प्रजापतिर्वा एष यदंशुः॥
सो ऽस्यैष आत्मैवात्मा ह्ययम् प्रजापतिस्तदस्यैतमात्मानं कुर्वन्ति यत्रैतं गृह्णन्ति तस्मिन्नेतान्प्राणान्दधाति यथा यथैते प्राणा ग्रहा व्याख्यायन्ते स ह सर्वतनूरेव यजमानो ऽमुष्मिंलोके सम्भवति॥
तदारम्भणवत्॥
यत्रैतं गृह्णन्त्यथैतदनारम्भणमिव यत्रैतं न गृह्णन्ति तस्माद्वा अंशुं गृह्णाति॥
तं वा औदुम्बरेण पात्रेण गृह्णाति॥
प्रजापतिर्वा एष प्राजापत्य उदुम्बरस्तस्मादौदुम्बरेण पात्रेण गृह्णाति॥
तं वै चतुःस्रक्तिना पात्रेण गृह्णाति॥
त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांलोकांश्चतुर्थस्तत्प्रजापतिमेव चतुर्थ्याप्नोति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति॥
स वै तूष्णीमेव ग्रावाणमादत्ते॥
तूष्णीमंशून्निवपति तूष्णीमप उपसृजति तूष्णीमुद्यत्य सकृदभिषुणोति तूष्णीमेनमनवानन्जुहोति तदेनम् प्रजापतिं करोति॥
अथास्यां हिरण्यम् बद्धम् भवति॥
तदुपजिघ्रति स यदेवात्र क्षणुते वा वि वा लिशते ऽमृतमायुर्हिरण्यं तदमृतमायुरात्मन्धत्ते॥
तदु होवाच राम औपतस्विनिः॥
काममेव प्राण्यात्काममुदन्याद्यद्वै तूष्णीं जुहोति तदेवैनम् प्रजापतिं करोतीति॥
अथास्यां हिरण्यम् बद्दम् भवति॥
तदुपजिघ्रति स यदेवात्र क्षणुते वा वि वा लिशते ऽमृतमायुर्हिरण्यं तदमृतमायुरात्मन्धत्ते॥
तदु होवाच बुडिल आश्वतराश्विः॥
उद्यत्यैव गृह्णीयान्नाभिषुणुयादभिषुण्वन्ति वा अन्याभ्यो देवताभ्यस्तदन्यथा ततः करोति यथो चान्याभ्यो देवताभ्यो ऽथ यदुद्यछति तदेवास्याभिषुतम् भवतीति॥
तदु होवाच याज्ञवल्क्यः॥
अभ्येव षुणुयान्न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतास इत्यृषिणाभ्यनूक्तं न वा अन्यस्यै कस्यै चन देवतायै सकृदभिषुणोति तदन्यथा ततः करोति यथो चान्याभ्यो देवताभ्यस्तस्मादभ्येव षुणुयादिति॥
तस्य द्वादश प्रथमगर्भाः॥
पष्ठौह्यो दक्षिणा द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिरंशुस्तदेनम् प्रजापतिं करोति॥
तासां द्वादश गर्भाः॥
ताश्चतुर्विंशतिश्चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिरंशुस्तदेनम् प्रजापतिं करोति॥
तदु ह कौकूस्तः॥
चतुर्विंशतिमेवैताः प्रथमगर्भाः पष्ठौहीर्दक्षिणा ददावृषभम् पञ्चविंशं हिरण्यमेतदु ह स ददौ॥
स वा एष न सर्वस्येव ग्रहीतव्यः॥
आत्मा ह्यस्यैष यो न्वेव ज्ञातस्तस्य ग्रहीतव्यो यो वास्य प्रियः स्याद्यो वानूचानो ऽनूक्तेनैनम् प्राप्नुयात्॥
सहस्रे ग्रहीतव्यः॥
सर्वं वै सहस्रं सर्वमेष सर्ववेदसे ग्रहीतव्यः सर्वं वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्ठे ग्रहीतव्यः सर्वं वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये ग्रहीतव्यः सर्वं हि तत्सत्त्रे ग्रहीतव्यः सर्वं वै सत्त्रं सर्वमेष एतानि ग्रहणानि॥
एतं वा एते गछन्ति॥
षड्भिर्मासैर्य एष तपति ये संवत्सरमासते तदुच्यत एव सामतो यथैतस्य रूपं क्रियत उच्यत ऋक्तो ऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं गृह्णन्त्येतेनो एवैनं गछन्ति॥
अथातो गृह्णात्येव॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति॥
अथातः पश्वयनस्यैव॥
पश्वेकादशिन्यैवेयात्स आग्नेयम् प्रथमम् पशुमालभते ऽथ वारुणमथ पुनराग्नेयमेवमेवैतया पश्वेकादशिन्येयात्॥
अथो अप्यैन्द्राग्नमेवाहरहः पशुमालभेत॥
अग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वतीन्द्रो वै यज्ञस्य देवता तत्सर्वाश्चैवैतद्देवता नापराध्नोति यो च यज्ञस्य देवता तां नापराध्नोति॥
अथात स्तोमायनस्यैव॥
आग्नेयमग्निष्टोम आलभेत तद्धि सलोम यदाग्नेयमग्निष्टोम आलभेत यद्युक्थ्यः स्यादैन्द्राग्नं द्वितीयमालभेतैन्द्राग्नानि ह्युक्थानि यदि षोडशी स्यादैन्द्रं तृतीयमालभेतेन्द्रो हि षोडशी यद्यतिरात्रः स्यात्सारस्वतं चतुर्थमालभेत वाग्वै सरस्वती योषा वै वाग्योषा रात्रिस्तद्यथायथं यज्ञक्रतून्व्यावर्तयत्येतानि त्रीण्ययनानि तेषां यतमत्कामयेत तेनेयाद्द्वा उपालम्भ्यौ पशू सौर्यं द्वितीयम् पशुमालभते वैषुवते ऽहन्प्राजापत्यम् महाव्रते॥
अथातो महाव्रतीयस्यैव॥
प्रजापतेर्ह वै प्रजाः ससृजानस्य पर्वाणि विसस्रंसुः स विस्रस्तैः पर्वभिर्न शशाक संहातुं ततो देवा अर्चन्तः श्राम्यन्तश्चेरुस्त एतम् महाव्रतीयं ददृशुस्तमस्मा अगृह्णस्तेनास्य पर्वाणि समदधुः॥
स संहितैः पर्वभिः॥
इदमन्नाद्यमभ्युत्तस्थौ यदिदम् प्रजापतेरन्नाद्यं यद्वै मनुष्याणामशनं तद्देवानां व्रतम् महद्वा इदं व्रतमभूद्येनायं समहास्तेति तस्मान्महाव्रतीयो नाम॥
एवं वा एते भवन्ति॥
ये संवत्सरमासते यथैव तत्प्रजापतिः प्रजाः ससृजान आसीत्स यथैव तत्प्रजापतिः संवत्सरे ऽन्नाद्यमभ्युदतिष्ठदेवमेवैत एतत्संवत्सरे ऽन्नाद्यमभ्युत्तिष्ठन्ति येषामेवं विदुषामेतं ग्रहं गृह्णन्ति॥
तं वा इन्द्रायैव विमृधे गृह्णीयात्॥
सर्वा वै तेषाम् मृधा हता भवन्ति सर्वं जितं ये संवत्सरमासते तस्माद्विमृधे वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः॥
यो अस्मान् अभिदासत्यधरं गमया तमः॥
उपयामगृहीतो ऽसीन्द्राय त्वा विमृध एष ते योनिरिन्द्राय त्वा विमृध इति॥
अथो विश्वकर्मणे॥
विश्वं वै तेषां कर्म कृतं सर्वं जितम् भवति ये संवत्सरमासते तस्माद्विश्वकर्मणे वाचस्पतिम् विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम॥
स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्ना उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मण इति॥
यद्यु ऐन्द्रीं वैश्वकर्मणीं विद्यात्॥
तथैव गृह्णीयाद्विश्वकर्मन्हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम्॥
तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत्॥
उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मण इति॥
एष वै ग्रहः॥
य एष तपति येनेमाः सर्वाः प्रजा गृहीतास्तस्मादाहुर्ग्रहान्गृह्णीम इति चरन्ति ग्रहगृहीताः सन्त इति॥
वागेव ग्रहः॥
वाचा हीदं सर्वं गृहीतं किमु तद्यद्वाग्ग्रहः॥
नामैव ग्रहः॥
नाम्ना हीदं सर्वं गृहीतं किमु तद्यन्नाम ग्रहो बहूनां वै नामानि विद्माथ नस्तेन ते न गृहीता भवन्ति॥
अन्नमेव ग्रहः॥
अन्नेन हीदं सर्वं गृहीतं तस्माद्यावन्तो नो ऽशनमश्नन्ति ते नः सर्वे गृहीता भवन्त्येषैव स्थितिः॥
स य एष सोमग्रहः॥
अन्नं वा एष स यस्यै देवताया एतं ग्रहम् गृह्णाति सास्मै देवतैतेन ग्रहेण गृहीता तं कामं समर्धयति यत्काम्या गृह्णाति स उद्यन्तं वादित्यमुपतिष्ठते ऽस्तं यन्तं वा ग्रहो ऽस्यमुमनयार्त्या गृहाणासावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समर्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुः को नो दक्षिणत आसिष्यते ऽथाभये ऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति॥
ते होचुः॥
य एव नो वीर्यवत्तमः स दक्षिणत आस्तामथाभये ऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति॥
ते होचुः॥
इन्द्रो वै नो वीर्यवत्तम इन्द्रो दक्षिणत आस्तामथाभये ऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति॥
ते हेन्द्रमूचुः॥
त्वं वै नो वीर्यवत्तमो ऽसि त्वं दक्षिणत आस्वाथाभये नाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति॥
स होवाच॥
किम् मे ततः स्यादिति ब्राह्मणाछंस्या ते ब्रह्मसाम त इति तस्माद्ब्राह्मणाछंसिनम् प्रवृणीत इन्द्रो ब्रह्मा ब्राह्मणादितीन्द्रस्य ह्येषा स इन्द्रो दक्षिणत आस्ताथाभये नाष्ट्र उत्तरतो यज्ञमुपाचरंस्तस्माद्य एव वीर्यवत्तमः स्यात्स दक्षिणत आसीताताभये ऽनाष्ट्र उत्तरतो यज्ञमुपचरेयुर्यो वै ब्राह्मणानामनूचानतमः स एषां वीर्यवत्तमो ऽथ यदिदं य एव कश्च ब्रह्मा भवति कुवित्तूष्णीमास्त इति तस्माद्य एव वीर्यवत्तमः स्यात्स दक्षिणत आसीताथाभये ऽनाष्ट्र उत्तरतो यज्ञमुपचरेयुस्तस्माद्ब्राह्मणा दक्षिणत आसते ऽथाभये ऽनाष्ट्र उत्तरतो यज्ञमुपचरन्ति॥
स यत्राह॥
ब्रह्मन्त्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा जपत्येतं ते देव सवितर्यज्ञम् प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव स्तुत सवितुः प्रसव इति सो ऽसावेव बन्धुरेतेन न्वेव भूयिष्ठा इवोपचरन्ति॥
अनेन त्वेवोपचरेत्॥
देव सवितरेतद्बृहस्पते प्रेति तत्सवितारम् प्रसवायोपधावति स हि देवानाम् प्रसविता बृहस्पते प्रेति बृहस्पतिर्वै देवानाम् ब्रह्मा तद्य एव देवानाम् ब्रह्मा तस्मा एवैतत्प्राह तस्मादाह बृहस्पते प्रेति॥
अथ मैत्रावरुणो जपति॥
प्रसूतं देवेन सवित्रा जुष्टम् मित्रावरुणाभ्यामिति तत्सवितारम् प्रसवायोपधावति स हि देवानाम् प्रसविता जुष्टम् मित्रावरुणाभ्यामिति मित्रावरुणौ वै मैत्रावरुणस्य देवते तद्ये एव मैत्रावरुणस्य देवते ताभ्यामेवैतत्प्राह तस्मादाह जुष्टम् मित्रावरुणाभ्यामिति॥
त्रयी वै विद्या॥
ऋचो यजूंषि सामानीयमेवर्चो ऽस्यां ह्यर्चति यो ऽर्चति स वागेवर्चो वाचा ह्यर्चति यो ऽर्चति सो ऽन्तरिक्षमेव यजूंषि द्यौः सामानि सैषा त्रयी विद्या सौम्ये ऽध्वरे प्रयुज्यते॥
इममेव लोकमृचा जयति॥
अन्तरिक्षं यजुषा दिवमेव साम्ना तस्माद्यस्यैका विद्यानूक्ता स्यादन्वेवापीतरयोर्निर्मितं विवक्षेतेममेव लोकमृचा जयत्यन्तरिक्षं यजुषा दिवमेव साम्ना॥
तद्वा एतत्॥
सहस्रम् वाचः प्रजातं द्वे इन्द्रस्तृतीये तृतीयं विष्णुरृचश्च सामानि चेन्द्रो यजूंषि विष्णुस्तस्मात्सदस्यृक्सामाभ्यां कुर्वन्त्यैन्द्रं हि सदः॥
अथैतं विष्णुं यज्ञम्॥
एतैर्यजुर्भिः पुर इवैव बिभ्रति तस्मात्पुरश्चरणं नाम॥
वागेवर्चश्च सामानि च॥
मन एव यजूंषि सा यत्रेयं वागासीत्सर्वमेव तत्राक्रियत सर्वम् प्राज्ञायताथ यत्र मन आसीन्नैव तत्र किं चनाक्रियत न प्राज्ञायत नो हि मनसा ध्यायतः कश्चनाजानाति॥
ते देवा वाचमब्रुवन्॥
प्राची प्रेहीदम् प्रज्ञपयेति सा होवाच किम् मे ततः स्यादिति यत्किं चावषट्कृतं स्वाहाकारेण यज्ञे हूयते तत्त इति तस्माद्यत्किं चावषट्कृतं स्वाहाकारेण यज्ञे हूयते तद्वाचः सा प्राची प्रैत्सैतत्प्राज्ञपयदितीदं कुरुतेतीदं कुरुतेति॥
तस्मादु कुर्वन्त्येवर्चा हविर्धाने॥
प्रातरनुवाकमन्वाह सामिधेनीरन्वाह ग्राव्णो ऽभिष्टौत्येवं हि सयुजावभवताम्॥
तस्मादु कुर्वन्त्येव सदसि॥
यजुष्टौदुम्बरीमुछ्रयन्ति सदः समिन्वन्ति धिष्ण्यानुपकिरन्त्येवं हि सयुजावभवताम्॥
तद्वा एतत्सदः परिश्रयन्ति॥
एतस्मै मिथुनाय तिर इवेदम् मिथुनं चर्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येव द्रवत आग एव कुर्वाते तस्मादद्वारेण सदः प्रेक्षमाणम् ब्रूयान्मा प्रेक्षथा इति यथा ह मिथुनं चर्यमाणम् पश्येदेवं तत्कामं द्वारेण देवकृतं हि द्वारम्॥
एवमेवैतद्धविर्धानम् परिश्रयन्ति॥
एतस्मै मिथुनाय तिर इवेदम् मिथुनं चर्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येव द्रवत आग एव कुर्वाते तस्मादद्वारेण हविर्धानम् प्रेक्षमाणम् ब्रूयान्मा प्रेक्षथा इति यथा ह मिथुनं चर्यमाणम् पश्येदेवं तत्कामं द्वारेण देवकृतं हि द्वारम्॥
तद्वा एतद्वृषा साम॥
योषामृचं सदस्यध्येति तस्मान्मिथुनादिन्द्रो जातस्तेजसो वै तत्तेजो जातं यदृचश्च साम्नश्चेन्द्र इन्द्र इति ह्येतमाचक्षते य एष तपति॥
अथैतद्वृषा सोमः॥
योषा अपो हविर्धाने ऽध्येति तस्मान्मिथुनाच्चन्द्रमा जातो ऽन्नाद्वै तदन्नं जातं यदद्ब्यश्च सोमाच्च चन्द्रमाश्चन्द्रमा ह्येतस्यान्नं य एष तपति तद्यजमानं चैवैतज्जनयत्यन्नाद्यं चास्मै जनयत्यृचश्च साम्नश्च यजमानं जनयत्यद्भ्यश्च सोमाच्चास्मा अन्नाद्यम्॥
यजुषा ह वै देवाः॥
अग्रे यज्ञं तेनिरे ऽथर्चाथ साम्ना तदिदमप्येतर्हि यजुषैवाग्रे यज्ञं तन्वते ऽथर्चाथ साम्ना यजो ह वै नामैतद्यद्यजुरिति॥
यत्र वै देवाः॥
इमा विद्याः कामान्दुदुह्रे तद्ध यजुर्विद्यैव भूयिष्ठान्कामान्दुदुहे सा निर्धीततमेवास सा नेतरे विद्य प्रत्यास नान्तरिक्षलोक इतरौ लोकौ प्रत्यास॥
ते देवा अकामयन्त॥
कथं न्वियं विद्येतरे विद्ये प्रतिस्यात्कथमन्तरिक्षलोक इतरौ लोकौ प्रतिस्यादिति॥
ते होचुः॥
उपांश्वेव यजुर्भिश्चराम तत एषा विद्येतरे विद्ये प्रतिभविष्यति ततो ऽन्तरिक्षलोक इतरौ लोकौ प्रतिभविष्यतीति॥
तैरुपांश्वचरन्॥
आप्याययन्नेवैनानि तत्तत एषा विद्येतरे विद्ये प्रत्यासीत्ततो ऽन्तरिक्षलोक इतरौ लोकौ प्रत्यासीत्तस्माद्यजूंषि निरुक्तानि सन्त्यनिरुक्तानि तस्मादयमन्तरिक्षलोको निरुक्तः सन्ननिरुक्तः॥
स य उपांशु यजुर्भिश्चरति॥
आप्याययत्येवैनानि स तान्येनमापीनान्याप्याययन्त्यथ य उच्चैश्चरति रूक्षयत्येवैनानि स तान्येनं रूक्षाणि रुक्षयन्ति॥
वागेवर्चश्च सामानि च॥
मन एव यजूंषि स य ऋचा च साम्ना च चरन्ति वाक्ते भवन्त्यथ ये यजुषा चरन्ति मनस्ते भवन्ति तस्मान्नानभिप्रेषितमध्वर्युणा किं चन क्रियते यदैवाध्वर्युराहानुब्रूहि यजेत्यथैव ते कुर्वन्ति य ऋचा कुर्वन्ति यदैवाध्वर्युराह सोमः पवत उपावर्तध्वमित्यथैव ते कुर्वन्ति ये साम्ना कुर्वन्ति नो ह्यनभिगतम् मनना वाग्वदति॥
तद्वा एतन्मनो ऽध्वर्युः॥
पुर इवैव चरति तस्मात्पुरश्चरणं नाम पुर इव ह वै श्रिया यशसा भवति य एवमेतद्वेद॥
तद्वा एतदेव पुरश्चरणम्॥
य एष तपति स एतस्यैवावृता चरेद्ग्रहं गृहीत्वैतस्यैवावृतमन्वावर्तेत प्रतिगीर्यैतस्यैवावृतमन्वावर्तेत ग्रहं हुत्वैतस्यैवावृतमन्वावर्तेत स हैष भर्ता स यो हैवं विद्वानेतस्यावृता शक्नोति चरितुं शक्नोति हैव भार्यान्भर्तुम्॥
या वै दीक्षा सा निषत्॥
तत्सत्त्रं तस्मादेनानासत इत्याहुरथ यत्ततो यज्ञं तन्वते तद्यन्ति तन्नयति यो नेता भवति स तस्मादेनान्यन्तीत्याहुः॥
या ह दीक्षा सा निषत्॥
तत्सत्त्रं तदयनं तत्सत्त्रायणमथ यत्ततो यज्ञस्योदृचं गत्वोत्तिष्ठन्ति तदुत्थानं तस्मादेनानुदस्थुरित्याहुरिति नु पुरस्ताद्वदनम्॥
अथ दीक्षिष्यमाणाः समवस्यन्ति॥
ते यद्यग्निं चेष्यमाणा भवन्त्यरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना॥
तस्य शिरो निदधति॥
तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति॥
अथ यदहरेषां दीक्षा समैति॥
अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र दीक्षिष्यमाणा भवन्ति गृहपतिरेव प्रथमो मन्थते मध्यम् प्रति शालाया अथेतरेषामर्धा दक्षिणत उपविशन्त्यर्धा उत्तरतो मथित्वोपसमाधायैकैकमेवोल्मुकमादायोपसमायन्ति गृहपतेर्गार्हपत्यं गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति नाना गार्हपत्या दीक्षोपसत्सु॥
अथ यदहरेषां क्रयो भवति॥
तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतानपरानग्नीन्हुत एव वैसर्जिने॥
राजानम् प्रणयति॥
उद्यत एवैष आग्नीध्रीयो ऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति तैरेव तेषामुल्मुकैः प्रघ्नन्तीति स स्माह याज्ञवल्क्यो ये तथा कुर्वन्तीत्येतन्न्वेकमयनम्॥
अथेदं द्वितीयम्॥
अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना॥
तस्य शिरो निदधति॥
तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति॥
अथ यदहरेषां दीक्षा समैति॥
अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र दीक्षिष्यमाणा भवन्ति गृहपतिरेव प्रथमो मन्थते ऽथेतरे पर्युपविश्य मन्थन्ते ते जातं जातमेवानुप्रहरन्ति गृहपतेर्गार्हपत्ये गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति समानो गार्हपत्यो दीक्षोपसत्सु॥
अथ यदहरेषां क्रयो भवति॥
तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतमपरमग्निं हुत एव वैसर्जिने॥
राजानम् प्रणयति॥
उद्यत एवैष आग्नीध्रीयो ऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति समदमु हैव ते कुर्वन्ति समद्धैनान्विन्दत्यर्तुका ह भवन्त्यपि ह तमर्धं समद्विन्दति यस्मिन्नर्धे यजन्ते ये तथा क्॥
अथेदं तृतीयम्॥
गृहपतेरेवारण्योः संवदन्ते य इतो उर्वन्त्येतद्द्वितीयमयनम्॥
अथेदं तृतीयम्॥
गृहपतेरेवारण्योः संवदन्ते य इतो ऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामो ऽनेन पशुबन्धेन तन्नः सह सह नः साधुकृत्या य एव पापं करवत्तस्यैव तदित्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयते ऽथेतरेभ्यः समारोहयति स्वयं वैव समारोहयन्ते त आयन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना॥
तस्य शिरो निदधति॥
तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति॥
अथ यदहरेषां दीक्षा समैति॥
गृहपतेरेवारण्योः संवदन्ते य इतो ऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेस्यामो ऽनेन सत्त्रेण तन्नः सह सह नः साधुकृत्या य एव पपं करवत्तस्यैव तदित्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयते ऽथेतरेभ्यः समारोहयति स्वयं वैव समारोहयन्ते त आयन्ति यत्र दीक्षिष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति समानो गार्हपत्यो दीक्षोपसत्सु॥
अथ यदहरेषां क्रयो भवति॥
तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतमपरमग्निं हुत एव वैसर्जिने॥
राजानम् प्रणयति॥
उद्यत एवैष आग्नीध्रीयो ऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति तत्तत्कृतं नाकृतं यन्नानाधिष्ण्या भवन्ति वरीयानाकाशो ऽसत्परिचरणायेत्यथ यन्नानापुरोडाशा भूयो हविरुछिष्टमसत्समाप्त्या इति॥
अथ येन सत्त्रेण देवाः॥
क्षिप्र एव पाप्मानमपाघ्नतेमां जितिमजयन्यैषामियं जितिस्तदत उद्यत एकगृहपतिका वै देवा एकपुरोडाशा एकधिष्ण्याः क्षिप्र एव पाप्मानमपाघ्नत क्षिप्रे प्राजायन्त तथो एवैत एकगृहपतिका एकपुरोडाशा एकधिष्ण्याः क्षिप्र एव पाप्मानमपघ्नते क्षिप्रे प्रजायन्ते॥
अथादः पूर्वस्मिन्नुदीचीनवंशा शाला भवति॥
तन्मानुषं समान आहवनीयो भवति नाना गार्हपत्यास्तद्विकृष्टं गृहपतेरेव गार्हपत्ये जाघन्या पत्नीः संयाजयन्त्याज्येनेतरे प्रतियजन्त आसते तद्विकृष्टम्॥
अथात्र प्राचीनवंशा शाला भवति॥
तद्देवत्रा समान आहवनीयो भवति समानो गार्हपत्यः समान आग्नीध्रीयस्तदेतत्सत्त्रं समृद्धं यथैकाहः समृद्ध एवं तस्य न ह्वलास्ति तस्यैषैव समान्यावृद्यदन्यद्धिष्ण्येभ्यः॥
देवा ह वै सत्त्रमासत॥
श्रियं गछेम यशः स्यामान्नादाः स्यामेति तेभ्य एतदन्नाद्यमभिजितमपाचिक्रमिषत्पशवो वा अन्नम् पशवो हैवैभ्यस्तदपाचिक्रमिषन्यद्वै न इमे श्रान्ता न हिंस्युः कथमिव स्विन्नः सक्ष्यन्त इति॥
त एते गार्हपत्ये द्वे आहुती अजुहवुः॥
गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तदेनान्गृहेष्वेव न्ययछंस्तथैभ्य एतदन्नाद्यमभिजितं नापाक्रामत्॥
तथो एवेमे सत्त्रमासते॥
ये सत्त्रमासते श्रियं गछेम यशः स्यामान्नादाः स्यामेति तेभ्य एतदन्नाद्यमभिजितमपचिक्रमिषति पशवो वा अन्नम् पशवो हैवैभ्यस्तदपचिक्रमिषन्ति यद्वै न इमे श्रान्ता न हिंस्युः कथमिव स्विन्नः सक्ष्यन्त इति॥
त एते गार्हपत्ये द्वे आहुती जुह्वति गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तदेनान्गृहेष्वेव नियछन्ति तथैभ्य एतदन्नाद्यमभिजितं नापक्रामति॥
तथो एवैतस्मात्॥
एतदन्नाद्यमुपाहृतमपचिक्रमिषति यद्वै मायं न हिंस्यात्कथमिव स्विन्मा सक्ष्यत इति॥
तस्य परस्तादेवाग्रे ऽल्पश इव प्राश्नाति॥
तदेनदुपनिमदति तद्वेद न वै तथाभूद्यथामंसि न वै माहिंसीदिति तदेनमुपावश्रयते स ह प्रिय एवान्नस्यान्नादो भवति य एवं विद्वानेतस्य व्रतं शक्नोति चरितुम्॥
तद्वा एतत्॥
दशमे ऽहन्त्सत्त्रोत्थानं क्रियते तेषामेकैक एव वाचंयम आस्ते वाचमाप्याययंस्तयापीनयायातयाम्न्योत्तरमहस्तन्वते ऽथेतरे विसृज्यन्ते समिद्धारा वा स्वाध्यायं वा तत्राप्यश्नन्ति॥
ते ऽपराह्ण उपसमेत्य॥
अप उपस्पृश्य पत्नीशालं सम्प्रपद्यन्ते तेषु समन्वारब्धेष्वेते आहुती जुहोतीह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहेति पशूनेवैतदाह पशूनेवैतदात्मन्नियछन्ते॥
अथ द्वितीयां जुहीति॥
उपसृजन्धरुणम् मात्र इत्यग्निमेवैतत्पृथिव्या उपसृजन्नाह धरुणो मातरं धयन्नित्यग्निमेवैतत्पृथिवीं धयन्तमाह रायस्पोषमस्मासु दीधरत्स्वाहेति पशवो वै रायस्पोषः पशूनेवैतदात्मन्नियछन्ते॥
ते प्राञ्च उपनिष्क्रामन्ति॥
ते पश्चात्पाञ्चो हविर्धाने सम्प्रपध्यन्ते पुरस्ताद्वै प्रत्यञ्चस्तंस्यमाना अथैवं सत्रोत्थाने॥
त उत्तरस्य हविर्धानस्य॥
जघन्यायां कूबर्यां सामाभिगायन्ति सत्त्रस्य ऋद्धिरिति राद्धिमेवैतदभ्युत्तिष्ठन्त्युत्तरवेदेर्वोत्तरायां श्रोणावितरं तु कृततरम्॥
यदुत्तरस्य हविर्धानस्य॥
जघन्यायां कूबर्यामगन्म ज्योतिरमृता अभूमेति ज्योतिर्वा एते भवन्त्यमृता भवन्ति ये सत्त्रमासते दिवम् पृथिव्या अध्यारुहामेति दिवं वा एते पृथिव्या अध्यारोहन्ति ये सत्त्रमासते ऽविदाम देवानिति विन्दन्ति हि देवान्त्स्वर्ज्योतिरिति त्रिर्निधनमुपावयन्ति स्वर्ह्येते ज्योतिर्ह्येते भवन्ति तद्यदेवैतस्य साम्नो रूपं तदेवैते भवन्ति ये सत्त्रमासते॥
ते दक्षिणस्य हविर्धानस्य॥
अधो ऽधो ऽक्षम् सर्पन्ति स यथाहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यन्ते ऽतिच्छन्दसा सर्पन्त्येषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथैनान्पाप्मा नान्वत्येति तस्मादतिच्छन्दसा सर्पन्ति॥
ते सर्पन्ति॥
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तं तमिद्धतं वज्रेण तं-तमिद्धतम्॥
दूरे चत्ताय छन्त्सद्गहने यदिनक्षत्॥
अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इति॥
ते प्राञ्च उपनिष्क्रामन्ति॥
ते पुरस्तात्प्रत्यञ्चः सदः सम्प्रपद्यन्ते पश्चाद्वै प्राञ्चस्तंस्यमाना अथैवं सत्रोत्थाने॥
ते यथाधिष्ण्यमेवोपविशन्ति॥
देवेभ्यो ह वै वाचो रसो ऽभिजितो ऽपचिक्रमिषां चकार स इमामेव पराङत्यसिसृप्सदियं वै वाक्तस्या एष रसो यदोषधयो यद्वनस्पतयस्तमेतेन साम्नाप्नुवन्त्स एनानाप्तो ऽभ्यावर्तत तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतयस्तथो एवैतेभ्य एतद्वाचो रसो ऽभिजितो ऽपचिक्रमिषति स इमामेव पराङतिसिसृप्सतीयं वै वाक्तस्या एष रसो यदोषधयो यद्वनस्पतयस्तमेतेन साम्नाप्नुवन्ति स एनानाप्तो ऽभ्यावर्तते तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतयः॥
सर्पराज्ञ्या ऋक्षु स्तुवते॥
इयं वै पृथिवी सर्पराज्ञी तदनयैवैतत्सर्वमाप्नुवन्ति स्वयम्प्रस्तुतमनुपगीतं यथा नान्य उपशृणुयादति ह रेचयेद्यदन्यः प्रस्तुयादतिरेचयेद्यदन्य उपगायेदतिरेचयेद्यदन्य उपशृणुयात्तस्मात्स्वयम्प्रस्तुतमनुपगीतम्॥
चतुर्होतॄन्होता व्याचष्टे॥
एतदेवैतत्स्तुतमनुशंसति यदि होता न विद्याद्गृहपतिर्व्याचक्षीत होतुस्त्वेव व्याख्यानम्॥
अथाध्वर्योः प्रतिगरः॥
अरात्सुरिमे यजमाना भद्रमेभ्यो ऽभूदिति कल्याणमेवैतन्मानुष्यै वाचो वदति॥
अथ वाकोवाक्ये ब्रह्मोद्यं वदन्ति॥
सर्वं वै तेषामाप्तम् भवति सर्वं जितं ये सत्त्रमासते ऽचारिषुर्यजुर्भिस्तत्तान्यापंस्तदवारुत्सताशंसिषुरृचस्तत्ता आपस्तदवारुत्सतास्तोषत सामभिस्तत्तान्यापंस्तदवारुत्सताथैषामेतदेवानाप्तमनवरुद्धं भवति यद्वाकोवाक्यम् ब्राह्मणं तदेवैतेनाप्नुवन्ति तदवरुन्धते॥
औदुम्बरीमुपसंसृप्य वाचं यछन्ति॥
विदुहन्ति वा एते यज्ञं निर्धयन्ति ये वाचा यज्ञं तन्वते वाग्घि यज्ञस्तामेषाम् पुरैकैक एव वाचंयम आस्ते वाचमाप्याययंस्तयापीनयायातयाम्न्योत्तरमहस्तन्वते ऽथात्र सर्वैव वागाप्ता भवत्यपवृक्ता तां सर्व एव वाचंयमा वाचमाप्याययन्ति तयापीनयायातयाम्न्यातिरात्रं तन्वते॥
औदुम्बरीमन्वारभ्यासते॥
अन्नं वा ऊर्गुदुम्बर ऊर्जैवैतद्वाचमाप्याययन्ति॥
ते ऽस्तमिते प्राञ्च उपनिष्क्रामन्ति॥
ते जघनेनाहवनीयमासते ऽग्रेण हविर्धाने तान्वाचंयमानेव वाचंयमः प्रतिरस्थाता वसतीवरीभिरभिपरिहरति ते यत्कामा आसीरंस्तेन वाचं विसृजेरन्कामैर्ह स्म वै पुरर्षयः सत्त्रमासते ऽसौ नः कामः स नः समृध्यतामिति यद्यु अनेककामाः स्युर्लोककामा वा प्रजाकामा वा पशुकामा वा॥
अनेनैव वाचं विसृजेरन्॥
भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं समर्धयन्ति तया समृद्धयाशिष आशासते सुप्रजाः प्रजाभिः स्यामेति तत्प्रजामाशासते सुवीरा वीरैरिति तद्वीरानाशासते सुपोषाः पोषैरिति तत्पुष्टिमाशासते॥
अथ गृहपतिः सुब्रह्मण्यामाह्वयति॥
यं वा गृहपतिर्ब्रूयात्पृथगु हैवैके सुब्रह्मण्यामाह्वयन्ति गृहपतिस्त्वेव सुब्रह्मण्यामाह्वयेद्यम् वा गृहपतिर्ब्रूयात्तस्मिन्त्समुपहवमिष् ट्वा समिधो ऽभ्यादधति॥