आदित्येन चरुणोदयनीयेन प्रचरति॥
तद्यदादित्यश्चरुर्भवति यदेवैनामदो देवा अब्रुवंस्तवैव प्रायणीयस्तवोदयनीय इति तमेवास्या एतदुभयत्र भागं करोति॥
स यदमुत्र राजानं क्रेष्यन्नुपप्रैष्यन्यजते॥
तस्मात्तत्प्रायणीयं नामाथ यदत्रावभृथादुदेत्य यजते तस्मादेतदुदयनीयं नाम तद्वा एतत्समानमेव हविरदित्या एव प्रायणीयमदित्या उदयनीयमियं ह्येवादितिः॥
स वै पथ्यामेवाग्रे स्वस्तिं यजति॥
तद्देवा अप्रज्ञायमाने वाचैव प्रत्यपद्यन्त वाचा हि मुग्धम् प्रज्ञायते ऽथात्र प्रज्ञाते यथापूर्वं करोति॥
सो ऽग्निमेव प्रथमं यजति॥
अथ सोममथ सवितारमथ पथ्यां स्वस्तिमथादितिं वाग्वै पथ्या स्वस्तिरियमदितिरस्यामेव तद्देवा वाचम् प्रत्यष्ठापयन्त्सेयं वागस्याम् प्रतिष्ठिता वदति॥
अथ मैत्रावरुणीं वशामनूबन्ध्यामालभते॥
स एषो ऽन्य एव यज्ञस्तायते पशुबन्ध एव समिष्टयजूंषि ह्येवान्तो यज्ञस्य॥
तद्यन्मैत्रावरुणी वशा भवति॥
यद्वा ईजानस्य स्विष्टम् भवति मित्रो ऽस्य तद्गृह्णाति यद्वस्य दुरिष्टम् भवति वरुणो ऽस्य तद्गृह्णाति॥
तदाहुः॥
क्वे जानो ऽभूदिति तद्यदेवास्यात्र मित्रः स्विष्टं गृह्णाति तदेवास्मा एतया प्रीतः प्रत्यवसृजति यदु चास्य वरुणो दुरिष्टं गृह्णाति तच्चैवास्मा एतया प्रीतः स्विष्टं करोति तदु चास्मै प्रत्यवसृजति सो ऽस्यैष स्व एव यज्ञो भवति स्वं सुकृतम्॥
तद्यन्मैत्रावरुणी वशा भवति॥
यत्र वै देवा रेतः सिक्तम् प्राजनयंस्तदाग्निमारुतमित्युक्थं तस्मिंस्तद्व्याख्यायते यथा तद्देवा रेतः प्राजनयंस्ततो ऽङ्गाराः समभवन्नङ्गारेभ्यो ऽङ्गिरसस्तदन्वन्ये पशवः॥
अथ यदासाः पांसवः पर्यशिष्यन्त॥
ततो गर्दभः समभवत्तस्माद्यत्र पांसुलम् भवति गर्दभस्थानमिव बतेत्याहुरथ यदा न कश्चन रसः पर्यशिष्यत तत एषा मैत्रावरुणी वशा समभवत्तस्मादेषा न प्रजायते रसाद्धि रेतः सम्भवति रेतसः पशवस्तद्यदन्ततः समभवत्तस्मादन्तं यज्ञस्यानुवर्तते तस्माद्वा एषात्र मैत्रावरुणी वशावकॢप्ततमा भवति यदि वशां न विन्देदप्युक्षवश एव स्यात्॥
अथेतरं विश्वे देवा अमरीमृत्स्यन्त॥
ततो वैश्वदेवी समभवदथ बार्हस्पत्या सो ऽन्तो ऽन्तो हि बृहस्पतिः॥
स यः सहस्रं वा भूयो वा दद्यात्॥
स एनाः सर्वा आलभेत सर्वं वै तस्याप्तम् भवति सर्वं जितं यः सहस्रं वा भूयो वा ददाति सर्वमेता एवमेव यथापूर्वम् मैत्रावरुणीमेवाग्रे ऽथ वैश्वदेवीमथ बार्हस्पत्यम्॥
अथो ये दीर्घसत्त्रमासीरन्॥
संवत्सरं वा भूयो वा त एनाः सर्वा आलभेरन्त्सर्वं वै तेषामाप्तम् भवति सर्वं जितं ये दीर्घसत्त्रमासते संवत्सरं वा भूयो वा सर्वमेता एवमेव यथापूर्वम्॥
अथोदवसानीययेष्ट्या यजते॥
स आग्नेयम् पञ्चकपालम् पुरोडाशं निर्वपति तस्य पञ्चपदाः पङ्क्तयो याज्यानुवाक्या भवन्ति यातयामेव वा एतदीजानस्य यज्ञो भवति सो ऽस्मात्पराङिव भवत्यग्निर्वै सर्वे यज्ञा अग्नौ हि सर्वान्यज्ञांस्तन्वते ये च पाकयज्ञा ये चेतरे तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ् भवति॥
तद्यत्पञ्चकपालः पुरोडाशो भवति॥
पञ्चपदाः पङ्क्तयो याज्यानुवाक्याः पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ् भवति॥
तस्य हिरण्यं दक्षिणा॥
आग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणानड्वान्वा स हि वहेनाग्नेयो ऽग्निदग्धमिव ह्यस्य वहम् भवति॥
अथो चतुर्गृहीतमेवाज्यं गृहीत्वा॥
वैष्णव्यर्चा जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहेति यज्ञो वै विष्णुस्तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ् भवति तत्रो यछक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुरथ यदेवैषोदवसानीयेष्टिः सन्तिष्ठते ऽथ सायमाहुतिं जुहोति काल एव प्रातराहुतिम्॥
वशामालभते॥
तामालभ्य सञ्ज्ञपयन्ति सञ्ज्ञप्याह वपामुत्खिदेत्युत्खिद्य वपामनुमर्शं गर्भमेष्टवै ब्रूयात्स यदि न विन्दन्ति किमाद्रियेरन्यद्यु विन्दन्ति तत्र प्रायश्चित्तिः क्रियते॥
न वै तदवकल्पते॥
यदेकाम् मन्यमाना एकयेवैतया चरेयुर्यद्द्वे मन्यमाना द्वाभ्यामिव चरेयु स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात्॥
अथ वपया चरन्ति॥
यथैव तस्यै चरणं वपया चरित्वाध्वर्युश्च यजमानश्च पुनरेतः स आहाध्वर्युर्निरूहैतं गर्भमिति तं ह नोदरतो निरूहेदार्ताया वै मृताया उदरतो निरूहन्ति यदा वै गर्भः समृद्धो भवति प्रजननेन वै स तर्हि प्रत्यङ्ङैति तमपि विरुज्य श्रोणी प्रत्यञ्चं निरूहितवै ब्रूयात्॥
तं निरुह्यमाणमभिमन्त्रयते॥
एजतु दशमास्यो गर्भो जरायुणा सहेति स यदाहैजत्विति प्राणमेवास्मिन्नेतद्दधाति दशमास्य इति यदा वै गर्भः समृद्धो भवत्यथ दशमास्यस्तमेतदप्यदशमास्यं सन्तम् ब्रह्मणैव यजुषा दशमास्यं करोति॥
जरायुणा सहेति॥
तद्यथा दशमास्यो जरायुणा सहेयादेवमेतदाह यथायं वायुरेजति यथा समुद्र एजतीति प्राणमेवास्मिन्नेतद्दधात्येवायं दशमास्यो अस्रज्जरायुणा सहेति तद्यथा दशमास्यो जरायुणा सह स्रंसेतैवमेतदाह॥
तदाहुः॥
कथमेतं गर्भं कुर्यादित्यङ्गादङ्गाद्धैवास्यावद्येयुर्यथैवेतरेषामवदानानामवदानं तदु तथा न कुर्यादुत ह्येषो ऽविकृताङ्गो भवत्यधस्तादेव ग्रीवा अपिकृत्यैतस्यां स्थाल्यामेतम् मेधं श्चोतयेयुः सर्वेभ्यो वा अस्यैषो ऽङ्गेभ्यो मेध श्चोतति तदस्य सर्वेषामेवाङ्गानामवत्तम् भवत्यवद्यन्ति वशाया अवदानानि यथैव तेषामवदानम्॥
तानि पशुश्रपणे श्रपयन्ति॥
तदेवैतम् मेधं श्रपयन्त्युष्णीषेणावेष्ट्य गर्भम् पार्श्वतः पशुश्रपणस्योपनिदधाति यदा शृतो भवत्यथ समुद्यावदानान्येवाभिजुहोति नैतम् मेधमुद्वासयन्ति पशुं तदेवैतम् मेधमुद्वासयन्ति॥
तं जघनेन चात्वालमन्तरेण यूपं चाग्निं च हरन्ति॥
दक्षिणतो निधाय प्रतिप्रस्थातावद्यत्यथ स्रुचोरुपस्तृणीते ऽथ मनोतायै हविषो ऽनुवाच आहावद्यन्ति वशाया अवदानानां यथैव तेषामवदानम्॥
अथ प्रचरणीति स्रुग्भवति॥
तस्याम् प्रतिप्रस्थाता मेधायोपस्तृणीते द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदाने अथानुवाच आहाश्राव्याह प्रेष्येति वषट्कृते ऽध्वर्युर्जुहोत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता॥
यस्यै ते यज्ञियो गर्भ इति॥
अयज्ञिया वै गर्भास्तमेतद्ब्रह्मणैव यजुषा यज्ञियं करोति यस्यै योनिहिरण्ययीत्यदो वा एतस्यै योनिं विच्छिन्दन्ति यददो निष्कर्षन्त्यमृतमायुर्हिरण्यं तामेवास्या एतदमृतां योनिं करोत्यङ्गान्यह्रुता यस्य तम् मात्रा समजीगमं स्वाहेति यदि पुमान्त्स्याद्यद्यु स्त्री स्यादङ्गान्यह्रुता यस्यै ताम् मात्रा समजीगमं स्वाहेति यद्यु अविज्ञातो गर्भो भवति पुंस्कृत्यैव जुहुयात्पुमांसो हि गर्भा अङ्गान्यह्रुता यस्य तम् मात्रा समजीगमं स्वाहेत्यदो वा एतम् मात्रा विष्वञ्चं कुर्वन्ति यददो निष्कर्षन्ति तमेतद्ब्रह्मणैव यजुषा समर्ध्य मध्यतो यज्ञस्य पुनर्मात्रा सङ्गमयति॥
अथाध्वयुर्वनस्पतिना चरति॥
वनस्पतिनाध्वर्युश्चरित्वा यान्युपभृत्यवदानानि भवन्ति तानि समानयमान आहाग्नये स्विष्टकृते ऽनुब्रूहीत्यत्याक्रामति प्रतिप्रस्थाता स एतं सर्वमेव मेधं गृह्णीते ऽथोपरिष्टाद्द्विराज्यस्याभिघारयत्याश्राव्याह प्रेष्येति वषट्कृते ऽध्वर्युर्जुहोत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता॥
पुरुदस्मो विषुरूप इन्दुरिति॥
बहुदान इति हैतद्यदाह पुरुदस्म इति विषुरूप इति विषुरूपा इव हि गर्भा इन्दुरन्तर्महिमानमानञ्ज धीर इत्यन्तर्ह्येष मातर्यक्तो भवत्येकपदीं द्विपदीं त्रिपदीं चतुष्पदीमष्टापदीम् भुवनानु प्रथन्तां स्वाहेति प्रथयत्येवैनामेतत्सुभूयो ह जयत्यष्टापद्येष्ट्वा यदुचानष्टापद्या॥
तदाहुः॥
क्वैतं गर्भं कुर्यादिति वृक्ष एवैनमुद्दध्युरन्तरिक्षायतना वै गर्भा अन्तरिक्षमिवैतद्यद्वृक्षस्तदेनं स्व एवायतने प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेद्वृक्ष एनम् मृतमुद्धास्यन्तीति तथा हैव स्यात्॥
अप एवैनमभ्यवहरेयुः॥
आपो वा अस्य सर्वस्य प्रतिष्ठा तदेनमप्स्वेव प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेदप्स्वेव मरिष्यतीति तथा हैव स्यात्॥
आखूत्कर एवैनमुपकिरेयुः॥
इयं वा अस्य सर्वस्य प्रतिष्ठा तदेनमस्यामेव प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेत्क्षिप्रे ऽस्मै मृताय श्मशानं करिष्यन्तीति तथा हैव स्यात्॥
पशुश्रपण एवैनम् मरुद्भ्यो जुहुयात्॥
अहुतादो वै देवानाम् मरुतो विडहुतमिवैतद्यदशृतो गर्भ आहवनीयाद्वा एष आहृतो भवति पशुश्रपणस्तथाह न बहिर्धा यज्ञाद्भवति न प्रत्यक्षमिवाहवनीये देवानां वै मरुतस्तदेनम् मरुत्स्वेव प्रतिष्ठापयति॥
स हुत्वैव समिष्टयजूंषि॥
प्रथमावशान्तेष्वङ्गारेष्वेतं सोष्णीषं गर्भमादत्ते तं प्राङ् तिष्ठञ्जुहोति मारुत्यर्चा मरुतो यस्य हि क्षये पाथा दिवो विमहसः स सुगोपातमो जन इति न स्वाहाकरोत्यहुतादो वै देवानाम् मरुतो विडहुतमिवैतद्यदस्वाहाकृतं देवानां वै मरुतस्तदेनम् मरुत्स्वेव प्रतिष्ठापयति॥
अथाङ्गारैरभिसमूहति॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् पिपृतां नो भरीमभिरिति॥
इन्द्रो ह वै षोडशी॥
तं नु सकृदिन्द्रम् भूतान्यत्यरिच्यन्त प्रजा वै भूतानि ता हैनेन सदृग्भवमिवासुः॥
इन्द्रो ह वा ईक्षां चक्रे॥
कथं न्वहमिदं सर्वमतितिष्ठेयमर्वागेव मदिदं सर्वं स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत स इदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वम् भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति॥
तस्मादेतदृषिणाभ्यानूक्तम्॥
न ते महित्वमनुभूदध द्यौर्यदन्यया स्फिग्या क्षामवस्था इति न ह वा अस्यासौ द्यौरन्यतरां चन स्फिचीमनुबभूव तथेदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वम् भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति॥
तं वै हरिवत्यर्चा गृह्णाति॥
हरिवतीषु स्तुवते हरिवतीरनुशंसति वीर्यं वै हर इन्द्रो ऽसुराणां सपत्नानां समवृङ्क्त तथो एवैष एतद्वीर्यं हरः सपत्नानां संवृङ्क्ते तस्माद्धरिवत्यर्चा गृह्णाति हरिवतीषु स्तुवते हरिवतीरनुशंसति॥
तं वा अनुष्टुभा गृह्णाति॥
गायत्रं वै प्रातःसवनं त्रैष्टुभम् माध्यन्दिनं सवनं जागतं तृतीयसवनमथातिरिक्तानुष्टुबत्येवैनमेतद्रेचयति तस्मादनुष्टुभा गृह्णाति॥
तं वै चतुःस्रक्तिना पात्रेण गृह्णाति॥
त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिः स्रक्तिभिराप्नोत्यत्येवैनं चतुर्थ्या स्रक्त्या रेचयति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति॥
तं वै प्रातःसवने गृह्णीयात्॥
आग्रयणं गृहीत्वा स प्रातःसवने गृहीत एतस्मात्कालादुपशेते तदेनं सर्वाणि सवनान्यतिरेचयति॥
माध्यन्दिने वैनं सवने गृह्णीयात्॥
आग्रयणं गृहीत्वा सो एषा मीमांसैव प्रातःसवन एवैनं गृह्णीयादाग्रयणं गृहीत्वा स प्रातःसवने गृहीत ऐतस्मात्कालादुपशेते॥
अथातो गृह्णात्येव॥
आतिष्ठ वृत्रहन्रथ युक्ता ते ब्रह्मणा हरी अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति॥
अनया वा॥
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति॥
अथेत्य स्तोत्रमुपाकरोति॥
सोमो ऽत्यरेच्युपावर्तध्वमित्यत्येवैनमेतद्रेचयति तं वै पुरास्तमयादुपाकरोत्यस्तमिते ऽनुशंसति तदेनेनाहोरात्रे सन्दधाति तस्मात्पुरास्तमयादुपाकरोत्यस्तमिते ऽनुशंसति॥
सर्वे ह वै देवाः॥
अग्रे सदृशा आसुः सर्वे पुण्यास्तेषां सर्वेषां सदृशानां सर्वेषाम् पुण्यानां त्रयो ऽकामयन्तातिष्ठावानः स्यामेत्यग्निरिन्द्रः॥
ते ऽर्चन्तः श्राम्यन्तश्चेरुः॥
त एतानतिग्राह्यान्ददृशुस्तानत्यगृह्णत तद्यदेनानत्यगृह्णत तस्मादतिग्राह्या नाम ते ऽतिष्ठावानो ऽभवन्यथैत एतदतिष्ठेवातिष्ठेव ह वै भवति यस्यैवं विदुष एतान्ग्रहान्गृह्णन्ति॥
नो ह वा इदमग्रे ऽग्नौ वर्च आस॥
यदिदमस्मिन्वर्चः सो ऽकामयतेदम् मयि वर्चः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततो ऽस्मिन्नेतद्वर्च आस॥
नो ह वा इदमग्र इन्द्र ओज आस॥
यदिदमस्मिन्नोजः सो ऽकामयतेदम् मय्योजः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततो ऽस्मिन्नेतदोज आस॥
नो ह वा इदमग्रे सूर्ये भ्राज आस॥
यदिदमस्मिन्भ्राजः सो ऽकामयतेदम् मयि भ्राजः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततो ऽस्मिन्नेतद्भ्राज आसैतानि ह वै तेजांस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवं विदुष एतान्ग्रहान् गृह्णन्ति॥
तान्वै प्रातःसवने गृह्णीयात्॥
आग्रयणं गृहीत्वात्मा वा आग्रयणो बहु वा इदमात्मन एकैकमतिरिक्तं क्लोमहृदयं त्वद्यत्त्वत्॥
माध्यन्दिने वैनान्त्सवने गृह्णीयात्॥
उक्थ्यं गृहीत्वोपाकरिष्यन्वा पूतभृतो ऽयं ह वा अस्यैषो ऽनिरुक्त आत्मा यदुक्थ्यः सो एषा मीमांसैव प्रातःसवन एवैनान्गृह्णीयादाग्रयणं गृहीत्वा॥
ते माहेन्द्रस्यैवानु होमं हूयन्ते॥
एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रो ऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानो यजमानस्य वा एते कामाय गृह्यन्ते तस्मान्माहेन्द्र्रस्यैवानु होमं हूयन्ते॥
अथातो गृह्णात्येव॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् दधद्रयिम् मयि पोषम् उपयामगृहीतो ऽस्यग्नये त्वा वर्चस एष ते योनिरग्नये त्वा वर्चसे॥
उत्तिष्ठन्नोजसा॥
सह पीत्वी शिप्रे अवेपयः सोममिन्द्र चमूसुतम् उपयामगृहीतो ऽसीन्द्राय त्वौजस एष ते योनिरिन्द्राय त्वौजसे॥
अदृश्रमस्य केतवः॥
वि रश्मयो जनां अनु भ्राजन्तो अग्नयो यथा उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति॥
तेषाम् भक्षः॥
अग्ने वर्चस्विन्वर्चस्वांस्त्वं देवेष्वसि वर्चस्वानहम् मनुष्येषु भूयासमिन्द्रौजिष्ठौजिष्ठस्त्वं देवेष्वस्योजिष्ठो ऽहम् मनुष्येषु भूयासं सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि भ्राजिष्ठो ऽहम् मनुष्येषु भूयासमित्येतानि ह वै भ्राजांस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवं विदुष एतान्ग्रहान् गृह्णन्ति॥
तान्वै पृष्ठ्ये षडहे गृह्णीयात्॥
पूर्वे त्र्यह आग्नेयमेव प्रथमे ऽहन्नैन्द्रं द्वितीये सौर्यं तृतीय एवमेवान्वहम्॥
तानु हैक उत्तरे त्र्यहे गृह्णन्ति॥
तदु तथा न कुर्यात्पूर्व एवैनांस्त्र्यहे गृह्णीयाद्यद्युत्तरे त्र्यहे ग्रहीष्यन्त्स्यात्पूर्व एवैनांस्त्र्यहे गृहीत्वाथोत्तरे त्र्यहे गृह्णीयादेवमेव यथापूर्वं विश्वजिति सर्वपृष्ठ एकाह एव गृह्यन्ते॥
एष वै प्रजापतिः॥
य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते॥
उपांशुपात्रमेवान्वजाः प्रजायन्ते॥
तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्ते॥
अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते॥
तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्ते॥
अथ यदेतयोरुभयोः॥
सह सतोरुपांशु पूर्वं जुहोति तस्मादु सह सतो ऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्यो ऽवयः॥
अथ यदुपांशुं हुत्वा॥
ऊर्ध्वमुन्मार्ष्टि तस्मादिमा अजा अरा डीतरा आक्रममाणा इव यन्ति॥
अथ यदन्तर्यामं हुत्वा॥
अवाञ्चमवमार्ष्टि तस्मादिमा अवयो ऽवाचीनशीर्ष्ण्यः खनन्त्य इव यन्त्येता वै प्रजापतेः प्रत्यक्षतमां यदजावयस्तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति॥
शुक्रपात्रमेवानु मनुष्याः प्रजायन्ते॥
तद्द्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्त एष वै शुक्रो य एष तपत्येष उ एवेन्द्रः पुरुषो वै पशूनामैन्द्रस्तस्मात्पशूनामीष्टे॥
ऋतुपात्रमेवान्वेकशफम् प्रजायते॥
तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्त इतीव वा ऋतुपात्रमितीवैकशफस्य शिर आग्रयणपात्रमुक्थ्यपात्रमादित्यपात्रमेतान्येवानु गावः प्रजायन्ते तानि वै तानि पुनर्यज्ञे प्रयुज्यन्ते तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्ते॥
अथ यदजाः॥
कनिष्ठानि पात्राण्यनु प्रजायन्ते तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राण्यनु प्रजायन्ते॥
अथ यद्गावः॥
भूयिष्ठानि पात्राण्यनु प्रजायन्ते तस्मादेताः सकृत्संवत्सरस्य विजायमाना एकैकं जनयन्त्यो भूयिष्ठा भूयिष्ठानि हि पात्राण्यनु प्रजायन्ते॥
अथ द्रोणकलशे॥
अन्ततो हारियोजनं ग्रहं गृह्णाति प्रजापतिर्वै द्रोणकलशः स इमाः प्रजा उपावर्तते ता अवति ता अभिजिघ्रत्येतद्वा एना भवति यदेनाः प्रजनयति॥
पञ्च ह त्वेव तानि पात्राणि॥
यानीमाः प्रजा अनु प्रजायन्ते समानमुपांश्वन्तर्यामयोः शुक्रपात्रमृतुपात्रमाग्रयणपात्रमुक्थ्यपात्रम् पञ्च वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञो यद्यु षडेवर्तवः संवत्सरस्येत्यादित्यपात्रमेवैतेषां षष्ठम्॥
एकं ह त्वेव तत्पात्रम्॥
यदिमाः प्रजा अनु प्रजायन्त उपांशुपात्रमेव प्राणो ह्युपांशुः प्राणो हि प्रजापतिः प्रजापतिं ह्येवेदं सर्वमनु॥
एष वै प्रजापतिः॥
य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते स आश्विनं ग्रहं गृहीत्वावकाशानवकाशयति॥
स उपांशुमेव प्रथममवकाशयति॥
प्राणाय मे वर्चोदा वर्चसे पवस्वेत्यथोपांशुसवनं व्यानाय मे वर्चोदा वर्चसे पवस्वेत्यथान्तर्याममुदानाय मे वर्चोदा वर्चसे पवस्वेत्यथैन्द्रवायवं वाचे मे वर्चोदा वर्चसे पवस्वेत्यथ मैत्रावरुणं क्रतूदक्षाभ्याम् मे वर्चोदा वर्चसे पवस्वेत्यथाश्विनं श्रोत्राय मे वर्चोदा वर्चसे पवस्वेत्यथ शुक्रामन्थिनौ चक्षुर्भ्याम् मे वर्चोदसौ वर्चसे पवेथामिति॥
अथाग्रयणम्॥
आत्मने मे वर्चोदा वर्चसे पवस्वेत्यथोक्थ्यमोजसे मे वर्चोदा वर्चसे पवस्वेत्यथ ध्रुवमायुषे मे वर्चोदा वर्चसे पवस्वेत्यथाम्भृणौ विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथामिति वैश्वदेवौ वा अम्भृणावतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्यो ऽतः पितृभ्यस्तस्माद्वैश्वदेवावम्भृणौ॥
अथ द्रोणकलशम्॥
को ऽसि कतमो ऽसीति प्रजापतिर्वै कः कस्यासि को नामासीति प्रजापतिर्वै को नाम यस्य ते नामामन्महीति मनुते ह्यस्य नाम यं त्वा सोमेनातीतृपामेति तर्पयति ह्येनं सोमेन स आश्विनं ग्रहं गृहीत्वान्वङ्गमाशिषमाशास्ते सुप्रजाः प्रजाभिः स्यामिति तत्प्रजामाशास्ते सुवीरो वीरैरिति तद्वीरानाशास्ते सुपोषः पोषैरिति तत्पुष्टिमाशास्ते॥
तान्वै न सर्वमिवावकाशयेत्॥
यो न्वेव ज्ञातस्तमवकाशयेद्यो वास्य प्रियः स्याद्यो वानूचानो ऽनूक्तेनैनान्प्राप्नुयात्स आश्विनं ग्रहं गृहीत्वा कृत्स्नं यज्ञं जनयति तं कृत्स्नं यज्ञं जनयित्वा तमात्मन्धत्ते तमात्मन्कुरुते॥
ता वा एताः॥
चतुस्त्रिंशद्व्याहृतयो भवन्ति प्रायश्चित्तयो नामैष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते॥
अष्टौ वसवः॥
एकादश रुद्रा द्वादशादित्या इमे एव द्यावापृथिवी त्रयस्त्रिंश्यौ त्रयस्त्रिंशद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तदेनम् प्रजापतिं करोत्येतद्वा अस्त्येतद्ध्यमृतं यद्ध्यमृतं तद्ध्यस्त्येतदु तद्यन्मर्त्यं स एष प्रजापतिः सर्वं वै प्रजापतिस्तदेनम् प्रजापतिं करोति तस्मादेताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति प्रायश्चित्तयो नाम॥
ता हैके॥
यज्ञतन्व इत्याचक्षते यज्ञस्य ह त्वेवैतानि पर्वाणि स एष यज्ञस्तायमान एता एव देवता भवन्नेति॥
स यदि घर्मदुघा ह्वलेत्॥
अन्यामुपसङ्क्रामेयुः स यस्यामेवैनं वेलायाम् पुरा पिन्वयन्ति तद्वैवैनामुदीचीं स्थापयेदग्रेण वा शालाम् प्राचीम्॥
तद्ये एते अभितः॥
पुछकाण्डं शिखण्डास्थे उछयाते तयोर्यद्दक्षिणं तस्मिन्नेताश्चतुस्त्रिंशतमाज्याहुतीर्जुहोत्येतावान्वै सर्वो यज्ञो यावत्य एताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति तदस्यां कृत्स्नमेव सर्वं यज्ञं दधात्येषा ह्यतो घर्मम् पिन्वत एषो तत्र प्रायश्चित्तिः क्रियते॥
अथ यद्यज्ञस्य ह्वलेत्॥
तत्समन्वीक्ष्य जुहुयाद्दीक्षोपसत्स्वाहवनीये प्रसुत आग्नीध्रे वि वा एतद्यज्ञस्य पर्व स्र्ंसते यद्ध्वलति सा यैव तर्हि तत्र देवता भवति तयैवैतद्भिषज्यति तया सन्दधाति॥
अथ यदि स्कन्देत्॥
तदद्भिरुपनिनयेदद्भिर्वा इदं सर्वमाप्तं सर्वस्यैवाप्त्यै वैष्णववारुण्यर्चा यद्वा इदं किं चार्छति वरुण एवेदं सर्वमार्पयति ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा या पत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूताविति यज्ञो वै विष्णुस्तस्यैतदार्छति वरुणो वा आर्पयिता तद्यस्याश्चैवैतद्देवताया आर्छति यो च देवतार्पयति ताभ्यामवैतदुभाभ्याम् भिषज्यत्युभाभ्यां सन्दधाति॥
अथो अभ्येव मृशेत्॥
देवान्दिवमगन्यज्ञस्ततो मा द्रविणमष्टु मनुष्यानन्तरिक्षमगन्यज्ञस्ततो मा द्रविणमष्टु पितॄन्पृथिवीमगन्यज्ञस्ततो मा द्रविणमष्टु यं कं च लोकमगन्यज्ञस्ततो मे भद्रमभूदित्येवैतदाह॥
तद्ध स्मैतदारुणिराह॥
किं स यजेत यो यज्ञस्य व्यृद्ध्या पापीयान्मन्येत यज्ञस्य वा अहं व्यृद्ध्या श्रेयान्भवामीत्येतद्ध स्म स तदभ्याह यदेता आशिष उपगछति॥
तद्यत्रैतत्त्रिरात्रे सहस्रं ददाति॥
तदेषा साहस्री क्रियते स प्रथमे ऽहंस्त्रीणि च शतानि नयति त्रयस्त्रिंशतम् चैवमेव द्वितीये ऽहंस्त्रीणि चैव शतानि नयति त्रयस्त्रिंशतं चैवमेव तृतीये ऽहंस्त्रीणि चैव शतानि नयति त्रयस्त्रिंशतं चाथैषा साहस्र्यतिरिच्यते॥
सा वै त्रिरूपा स्यादित्याहुः॥
एतद्ध्यस्यै रूपतममिवेति रोहिणी ह त्वेवोपध्वस्ता स्यादेतद्धैवास्यै रूपतममिव॥
सा स्यादप्रवीता॥
वाग्वा एषा निदानेन यत्साहस्र्ययातयाम्नी वा ऽयं वागयातयाम्न्यप्रवीता तस्मादप्रवीता स्यात्॥
ताम् प्रथमे ऽहन्नयेत्॥
वाग्वा एषा निदानेन यत्साहस्री तस्या एतत्सहस्रं वाचः प्रजातम् पूर्वा हैषैति पश्चादेनाम् प्रजातमन्वेत्युत्तमे वैनामहन्नयेत्पूर्वमहास्यै प्रजातमेति पश्चादेषान्वेति सो एषा मीमांसैवोत्तम एवैनामहन्नयेत्पूर्वमहास्यै प्रजातमेति पश्चादेषान्वेति॥
तामुत्तरेण हविर्धाने॥
दक्षिणेनाग्नीध्रं द्रोणकलशमवघ्रापयति यज्ञो वै द्रोणकलशो यज्ञमेवैनामेतद्दर्शयति॥
आजिघ्र कलशम्॥
मह्या त्वा विशन्त्विन्दव इति रिरिचान इव वा एष भवति यः सहस्रं ददाति तमेवैतद्रिरिचानम् पुनराप्याययति यदाहाजिघ्र कलशम् मह्या त्वा विशन्त्विन्दव इति॥
पुनरूर्जा निवर्तस्वेति॥
तद्वेव रिरिचानम् पुनराप्याययति यदाह पुनरूर्जा निवर्तस्वेति॥
सा नः सहस्रं धुक्ष्वेति॥
तत्सहस्रेण रिरिचानम् पुनराप्याययति यदाह सा नः सहस्रं धुक्ष्वेति॥
उरुधारा पयस्वती पुनर्माविशताद्रयिरिति॥
तद्वेव रिरिचानम् पुनराप्याययति यदाह पुनर्माविशताद्रयिरिति॥
अथ दक्षिणे कर्ण आजपति॥
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिति सरस्वति महि विश्रुति एता ते अघ्न्ये नामानि देवेभ्यो मा सुकृतम् ब्रूतादिति वोचेरिति वैतानि ह वा अस्यै देवत्रा नामानि सा यानि ते देवत्रा नामानि तैर्मा देवेभ्यःसुकृतम् ब्रूतादित्येवैतदाह॥
तामवार्जन्ति॥
सा यद्यपुरुषाभिवीता प्राचीयात्तत्र विद्यादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति यद्युदीचीयाछ्रेयानस्मिंलोके यजमानो भविष्यतीति विद्याद्यदि प्रतीचीयादिभ्यतिल्विल इव धान्यतिल्विलो भविष्यतीति विद्याद्यदि दक्षिणेयात्क्षिप्रे ऽस्माल्लोकाद्यजमानः प्रैष्यतीति विद्यादेतानि विज्ञानानि॥
तद्या एतास्तिस्रस्तिस्रस्त्रिंशत्यधि भवन्ति॥
तास्वेतामुपसमाकुर्वन्ति वि वा एतां विराजं वृहन्ति यां व्याकुर्वन्ति विच्छिन्नो एषा विराड्या विवृढा दशाक्षरा वै विराट्तत्कृत्स्नां विराजं सन्दधाति तां होत्रे दद्याद्धोता हि साहसस्तस्मात्तां होत्रे दद्यात्॥
द्वौ वोन्नेतारौ कुर्वीत॥
तयोर्यतरो नाश्रावयेत्तस्मा एनां दद्याद्व्यृद्धो वा एष उन्नेता य ऋत्विक्सन्नाश्रावयति व्यृद्धो एषा विराड्या विवृढा तद्व्यृद्ध एवैतद्व्यृद्धं दधाति॥
तदाहुः॥
न सहस्रे ऽधि किं चन दद्यात्सहस्रेण ह्येव सर्वान् कामानाप्नोतीति तदु होवाचासुरिः काममेव दद्यात्सहस्रेणाह सर्वान् कामानाप्नोति कामेनो अस्येतरद्दत्तम् भवतीति॥
अथ यदि रथं वा युक्तं दास्यन्त्स्यात्॥
यद्वा वशायै वा वपायां हुतायां दद्यादुदवसानीयायां वेष्टौ॥
स वै दक्षिणा नयन्॥
अन्यूना दशतो नयेद्यस्मा एकां दास्यन्त्स्याद्दशभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै द्वे दास्यन्त्स्यात्पञ्चभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै तिस्रो दास्यन्त्स्यात्त्रिभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै पञ्च दास्यन्त्स्याद्द्वाभ्यां ताभ्यां दशतमुपावर्तयेदेवमा शतात्तथो हास्यैषान्यूना विराडमुष्मिंलोके कामदुघा भवति॥
तद्यत्रैतद्द्वादशाहेन व्यूढछन्दसा यजते॥
तद्ग्रहान्व्यूहति व्यूहत उद्गाता च होता च छन्दांसि स एष प्रज्ञात एव पूर्वस्त्र्यहो भवति समूडछन्दास्तदैन्द्रवायवाग्रान्गृह्णाति॥
अथ चतुर्थे ऽहन्व्यूहति॥
ग्रहान्यूहन्ति छन्दांसि तदाग्रयणाग्रान् गृह्णाति प्राजापत्यं वा एतच्चतुर्थमहर्भवत्यात्मा वा आग्रयण आत्मा वै प्रजापतिस्तस्मादाग्रयणाग्रान्गृह्णाति॥
तं गृहीत्वा न सादयति॥
प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यसादयेत्तं धारयन्त एवोपासते ऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं हिङ्कृत्य सादयत्यथैतत्प्रज्ञातमेव पञ्चममहर्भवति तदैन्द्रवायवाग्रान् गृह्णाति॥
अथ षष्ठे ऽहन्व्यूहति॥
ग्रहान्व्यूहन्ति छन्दांसि तछुक्राग्रान् गृह्णात्यैन्द्रं वा एतत्षष्ठमहर्भवत्येष वै शुक्रो य एष तपत्येष उ एवेन्द्रस्तस्माछुक्राग्रान् गृह्णाति॥
तं गृहीत्वा न सादयति॥
प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासते ऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं सादयति॥
अथ सप्तमे ऽहन्व्यूहति॥
ग्रहान्व्यूहन्ति छन्दांसि तछुक्राग्रान् गृह्णाति बार्हतं वा एतत्सप्तममहर्भवत्येष वै शुक्रो य एष तपत्येष उ एव बृहंस्तस्माछुक्राग्रान् गृह्णाति॥
तं गृहीत्वा न सादयति॥
प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासते ऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं सादयत्यथैतत्प्रज्ञातमेवाष्टममहर्भवति तदैन्द्रवायवाग्रान् गृह्णाति॥
अथ नवमे ऽहन्व्यूहति॥
ग्रहान्व्यूहन्ति छन्दांसि तदाग्रयणाग्रान् गृह्णाति जागतं वा एतन्नवममहर्भवत्यात्मा वा आग्रयणः सर्वं वा इदमात्मा जगत्तस्मादाग्रयणाग्रान् गृह्णाति॥
तं गृहीत्वा न सादयति॥
प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासते ऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं हिङ्कृत्य सादयति॥
तदाहुः॥
न व्यूहेद्ग्रहान्प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यद्व्यूहेत्तस्मान्न व्यूहेत्॥
तदु व्यूहेदेव॥
अङ्गानि वै ग्रहाः कामं वा इमान्यङ्गानि व्यत्यासं शेते तस्मादु व्यूहेदेव॥
तदु नैव व्यूहेत्॥
प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यद्व्यूहेत्तस्मान्न व्यूहेत्॥
किं नु तत्राध्वर्यो॥
यदुद्गाता च होता च छन्दांसि व्यूहत एतद्वा अधर्युर्व्यूहति ग्रहान्यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णाति शुक्राग्रान्माध्यन्दिने सवन आग्रयणाग्रांस्तृतीयसवने॥
यदि सोममपहरेयुः॥
विधावतेछतेति ब्रूयात्स यदि विन्दन्ति किमाद्रियेरन्यद्यु न विन्दन्ति तत्र प्रायश्चित्तिः क्रियते॥
द्वयानि वै फाल्गुनानि॥
लोहितपुष्पाणि चारुणपुष्पाणि च स यान्यरुणपुष्पाणि फाल्गुनानि तान्यभिषुणुयादेष वै सोमस्य न्यङ्गो यदरुणपुष्पाणि फाल्गुनानि तस्मादरुणपुष्पाण्यभिषुणुयात्॥
यद्यरुणपुष्पाणि न विन्देयुः॥
श्येनहृतमभिषुणुयाद्यत्र वै गायत्री सोममछापतत्तस्या आहरन्त्यै सोमस्यांशुरपतत्तछ्येनहृतमभवत्तस्माछ्येनहृतमभिषुणुयात्॥
यदि श्येनहृतं न विन्देयुः॥
आदारानभिषुणुयाद्यत्र वै यज्ञस्य शिरो ऽछिद्यत तस्य यो रसो व्यप्रुष्यत्तत आदाराः समभवंस्तस्मादादारानभिषुणुयात्॥
यद्यादारान्न विन्देयुः॥
अरुणदूर्वा अभिषुणुयादेष वै सोमस्य न्यङ्गो यदरुणदूर्वास्तस्मादरुणदूर्वा अभिषुणुयात्॥
यद्यरुणदूर्वा न विन्देयुः॥
अपि यानेव कांश्च हरितान्कुशानभिषुणुयात्तत्राप्येकामेव गां दद्यादथावभृथादेवोदेत्य पुनर्दीक्षेत पुनर्यज्ञो ह्येव तत्र प्रायश्चित्तिरिति नु सोमापहृतानाम्॥
अथ कलशदिराम्॥
यदि कलशो दीर्येतानुलिप्सध्वमिति ब्रूयात्स यद्यनुलभेरन्प्रसृतमात्रं वाञ्जलिमात्रं वा तदन्यैरेकधनैरभ्युन्नीय यथाप्रभावम् प्रचरेयुर्यद्यु नानुलभेरन्नाग्रयणस्यैव प्रस्कन्द्यान्यैरेकधनैरभ्युन्नीय यथाप्रभावम् प्रचरेयुः स यद्यनीतासु दक्षिणासु कलशो दीर्येत तत्राप्येकामेव गां दद्यादथावभृथादेवोदेत्य पुनर्दीक्षेत पुनर्यज्ञो ह्येव तत्र प्रायश्चित्तिरिति नु कलशदिराम्॥
अथ सोमातिरिक्तानाम्॥
यद्यग्निष्टोममतिरिच्येत पूतभृत एवोक्थ्यं गृह्णीयाद्यद्युक्थ्यमतिरिच्येत षोडशिनमुपेयुर्यदि षोडशिनमतिरिच्येत रात्रिमुपेयुर्यदि रात्रिमतिरिच्येताहरुपेयुर्नेत्त्वेवातीरेको ऽस्ति॥