देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ततो ऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्ते ऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः॥
अथ देवाः॥
अन्यो ऽन्यस्मिन्नेव जुह्वतश्चेरुस्तेभ्यः प्रजापतिरात्मानम् प्रददौ यज्ञो हैषामास यज्ञो हि देवानामन्नम्॥
ते होचुः॥
कस्य न इदम् भविष्यतीति ते मम ममेत्येव न सम्पादयां चक्रुस्ते हासम्पाद्योचुराजिमेवास्मिन्नजामहै स यो न उज्जेष्यति तस्य न इदम् भविष्यतीति तथेति तस्मिन्नाजिमाजन्त॥
स बृहस्पतिः॥
सवितारमेव प्रसवायोपाधावत्सविता वै देवानाम् प्रसवितेदम् मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रासुवत्तत्सवितृप्रसूत उदजयत्स इदं सर्वमभवत्स इदं सर्वमुदजयत्प्रजापतिं ह्युदजयत्सर्वमु ह्येवेदम् प्रजापतिस्तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत्तस्माद्यश्च वेद यश्च नैषोर्ध्वा बृहस्पतेर्दिगित्येवाहुः॥
तद्ये ह स्म पुरा वाजपेयेन यजन्ते॥
एतां ह स्मैवोर्ध्वा दिशमुत्क्रामन्ति तत औपाविनैव जानश्रुतेयेन प्रत्यवरूढं ततो ऽर्वाचीनम् प्रत्यवरोहन्ति॥
तेनेन्द्रो ऽयजत॥
स इदं सर्वमभवत्स इदं सर्वमुदजयत्प्रजापतिं ह्युदजयत्सर्वमु ह्येवेदम् प्रजापतिस्तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत्॥
तद्ये ह स्म पुरा वाजपेयेन यजन्ते॥
एतां ह स्मैवोर्ध्वां दिशमुत्क्रामन्ति तत औपाविनैव जानश्रुतेयेन प्रत्यवरूढं ततो ऽर्वाचीनम् प्रत्यवरोहन्ति॥
स यो वाजपेयेन यजते॥
स इदं सर्वम् भवति स इदं सर्वमुज्जयति प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदम् प्रजापतिः॥
तदाहुः॥
न वाजपेयेन यजेत सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदम् प्रजापतिः स इह न किं चन परिशिनष्टि तस्येश्वरः प्रजा पापीयसी भवितोरिति॥
तदु वै यजेतैव॥
य एवमेतं यज्ञं कॢप्तं विद्युरृक्तो यजुष्टः सामतो ये प्रजज्ञयस्त एनं याजयेयुरेषा ह त्वेतस्य यज्ञस्य समृद्धिर्यदेनं विद्वांसो याजयन्ति तस्मादु यजेतैव॥
स वा एष ब्राह्मणस्यैव यज्ञः॥
यदेनेन बृहस्पतिरयजत ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणो ऽथो राजन्यस्य यदेनेनेन्द्रो ऽयजत क्षत्रं हीन्द्रं क्षत्रं राजन्यः॥
राज्ञ एव राजसूयम्॥
राजा वै राजसूयेनेष्ट्वा भवति न वै ब्राह्मणो राज्यायालमवरं वै राजसूयम् परं वाजपेयम्॥
राजा वै राजसूयेनेष्ट्वा भवति॥
सम्राङ्वाजपेयेनावरं हि राज्यम् परं साम्राज्यं कामयेत वै राजा सम्राड् भवितुमवरं हि राज्यम् परं साम्राज्यं न सम्राट्कामयेत राजा भवितुमवरं हि राज्यम् परं साम्राज्यम्॥
स यो वाजपेयेनेष्ट्वा सम्राड् भवति॥
स इदं सर्वं संवृङ्क्ते स कर्मणः-कर्मणः पुरस्तादेतां सावित्रीमाहुतिं जुहोति देव सवितः प्रसुव यज्ञम् प्रसुव यज्ञपतिम् भगायेति॥
तद्यथैवादो बृहस्पतिः॥
सवितारम् प्रसवायोपाधावत्सविता वै देवानाम् प्रसवितेदम् मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रासुवत्तत्सवितृप्रसूत उदजयदेवमेवइष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानाम् प्रसवितेदम् मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रसौति तत्सवितृप्रसूत उज्जयति॥
तस्मादाह॥
देव सवितः प्रसुव यज्ञम् प्रसुव यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाजं नः स्वदतु स्वाहेति प्रजापतिर्वै वाचस्पतिरन्नं वाजः प्रजापतिर्न इदमद्यान्नं स्वदत्वित्येवैतदाह स एतामेवाहुतिं जुहोत्या श्वःसुत्याया एतद्ध्यस्यैतत्कर्मारब्धम् भवति प्रसन्न एतं यज्ञम् भवति॥
अंशुं गृह्णाति॥
सर्वत्वायैव तस्माद्वा अंशुं गृह्णात्यथैतान्प्रज्ञातानेवाग्निष्टोमिकान्ग्रहान्गृह्णात्याग्रयणात्॥
अथ पृष्ठ्यान्गृह्णाति॥
तद्यदेवैतैर्देवा उदजयंस्तदेवैष एतैरुज्जयति॥
अथ षोडशिनं गृह्णाति॥
तद्यदेवैतेनेन्द्र उदजयत्तदेवैष एतेनोज्जयति॥
अथैतान्पञ्च वाजपेयग्रहान्गृह्णाति॥
ध्रुवसदं त्वा नृषदम् मनःसदमुपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येषां वै लोकानामयमेव ध्रुव इयम् पृथिवीममेवैतेन लोकमुज्जयति॥
अप्सुषदम् त्वा घृतसदं व्योमसदमुपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येषां वै लोकानामयमेव व्योमेदमन्तरिक्षमन्तरिक्षलोकमेवैतेनोज्जयति॥
पृथिविसदं त्वान्तरिक्षसदं दिविसदं देवसदं नाकसदमुपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येष वै देवसन्नाकसदेष एव देवलोको देवलोकमेवैतेनोज्जयति॥
अपां रसमुद्वयसं सूर्ये सन्तं समाहितमपां रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येष वा अपां रसो यो ऽयम् पवते स एष सूर्ये समाहितः सूर्यात्पवत एतमेवैतेन रसमुज्जयति॥
ग्रहा ऊर्जाहुतयः॥
व्यन्तो विप्राय मतिं तेषां विशिप्रियाणां वो ऽहमिषमूर्जं समग्रभमुपयामगृहीतो ऽसीन्द्राय त्वा जुष्टमेष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्यूर्ग्वै रसो रसमेवैतेनोज्जयति॥
तान्वा एतान्॥
पञ्च वाजपेयग्रहान्गृह्णाति प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजते संवत्सरो वै प्रजापतिः पञ्च वा ऋतवः संवत्सरस्य तत्प्रजापतिमुज्जयति तस्मात्पञ्च वाजपेयग्रहान्गृह्णाति॥
अथ सप्तदश सोमग्रहान्गृह्णाति॥
सप्तदश सुराग्रहान्प्रजापतेर्वा एते अन्धसी यत्सोमश्च सुरा च ततः सत्यं श्रीर्ज्योतिः सोमो ऽनृतम् पाप्मा तमः सुरैते एवैतदुभे अन्धसी उज्जयति सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदम् प्रजापतिः॥
स यत्सप्तदश॥
सोमग्रहान्गृह्णाति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावतैवास्यैतत्सत्यं श्रियं ज्योतिरुज्जयति॥
अथ यत्सप्तदश॥
सुराग्रहान्गृह्णाति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावतैवास्यैतदनृतम् पाप्मानं तम उज्जयति॥
त उभये चतुस्त्रिंशद्ग्रहाः सम्पद्यन्ते॥
त्रयस्त्रिंशद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तत्प्रजापतिमुज्जयति॥
अथ यत्र राजानं क्रीणाति॥
तद्दक्षिणतः प्रतिवेशतः केशवात्पुरुषात्सीसेन परिस्रुतं क्रीणाति न वा एष स्त्री न पुमान्यत्केशवः पुरुषो यदह पुमांस्तेन न स्त्री यदु केशवस्तेन न पुमान्नैतदयो न हिरण्यं यत्सीसं नैष सोमो न सुरा यत्परिस्रुत्तस्मात्केशवात्पुरुषात्सीसेन परिस्रुतं क्रीणाति॥
अथ पूर्वेद्युः॥
द्वौ खरौ कुर्वन्ति पुरो ऽक्षमेवान्यम् पश्चादक्षमन्यं नेत्सोमग्रहांश्च सुराग्रहांश्च सह सादयामेति तस्मात्पूर्वेद्युर्द्वौ खरौ कुर्वन्ति पुरो ऽक्षमेवान्यम् पश्चादक्षमन्यम्॥
अथ यत्र पूर्वया द्वारा॥
वसतीवरीः प्रपादयन्ति तदपरया द्वारा नेष्टा परिस्रुतम् प्रपादयति दक्षिणतः पात्राण्यभ्यवहरन्ति पुरो ऽक्षमेव प्रत्यङ्ङासीनो ऽध्वर्युः सोमग्रहान्गृह्णाति पश्चादक्षम् प्राङासीनो नेष्टा सुराग्रहान्त्सोमग्रहमेवाध्वर्युर्गृह्णाति सुराग्रहं नेष्टा सोमग्रहमेवाध्वर्युर्गृह्णाति सुराग्रहं नेष्ट्वेवमेवैनान्व्यत्यासं गृह्णीतः॥
न प्रत्यञ्चमक्षमध्वर्युः॥
सोमग्रहमतिहरति न प्राञ्चमक्षं नेष्टा सुराग्रहं नेज्ज्योतिश्च तमश्च संसृजावेति॥
उपर्युपर्येवाक्षमध्वर्युः॥
सोमग्रहं धारयत्यधो ऽधो ऽक्षं नेष्टा सुराग्रहं सम्पृचौ स्थः सम् मा भद्रेण पृङ्क्तमिति नेत्पापमिति ब्रवावेति तौ पुनर्विहरतो विपृचौ स्थो वि मा पाप्मना पृङ्क्तमिति तद्यथेषीकाम् मुञ्जाद्विवृहेदेवमेनं सर्वस्मात्पाप्मनो विवृहतस्तस्मिन्न तावच्चनैनो भवति यावत्तृणस्याग्रं तौ सादयतः॥
अथाध्वर्युः॥
हिरण्यपात्रेण मधुग्रहं गृह्णाति तम् मध्ये सोमग्रहाणां सादयत्यथोक्थ्यं गृह्णात्यथ ध्रुवमथैतान्त्सोमग्रहानुत्तमे स्तोत्र ऋत्विजां चमसेषु व्यवनीय जुह्वति तान्भक्षयन्त्यथ माध्यन्दिने सवने मधुग्रहस्य च सुराग्रहाणां चोद्यते तस्यातः॥
आग्नेयमग्निष्टोम आलभते॥
अग्निर्वा अग्निष्टोमो ऽग्निष्टोममेवैतेनोज्जयत्यैन्द्राग्नमुक्थेभ्य आलभत ऐन्द्राग्नानि वा उक्थ्यान्युक्थान्येवैतेनोज्जयत्यैन्द्रं षोडशिन आलभत इन्द्रो वै षोडशी षोडशिनमेवैतेनोज्जयति॥
सारस्वतं सप्तदशाय स्तोत्रायालभते॥
तदेतदनतिरात्रे सति रात्रे रूपं क्रियते प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजते संवत्सरो वै प्रजापतिस्तदेतेन सारस्वतेन रात्रिमुज्जयति तस्मादेतदनतिरात्रे सति रात्रे रूपं क्रियते॥
अथ मरुद्भ्य उज्जेषेभ्यः॥
वशाम् पृश्निमालभत इयं वै वशा पृश्निर्यदिदमस्याम् मूलि चामूलं चान्नाद्यम् प्रतिष्टितं तेनेयं वशा पृश्निरन्नं वा एष उज्जयति यो वाजपेयेन यजते ऽन्नपेयं ह वै नामैतद्यद्वाजपेयं विशो वै मरुतो ऽन्नं वै विश उज्जेषेभ्य इत्युज्जित्या एव दुर्वेदे उज्जेषवत्यौ याज्यानुवाक्ये यद्युज्जेषवत्यौ न विन्देदपि ये एव के च मारुत्यौ स्यातां दुर्वेदो एव वशा पृश्निर्यदि वशाम् पृश्नि न विन्देदपि यैव का च वशा स्यात्॥
तस्या आवृत्॥
यत्र होता माहेन्द्रं ग्रहमनुशंसति तदस्यै वपया प्रचरेयुरेष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रो ऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानस्तन्मध्यत एवैतद्यजमाने वीर्यं दधाति तस्मादस्या अत्र वपया प्रचरेयुः॥
द्वेधावदानानि श्रपयन्ति॥
ततो ऽर्धानां जुह्वामुपस्तीर्य द्विर्द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदानान्यथोपभृति सकृत्सकृदवद्यति द्विरभिघारयति न प्रत्यनक्त्यवदानानि तद्यदर्धानां द्विर्द्विरवद्यति तथैषा कृत्स्नाम् भवत्यथ यदेतैः प्रचरति तेन दैवीं विशमुज्जयत्यथार्धानि मानुष्यै विश उपहरति तेनो मानुषीं विशमुज्जयति॥
तदु तथा न कुर्यात्॥
ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य एवं करोति तस्माद्यत्रैवैतरेषाम् पशूनां वपाभिः प्रचरन्ति तदेवैतस्यै वपया प्रचरेयुरेकधावदानानि श्रपयन्ति न मानुष्यै विश उपहरन्ति॥
अथ सप्तदश प्राजापत्यान्पशूनालभते॥
ते वै सर्वे तूपरा भवन्ति सर्वे श्यामाः सर्वे मुष्कराः प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजते ऽन्नं वै प्रजापतिः पशुर्वा अन्नं तत्प्रजापतिमुज्जयति सोमो वै प्रजापतिः पशुर्वै प्रत्यक्षं सोमस्तत्प्रत्यक्षम् प्रजापतिमुज्जयति सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
ते वै सर्वे तूपरा भवन्ति॥
पुरुषो वै प्रजापतेर्नेदिष्ठं सो ऽयं तूपरो ऽविषाणस्तूपरो वा अविषाणः प्रजापतिः प्राजापत्या एते तस्मात्सर्वे तूपरा भवन्ति॥
सर्वे श्यामाः॥
द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च द्वन्द्वं वै मिथुनम् प्रजननम् प्रजननम् प्रजापतिः प्राजापत्या एते तस्मात्सर्वे श्यामा भवन्ति॥
सर्वे मुष्कराः॥
प्रजननं वै मुष्करः प्रजननम् प्रजापतिः प्राजापत्या एते तस्मात्सर्वे मुष्करा भवन्ति दुर्वेदा एवंसमृद्धाः पशवो यद्येवंसमृद्धान्न विन्देदपि कतिपया एवैवंसमृद्धाः स्युः सर्वमु ह्येवेदम् प्रजापतिः॥
तद्धैके॥
वाच उत्तममालभन्ते यदि वै प्रजापतेः परमस्ति वागेव तदेतद्वाचमुज्जयाम इति वदन्तस्तदु तथा न कुर्यात्सर्वं वा इदम् प्रजापतिर्यदिमे लोका यदिदं किं च सा यदेवैषु लोकेषु वाग्वदति तद्वाचमुज्जयति तस्मादु तन्नाद्रियेत॥
तेषामावृत्॥
यत्र मैत्रावरुणो वामदेव्यमनुशंसति तदेषां वपाभिः प्रचरेयुः प्रजननं वै वामदेव्यम् प्रजननम् प्रजापतिः प्राजापत्या एते तस्मादेषां वपाभिरत्र प्रचरेयुः॥
अथेष्टा अनुयाजा भवन्ति॥
अव्यूढे स्रुचावथैषां हविर्भिः प्रचरन्ति सो ऽन्तो ऽन्तो वै प्रजापतिस्तदन्तत एवैतत्प्रजापतिमुज्जयत्यथ यत्पुरा प्रचरेद्यथा यमध्वानमेष्यन्त्स्यात्तं गत्वा स क्व ततः स्यादेवं तत्तस्मादेषामत्र हविर्भिः प्रचरन्ति॥
तदु तथा न कुर्यात्॥
ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य एवं करोति तस्माद्यत्रैवेतरेषाम् पशूनां वपाभिः प्रचरन्ति तदेवैतेषां वपाभिः प्रचरेयुर्यवेतरेषाम् पशूनां हविर्भिः प्रचरन्ति तदेवैतेषां हविषा प्रचरेयुरेकानुवाक्या एका याज्यैकदेवत्या हि प्रजापतय इत्युपांशूक्त्वा छागानां हविषो ऽनुब्रूहीति प्रजापतय इत्युपांशूक्त्वा छागानां हविः प्रस्थितम् प्रेष्येति वषट्कृते जुहोति॥
तं वै माध्यन्दिने सवने ऽभिषिञ्चति॥
माध्यन्दिने सवन आजिं धावन्त्येष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तन्मध्यत एवैतत्प्रजापतिमुज्जयति॥
अगृहीते माहेन्द्रे॥
एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रो ऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानस्तदेनं स्व एवायतने ऽभिषिञ्चति तस्मादगृहीते माहेन्द्रे॥
अथ रथमुपावहरति॥
इन्द्रस्य वज्रो ऽसीति वज्रो वै रथ इन्द्रो वै यजमानस्तस्मादाहेन्द्रस्य वज्रो ऽसीति वाजसा इति वाजसा हि रथस्त्वयायं वाजं सेदित्यन्नं वै वाजस्त्वयायमन्नमुज्जयत्वित्येवैतदाह॥
तं धूर्गृहीतमन्तर्वेद्यभ्यववर्तयति॥
वाजस्य नु प्रसवे मातरम् महीमित्यन्नं वै वाजो ऽन्नस्य नु प्रसवे मातरम् महीमित्येवैतदाहादितिं नाम वचसा करामहा इतीयं वै पृथिव्यदितिस्तस्मादाहादितिं नाम वचसा करामह इति यस्यामिदं विश्वम् भुवनमाविवेशेत्यस्यां हीदं सर्वम् भुवनमाविष्टं तस्यां नो देवः सविता धर्म साविषदिति तस्यां नो देवः सविता यजमानं सवतामित्येवैतदाह॥
अथाश्वानद्भिरभ्युक्षति॥
स्नपनायाभ्यवनीयमानान्त्स्नपितान्वोदानीतानद्भ्यो ह वा अग्रे ऽश्वः सम्बभूव सो ऽद्भ्यः सम्भवन्नसर्वः समभवदसर्वो हि वै समभवत्तस्मान्न सर्वैः पद्भिः प्रतितिष्ठत्येकैकमेव पादमुदच्य तिष्ठति तद्यदेवास्यात्राप्स्वहीयत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादश्वानद्भिरभ्युक्षति स्नपनायाभ्यवनीयमानान्त्स्नपितान्वोदानीतान्॥
सो ऽभ्युक्षति॥
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवत वाजिन इत्यनेनापि देवीरापो यो व ऊर्मिः प्रतूर्तिः ककुन्मान्वाजसास्तेनायं वाजं सेदित्यन्नं वै वाजस्तेनायमन्नमुज्जयत्वित्येवैतदाह॥
अथ रथं युनक्ति॥
स दक्षिणायुग्यमेवाग्रे युनक्ति सव्यायुग्यं वा अग्रे मानुषे ऽथैवं देवत्रा॥
स युनक्ति॥
वातो वा मनो वेति न वै वातात्किम् चनाशीयो ऽस्ति न मनसः किं चनाशीयो ऽस्ति तस्मादाह वातो वा मनो वेति गन्धर्वाः सप्तविंशतिस्ते ऽग्रे ऽश्वमयुञ्जन्निति गन्धर्वा ह वा अग्रे ऽश्वं युयुजुस्तद्ये ऽग्रे ऽश्वमयुञ्जंस्ते त्वा युञ्जन्त्वित्येवैतदाह ते अस्मिन्जवमादधुरिति तद्ये ऽस्मिन्जवमादधुस्ते त्वयि जवमादधत्वित्येवैतदाह॥
अथ सव्यायुग्यं युनक्ति॥
वातरंहा भववाजिन्युज्यमान इति वातजवो भव वाजिन्युज्यमान इत्येवैतदाहेन्द्रस्येव दक्षिणः श्रियैधीति यथेन्द्रस्य दक्षिणः श्रियैवं यजमानस्य श्रियैधीत्येवैतदाह युञ्जन्तु त्वा मरुतो विश्ववेदस इति युञ्जन्तु त्वा देवा इत्येवैतदाह ते त्वष्टा पत्सु जवं दधात्विति नात्र तिरोहितमिवास्त्यथ दक्षिणाप्रष्टिं युनक्ति सव्याप्रष्टिं वा अग्रे मानुषे ऽथैवं देवत्रा॥
स युनक्ति॥
जवो यस्ते वाजिन्निहितो गुहा यः श्येने परीत्तो अचरच्च वात इति जवो यस्ते बाजिन्नप्यन्यत्राषनिहितस्तेन न इमं यज्ञम् प्रजापतिमुज्जयेत्येवैतदाह तेन नो वाजिन्बलवान्बलेन वाजजिच्च भव समने च पारयिष्णुरित्यन्नं वै वाजो ऽन्नजिच्च न एध्यस्मिंश्च नो यज्ञे देवसमन इमं यज्ञम् प्रजापतिमुज्जयेत्येवैतदाह॥
ते वा एत एव त्रयो युक्ता भवन्ति॥
त्रिवृद्धि देवानां तद्धि देवत्राधिप्रष्टियुग एव चतुर्थो ऽन्वेति मानुषा हि स तं यत्र दास्यन्भवति तच्चतुर्थमुपयुज्य ददाति तस्मादपीतरस्मिन्यज्ञ एत एव त्रयो युक्ता भवन्ति त्रिवृद्धि देवानां तद्धि देवत्राधिप्रष्टियुग एव चतुर्थो ऽन्वेति मानुषो हि स तं यत्र दास्यन्भवति तच्चतुर्थमुपयुज्य ददाति॥
अथ भार्हस्पत्यं चरुम् नैवारं सप्तदशशरावं निर्वपति अन्नं वा एष उज्जयति यो वाजपेयेन यजते ऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तदेवास्मा एतत्करोति॥
अथ यद्बार्हस्पत्यो भवति॥
बृहस्पतिर्ह्येतमग्र उदजयत्तस्माद्बार्हस्पत्यो भवति॥
अथ यन्नैवारो भवति॥
ब्रह्म वै बृहस्पतिरेते वै ब्रह्मणा पच्यन्ते यन्नीवारास्तस्मान्नैवारो भवति सप्तदशशरावो भवति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
तमश्वानवघ्रापयति॥
वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित इत्यन्नं वै वाजो ऽन्नजित इत्येवैतदाह वाजं सरिष्यन्त इत्याजिं हि सरिष्यन्तो भवन्ति बृहस्पतेर्भागमवजिघ्रतेति बृहस्पतेर्ह्येष भागो भवति तस्मादाह बृहस्पतेर्भागमवजिघ्रतेति तद्यदश्वानवघ्रापयतीममुज्जयानीति तस्माद्वा अश्वानवघ्रापयति॥
तद्यदाजिं धावन्ति॥
इममेवैतेन लोकमुज्जयत्यथ यद्ब्रह्मा रथचक्रे साम गायति नाभिदघ्न उद्धिते ऽन्तरिक्षलोकमेवैतेनोज्जयत्यथ यद्यूपं रोहति देवलोकमेवैतेनोज्जयति तस्माद्वा एतत्त्रयं क्रियते॥
स ब्रह्मा रथचक्रमधिरोहति॥
नाभिदघ्न उद्धितं देवस्याहं सवितुः सवे सत्यसवसो बृहस्पतेरुत्तमं नाकं रुहेयमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः॥
अथ यदि राजन्यो यजते॥
देवस्याहं सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकं रुहेयमिति क्षत्रं हीन्द्रं क्षत्रं राजन्यः॥
त्रिः सामाभिगायति॥
त्रिरभिगीयावरोहति देवस्याहं सवितुः सवे सत्यप्रसवसो बृहस्पतेरुत्तमं नाकमरुहमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः॥
अथ यदि राजन्यो यजते॥
देवस्याहं सवितुः सवे सत्यप्रसवस इन्द्रस्योत्तमं नाकमरुहमिति क्षत्रं हीन्द्रः क्षत्रं राजन्यः॥
अथ सप्तदश दुन्दुभीननुवेद्यन्तं सम्मिन्वन्ति॥
प्रतीच आग्नीध्रात्प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजते वाग्वै प्रजापतिरेषा वै परमा वाग्या सप्तदशानां दुन्दुभीनाम् परमामेवैतद्वाच परमम् प्रजापतिमुज्जयति सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
अथैतेषां दुन्दुभीनाम्॥
एकं यजुषाहन्ति तत्सर्वे यजुषाहता भवन्ति॥
स आहन्ति॥
बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयतेति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः॥
अथ यदि राजन्यो यजते॥
इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयतेति क्षत्रं हीन्द्रः क्षत्रं राजन्यः॥
अथैतेष्वाजिसृत्सु रथेषु॥
पुनरासृतेष्वेतेषां दुन्दुभीनामेकं यजुषोपावहरति तत्सर्वे यजुषोपावहृता भवन्ति॥
स उपावहरति॥
एषा वः सा सत्या संवागभूद्यया बृहस्पतिं वाजमजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो विमुच्यध्वमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः॥
अथ यदि राजन्यो यजते॥
एषा वः सा सत्या संवागभूद्ययेन्द्रं वाजमजीजपताजीजपतेन्द्रं वाजं वनस्पतयो विमुच्यध्वमिति क्षत्रं हीन्द्रः क्षत्रं राजन्यः॥
अथ वेद्यन्तात्॥
राजन्य उदङ् सप्तदश प्रव्याधान्प्रविध्यति यावान्वा एकः प्रव्याधस्तावांस्तिर्यङ् प्रजापतिरथ यावत्सप्तदश प्रव्याधास्तावानन्वङ् प्रजापतिः॥
तद्यद्राजन्यः प्रविध्यति॥
एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेकः सन्बहूनामीष्टे यद्वेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यस्तस्माद्राजन्यः प्रविध्यति सप्तदश प्रव्याधान्प्रविध्यति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति॥
अथ यं यजुषा युनक्ति॥
तं यजमान आतिष्ठति देवस्याहं सवितुः सवे सत्यप्रसवसो बृहस्पतेर्वाजजितो वाजं जेषमिति॥
तद्यथैवादो बृहस्पतिः॥
सवितारम् प्रसवायोपाधावत्सविता वै देवानाम् प्रसवितेदम् मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रासुवतत्सवितृप्रसूत उदजयदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानाम् प्रसवितेदम् मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रसौति तत्सवितृप्रसूत उज्जयति॥
अथ यद्यध्वर्योः॥
अन्तेवासी वा ब्रह्मचारी वैतद्यजुरधीयात्सो ऽन्वास्थाय वाचयति वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित इत्यन्नं वै वाजो ऽन्नजित इत्येवैतदाहाध्वन स्कभ्नुवन्त इत्यध्वनो हि स्कभ्नुवन्तो धावन्ति योजना मिमाना इति योजनशो हि मिमाना अध्वानं धावन्ति काष्ठां गछतेति यथैनानन्तरा नाष्ट्रा रक्षांसि न हिंस्युरेवमेतदाह धावन्त्याजिमाघ्नन्ति दुन्दुभीनभि साम गायति॥
अथैताभ्यां जगतीभ्याम्॥
जुहोति वानु वा मन्त्रयते यदि जुहोति यद्यनुमन्त्रयते समान एव बन्धुः॥
स जुहोति॥
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि क्रतुं दधिक्रा अनु संसनिष्यदत्पथामङ्कांस्यन्वापनीफणत्स्वाहा॥
उत स्म॥
अस्य द्रवतस्तुरण्यतः पर्णं न वेरनुवाति प्रगर्धिनः श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः स्वाहेति॥
अथोत्तरेण त्रिचेन॥
जुहोति वानु वा मन्त्रयते द्वयं तद्यस्माज्जुहोति वानु वा मन्त्रयते यदि जुहोति यद्यनुमन्त्रयते समान एव बन्धुरेतानेवैतदश्वान्धावत उपवाजयत्येतेषु वीर्यं दधाति तिस्रो वा इमाः पृथिव्य इयमहैका द्वे अस्याः परे ता एवैतदुज्जयति॥
सो ऽनुमन्त्रयते॥
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः॥
ते नो अर्वन्तः॥
हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः सहस्रसा मेघसाता सनिष्यवो महो ये धनं समिथेषु जभ्रिरे॥
वाजे-वाजे ऽवत॥
वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैरिति॥
अथ बार्हस्पत्येन चरुणा प्रत्युपतिष्ठते॥
तमुपस्पृशत्यन्नं वा एष उज्जयति यो वाजपेयेन यजते ऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते॥
स उपस्पृशति॥
आ मा वाजस्य प्रसवो जगम्यादित्यन्नं वै वाज आ मान्नस्य प्रसवो जगम्यादित्येवैतदाहेमे द्यावापृथिवी विश्वरूपे इति द्यावापृथिवी हि प्रजापतिरा मा गन्ताम् पितरामातरा चेति मातेव च हि पितेव च प्रजापतिरा मा सोमो अमृतत्वेन गम्यादिति सोमो हि प्रजापतिः॥
तमश्वानवघ्रापयति॥
वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित इत्यन्नं वै वाजो ऽन्नजित इत्येवैतदाह वाजं सवृवांसं इति सरिष्यन्त इति वा अग्र आह सरिष्यन्त इव हि तर्हि भवन्त्यथात्र ससृवांस इति सवृवांस इव ह्यत्र भवन्ति तस्मादाह ससृवांस इति बृहस्पतेर्भागमवजिघ्रतेति बृहस्पतेर्ह्येष भागो भवति तस्मादाह बृहस्पतेर्भागमवजिघ्रतेति निमृजाना इति तद्यजमाने वीर्यं दधाति तद्यदश्वानवघ्रापयतीममुज्जयानीति वा अग्रे ऽवघ्रापयत्यथात्रेममुदजैषमिति तस्माद्वा अश्वानवघ्रापयति॥
अथैतेषामाजिश्रितां रथानाम्॥
एकस्मिन्वैश्यो वा राजन्यो वोपास्थितो भवति स वेदेरुत्तरायां श्रोणा उपविशत्यथाध्वर्युश्च यजमानश्च पूर्वया द्वारा मधुग्रहमादाय निष्क्रामतस्तं वैश्यस्य वा राजन्यस्य वा प्राणावाधत्तो ऽथ नेष्टापरया द्वारा सुराग्रहानादाय निष्क्रामति स जघनेन शालाम् पर्येत्यैकं वैश्यस्य वा राजन्यस्य वा प्राणावादधदाहानेन त इमं निष्क्रीणामीति सत्यं वै श्रीर्ज्योतिः सोमो ऽनृतम् पाप्मा तमः सुरा सत्यमेवैतछ्रियं ज्योतिर्यजमाने दधात्यनृतेन पाप्मना तमसा वैश्यं विध्यति तैः स यम् भोगं कामयते तं कुरुते ऽथैतं सहिरण्यपात्रमेव मधुग्रहम् ब्रह्मणे ददाति तम् ब्रह्मणे दददमृतमायुर् आत्मन्धत्ते ऽमृतं ह्यायुर्हिरण्यं तेन स यम् भोगं कामयते तं कुरुते॥