन मित्र्यो राजन्यो ऽभिषिञ्चति पद्भिर्वै न्यग्रोधः प्रतिष्ठितो मित्रेण वै राजन्यः प्रतिष्ठितस्तस्मान्नैयग्रोधपादेन मित्र्यो राजन्यो ऽभिषिञ्चति॥
आश्वत्थम् भवति॥
तेन वैश्यो ऽभिषिञ्चति स यदेवादो ऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत तस्मादाश्वत्थेन वैश्यो ऽभिषिञ्चत्येतान्यभिषेचनीयानि पात्राणि भवन्ति॥
अथ पवित्रे करोति॥
पवित्रे स्थो वैष्णव्याविति सो ऽसावेव बन्धुस्तयोर्हिरण्यम् प्रवयति ताभ्यामेता अभिषेचनीया अप उत्पुनाति तद्यद्धिरण्यम् प्रवयत्यमृतमायुर्हिरण्यं तदा स्वमृतमायुर्दधाति तस्माद्धिरण्यम् प्रवयति॥
स उत्पुनाति॥
सवितुर्वः प्रसव उत्पुनाम्यछिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सो ऽसावेव बन्धुरनिभृष्टमसि वाचो बन्धुस्तपोजा इत्यनाधृष्टा स्थ रक्षोभिरित्येवैतदाह यदाहानिभृष्टमसीति वाचो बन्धुरिति यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति तस्मादाह वाचो बन्धुरिति॥
तपोजा इति॥
अग्निर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजा इति॥
सोमस्य दात्रमसीति॥
यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति तस्मादाह सोमस्य दात्रमसीति स्वाहा राजस्व इति तदेनाः स्वाहाकारेणैवोत्पुनाति॥
ता एतेषु पात्रेषु व्यानयति॥
सधमादो द्युम्निनीराप एता इत्यनतिमानिन्य इत्येवैतदाह यदाह सधमाद इति द्युम्निनीराप एता इति वीर्यवत्य इत्येवैतदाहानाधृष्टा अपस्यो वसाना इत्यनाधृष्टा स्थ रक्षोभिरित्येवैतदाह यदाहानाधृष्टा अपस्यो वसाना इति पस्त्यासु चक्रे वरुणः सधस्थमिति विशो वै पस्त्या विक्षु चक्रे वरुणः प्रतिष्ठामित्येवैतदाहापां शिशुर्मातृतमास्वन्तरिति॥
अथैनं वासांसि परिधापयति॥
तत्तार्प्यमिति वासो भवति तस्मिन्त्सर्वाणि यज्ञरूपाणि निष्यूतानि भवन्ति तदेनम् परिधापयति क्षत्रस्योल्बमसीति तद्यदेव क्षत्रस्योल्बं तत एवैनमेतज्जनयति॥
अथैनम् पाण्ड्वम् परिधापयति॥
क्षत्रस्य जराय्वसीति तद्यदेव क्षत्रस्य जरायु तत एवैनमेतज्जनयति॥
अथाधीवासम् प्रतिमुञ्चति॥
क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य योनिस्तस्या एवैनमेतज्जनयति॥
अथोष्णीषं संहृत्य॥
पुरस्तादवगूहति क्षत्रस्य नाभिरसीति तद्यैव क्षत्रस्य नाभिस्तामेवास्मिन्नेतद्दधाति॥
तद्धैके॥
समन्तम् परिवेष्टयन्ति नाभिर्वा अस्यैषा समन्तं वा इयं नाभिः पर्येतीति वदन्तस्तदु तथान कुर्यात्पुरस्तादेवावगूहेत्पुरस्ताद्धीयं नाभिस्तद्यदेनं वासांसि परिधापयति जनयत्येवैनमेतज्जातमभिषिञ्चानीति तस्मादेनं वासांसि परिधापयति॥
तद्धैके॥
निदधत्येतानि वासांस्यथैनम् पुनर्दीक्षितवसनम् परिधापयन्ति तदु तथा न कुर्यादङ्गानि वा अस्य जनूर्वासांस्यङ्गैर्हैनं सजन्वा तन्वा व्यर्धयन्ति वरुण्यं दीक्षितवसनं स एतेषामेवैकं वाससाम् परिदधीत तदेनमङ्गैर्जन्वा तन्वा समर्धयति वरुण्यं दीक्षितवसनं तदेनं वरुण्याद्दीक्षितवसनात्प्रमुञ्चति॥
स यत्रावभृथमभ्यवैति॥
तदेतदभ्यवहरन्ति तत्सलोम क्रियते स एतेषामेवैकं वाससाम् परिधायोदैति तानि वशायै वा वपायां हुतायां दद्यादुदवसानीयायां वेष्टौ॥
अथ धनुरधितनोति॥
इन्द्रस्य वार्त्रघ्नमसीति वार्त्रघ्नं वै धनुरिन्द्रो वै यजमानो द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वार्त्रघ्नमसीति॥
अथ बाहू विमार्ष्टि॥
मित्रस्यासि वरुणस्यासीति बाह्वोर्वै धनुर्बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मादाह मित्रस्यासि वरुणस्यासीति तदस्मै प्रयछति त्वयायं वृत्रम् बधेदिति त्वयायं द्विषन्तम् भ्रातृव्यम् बधेदित्येवैतदाह॥
अथास्मै तिस्र इषूः प्रयछति॥
स यया प्रथमया समर्पणेन पराभिनत्ति सैका सेयम् पृथिवी सैषा दृबा नामाथ यया विद्धः शयित्वा जीवति वा म्रियते वा सा द्वितीया तदिदमन्तरिक्षं सैषा रुजा नामाथ ययापैव राध्नोति सा तृतीया सासौ द्यौः सैषा क्षुमा नामैता हि वै तिस्र इषवस्तस्मादस्मै तिस्र इषूः प्रयछति॥
ताः प्रयछति॥
पातैनम् प्राञ्चम् पातैनम् प्रत्यञ्चम् पातैनं तिर्यञ्चं दिग्भ्यः पातेति तदस्मै सर्वा एव दिशो ऽशरव्याः करोति तद्यदस्मै धनुः प्रयछति वीर्यं वा एतद्राजन्यस्य यद्धनुर्वीर्यवन्तमभिषिञ्चानीति तस्माद्वा अस्मा आयुधम् प्रयछति॥
अथैनमाविदो वाचयति॥
आविर्मर्या इत्यनिरुक्तम् प्रजापतिर्वा अनिरुक्तस्तदेनम् प्रजापतय आवेदयति सो ऽस्मै सवमनुमन्यते तेनानुमतः सूयते॥
आवित्तो अग्निर्गृहपतिरिति॥
ब्रह्म अग्निस्तदेनम् ब्रह्मण आवेदयति तदस्मै सवमनुमन्यते तेनानुमतः सूयते॥
आवित्तो इन्द्रो वृद्धश्रवा इति॥
क्षत्रं वा इन्द्रस्तदेनं क्षत्रायावेदयति तदस्मै सवमनुमन्यते तेनानुमतः सूयते॥
आवित्तौ मित्रावरुणौ धृतव्रताविति॥
प्राणोदानौ वै मित्रावरुणौ तदेनम् प्राणोदानाभ्यामावेदयति तावस्मै सवमनुमन्येते ताभ्यामनुमतः सूयते॥
आवित्तः पूषा विश्ववेदा इति॥
पशवो वै पूषा तदेनम् पशुभ्य आवेदयति ते ऽस्मै सवमनुमन्यन्ते तैरनुमतः सू॥
आवित्ते द्यावापृथिवी विश्वशम्भुवाविति॥
तदेनमाभ्यां द्यावापृथिवीभ्यामावेदयति ते अस्मै सवमनुमन्येते ताभ्यामनुमतः सूयते॥
आवित्तादितिरुरुशर्मेति॥
इयं वै पृथिव्यदितिस्तदेनमस्मै पृथिव्या आवेदयति सास्मै सवमनुमन्यते तयानुमतः सूयते तद्याभ्य एवैनमेतद्देवताभ्य आवेदयति ता अस्मै सवमनुमन्यन्ते ताभिरनुमतः सूयते॥