०३

भक्षयित्वा समुपहूताः स्म इत्युक्त्वोत्तिष्ठति॥
पुरोडाशबृगलमादाय तद्यत्रैतदुपसन्नो ऽछावाको ऽन्वाह तदस्मै पुरोडाशबृगलम् पाणावादधदाहाछावाक वदस्व यत्ते वाद्यमित्यहीयत वा अछावाकः॥
तमिन्द्राग्नी अनुसमतनुताम्॥
प्रजानाम् प्रजात्यै तस्मादैन्द्राग्नो ऽछावाकः स एतेन च हविषा यदस्मा एतत्पुरोडाशबृगलम् पाणावादधात्येतेन चार्षेयेण यदेतदन्वाह तेनानुसमश्नुते॥
स वै सन्ने ऽछावाके॥
ऋतुग्रहैश्चरति तद्यत्सन्ने ऽछावाक ऋतुग्रहैश्चरति मिथुनं वा अछावाक ऐन्द्राग्नो ह्यछावाको द्वौ हीन्द्राग्नी द्वन्द्वं हि मिथुनम् प्रजननं स एतस्मान्मिथुनात्प्रजननादृतून्त्संवत्सरं प्रजनयति॥
यद्वेव सन्ने ऽछावाके॥
ऋतुग्रहैश्चरति सर्वं वा ऋतवः संवत्सरः सर्वमेवैतत्प्रजनयति तस्मात्सन्ने ऽछावाक ऋतुग्रहैश्चरति॥
तान्वै द्वादश गृह्णीयात्॥
द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश गृह्णीयादथो अपि त्रयोदश गृह्णीयादस्ति त्रयोदशो मास इति द्वादश त्वेव गृह्णीयादेषैव सम्पत्॥
द्रोणकलशाद्गृह्णाति॥
प्रजापतिर्वै द्रोणकलशः स एतस्मात्प्रजापतेरृतून्त्संवत्सरम् प्रजनयति॥
उभयतोमुखाभ्याम् पात्राभ्यां गृह्णाति॥
कुतस्तयोरन्ता ये उभयतोमुखे तस्मादयमन्तः संवत्सरः परिप्लवते तं गृहीत्वा न सादयति तस्मादयमसन्नः संवत्सरः॥
नानुवाक्यामन्वाह॥
ह्वयति वा अनुवाक्ययागतो ह्येवायमृतुर्यदि दिवा यदि नक्तं नानुवषट्करोति नेदृतूनववृणजा इति सहैव प्रथमौ ग्रहौ गृह्णीतः सहोत्तमाविदमेवैतत्सर्वं संवत्सरेण परिगृह्णीतस्तदिदं सर्वं संवत्सरेण परिगृहीतम्॥
निरेवान्यतरः क्रामति॥
प्रान्यतरः पद्यते तस्मादिमे ऽन्वञ्चो मासा यन्त्यथ यदुभौ वा सह निष्क्रामेतामुभौ वा सह प्रपद्येयाताम् पृथगु हैवेमे मासा ईयुस्तस्मान्निरेवान्यतरः क्रामति प्रान्यतरः पद्यते॥
तौ वा ऋतुनेति षट् प्रचरतः॥
तद्देवा अहरसृजन्तर्तुभिरिति चतुस्तद्रात्रिमसृजन्त स यद्धैतावदेवाभविष्यद्रात्रिर्हैवाभविष्यन्न व्ययवत्स्यत्॥
तौ वा ऋतुनेत्युपरिष्टाद्द्विश्चरतः॥
तद्देवाः पुरस्तादहरददुस्तस्मादिदमद्याहरथ रात्रिरथ श्वो ऽहर्भविता॥
ऋतुनेति वै देवाः॥
मनुष्यानसृजन्तर्तुभिरिति पशून्त्स यत्तन्मध्ये येन पशूनसृजन्त तस्मादिमे पशव उभयतः परिगृहीता वशमुपेता मनुष्याणाम्॥
तौ वा ऋतुनेति षट् प्रचर्य॥
इतरथा पात्रे विपर्यस्येते ऋतुभिरिति चतुश्चरित्वेतरथा पात्रे विपर्यस्येते अन्यतरत एव तद्देवा अहरसृजन्तान्यतरतो रात्रिमन्यतरत एव तद्देवा मनुष्यानसृजन्तान्यतरतः पशून्॥
अथातो गृह्णात्येव॥
उपयामगृहीतो ऽसि मधवे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतो ऽसि माधवाय त्वेति प्रतिप्रस्थातैतावेव वासन्तिकौ स यद्वसन्त ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनो हैतौ मधुश्च माधवश्च॥
उपयामगृहीतो ऽसि॥
शुक्राय त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतो ऽसि शुचये त्वेति प्रतिप्रस्थातैतावेव ग्रैष्मौ स यदेतयोर्बलिष्ठं तपति तेनो हैतौ शुक्रश्च शुचिश्च॥
उपयामगृहीतो ऽसि नभसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतो ऽसि नभस्याय त्वेति प्रतिप्रस्थातैतावेव वार्षिकावमुतो वै दिवो वर्षति तेनो हैतौ नभश्च नभस्यश्च॥
उपयामगृहीतो ऽसि॥
इषे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतो ऽस्यूर्जे त्वेति प्रतिप्रस्थातैतावेव शारदौ स यछरद्यूर्ग्रस ओषधयः पच्यन्ते तेनो हैताविषश्चोर्जश्च॥
उपयामगृहीतो ऽसि सहसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतो ऽसि सहस्याय त्वेति प्रतिप्रस्थातैतावेव हैमन्तिकौ स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनो हैतौ सहश्च सहस्यश्च॥
उपयामगृहीतो ऽसि तपसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतो ऽसि तपस्याय त्वेति प्रतिप्रस्थातैतावेव शैशिरौ स यदेतयोर्बलिष्ठं श्यायति तेनो हैतौ तपश्च तपस्यश्च॥
उपयामिगृहीतो ऽसि॥
अंहसस्पतये त्वेति त्रयोदशं ग्रहं गृह्णाति यदि त्रयोदशं गृह्णीयादथ प्रतिप्रस्थाताध्वर्योः पात्रे संस्रवमवनयत्यध्वर्युर्वा प्रतिप्रस्थातुः पात्रे संस्रवमवनयत्याहरति भक्षम्॥
अथ प्रतिप्रस्थाताभक्षितेन पात्रेण॥
ऐन्द्राग्नं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रेणैन्द्राग्नं ग्रहं गृह्णाति न वा ऋतुग्रहाणामनुवषट्कुर्वन्त्येतेभ्यो वा ऐन्द्राग्नं ग्रहं ग्रहीष्यन्भवति तदस्यैन्द्राग्नेनैवानुवषट्कृता भवन्ति॥
यद्वेवैन्द्राग्नं ग्रहं गृह्णाति॥
सर्वं वा इदम् प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं सर्वम् प्रजनय्येदमेवैतत्सर्वम् प्राणोदानयोः प्रतिष्ठापयति तदिदं सर्वम् प्राणोदानयोः प्रतिष्ठितमिन्द्राग्नी हि प्राणोदानाविमे हि द्यावापृथिवी प्राणोदानावनयोर्हीदं सर्वम् प्रतिष्ठितम्॥
यद्वेवैन्द्राग्नं ग्रहं गृह्णाति॥
सर्वं वा इदम् प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं सर्वम् प्रजनय्यास्मिन्नेवैतत्सर्वस्मिन्प्राणादानौ दधाति ताविमावस्मिन्त्सर्वस्मिन्प्राणोदानौ हितौ॥
अथातो गृह्णात्येव॥
इन्द्राग्नी आगतं सुतं गीर्भिर्नभो वरेण्यम्॥
अस्य पातं धियेषिता॥
उपयामगृहीतो ऽसीन्द्राग्नि यां त्वैष ते योनिरिन्द्राग्निभ्यां त्वेति सादयतीन्द्राग्निभ्यां ह्येनं गृह्णाति॥
अथ वैश्वदेवं ग्रहं गृह्णाति॥
सर्वं वा इदम् प्राजीजनद्य ऋतुग्रहानग्रहीत्स यद्धैतावदेवाभविष्यद्यावत्या हैवाग्रे प्रजाः सृष्टास्तावत्यो हैवाभविष्यन्न प्राजनिष्यन्त॥
अथ यद्वैश्वदेवं ग्रहं गृह्णाति॥
इदमेवैतत्सर्वमिमाः प्रजा यथायथं व्यवसृजति तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्ते शुक्रपात्रेण गृह्णात्येष वै शुक्रो य एष तपति तस्य ये रश्मयस्ते विश्वे देवास्तस्माछुक्रपात्रेण गृह्णाति॥
अथातो गृह्णात्येव॥
ओमासश्चर्षणीर्धतो विश्वे देवास आगत दाश्वांसो दाशुषः सुतम् उपयामगृहीतो ऽसि विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति॥
गृणाति ह वा एतद्धोता यछंसति॥
तस्मा एतद्गृणते प्रत्येवाध्वर्युरागृणाति तस्मात्प्रतिगरो नाम॥
तं वै प्राञ्चमासीनमाह्वयते॥
सर्वे वा अन्य उद्गातुः प्राञ्च आर्त्विज्यं कुर्वन्ति तथो हास्यैतत्प्रागेवार्त्विज्यं कृतम् भवति॥
प्रजापतिर्वा उद्गाताः॥
योषर्ग्घोता स एतत्प्रजापतिरुद्गाता योषायामृचि होतरि रेतः सिञ्चति यत्स्तुते तद्धोता शस्त्रेण प्रजनयति तछ्यति यथायम् पुरुषः शितस्तद्यदेनछ्यति तस्माछस्त्रं नाम॥
तदुपपल्यय्य प्रतिगृणाति॥
इदमेवैतद्रेतः सिक्तमुपनिमदत्यथ यत्पराङ् तिष्ठन्प्रतिगृणीयात्परागु हैवैतद्रेतः सिक्तम् प्रणश्येत्तन्न प्रजायेत सम्यञ्चा उ चैवैतद्भूत्वैतद्रेतः सिक्तम् प्रजनयतः॥
यातयामानि वै देवैश्छन्दांसि॥
छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत मदो वै प्रतिगरो यो वा ऋचि मदो यः सामन्रसो वै स तच्छन्दःस्वेवैतद्रसं दधात्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते॥
तस्माद्यद्यर्धर्चशः शंसेत्॥
अर्धर्चे ऽर्धर्चे प्रतिगृणीयाद्यदि पछः शंसेत्पदे-पदे प्रतिगृणीयाद्यत्र वै शंसन्नवानिति तदसुररक्षसानि यज्ञमन्ववचरन्ति तत्प्रतिगरेण सन्दधाति नाष्ट्राणां रक्षसामनन्ववचाराय यजमानस्यो चैवैतद्भ्रातृव्यलोकं छिनत्ति॥
चतुरक्षराणि ह वा अग्रे छन्दांस्यासुः॥
ततो जगती सोममछापतत्सा त्रीण्य्क्षराणि हित्वाजगाम ततस्त्रिष्टुप्सोममछापतत्सैकमक्षरं हित्वाजगाम ततो गायत्री सोममछापतत्सैतानि चाक्षराणि हरन्त्यागछत्सोमं च ततो ऽष्टाक्षरा गायत्र्यभवत्तस्मादाहुरष्टाक्षरा गायत्रीति॥
तया प्रातःसवनमतन्वत॥
तस्माद्गायत्रं प्रातःसवनं तयैव माध्यन्दिनं सवनमतन्वत तां ह त्रिष्टुबुवाचोप त्वाहमायानि त्रिभिरक्षरैरुप मा ह्वयस्व मा मा यज्ञादन्तर्गा इति तथेति तामुपाह्वयत तत एकादशाक्षरा त्रिष्टुबभवत्तस्मादाहुस्त्रैष्टुभम् माध्यन्दिनं सवनमिति॥
तयैव तृतीयसवनमतन्वत॥
तां ह जगत्युवाचोप त्वाहमायान्येकेनाक्षरेणोप सा ह्वयस्व मा मा यज्ञादन्तर्गा इति तथेति तामुपाह्वयत ततो द्वादशाक्षरा जगत्यभवत्तस्मादाहुर्जागतं तृतीयसवनमिति॥
तदाहुः॥
गायत्राणि वै सर्वाणि सवनानि गायत्री ह्येवैतदुपसृजमानैदिति तस्मात्संसिद्धम् प्रातःसवने प्रतिगृणीयात्संसिद्धा हि गायत्र्यागछत्सकृन्मद्वन्माध्यन्दिने सवन एकं हि साक्षरं हित्वागछत्तेनैवैनामेतत्समर्धयति कृत्स्नां करोति॥
यत्र त्रिष्टुभः शस्यन्ते॥
त्रिमद्वत्तृतीयसवने त्रीणि हि साक्षराणि हित्वागछत्तैरेवैनामेतत्समर्धयति कृत्स्नां करोति॥
यत्र द्यावापृथिव्यं शस्यते॥
इमे ह वै द्यावापृथिवी इमाः प्रजा उपजीवन्ति तदनयोरेवैतद्द्यावापृथिव्यो रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति स वा ओमित्येव प्रतिगृणीयात्तद्धि सत्यं तद्देवा विदुः॥
तद्धैके॥
ओथामोदैव वागिति प्रतिगृणन्ति वाक्प्रतिगर एतद्वाचमुपाप्नुम इति वदन्तस्तदु तथा न कुर्याद्यथा वै कथा च प्रतिगृणात्युपाप्तैवास्य वाग्भवति वाचा हि प्रतिगृणाति तस्मादोमित्येव प्रतिगृणीयात्तद्धि सत्यं तद्देवा विदुः॥
इहा इहा इत्यभिषुणोति॥
इन्द्रमेवैतदाच्यावयति बृहद्बृहदितीन्द्रमेवैतदाच्यावयति॥
स शुक्रामन्थिनौ प्रथमौ गृह्णाति॥
शुक्रवद्ध्येतत्सवनमथाग्रयणं सर्वेषु ह्येष सवनेषु गृह्यते ऽथ मरुत्वतीयमथोक्थ्यमुक्थानि ह्यत्रापि भवन्ति॥
तद्धैके॥
उक्थ्यं गृहीत्वाथ मरुत्वतीयं गृह्णन्ति तदु तथा न कुर्यान्मरुत्वतीयमेव गृहीत्वाथोक्थ्यं गृह्णीयात्॥
तान्वा एतान्॥
पञ्च ग्रहान्गृह्णात्येष वै वज्रो यन्माध्यन्दिनः पवमानस्तस्मात्पञ्चदशः पञ्चसामा भवति पञ्चदशो हि वज्रः स एतैः पञ्चभिर्ग्रहैः पञ्च वा इमा अङ्गुलयो ऽङ्गुलिभिर्वै प्रहरति॥
इन्द्रो वृत्राय वज्रम् प्रजहार॥
स वृत्रम् पाप्मानं हत्वा विजिते ऽभये ऽनाष्ट्रे दक्षिणा निनाय तस्मादप्येतर्हि यदैवैतेन माध्यन्दिनेन पवमानेन स्तुवते ऽथ विजिते ऽभये ऽनाष्ट्रे दक्षिणा नीयन्ते तथो एवैष एतैः पञ्चभिर्ग्रहैः पाप्मने द्विषते भ्रातृव्याय वज्रम् प्रहरति स वृत्रम् पाप्मानं हत्वा विजिते ऽभये नाष्ट्रे दक्षिणा नयति तस्माद्वा एतान्पञ्च ग्रहान्गृह्णाति॥
तद्यन्मरुत्वतीयान्गृह्णाति॥
एतद्वा इन्द्रस्य निष्केवल्यं सवनं यन्माध्यन्दिनं सवनं तेन वृत्रमजिघासत्तेन व्यजिगीषत मरुतो वा इत्यश्वत्थे ऽपक्रम्य तस्थुः क्षत्रं वा इन्द्रो विशो मरुतो विशा वै क्षत्रियो बलवान्भवति तस्मादाश्वत्थे ऋतुपात्रे स्यातां कार्ष्मर्यमये त्वेव भवतः॥
तानिन्द्र उपमन्त्रयां चक्रे॥
उप मावर्तध्वं युष्माभिर्बलेन वृत्रं हनानीति ते होचुः किं नस्ततः स्यादिति तेभ्य एतौ मरुत्वतीयौ ग्रहावगृह्णात्॥
ते होचुः॥
अपनिधायैनमोज उपावर्तामहा इति त एनमपनिधायैवौज उपाववृतुस्तद्वा इन्द्रो ऽस्पुणुतापनिधाय वै मौज उपावृतन्निति॥
स होवाच॥
सहैव मौजसोपावर्तध्वमिति तेभ्यो वै नस्तृतीयं ग्रहं गृहाणेति तेभ्य एतं तृतीयं ग्रहमगृह्णादुपयामगृहीतो ऽसि मरुतां त्वौजस इति त एनं सहैवौजसोपावर्तन्त तैर्व्यजयत तैर्वृत्रमहन्क्षत्रं वा इन्द्रो विशो मरुतो विशा वै क्षत्रियो बलवान्भवति तत्क्षत्र एवैतद्बलं दधाति तस्मान्मरुत्वतीयान्गृह्णाति॥
स वा इद्रायैव मरुत्वते गृह्णीयात्॥
नापि मरुद्भ्यः स यद्धापि मरुद्भ्यो गृह्णीयात्प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्यादथैतदिन्द्रमेवानु मरुत आभजति तत्क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति तस्मादिन्द्रायैव मरुत्वते गृह्णीयान्नापि मरुद्भ्यः॥
अपक्रमादु हैवैषामेतद्बिभयां चकार॥
यदिमे मन्नापक्रामेयुर्यन्नान्यद्ध्रियेरन्निति तानेवैतदनपक्रमिणो ऽकुरुत तस्मादिन्द्रायैव मरुत्वते गृह्णीयान्नापि मरुद्भ्यः॥
ऋतुपात्राभ्यां गृह्णाति॥
ऋतवो वै संवत्सरो यज्ञस्ते ऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते यदृतुग्रहान्गृह्णात्यथैतत्परो ऽक्षम् माध्यन्दिने सवने ऽवकल्पयन्ते यदृतुपात्राभ्याम् मरुत्वतीयान्गृह्णाति विशो वै मरुतो ऽन्नं वै विश ऋतवो वा इदं सर्वमन्नाद्यम् पचन्ति तस्मादृतुपात्राभ्याम् मरुत्वतीयान्गृह्णाति॥
अथातो गृह्णात्येव॥
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य॥
तव प्रणीती तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञाः॥
उपयामगृहीतो ऽसीन्द्राय त्वामरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते॥
मरुत्वन्तं वृषभम्॥
वावृधानमकवारिं दिव्यं शासमिन्द्रम् विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते उपयामगृहीतो ऽसि मरुतां त्वौजस इति तृतीयं ग्रहं गृह्णाति॥
अथ महेन्द्रं ग्रहं गृह्णाति॥
पाप्मना वा एतदिन्द्रः संसृष्टो ऽभूद्यद्विशा मरुद्भिः स यथा विजयस्य कामाय विशा समाने पात्रे ऽश्नीयादेवं तद्यदस्मा एतम् मरुद्भिः समानं ग्रहमगृह्णन्॥
तं देवाः॥
सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे यथेषीकाम् मुञ्जाद्विवृहेदेवं सर्वस्मात्पाप्मनो व्यवृहन्यन्माहेन्द्रं ग्रहमगृह्णंस्तथो एवैष एतद्यथेषीका विमुञ्जा स्यादेवं सर्वस्मात्पाप्मनो निर्मुच्यते यन्माहेन्द्रं ग्रहम् गृह्णाति॥
यद्वेव माहेन्द्रं ग्रहं गृह्णाति॥
इन्द्रो वा एष पुरा वृत्रस्य बधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवम् महेन्द्रो ऽभवत्तस्मान्माहेन्द्रं ग्रहं गृह्णाति महान्तमु चैवैनमेतत्खलु करोति वृत्रस्य बधाय तस्माद्वेव माहेन्द्रं ग्रहं गृह्णाति शु पात्रेण गृह्णात्येष वै शुक्रो य एष तपत्येष उ एव महांस्तस्माछुक्रपात्रेण गृह्णाति॥
अथातो गृह्णात्येव॥
महां इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वेति सादयति महेन्द्राय ह्येनं गृह्णाति॥
अथोपाकृत्यैतां वाचं वदति॥
अभिषोतारो ऽभिषुणुतौलूखलानुद्वादयताग्नीदाशिरं विनय सौम्यस्य वित्तादिति ते वै तृतीयसवनायैवाभिषोतारो ऽभिषुण्वन्ति तृतीयसवनायौलूखलानुद्वादयन्ति तृतीयसवनायाग्नीदाशिरं विनयति तृतीयसवनाय सौम्यं चरुं श्रपयत्येते वै शुक्रवती रसवती सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनमथैतन्निर्धीतशुक्रं यत्तृतीयसवनं तदेवैतस्मान्माध्यन्दिनात्सवनान्निर्मिमीते तथो हास्यैतछुक्रवद्रसवत्तृतीयसवनम् भवति तस्मादेतामत्र वाचं वदति॥
घ्नन्ति वा एतद्यज्ञम्॥
यदेनं तन्वते यन्न्वेव राजानमभिषुण्वन्ति तत्तं घ्नन्ति यत्पशुं सञ्ज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति॥
स एष यज्ञो हतो न ददक्षे॥
तं देवा दक्षिणाभिरदक्षयंस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदेवात्र यज्ञस्य हतस्य व्यथते तदेवास्यैतद्दक्षिणाभिर्दक्षयत्यथ समृद्ध एव यज्ञो भवति तस्माद्दक्षिणा ददाति॥
तद्वै षड्द्वादशेत्येव हविर्यज्ञे ददति॥
न ह त्वेवाशतदक्षिणः सौम्यो ऽध्वरः स्यादेष वै प्रत्यक्षं यज्ञो यत्प्रजापतिः पुरुषो वै प्रजापतेर्नेदिष्ठं सो ऽयं शतायुः शततेजाः शतवीर्यस्तं शतेनैव दक्षयति नाशतेन तस्मान्नाशतदक्षिणः सौम्यो ऽध्वरः स्यान्नो हैवाशतदक्षिणेन यजमानस्यर्त्विक्स्यान्नेदस्याक्षिभूरसानि यमिमे हनिष्यन्त्येव न दक्षयिष्यन्तीति॥
द्वया वै देवा देवाः॥
अहैव देवा अथ ये ब्राह्मणाः शुश्रुवांसो ऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधाविभक्त एव यज्ञ आहुतय एव देवानां दक्षिणा मनुष्यदेवानाम् ब्राह्मणानां शुश्रुवुषामनूचानानामाहुतिभिरेव देवान्प्रीणाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणाञ्छुश्रुवुषो ऽनूचानांस्त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति॥
ता वा एताः॥
ऋत्विजामेव दक्षिणा अन्यं वा एत एतस्यात्मानं संस्कुर्वन्त्येतं यज्ञमृङ्मयं यजुर्मयं साममयमाहुतिमयं सो ऽस्यामुष्मिंलोक आत्मा भवति तद्ये माजीजनन्तेति तस्मादृत्विग्भ्य एव दक्षिणा दद्यान्नानृत्विग्भ्यः॥
अथ प्रतिपरेत्य गार्हपत्यम्॥
दक्षिणानि जुहोति स दशाहोमीये वाससि हिरण्यम् प्रबध्यावधाय जुहोति देवलोके मे ऽप्यसदिति वै यजते यो यजते सो ऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति सैति दक्षिणामन्वारभ्य यजमानः॥
चतस्रो वै दक्षिणाः॥
हिरण्यं गौर्वासो ऽश्वो न वै तदवकल्पते यदश्वस्य पादमवध्याद्यद्वा गौः पादमवदध्यात्तस्माद्दशाहोमीये वाससि हिरण्यम् प्रबध्यावधाय जुहोति॥
सौरीभ्यामृग्भ्यां जुहोति॥
तमसा वा असौ लोको ऽन्तर्हितः स एतेन ज्योतिषा तमो ऽपहत्य स्वर्गं लोकमुपसङ्क्रामति तस्मात्सौरीभ्यामृग्भ्यां जुहोति॥
स जुहोति॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः॥
दृशे विश्वाय सूर्यं स्वाहेत्यतया गायत्र्या गायत्री वा इयम् पृथिवी सेयम् प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायाम् प्रतितिष्ठति॥
अथ द्वितीयां जुहोति॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः॥
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च स्वाहेत्येतया त्रिष्टुभा लोकमेवैतयोपप्रैति॥
अथाग्नीध्रे॥
द्वे वैकां वा जुहोति तद्यदग्नावाग्नीध्रे द्वे वैकां वा जुहोत्यग्निर्वै पशूनामीष्टे त एनमभितः परिणिविशन्ते तमेतयाहुत्या प्रीणाति सो ऽस्मै प्रीतो ऽनुमन्यते तेनानुमतां ददाति॥
स जुहोति॥
अग्ने नय मुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्॥
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम स्वाहेत्यथ यद्यश्वं युक्तं वायुक्तं वा दास्यन्त्स्यादथ द्वितीयां जुहुयाद्यद्यु न नाद्रियेत॥
स जुहोति॥
अयं नो अग्निर्वरिवस्कृणोत्वयम् मृधः पुर एतु प्रभिन्दन् अयं वाजान्जयतु वाजसातावयं शत्रून्जयतु जर्हृषाणः स्वाहेति वाजसा ह्यश्वः॥
अथ हिरण्यमादाय शालामभ्यैति॥
दक्षिणेन वेदिं दक्षिणा उपतिष्ठन्ते सो ऽग्रेण शालां तिष्ठन्नभिमन्त्रयते रूपेण वो रूपमभ्यागामिति न ह वा अग्रे पशवो दानाय चक्षमिरे ते ऽपनिधाय स्वानि रुपाणि शरीरैः प्रत्युपातिष्ठन्त तानेतद्देवाः स्वैरेव रूपैर्यज्ञस्यार्धादुपायंस्ते स्वानि रूपाणि जानाना अभ्यवायंस्ते रातमनसो ऽलं दानायाभवंस्तथो एवैनानेष एतत्स्वैरेव रूपैर्यज्ञस्यार्धादुपैति ते स्वानि रूपाणि जानाना अभ्यवायन्ति ते रातमनसो ऽलं दानाय भवन्ति॥
तथो वो विश्ववेदा विभजत्विति॥
ब्रह्म वै तुथस्तदेना ब्रह्मणा विभजति ब्रह्म वै दक्षिणीयं चादक्षिणियं च वेद तथो हास्यैता दक्षिणीयायैव दत्ता भवन्ति नादक्षिणीयाय॥
ऋतस्य पथा प्रेतेति॥
यो वै देवानाम् पथैति स ऋतस्य पथैति चन्द्रदक्षिणा इति तदेतेन ज्योतिषा यन्ति॥
अथ सदो ऽभ्यैति॥
वि स्वः पश्य व्यन्तरिक्षमिति वि त्वया दक्षिणया लोकं ख्येषमित्येवैतदाह॥
अथ सदः प्रेक्षते॥
यतस्व सदस्यैरिति मा त्वा सदस्या अतिरिक्षतेत्येवैतदाह॥
अथ हिरण्यमादायाग्नीध्रमभ्यैति॥
ब्राह्मणमद्य विदेयम् पितृमन्तम् पैतृमत्यमिति यो वै ज्ञातो ज्ञातकुलीनः स पितृमान्पैतृमत्यो या वै ज्ञातायापि कतिपयीर्दक्षिणा ददाति ताभिर्महज्जयत्यृषिमार्षेयमिति यो वै ज्ञातो ऽनूचानः स ऋषिरार्षेयः सुधातुदक्षिणामिति स हि सुधातुदक्षिणः॥
अथैवमुपसद्य॥
अग्नीधे हिरण्यं ददात्यस्मद्राता देवत्रा गछतेति यां वै रातमना अविचिकित्सन्दक्षिणां ददाति तया महज्जयति देवत्रा गछतेति देवलोके मे ऽप्यसदिति वै यजते यो यजते तद्देवलोक एवैनमेतदपित्विनं करोति प्रदातारमाविशतेति मामाविशतेत्येवैतदाह तथो हास्मादेताः पराच्यो न प्रणश्यन्ति तद्यदग्नीधे प्रथमाय दक्षिणां ददात्यतो हि विश्वे देवा अमृतत्वमपाजयंस्तस्मादग्नीधे प्रथमाय दक्षिणां ददाति॥
अथैवमेवोपसद्य॥
आत्रेयाय हिरण्यं ददाति यत्र वा अदः प्रातरनुवाकमन्वाहुस्तद्ध स्मैतत्पुरा शंसन्त्यत्रिर्वा ऋषीणां होतासाथैतत्सदो ऽसुरतमसमभिपुप्रुवे त ऋषयो त्रिमब्रुवन्नेहि प्रत्यङ्ङिदं तमो ऽपजहीति स एतत्तमो ऽपाहन्नयं वै ज्योतिर्य इदं तमो ऽपाबधीदिति तस्मा एतज्ज्योतिर्हिरण्यं दक्षिणामनयज्ज्योतिर्हि हिरण्यं तद्वै स तत्तेजसा वीर्येणर्षिस्तमो ऽपजघानाथैष एतेनैवैतज्ज्योतिषा तमो ऽपहन्ति तस्मादात्रेयाय हिरण्यं दधाति॥
अथ ब्रह्मणे॥
ब्रह्मा हि यज्ञं दक्षिणतो ऽभिगोपायत्यथोद्गात्रे ऽथ होत्रे ऽथाध्वर्युभ्यां हविर्धान आसीनाभ्यामथ पुनरेत्य प्रस्तोत्रे ऽथ मैत्रावरुणायाथ ब्राह्मणाछंसीने ऽथ पोत्रे ऽथ नेष्ट्रे ऽथाछावाकायाथोन्नेत्रे ऽथ ग्रावस्तुते ऽथ सुब्रह्मण्यायै प्रतिहर्त्र उत्तमाय ददाति प्रतिहर्ता वा एष सो ऽस्मा एतदन्ततः प्रतिहरति तथो हास्मादेताः पराच्यो न प्रणश्यन्ति॥
अथाहेन्द्राय मरुत्वते ऽनुब्रूहीति॥
यत्र वै प्रजापतिरग्रे ददौ तद्धेन्द्र ईक्षां चक्रे सर्वं वा अयमिदं दास्यति नास्मभ्यं किं चन परिशेक्ष्यतीति स एतं वज्रमुदयछदिन्द्राय मरुत्वते ऽनुब्रूहीत्यदानाय ततो नाददात्स एषो ऽप्येतर्हि तथैव वज्र उद्यम्यत इन्द्राय मरुत्वते ऽनुब्रूहीत्यदानाय ततो न ददाति॥
चतस्रो वै दक्षिणाः॥
हिरण्यमायुरेवैतेनात्मनस्त्रायत आयुर्हि हिरण्यं तदग्नय आग्नीध्रं कुर्वते ऽददात्तस्मादप्येतर्ह्यग्नीधे हिरण्यं दीयते॥
अथ गौः॥
प्राणमेवैतयात्मनस्त्रायते प्राणो हि गौरन्नं हि गौरन्नं हि प्राणस्तां रुद्राय होत्रे ऽददात्॥
अथ वासः॥
त्वचमेवैतेनात्मनस्त्रायते त्वग्घि वासस्तद्बृहस्पतय उद्गायते ऽददात्॥
अथाश्वः॥
वज्रो वा अश्वो वज्रमेवैतत्पुरोगां कुरुते यमलोके मे ऽप्यसदिति वै यजते यो यजते तद्यमलोक एवैनमेतदपित्विनं करोति तं यमाय ब्रह्मणे ऽददात्॥
स हिरण्यम् प्रत्येति॥
अग्नये त्वा मह्यं वरुणो ददात्वित्यग्नये ह्येतद्वरुणो ऽदधात्सो ऽमृतत्वमशीयायुर्दात्र एधि मयो मह्यम् प्रतिग्रहीत्र इति॥
अथ गाम् प्रत्येति॥
रुद्राय त्वा मह्यं वरुणो ददात्विति रुद्राय ह्येतां वरुणो ऽददात्सो ऽमृतत्वमशीय प्राणो दात्र एधि वयो मह्यम् प्रतिग्रहीत्र इति॥
अथ वासः प्रत्येति॥
बृहस्पतये त्वा मह्यं वरुणो ददात्विति बृहस्पतये ह्येतद्वरुणो ऽददात्सो ऽमृतत्वमशीय त्वग्दात्र एधि मयो मह्यम् प्रतिग्रहीत्र इति॥
अथाश्वम् प्रत्येति॥
यमाय त्वा मह्यं वरुणो ददात्विति यमाय ह्येतं वरुणो ऽददात्सो ऽमृतत्वमशीय हयो दात्र एधि वयो मह्यम् प्रतिग्रहीत्र इति॥
अथ यदन्यद्ददाति॥
कामेनैव तद्ददातीदम् मे ऽप्यमुत्रासादिति तत्प्रत्येति को ऽदात्कस्मा अदात्कामो ऽदात्कामायादात् कामो दाता कामः प्रतिग्रहीता कामैतत्त इति तद्देवताया अतिदिशति॥
तदाहुः॥
न देवताया अतिदिशेदिदं वै यां देवतां समिन्द्धे सा दीप्यमाना श्वः-श्वः श्रेयसी भवतीदं वै यस्मिन्नग्नावभ्यादधति स दीप्यमान एव श्वः-श्वः श्रेयान्भवति श्वः-श्वो ह वै श्रेयान्भवति य एवं विद्वान्प्रतिगृह्णाति तद्यथा समिद्धे जुहुयादेवमेतां जुहोति यामधीयते ददाति तस्मादधीयन्नातिदिशेत्॥
त्रया वै देवाः॥
वसवो रुद्रा आदित्यास्तेषां विभक्तानि सवनानि वसूनामेव प्रातःसवनं रुद्राणाम् माध्यन्दिनं सवनमादित्यानां तृतीयसवनं तद्वा अमिश्रमेव वसूनाम् प्रातःसवनममिश्रं रुद्राणाम् माध्यन्दिनं सवनम् मिश्रमादित्यानां तृतीयसवनम्॥
ते हादित्या ऊचुः॥
यथेदममिश्रं वसूनां प्रातःसवनममिश्रं रुद्राणाम् माध्यन्दिनं सवनमेवं न इमम् पुरा मिश्राद्ग्रहं जुहुथेति तथेति देवा अब्रुवंस्ते संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनादेतमजुहवुः स एषो ऽप्येतर्हि तथैव ग्रहो हूयते संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनात्॥
ते हादित्या ऊचुः॥
नेव वा इतरस्मिन्त्सवने स्मो नेवेतरस्मिन्यद्वै नो रक्षांसि न हिंस्युरिति॥
ते ह द्विदेवत्यानूचुः॥
रक्षोभ्यो वै बिभीमो हन्त युष्मान्प्रविशामेति॥
ते ह द्विदेवत्या ऊचुः॥
किमस्माकं ततः स्यादित्यस्माभिरनुवषट्कृता भविष्यथेत्यु हादित्या ऊचुस्तथेति ते द्विदेवत्यान्प्राविशन्॥
स यत्र प्रातःससवने॥
द्विदेवत्यैः प्रचरति तत्प्रतिप्रस्थातादित्यपात्रेण द्रोणकलशात्प्रतिनिगृह्णीत उपयामगृहीतो ऽसीत्येतावताध्वर्युरेवाश्रावयत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थातादित्येभ्यस्त्वेति संस्रवमवनयत्येतावतैवमेव सर्वेषु॥
तद्यत्प्रतिप्रस्थाता प्रतिनिगृह्णीते॥
द्विदेवत्यान्वै प्राविशन्नस्माभिरनुवषट्कृता भविष्यथेत्यु हादित्या ऊचुर्यां वा अमूं द्वितीयामाहुतिं जुहोति स्विष्टकृते वै तां जुहोति स्विष्टकृतो वा एते ऽनुवषट्क्रियन्ते तथो हास्यैते ऽनुवषट्कृता इष्टस्विष्टकृतो भवन्त्युत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य दिक्तस्मादुत्तरार्धे जुहोति॥
यद्वेव प्रतिप्रस्थाता प्रतिनिगृह्णीते॥
द्विदेवत्यान्वै प्राविशन्त्स यानेव प्राविशंस्तेभ्य एवैतन्निर्मिमीते ऽथापिदधाति रक्षोभ्यो ह्यबिभयुर्विष्ण उरुगायैष ते सोमस्तं रक्षस्व मा त्वा दभन्निति यज्ञो वै विष्णुस्तद्यज्ञायैवैतत्परिददाति गुप्त्या अथाह संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनादेहि यजमानेति॥
सम्प्रपद्यन्ते॥
अध्वर्युश्च यजमानश्चाग्नीध्रश्च प्रतिप्रस्थाता चोन्नेताथ यो ऽन्यः परिचरो भवत्युभे द्वारे अपिदधति रक्षोभ्यो ह्यबिभयुरथाध्वर्युरादित्यस्थालीं चादित्यपात्रं चादत्ते स उपर्युपरि पूतभृतं विगृह्णाति नेद्व्यवश्चोतदिति॥
अथ गृह्णाति॥
कदा चन स्तरीरसि नेन्द्र सश्चासि दाशुषे उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत आदित्येभ्यस्त्वेति॥
तं वै नोपयामेन गृह्णीयात्॥
अग्रे ह्येवैष उपयामेन गृहीतो भवत्यजामितायै जामि ह कुर्याद्यदेनमत्राप्युपयामेन गृह्णीयात्॥
अथापगृह्य पुनरानयति॥
कदा चन प्रयुछस्युभे निपासि जन्मनी तुरीयादित्य सवनं त इन्द्रियमातस्थावमृतं दिव्यादित्येभ्यस्त्वेति॥
अथ दधि गृह्णाति॥
आदित्यानां वै तृतीयसवनमादित्यान्वा अनु पशवस्तत्पशुष्वेवैतत्पयो दधाति तदिदम् पशुषु पयो हितम् मध्यत इव गृह्णीयादित्याहुर्मध्यत इव हीदम् पशूनाम् पय इति पश्चादिव त्वेव गृह्णीयात्पश्चादिव हीदम् पशूनाम् पयः॥
यद्वेव दधि गृह्णाति॥
हुतोछिष्टा वा एते संस्रवा भवन्ति नालमाहुत्यै तानेवैतत्पुनराप्याययति तथालमाहुत्यै भवन्ति तस्माद्दधि गृह्णाति॥
स गृह्णाति॥
यज्ञो देवानाम् प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः आ वो ऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासदादित्येभ्यस्त्वेति॥
तमुपांशुसवनेन मेक्षयति॥
विवस्वान्वा एष आदित्यो निदानेन यदुपांशुसवन आदित्यग्रहो वा एष भवति तदेनं स्व एव भागे प्रीणाति॥
तं न दशाभिर्न पवित्रेणोपस्पृशति एते वै शुक्रवती रसवती सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनमथैतन्निर्धीतशुक्रं यत्तृतीयसवनं स यन्न दशाभिर्न पवित्रेणोपस्पृशति तेनो हास्यैतछुक्रवद्रसवत्तृतीयसवनम् भवति तस्मान्न दशाभिर्न पवित्रेणोपस्पृशति॥
स मेक्षयति॥
विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्वेत्यथोन्नेत्र उपांशुसवनम् प्रयछत्यथाहोन्नेतारमासृज ग्राव्ण इति तानाधवनीये वासृजति चमसे वा॥
राजानमुन्नीय॥
आदित्यानां वै तृतीयसवनमादित्यान्वा अनु ग्रावाणस्तदेनान्त्स्व एव भागे प्रीणात्यपोर्णुवन्ति द्वारे॥
अथापिधायोपनिष्क्रामति॥
रक्षोभ्यो ह्यबिभयुरथाहादित्येभ्यो ऽनुब्रूहीत्यत्र सम्पश्येद्यदि कामयेताश्राव्य त्वेव सम्पश्येदादित्येभ्यः प्रेश्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति वषट्कृते जुहोति नानुवषट्करोति नेत्पशूनग्नौ प्रवृणजानीति प्रयछति प्रतिप्रस्थात्रे संस्रवौ॥
अथ पुनः प्रपद्य॥
आग्रयणमादत्त उदीचीनदशम् पवित्रं वितन्वन्ति प्रस्कन्दयत्यध्वर्युराग्रयणस्यप्रतिप्रस्थाता सम्प्रगृह्णाति संस्रवावानयत्युन्नेता चमसेन वोदञ्चनेन वा॥
तं चतसृणां धाराणामाग्रयणं गृह्णाति॥
आदित्यानां वै तृतीयसवनमादित्यान्वा अनु गावस्तस्मादिदं गवां चतुर्धाविहितं पयस्तस्माच्चतसृणां धाराणामाग्रयणं गृह्णाति॥
तद्यत्प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति॥
आदित्यग्रहो वा एष भवति न वा आदित्यग्रहस्यानुवषट्करोत्येतस्माद्वै सावित्रं ग्रहं ग्रहीष्यन्भवति तदस्य सावित्रेणैवानुवषट्कृतो भवति॥
यद्वेव प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति॥
पुरा वा एभ्य एतन्मिश्राद्ग्रहमहौषुः पुरा तृतीयसवनात्तृतीयसवनाय वा एष ग्रहो गृह्यते तदादित्यास्तृतीयसवनमपियन्ति तथा न बहिर्धा यज्ञाद्भवन्ति तस्मात्प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति॥