०२

अथ स्रुवं चाज्यविलापनीं चादाय॥
आहवनीयमभ्यैति स एता द्वादशाप्तीर्जुहोति वा वाचयति वा यदि जुहोति यदि वाचयति समान एव बन्धुः॥
स जुहोति॥
आपये स्वाहा स्वापये स्वाहापिजायं स्वाहा क्रतवे स्वाहा वसवे स्वाहाहर्पतये स्वाहाह्ने मुग्धाय स्वाहा मुग्धाय वैनंशिनाय स्वाहा विनंशिन आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहेत्येता द्वादशाप्तीर्जुहोति द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यैवास्याप्तिर्या सम्पत्तामेवैतदुज्जयति तामात्मन्कुरुते॥
अथ षट् क्ŀ̥प्तीः॥
जुहोति वा वाचयति वा यदि जुहोति यदि वाचयति समान एव बन्धुः॥
स वाचयति॥
आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां श्रोत्रं यज्ञेन कल्पताम् पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतामित्येताः षट्क्ŀ̥प्तीर्वाचयति षड्वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यैवास्य क्ŀ̥प्तिर्या सम्पत्तामेवैतदुज्जयति तामात्मन्कुरुते॥
अष्टाश्रिर्यूपो भवति॥
अष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दो देवलोकमेवैतेनोज्जयति सप्तदशभिर्वासोभिर्यूपो वेष्टितो वा विग्रथितो वा भवति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
गौधूमं चषालम् भवति॥
पुरुषो वै प्रजापतेर्नेदिष्ठं सो ऽयमत्वगेते वै पुरुषस्यौषधीनां नेदिष्ठतमां यद्गोधूमास्तेषां न त्वगस्ति मनुष्यलोकमेवैतेनोज्जयति॥
गर्तन्वान्यूपो ऽतीक्ष्णाग्रो भवति॥
पितृदेवत्यो वै गर्तः पितृलोकमेवै सप्तदशारत्निर्भवति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
अथ नेष्टा पत्नीमुदानेष्यन्॥
कौशं वासः परिधापयति कौशं वा चण्डातकमन्तरं दीक्षितवसनाज्जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञम् प्रसादयिष्यन्भवत्यस्ति वै पत्न्या अमेध्यं यदवाचीनं नाभेर्मेध्या वै दर्भास्तद्यदेवास्या अमेध्यं तदेवास्या एतद्दर्भैर्मेध्यं कृत्वाथैनाम् प्राचीं यज्ञम् प्रसादयति तस्मान्नेष्टा पत्नीमुदानेस्यन्कौशं वासः परिधापयति कौस्=अं वा चण्डातकमन्तरं दीक्षितवसनात्॥
अथ निश्रयणो निश्रयति॥
स दक्षिणत उदङ् रोहेदुत्तरतो वा दक्षिणा दक्षिणतस्त्वेवोदङ् रोहेत्तथा ह्युदग्भवति॥
स रोक्ष्यन्जायामामन्त्रयते॥
जाय एहि स्वो रोहावेति रोहावेत्याह जाया तद्यज्जायामामन्त्रयते ऽर्धो ह वा एष आत्मनो यज्जाया तस्माद्यावज्जायां न विन्दते नैव तावत्प्रजायते ऽसर्वो हि तावद्भवत्यथ यदैव जायां विन्दते ऽथ प्रजायते तर्हि हि सर्वो भवति सर्व एतां गतिं गछानीति तस्माज्जायामामन्त्रयते॥
स रोहति॥
प्रजापतेः प्रजा अभूमेति प्रजापतेर्ह्येष प्रजा भवति यो वाजपेयेन यजते॥
अथ गोधूमानुपस्पृशति॥
स्वर्देवा अगन्मेति स्वर्ह्येष गछति यो वाजपेयेन यजते॥
तद्यद्गोधूमानुपस्पृशति॥
अन्नं वै गोधूमा अन्नं वा एष उज्जयति यो वाजपेयेन यजते ऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते तस्माद्गोधूमानुपस्पृशति॥
अथ शीर्ष्णा यूपमत्युज्जिहीते॥
अमृता अभूमेति देवलोकमेवैतेनोज्जयति॥
अथ दिशो ऽनुवीक्षमाणो जपति॥
अस्मे वो अस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मे वर्चांसि सन्तु व इति सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदम् प्रजापतिः सो ऽस्य सर्वस्य यश इन्द्रियं वीर्यं संवृज्य तदात्मन्धत्ते तदात्मन्कुरुते तस्माद्दिशो ऽनुवीक्षमाणो जपति॥
अथैनमूषपुटैरनूदस्यन्ति॥
पशवो वा ऊषा अन्नं वै पशवो ऽन्नं वा एष उज्जयति यो वाजपेयेन यजते ऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते तस्मादेनमूषपुटैरनूदस्यन्ति॥
आश्वत्थेषु पलाशेषूपनद्धा भवन्ति॥
स यदेवादो ऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत तस्मादाश्वत्थेषु पलाशेषूपनद्धा भवन्ति विशो ऽनूदस्यन्ति विशो वै मरुतो ऽन्नं विशस्तस्माद्विशो ऽनूदस्यन्ति सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
अथेमामुपावेक्षमाणो जपति॥
नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्या इति बृहस्पतेर्ह वा अभिषिषिचानात्पृथिवी बिभयां चकार महद्वा अयमभूद्यो ऽभ्यषेचि यद्वै मायं नावदृणीयादिति बृहस्पतिर्ह पृथिव्यै बिभयां चकार यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयमकुरुत न हि माता पुत्रं हिनस्ति न पुत्रो मातरम्॥
बृहस्पतिसवो वा एष यद्वाजपेयम्॥
पृथिव्यु हैतस्माद्बिभेति महद्वा अयमभूद्यो ऽभ्यषेचि यद्वै मायं नावदृणीयादित्येष उ हास्यै बिभेति यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयं कुरुते न हि माता पुत्रं हिनस्ति न पुत्रो मातरम्॥
अथ हिरण्यमभ्यवरोहति॥
अमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति॥
अथाजर्षभस्याजिनमुपस्तृणाति॥
तदुपरिष्टाद्रुक्मं निदधाति तमभ्यवरोहतीमां वैव॥
अथास्मा आसन्दीमाहरन्ति॥
उपरिसद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यं तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति॥
औदुम्बरी भवति॥
अन्नं वा ऊर्गुदुम्बर ऊर्जो ऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरी भवति तामग्रेण हविर्धाने जघनेनाहवनीयं निदधाति॥
अथाजर्षभस्याजिनमास्तृणाति॥
प्रजापतिर्वा एष यदजर्षभ एता वै प्रजापतेः प्रत्यक्षतमां यदजास्तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति तत्प्रजापतिमेवैतत्करोति तस्मादजर्षबस्याजिनमास्तृणाति॥
स आस्तृणाति॥
इयं ते राडिति राज्यमेवास्मिन्नेतद्दधात्यथैनमासादयति यन्तासि यमन इति यन्तारमेवैनमेतद्यमनमासाम् प्रजानां करोति ध्रुवो ऽसि धरुण इति ध्रुवमेवैनमेतद्धरुणमस्मिंलोके करोति कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वेति साधवे त्वेत्येवैतदाह॥
बार्हस्पत्येन चरुणा प्रचरति॥
तस्यानिष्ट एव स्विष्टकृद्भवत्यथास्मा अन्नं सम्भरत्यन्नं वा एष उज्जयति यो वाजपेयेन यजते ऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तदेवास्मा एतत्सम्भरति॥
औदुम्बरे पात्रे॥
अन्नं वा ऊर्गुदुम्बर ऊर्जो ऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरे पात्रे सो ऽप एव प्रथमाः सम्भरत्यथ पयो ऽथ यथोपस्मारमन्नानि॥
तद्धैके॥
सप्तदशान्नानि सम्भरन्ति सप्तदशः प्रजापतिरिति वदन्तस्तदु तथा न कुर्यात्प्रजापतेर्न्वेव सर्वमन्नमनवरुद्धं क उ तस्मै मनुष्यो यः सर्वमन्नमवरुन्धीत तस्मादु सर्वमेवान्नं यथोपस्मारं सम्भरन्नेकमन्नं न सम्भरेत्॥
स यन्न सम्भरति॥
तस्योद्ब्रुवीत तस्य नाश्नीयाद्यावज्जीवं तथा नान्तमेति तथा ज्योग्जीवति स एतस्य सर्वस्यान्नाद्यस्य सम्भृतस्य स्रुवेणोपघातं वाजप्रसवीयानि जुहोति तद्याभ्य एवैतद्देवताभ्यो जुहोति ता अस्मै प्रसुवन्ति ताभिः प्रसूत उज्जयति तस्माद्वाजप्रसवीयानि जुहोति॥
स जुहोति॥
वाजस्येमम् प्रसवः सुषुवे ऽग्रे सोमं राजानमोषधीष्वप्सु ता अस्मभ्यम् मधुमतीर्भवन्तु वयं राष्ट्रे जागृयाम पुरोहिताः स्वाहा॥
वाजस्येमाम्॥
प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् अदित्सन्तं दापयति प्रजानन्त्स नो रयिं सर्ववीरं नियछतु स्वाहा॥
वाजस्य नु॥
प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः सनेमि राजा परियाति विद्वान्प्रजाम् पुष्टिं वर्धयमानो अस्मे स्वाहा॥
सोमं राजानम् अवसे ऽग्निमन्वारभामहे॥
आदित्यान्विष्णुं सूर्यम् ब्रह्माणं च बृहस्पतिं स्वाहा॥
अर्यमणम् बृहस्पतिम्॥
इन्द्रं दानाय चोदाय वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं स्वाहा॥
अग्ने अछा॥
वदेह नः प्रति नः सुमना भव प्र नो यछ सहस्रजित्त्वं हि धनदा असि स्वाहा॥
प्र नः॥
यछत्वर्यमा प्र पूषा प्र बृहस्पतिः प्र वाग्देवी ददातु नः स्वाहेति॥
अथैनम् परिशिष्टेनाभिषिञ्चति॥
अन्नाद्येनैवैनमेतदभिषिञ्चत्यन्नाद्यमेवास्मिन्नेतद्दधाति तस्मादेनम् परिशिष्टेनाभिषिञ्चति॥
सो ऽभिषिञ्चति॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामिति देवहस्तैरेवैनमेतदभिषिञ्चति सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामीति वाग्वै सरस्वती तदेनं वाच एव यन्तुर्यन्त्रिये दधाति॥
तदु हैक आहुः॥
विश्वेषां त्वा देवानां यन्तुर्यन्त्रिये दधामीति सर्वं वै विश्वे देवास्तदेनं सर्वस्यैव यन्तुर्यन्त्रिये दधाति तदु तथा न ब्रूयात्सरस्वत्यै त्वा वाचो यन्तुर्यन्त्रिये दधामीत्येव ब्रूयाद्वाग्वै सरस्वती तदेनं वाच एव यन्तुर्यन्त्रिये दधाति बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसाविति नाम गृह्णाति तद्बृहस्पतेरेवैनमेतत्सायुज्यं सलोकतां गमयति॥
अथाह॥
सम्राडयमसौ सम्राडयमसाविति निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयत्ययम् महावीर्यो यो ऽभ्यषेचीत्ययं युष्माकैको ऽभूत्तं गोपायतेत्येवैतदाह त्रिष्कृत्व आह त्रिवृद्धि यज्ञः॥
अथोज्जितीः॥
जुहोति वा वाचयति वा यदि जुहोति यदि वाचयति समान एव बन्धुः॥
स वाचयति॥
अग्निरेकाक्षरेण प्राणमुदजयत्तमुज्जेषम् प्रजापतिः सप्तदशाक्षरेण सप्तदशं स्तोममुदजयत्तमुज्जेषमिति तद्यदेवैताभिरेता देवता उदजयंस्तदेवैष एताभिरुज्जयति सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
अथाहाग्नये स्विष्टकृते ऽनुब्रूहीति॥
तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तन्मध्यत एवैतत्प्रजापतिमुज्जयति तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोति॥
अथेडामादधाति॥
उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सो ऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य॥
तद्धैके॥
एतत्कृत्वाथैतत्कुर्वन्ति तदु तथा न कुर्यादात्मा वै स्तोत्रम् प्रजा शस्त्रमेतस्माद्ध स यजमानम् प्रणाशयति स जिह्म एति स ह्वलति तस्मादेतदेव कृत्वाथैतत्कुर्यात्॥
अथेडामादधाति॥
उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सो ऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य॥
पूर्णाहुतिं जुहोति॥
सर्वं वै पूर्णं सर्वम् परिगृह्य सूया इति तस्यां वरं ददाति सर्वं वै वरः सर्वम् परिगृह्य सूया इति स यदि कामयेत जुहुयादेतां यद्यु कामयेतापि नाद्रियेत॥
अथ श्वो भूते॥
अनुमत्यै हविरष्टाकपालम् पुरोडाशं निर्वपति स ये जघनेन शम्याम् पिष्यमाणानामवशीयन्ते पिष्टानि वा तण्डुला वा तान्त्स्रुवे सार्धं संवपत्यन्वाहार्यपचनादुल्मुकमाददते तेन दक्षिणा यन्ति स यत्र स्वकृतं वेरिणं विन्दति श्वभ्रप्रदरं वा॥
तदग्निं समाधाय जुहोति॥
एष ते निरृते भागस्तं जुषस्वस्वाहेतीयं वै निरृतिः सा यम् पाप्मना गृह्णाति तं निरृत्या गृह्णाति तद्यदेवास्या अत्र नैरृतं रूपं तदेवैतछमयति तथो हैनं सूयमानं निरृतिर्न गृह्णात्यथ यत्स्वकृते वेरिणे जुहोति श्वभ्रप्रदरे वैतदु ह्यस्यै निरृतिगृहीतम्॥
अथाप्रतीक्षम् पुनरायन्ति॥
अथानुमत्या अष्टाकपालेन पुरोडाशेन प्रचरतीयं वा अनुमतिः स यस्तत्कर्म शक्नोति कर्तुं यच्चिकीर्षतीयं हास्मै तदनुमन्यते तदिमामेवैतत्प्रीणात्यनयानुमत्यानुमतः सूया इति॥
अथ यदष्टाकपालो भवति॥
अष्टाक्षरा वै गायत्री गायत्री वा इयम् पृथिव्यथ यत्समानस्य हविष उभयत्र जुहोत्येषा ह्येवैतदुभयं तस्य वासो दक्षिणा यद्वै सवासा अरण्यं नोदाशंसते निधाय वै तद्वासो ऽतिमुच्यते तथो हैनं सूयमानमासङ्गो न विन्दति॥
अथ श्वो भूते॥
आग्नावैष्णवमेकादशकपालम् पुरोडाशं निर्वपति तेन यथेष्ट्यैवं यजते तद्यदेवादः प्रजातमाग्नावैष्णवं दीक्षणीयं हविस्तदेवैतदग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वत्यग्निर्वै यज्ञस्यावरार्ध्यो विष्णुः परार्ध्यस्तत्सर्वाश्चैवैतद्देवताः परिगृह्य सर्वं च यज्ञम् परिगृह्य सूया इति तस्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं यो वै विष्णुः स यज्ञो ऽग्निरु वै यज्ञ एव तदु तदाग्नेयमेव तस्माद्धिरण्यं दक्षिणा॥
अथ श्वो भूते॥
अग्नीषोमीयमेकादशकपालम् पुरोडाशं निर्वपति तेन यथेष्ट्यैवं यजत एतेन वा इन्द्रो वृत्रमहन्नेतेनो एव व्यजयत यास्येयं विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तम् भ्रातृव्यं हन्ति तथो एव विजयते विजिते ऽभये ऽनाष्ट्रे सूया इति तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति तस्योत्सृष्टो गौर्दक्षिणोत्सर्जं वा अमुं चन्द्रमसं घ्नन्ति पौर्णमासेनाह घ्नन्त्याम:वास्येनोत्सृजन्ति तस्मादुत्सृष्टो गौर्दक्षिणा॥
अथ श्वो भूते॥
ऐन्द्राग्नं द्वादशकपालम् पुरोडाशं निर्वपति तेन यथेष्ट्यैवं यजते यत्र वा इन्द्रो वृत्रमहंस्तदस्य भीतस्येन्द्रियं वीर्यमपचक्राम स एतेन हविषेन्द्रियं वीर्यम् पुनरात्मन्नधत्त तथो एवैष एतेन हविषेन्द्रियं वीर्यमात्मन्धत्ते तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र उभे वीर्ये परिगृह्य सूया इति तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति तस्यर्षभो ऽनड्वान्दक्षिणा स हि वहेनाग्नेय आण्डाभ्यामैन्द्रस्तस्मादृषभो ऽनड्वान्दक्षिणा॥
अथाग्रयणेष्ट्या यजते॥
सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते देवसृष्टो वा एषेष्टिर्यदाग्रयणेष्टिरनया मे पीष्टमसदनयापि सूया इति तस्मादाग्रयणेष्ट्या यजत ओषधीर्वा एष सूयमानो ऽभि सूयते तदोषधीरेवैतदनमीवा अकिल्विषाः कुरुते ऽनमीवा अकिल्विषा ओषधीरभि सूया इति तस्य गौर्दक्षिणा॥
अथ चातुर्मास्यैर्यजते॥
सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते देवसृष्टो वा एष यज्ञक्रतुर्यच्चातुर्मास्यान्येभिर्मे ऽपीष्टमसदेभिरपि सूया इति तस्माच्चातुर्मास्यैर्यजते॥
वैश्वदेवेन यजते॥
वैश्वदेवेन वै प्रजापतिर्भूमानम् प्रजाः ससृजे भूमानम् प्रजाः सृष्ट्वा सूया इति तथो एवैष एतद्वैश्वदेवेनैव भूमानम् प्रजाः सृजते भूमानम् प्रजाः सृष्ट्वा सूया इति॥
अथ वरुणप्रघासैर्यजते॥
वरुणप्रघासैर्वै प्रजापतिः प्रजा वरुणपाशात्प्रामुञ्चत्ता अस्यानमीवा अकिल्विषाः प्रजा प्राजायन्तानमीवा अकिल्विषाः प्रजा अभि सूया इति तथो एवैष एतद्वरुणप्रघासैरेव प्रजा वरुणपाशात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्ते ऽनमीव अकिल्विषाः प्रजा अभि सूया इति॥
अथ साकमेधैर्यजते॥
साकमेधैर्वै देवा वृत्रमघ्नंस्तैर्वेव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैः पाप्मानं द्विषन्तम् भ्रातृव्यं हन्ति तथो एव विजयते विजिते ऽभये ऽनाष्ट्रे सूया इति॥
अथ शुनासीर्येण यजते॥
उभौ रसौ परिगृह्य सूया इत्यथ पञ्चवीतीयं स पञ्चधाहवनीयं व्युह्य स्रुवेणो पघातं जुहोति॥
स पूर्वार्ध्ये जुहोति॥
अग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहेत्यथ दक्षिणार्ध्ये जुहोति यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहेत्यथ पश्चार्ध्ये जुहोति विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भ्यः स्वाहेत्यथोत्तरार्ध्ये जुहोति मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्यो उत्तरासद्भ्यः स्वाहेत्यथ मध्ये जुहोति सोमनेत्रेभ्यो देवेभ्य उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहेति॥
अथ सार्धं समुह्य जुहोति॥
ये देवा अग्निनेत्राः पुरःसदस्तेभ्यः स्वाहा ये देवा यमनेत्रा दक्षिणासदस्तेभ्यः स्वाहा ये देवा विश्वदेवनेत्राः पश्चात्सदस्तेभ्यः स्वाहा ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस्तेभ्यः स्वाहा ये देवाः सोमनेत्रा उपरिसदो दुवस्वन्तस्तेभ्यः स्वाहेति तद्यदेवं जुहोति॥
यत्र वै देवाः॥
साकमेधैर्व्यजयन्त येयमेषां विजितिस्तां तद्धोचुरुत्पिबन्ते वा इमानि दिक्षु नाष्ट्रा रक्षांसि हन्तैभ्यो वज्रम् प्रहरामेति वज्रो वा आज्यं त एतेन वज्रेणाज्येन दिक्षु नाष्ट्रा रक्षांस्यवाघ्नंस्ते व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतेन वज्रेणाज्येन दिक्षु नाष्ट्रा रक्षांस्यवहन्ति तथो एव विजयते विजिते ऽभये ऽनाष्ट्रे सूया इति॥
अथ यदेता अपराः पञ्चाहुतीर्जुहोति॥
क्षण्वन्ति वा एतदग्नेर्विवृहन्ति यत्पञ्चधाहवनीयं व्यूहन्ति तदेवास्यैतेन सन्दधाति तस्मादेता अपराः पञ्चाहुतीर्जुहोति॥
तस्य प्रष्टिवाहनो ऽश्वरथो दक्षिणा॥
त्रयो ऽश्वा द्वौ सव्यष्ठृसारथी ते पञ्च प्राणा यो वै प्राणः स वातस्तद्यदेतस्य कर्मण एषा दक्षिणा तस्मात्पञ्चवातीयं नाम॥
स हैतेनापि भिषज्येत्॥
अयं वै प्राणो यो ऽयम् पवते यो वै प्राणः स आयुः सो ऽयमेक इवैव पवते सो ऽयम् पुरुषे ऽन्तः प्रविष्टो दशधा विहितो दश वा एता आहुतीर्जुहोति तदस्मिन्दश प्राणान्कृत्स्नमेव सर्वमायुर्दधाति स यदिहापि गतासुरिव बवत्या हैवैनेन हरति॥
अथेन्द्रतुरीयम्॥
आग्नेयो ऽष्टाकपालः पुरोडाशो भवति वारुणो यवमयश्चरू रौद्रो गावेधुकश्चरुरनडुह्यै वहलाया ऐन्द्रं दधि तेनेन्द्रतुरीयेण यजत इन्द्राग्नी उ हैवैतत्समूदाते उत्पिबन्ते वा इमानि दिक्षु नाष्ट्रा रक्षांसि हन्तैभ्यो वज्रम् प्रहरावेति॥
स हाग्निरुवाच॥
त्रयो मम भागाः सन्त्वेकस्तवेति तथेति तावेतेन हविषा दिक्षु नाष्ट्रा रक्षांस्यवाहतां तौ व्यजयेतां यैनयोरियं विजितिस्तां तथो एवैष एतेन हविषा दिक्षु नाष्ट्रा रक्षांस्यवहन्ति तथो एव विजयते विजिते ऽभये नाष्ट्रे सूया इति॥
स य एष आग्नेयो ऽष्टाकपालः पुरोडाशो भवति॥
सो ऽग्नेरेको भागो ऽथ यद्वारुणो यवमयश्चरुर्भवति यो वै वरुणः सो ऽग्निः सो ऽग्नेर्द्वितीयो भागो ऽथ यद्रौद्रो गावेधुकश्चरुर्भवति यो वै रुद्रः सो ऽग्निः सो ऽग्नेस्तृतीयो भागो ऽथ यद्गावेधुको भवति वास्तव्यो वा एष देवो वास्तव्या गवेधुकास्तस्माद्गावेधुको भवत्यथ यदनडुह्यै वहलाया ऐन्द्रं दधि भवति स इन्द्रस्य चतुर्थो भागो यद्वै चतुर्थं तत्तुरीयं तस्मादिन्द्रतुरीयं नाम तस्यैषैवानडुही वहला दक्षिणा सा हि वहेनाग्नेय्यग्निदग्धमिव ह्यस्यै वहम् भवत्यथ यत्स्त्री सती वहत्यधर्मेण तदस्यै वारुणं रूपमथ यद्गौस्तेन रौद्र्यथ यदस्या ऐन्द्रं दधि तेनैन्द्र्येषा हि वा एतत्सर्वं व्यश्नुते तस्मादेषैवानडुही वहला दक्षिणा॥
अथापामार्गहोमं जुहोति॥
अपामार्गैर्वै देवा दिक्षु नाष्ट्रा रक्षांस्यपामृजत ते व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतदपामार्गैरेव दिक्षु नाष्ट्रा रक्षांस्यपमृष्टे तथो एव विजयते विजिते ऽभये ऽनाष्ट्रे सूया इति॥
स पालाशे वा स्रुवे वैकङ्कते वा॥
अपामार्गतण्डुलानादत्ते ऽन्वाहार्यपचनादुल्मुकमाददते तेन प्राञ्चो वोदञ्चो वा यन्ति तदग्निं समाधाय जुहोति॥
स उल्मुकमादत्ते॥
अग्ने सहस्व पृतना इति युधो वै पृतना युधः सहस्वेत्येवैतदाहाभिमातीरपास्येति सपत्नो वा अभिमातिः सपत्नमपजहीत्येवैतदाह दुष्टरस्तरन्नरातीरिति दुस्तरो ह्येष रक्षोभिर्नाष्ट्राभिस्तरन्नरातीरिति सर्वं ह्येष पाप्मानं तरति तस्मादाह तरन्नरातीरिति वर्चो धा यज्ञवाहसीति साधु यजमानं दधदित्येवैतदाह॥
तदग्निं समाधाय जुहोति॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामुपांशोर्वीर्येण जुहोमीति यज्ञमुखं वा उपांशुर्यज्ञमुखेनैवैतन्नाष्ट्रा रक्षांसि हन्ति हतं रक्षः स्वाहेति तन्नाष्ट्रा रक्षांसि हन्ति॥
स यदि पालाशः स्रुवो भवति॥
ब्रह्म वै पलाशो ब्रह्मणैवैतन्नाष्ट्रा रक्षांसि हन्ति यद्यु वैकङ्कतो वज्रो व विकङ्कतो वज्रेणैवैतन्नाष्ट्रा रक्षांसि हन्ति रक्षसां त्वा बधायेति तन्नाष्ट्रा रक्षांसि हन्ति॥
स यदि प्राङित्वा जुहोति॥
प्राञ्चं स्रुवमस्यति यद्युदङ्ङित्वा जुहोत्युदञ्चं स्रुवमस्यत्यबधिष्म रक्ष इति तन्नाष्ट्रा रक्षांसि हन्ति॥
अथाप्रतीक्षम् पुनरायन्ति॥
स हैतेनापि प्रतिसरं कुर्वीत स यस्यां ततो दिशि भवति तत्प्रतीत्य जुहोति प्रतीचीनफलो वा अपामार्गः स यो हास्मै तत्र किञ्चित्करोति तमेव तत्प्रत्यग्धूर्वति तस्य नामादिशेदबधिष्मामुमसौ हत इति तन्नाष्ट्रा रक्षांसि हन्ति॥
आग्नावैष्णवमेकादशकपालम् पुरोडाशं निर्वपति॥
ऐन्द्रावैष्णवं चरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन त्रिषंयुक्तेन यजते पुरुषानेतद्देवा उपायंस्तथो एवैष एतत्पुरुषानेवोपैति॥
स यदाग्नावैष्णवः॥
एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता वैष्णवाः पुरुषास्तदस्मा अग्निर्दाता पुरुषान्ददाति॥
अथ यदैन्द्रावैष्णवः॥
चरुर्भवतीन्द्रो वै यजमानो वैष्णवाः पुरुषास्तदस्मा अग्निर्दाता पुरुषान्ददाति तैरेवैतत्संस्पृशते तानात्मन्कुरुते॥
अथ यद्वैष्णवः॥
त्रिकपालो वा पुरोडाशो भवति चरुर्वा यानेवास्मा अग्निर्दाता पुरुषान्ददाति तेष्वेवैतदन्ततः प्रतितिष्ठति यद्वै पुरुषवान्कर्म चिकीर्षति शक्नोति वै तत्कर्तुं तत्पुरुषानेवैतदुपैति पुरुषवान्त्सूया इति तस्य वामनो गौर्दक्षिणा स हि वैष्णवो यद्वामनः॥
अथापरेण त्रिषंयुक्तेन यजते॥
स आग्नापौष्णमेकादशकपालम् पुरोडाशं निर्वपत्यैन्द्रापौष्णं चरुम् पौष्णं चरुं तेन त्रिषंयुक्तेन यजते पशूनेव तद्देवा उपायंस्तथो एवैष एतत्पशूनेवोपैति॥
स यदाग्नापौष्णः॥
एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता पौष्णाः पशवस्तदस्मा अग्निरेव दाता पशून्ददाति॥
अथ यदैन्द्रापौष्णः॥
चरुर्भवतीन्द्रो वै यजमानः पौष्णाः पशवः स यानेवास्मा अग्निर्दाता पशून्ददाति तैरेवैतत्संस्पृशते तानात्मन्कुरुते॥
अथ यत्पौष्णः॥
चरुर्भवति यानेवास्मा अग्निर्दाता पशून्ददाति तेष्वेवैतदन्ततः प्रतितिष्ठति यद्वै पशुमान्कर्म चिकीर्षति शक्नोति वै तत्कर्तुं तत्पशूनेवैतदुपैति पशुमान्त्सूया इति तस्य श्यामो गौर्दक्षिणा स हि पौष्णो यछ्यामो द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च द्वन्द्वं वै मिथुनम् प्रजननं वै पूषा पशवो हि पूषा पशवो हि प्रजननम् मिथुनमेवैतत्प्रजननं क्रियते तस्माछ्यामो गौर्दक्षिणा॥
अथापरेण त्रिषंयुक्तेन यजते॥
सो ऽग्नीषोमीयमेकादशकपालम् पुरोडाशं निर्वपत्यैन्द्रासौम्यं चरुं सौम्यं चरुं तेन त्रिषंयुक्तेन यजते वर्च एव तद्देवा उपायंस्तथो एवैष एतद्वर्च एवोपैति॥
स यदग्नीषोमीयः॥
एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता वर्चः सोमस्तदस्मा अग्निरेव दाता वर्चो ददाति॥
अथ यदैन्द्रासौम्यः॥
चरुर्भवतीन्द्रो वै यजमानो वर्चः सोमः स यदेवास्मा अग्निर्दाता वर्चो ददाति तेनैवैतत्संस्पृशते तदान्मन्कुरुते॥
अथ यत्सौम्यः॥
चरुर्भवति यदेवास्मा अग्निर्दाता वर्चो ददाति तस्मिन्नेवैतदन्ततः प्रतितिष्ठति यद्वै वर्चस्वी कर्म चिकीर्षति शक्नोति वै तत्कर्तुं तद्वर्च एवैतदुपैति वर्चस्वी सूया इति नो ह्यवर्चसो व्याप्त्या चनार्थो ऽस्ति तस्य बभ्रुर्गौर्दक्षिणा स हि सौम्यो यद्बभ्रुः॥
अथ श्वो भूते॥
वैश्वानरं द्वादशकपालम् पुरोडाशं निर्वपति वारुण यवमयं चरुं ताभ्यामनूचीनाहं वेष्टिभ्यां यजते समानबर्हिर्भ्यां वा॥
स यद्वैश्वानरो भवति॥
संवत्सरो वै वैश्वानरः संवत्सरः प्रजापतिः प्रजापतिरेव तद्भूमानम् प्रजाः ससृजे भूमानम् प्रजाः सृष्ट्वा सूया इति तथो एवैष एतद्भूमानम् प्रजाः सृजते भूमानम् प्रजाः सृष्ट्वा सूया इति॥
अथ यद्द्वादशकपालो भवति॥
द्वादश वै मासाः संवत्सरस्य संवत्सरो वैश्वानरस्तस्माद्द्वादशकपालो भवति॥
अथ यद्वारुणो यवमयश्चरुर्भवति॥
तत्सर्वस्मादेवैतद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रजाः प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्ते ऽनमीवा अकिल्विषाः प्रजा अभि सूया इति॥
ऋषभो वैश्वानरस्य दक्षिणा॥
संवत्सरो वै वैश्वानरः संवत्सरः प्रजापतिरृषभो वै पशूनाम् प्रजापतिस्तस्मादृषभो वैश्वानरस्य दक्षिणा कृष्णं वासो वारुणस्य तद्धि वारुणं यत्कृष्णं यदि कृष्णं न विन्देदपि यदेव किं च वासः स्याद्ग्रन्थिभिर्हि वासो वारुणं वरुण्यो हि ग्रन्थिः॥