०२

चक्षुषी ह वा अस्य शुक्रामन्थिनौ॥
तद्वा एष एव शुक्रो य एष तपति तद्यदेष एतत्तपति तेनैष शुक्रश्चन्द्रमा एव मन्थी॥
तं सक्तुभिः श्रीणाति॥
तदेनम् मन्थं करोति तेनो एष मन्थ्येतौ ह वा आसाम् प्रजानां चक्षुषी म यद्धैतौ नोदियातां न हैवेह स्वौ चन पाणी निर्जानीयुः॥
तयोरत्तैवान्यतरः॥
आद्यो ऽन्यतरो ऽत्तैव शुक्र आद्यो मन्थी॥
तयोरत्तैवान्यतरमनु॥
आद्यो ऽन्यतरमन्वत्तैव शुक्रमन्वाद्यो मन्थिनमनु तौ वा अन्यस्मै गृह्येते अन्यस्मै हूयेते शण्डामर्कावित्यसुररक्षसे ताभ्यां गृह्येते देवताभ्यो हूयेते तद्यत्तथा॥
यत्र वै देवाः॥
असुररक्षसान्यपजघ्निरे तदेतावेव न शेकुरपहन्तुं यद्ध स्म देवाः किं च कर्म कुर्वते तद्ध स्म मोहयित्वा क्षिप्र एव पुनरपद्रवतः॥
ते ह देवा ऊचुः॥
उपजानीत यथेमावपहनामहा इति ते होचुर्ग्रहावेवाभ्यां गृह्णाम तावभ्यवैष्यतस्तौ स्वीकृत्यापहनिष्यामह इति ताभ्यां ग्रहौ जगृहुस्तावभ्यवैतां तौ स्वीकृत्यापाघ्नत तस्माछण्डामर्काभ्यामिति गृह्येते देवताभ्यो हूयेते॥
अपि होवाच याज्ञवल्क्यः॥
नो स्विद्देवताभ्य एव गृह्णीयामा विजितरूपमिव हीदमिति तद्वै स तन्मीमांसामेव चक्रे नेत्तु चकार॥
इमामु हैके शुक्रस्य पुरोरुचं कुर्वन्ति॥
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमान इति तदेतस्य रूपं कुर्मो य एष तपतीति यदाह ज्योतिर्जरायुरिति॥
इमां त्वेव शुक्रस्य पुरोरुचं कुर्यात्॥
तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदं स्वर्विदमित्यत्ता ह्येतमन्वत्ता हि ज्येष्ठस्तस्मादाह ज्येष्ठतातिम् बर्हिषदं स्वर्विदम् प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनु यासु वर्धसे उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर्वीरताम् पाहीति यादयत्यत्ता ह्येतमन्वत्ता हि वीरस्तस्मादाहैष ते योनिर्वीरताम् पाहीति दक्षिणार्धे सादयत्येतां ह्येष दिशमनु सञ्चरति॥
अथ मन्थिनं गृह्णाति॥
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने इममपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति उपयामगृहीतो ऽसि मर्काय त्वेति॥
तं सक्तुभिः श्रीणाति॥
तद्यत्सक्तुभिः श्रीणाति वरुणो ह वै सोमस्य राज्ञो ऽभीवाक्षि प्रतिपिपेष तदश्वयत्ततो ऽश्वः समभवत्तद्यछ्वयथात्समभवत्तस्मादश्वो नाम तस्याश्रु प्रास्कन्दत्ततो यवः समभवत्तस्मादाहुर्वरुण्यो यव इति तद्यदेवास्यात्र चक्षुषो ऽमीयत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मात्सक्तुभिः श्रीणाति॥
स श्रीणाति॥
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तावेष ते योनिः प्रजाः पाहीति सादयत्याद्यो ह्येतमन्वाद्या हीमाः प्रजा विशस्तस्मादाहैष ते योनिः प्रजाः पाहीति॥
द्वौ प्रोक्षितौ यूपशकलौ भवतः॥
द्वावप्रोक्षितौ प्रोक्षितं चैवाध्व्र्युरादत्ते ऽप्रोक्षितं चैवमेव प्रतिप्रस्थाता प्रोक्षितं चैवादत्ते प्रोक्षितं च शुक्रमेवाध्वर्युरादत्ते मन्थिनम् प्रतिप्रस्थाता॥
सो ऽध्वर्युः॥
अप्रोक्षितेन यूपशकलेनापमार्ष्ट्यपमृष्टः शण्ड इत्येवमेव प्रतिप्रस्थातापमृष्टौ मर्क इति तदाददानावेवासुररक्षसे अपहतो देवास्त्वा शुक्रपाः प्रणयन्त्वित्येवाध्वर्युर्निष्क्रामति देवास्त्वा मन्थिपाः प्रणयन्त्विति प्रतिप्रस्थाता तदेतौ देवताभ्य एव प्रणयतः॥
तौ जघनेनाहवनीयमरत्नी सन्धत्तः॥
ता उत्तरवेदौ सादयतो दक्षिणायामेव श्रोणावध्वर्युः सादयत्युत्तरायाम् प्रतिप्रस्थाताननुसृजन्तावेवानाधृष्टासीति तद्रक्षोभिरेवैतदुत्तरवेदिमनाधृष्टां कुरुतो विपर्येष्यन्तौ वा एतावग्निम् भवतो ऽत्येष्यन्तौ तस्मा एवैतन्निह्नुवाते तथो हैनौ विपरियन्तावग्निर्न हिनस्ति॥
सो ऽध्वर्युः पर्येति॥
सुवीरो वीरान्प्रजनयन्परीहीत्यत्ता ह्येतमन्वत्ता हि वीरस्तस्मादाह सुवीरो वीरान्प्रजनयन्परीहीत्यभि रायस्पोषेण यजमानमिति तद्यजमानायाशिषमाशास्ते यदाहाभि रायस्पोषेण यजमानमिति॥
अथ प्रतिप्रस्थाता पर्येति॥
सुप्रजाः प्रजाः प्रजनयन्परीहीत्याद्यो ह्येतमन्वाद्या हीमाः प्रजा विशस्तस्मादाह सुप्रजाः प्रजाः प्रजनयन्परीहीत्यभि रायस्पोषेण यजमानमिति तद्यजमानायाशिषमाशास्ते यदाहाभि रायस्पोषेण यजमानमिति॥
तावपिधाय निष्क्रामतः॥
तिर एवैनावेतत्कुरुतस्तस्मादिमौ सूर्याचन्द्रमसौ प्राञ्चौ यन्तौ न कश्चन पश्यति तौपुरस्तात्परीत्यापोर्णुतः पुरस्तात्तिष्ठन्तौ जुहुत आविरेवैनावेतत्कुरुतस्तस्मादिमौ सूर्याचन्द्रमसौ प्रत्यञ्चौ यन्तौ सर्व एव पश्यति तस्मात्पराग्रेतः सिच्यमानं न कश्चन पश्यति तदु पश्चात्प्रजायमानं सर्व एव पश्यति॥
तौ जघनेन यूपमरत्नी सन्धत्तः॥
यद्यग्निर्नोद्बाधेत यद्यु अग्निरुद्बाधेताप्यग्रेणैव यूपमरत्नी सन्दध्यातां सञ्जग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषेत्येवाध्वर्युः सञ्जग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषेति प्रतिप्रस्थाता चक्षुषोरेवैते आरमणे कुरुतश्चक्षुषी एवैतत्सन्धत्तस्तस्मादिमे अभितो ऽस्थिनी चक्षुषी संहिते॥
सो ऽध्वर्युः॥
अप्रोक्षितं यूपशकलं निरस्यति निरस्तः शण्ड इत्येवमेव प्रतिप्रस्थाता निरस्तो मर्क इति तत्पुराहुतिभ्यो ऽसुररक्षसे अपहतः॥
अथाध्वर्युः॥
प्रोक्षितं यूपशकलमाहवनीये प्रास्यति शुक्रस्याधिष्ठानमसीत्येवमेव प्रतिप्रस्थाता मन्थिनो ऽधिष्ठानमसीति चक्षुषोरेवैते समिधौ चक्षुषी एवैतत्समिन्द्धे तस्मादिमे समिद्धे चक्षुषी॥
तत्र जपति॥
अछिन्नस्य ते देव सोम सवीर्यस्य रायस्पोषस्य ददितारः स्यामेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते॥
अथाश्राव्याह॥
प्रातःप्रातः सवस्य शुक्रवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्येति वषट्कृते ऽध्वर्युर्जुहोति तदनु प्रतिप्रस्थाता तदनु चमसाध्वर्यवः॥
तौ वै पुरस्तात्तिष्ठन्तौ जुहुतः॥
चक्षुषी वा एतौ तत्पुरस्तादेवैतच्चक्षुषी धत्तस्तस्मादिमे पुरस्ताच्चक्षुषी॥
अभितो यूपं तिष्ठन्तौ जुहुतः॥
यथा वै नासिकैवं यूपस्तस्मादिमे अभितो नासिकां चक्षुषी॥
तौ वै वषट्कृतौ सन्तौ मन्त्रेण हूयते॥
एतेनो हैतौ तदुदश्नुवाते यदेनौ सर्वं सवनमनुहूयते यद्वेवैतौ सर्वं सवनमनुहूयत एतौ वै प्रजापतेः प्रत्यक्षतमां चक्षुषी ह्येतौ सत्यं वै चक्षुः सत्यं हि प्रजापतिस्तस्मादेनौ सर्वं सवनमनुहूयते॥
स जुहोति॥
स प्रथमा संस्कृतिर्विश्ववारा स प्रथमो वरुणो मित्रो अग्निः स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोत स्वाहेति॥
स यज्जुहोति॥
सा प्रथमा स प्रथम इति शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे सम्भवतस्तस्माज्जुहोति सा प्रथमा इति॥
अथ सम्प्रेष्यति॥
प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणाम् प्र यजमानस्य प्रयन्तु सदस्यानां होत्राणां चमसाध्वर्यव उपावर्तध्वं शुक्रस्याभ्युन्नयध्वमिति सम्प्रैष एवैष पर्येत्य प्रतिप्रस्थाताध्वर्योः पात्रे संस्रवमवनयत्यत्त्र एवैतदाद्यम् बलिं हारयति तमध्वर्युर्होतृचमसे ऽवनयति भक्षाय वषट्कर्तुर्हि भक्षः प्राणो वै वषट्कारः सो ऽस्मादेतद्वषट्कुर्वतः पराङिवाभूत्प्राणो वै भक्षस्तत्प्राणम् पुनरात्मन्धत्ते॥
अथ यदेते प्रतीची पात्रे न हरन्ति॥
हरन्त्यन्यान्ग्रहांश्चक्षुषी ह्येते संस्रवमेव होतृचमसे ऽवनयति॥
अथ होत्राणां चमसानभ्युन्नयन्ति॥
हुतोछिष्टा वा एते संस्रवा भवन्ति नालमाहुत्यै तानेवैतत्पुनराप्याययन्ति तथालमाहुत्यै भवन्ति तस्माद्धोत्राणां चमसानभ्युन्नयन्ति॥
अथ होत्राः संयाजयन्ति॥
होत्रा ह वै युक्ता देवेभ्यो यज्ञं वहन्ति ता एवैतत्सन्तर्पयन्ति तृप्ताः प्रीता देवेभ्यो यज्ञं वहानिति तस्माद्धोत्राः संयाजयन्ति॥
स प्रथमायां वा होत्रायाम्॥
इष्टायामुत्तमायां वानुमन्त्रयते तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहेति होत्राणामेवैषा तृप्तिरथेत्य प्रत्यङ्ङुपविशत्ययाडग्नीदित्यग्नीद्ध्यत्र यजतामुत्तमः संयजति तस्मादाहायाडग्नीदिति॥
आत्मा ह वा अस्याग्रयणः॥
सो ऽस्यैष सर्वमेव सर्वं ह्ययमात्मा तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णाति सर्वं वा इयं सर्वमेष ग्रहस्तस्मादनया गृह्णाति॥
पूर्णं गृह्णाति॥
सर्वं वै पूर्णं सर्वमेष ग्रहस्तस्मात्पूर्णं गृह्णाति॥
विश्वेभ्यो देवेभ्यो गृह्णाति॥
सर्वं वै विश्वे देवाः सर्वमेष ग्रहस्तस्माद्विश्वेभ्यो देवेभ्यो गृह्णाति॥
सर्वेषु सवनेषु गृह्णाति॥
सर्वं वै सवनानि सर्वमेष ग्रहस्तस्मात्सर्वेषु सवनेषु गृह्णाति॥
स यदि राजोपदस्येत्॥
तमत एव तन्वीरन्नतः प्रभावयेयुरात्मा वा आग्रयण आत्मनो वा इमानि सर्वाण्यङ्गानि प्रभवन्त्येतस्मादन्ततो हारियोजनं ग्रहं गृह्णाति तदात्मन्येवास्याम् प्रतिष्ठायामन्ततो यज्ञः प्रतितिष्ठति॥
अथ यस्मादाग्रयणो नाम॥
यां वा अमूं ग्रावाणमाददानो वाचं यछत्यत्र वै साग्रे ऽवदत्तद्यत्सात्राग्रे ऽवदत्तस्मादाग्रयणो नाम॥
रक्षोभ्यो वै ताम् भीषा वाचमयछन्॥
षड्वा अतः प्राचो ग्रहान्गृह्णात्यथैष सप्तमः षड्वा ऋतवः संवत्सरस्य सर्वं वै संवत्सरः॥
तां देवाः॥
सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे ऽत्राग्रे वाचमवदंस्तथो एवैष एतां सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे ऽत्राग्रे वाचं वदति॥
अथातो गृह्णात्येव॥
ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् उपयामगृहीतो ऽस्याग्रयणो ऽसि स्वाग्रयण इति वाचमेवैतदयातयाम्नीं करोति तस्मादनया समानं सद्विपर्यासं वदत्यजामितायै जामि ह कुर्याद्यदाग्रयणो ऽस्याग्रयणो ऽसीति गृह्णीयात्तस्मादाहाग्रयणो ऽसि स्वाग्रयण इति॥
पाहि यज्ञम् पाहि यज्ञपतिमिति॥
वाचमेवैतदुत्सृष्टामाह गोपाय यज्ञमिति पाहि यज्ञपतिमिति वाचमेवैतदुत्सृष्टामाह गोपाय यजमानमिति यजमानो हि यज्ञपतिर्विष्णुस्त्वामिन्द्रियेण पातु विष्णुं त्वम् पाहीति वाचमेवैतदुत्सृष्टामाह यज्ञो वै विष्णुर्यज्ञस्त्वां वीर्येण गोपायत्विति विष्णुं त्वम् पाहीति वाचमेवैतदुत्सृष्टामाह यज्ञं त्वं गोपायेत्यभि सवनानि पाहीति तदेतं ग्रहमाह सर्वाणि ह्येष सवनानि प्रति॥
अथ दशापवित्रमुपगृह्य हिङ्करोति॥
सा हैषा वागनुद्यमाना तताम तस्यां देवा वाचि तान्तायां हिङ्कारेणैव प्राणमदधुः प्राणो वै हिङ्कारः प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कर्तुं शक्नोति सैतेन प्राणेन समजिहीत यदा वै तान्तः प्राणं लभते ऽथ स सञ्जिहीते तथो एवैष एतद्वाचि तान्तायां हिङ्कारेणैव प्राणं दधाति सैतेन प्राणेन सञ्जिहीते त्रिष्कृत्वो हिङ्करोति त्रिवृद्धि यज्ञः॥
अथाह सोमः पवत इति॥
स यामेवामूम् भीषासुररक्षसेभ्यो न निरब्रुवंस्तामेवैतत्सर्वस्मिन्विजिते ऽभये ऽनाष्ट्रे ऽत्र निराह तामाविष्करोति तस्मादाह सोमः पवत इति॥
अस्मै ब्रह्मणे ऽस्मै क्षत्रायेति॥
तद्ब्रह्मणे च क्षत्राय चाहास्मै सुन्वते यजमानाय पवत इति तद्यजमानायाह॥
तदाहुः॥
एतावदेवोक्त्वा सादयेदेतावद्वा इदं सर्वं यावद्ब्रह्म क्षत्रं विडिन्द्राग्नी वा इदं सर्वं तस्मादेतावदेवोक्त्वा सादयेदिति॥
तदु ब्रूयादेव भूयः॥
इष ऊर्जे पवत इति वृष्ट्यै तदाह यदाहेष इत्यूर्ज इति यो वृष्टादूर्ग्रसो जायते तस्मै तदाहाद्भ्य ओषधीभ्यः पवत इति तदद्भ्यश्चौषधीभ्यश्चाह द्यावापृथिवीभ्याम् पवत इति तदाभ्यां द्यावापृथिवीभ्यामाह ययोरिदं सर्वमधि सुभूताय पवत इति साधवे पवत इत्येवैतदाह॥
तदु हैक आहुः॥
ब्रह्मवर्चसाय पवत इति तदु तथा न ब्रूयाद्यद्वा आहास्मै ब्रह्मण इति तदेव ब्रह्मवर्चसायाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति तं वै मध्ये सादयत्यात्मा ह्यस्यैष मध्य इव ह्ययमात्मा दक्षिणोक्थ्यस्थाली भवत्युत्तरादित्यस्थाली॥
अयं ह वा अस्यैषो ऽनिरुक्त आत्मा यदुक्थ्यः॥
सो ऽस्यैष आत्मैवात्मा ह्ययमनिरुक्तः प्राणः सो ऽस्यैष आयुरेव तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णात्यजरा हीयममृताजरं ह्यमृतमायुस्तस्मादनया गृह्णाति॥
तं वै पूर्णं गृह्णाति॥
सर्वं वै तद्यत्पूर्णं सर्वं तद्यदायुस्तस्मात्पूर्णं गृह्णाति॥
तस्यासावेव ध्रुव आयुः॥
आत्मैवास्यैतेन संहितः पर्वाणि सन्ततानि तद्वा अगृहीत एवैतस्मादछावाकायोत्तमो ग्रहो भवति॥
अथ राजानमुपावहरति॥
तृतीयं वसतीवरीणामवनयति तत्पर्व समैति प्रथममहोत्तरस्य सवनस्य करोत्युत्तमम् पूर्वस्य स यदुत्तरस्य सवनस्य तत्पूर्वं करोति यत्पूर्वस्य तदुत्तमं तद्व्यतिषजति तस्मादिमानि पर्वाणि व्यतिषक्तानीदमित्थमतिहानमिदमित्थम्॥
एवमेव माध्यन्दिने सवने॥
अगृहीत एवैतस्मादछावाकायोत्तमो ग्रहो भवत्यथ तृतीयं वसतीवरीणामवनयति तत्पर्व समैति प्रथममहोत्तरस्य सवनस्य करोत्युत्तमम् पूर्वस्य स यदुत्तरस्य तत्पूर्वं करोति यत्पूर्वस्य तदुत्तमं तद्व्यतिषजति तस्मादिमानि पर्वाणि व्यतिषक्तानीदमित्थमतिहानमिदमित्थं तद्यदस्यैतेनात्मा संहितस्तेनास्यैष आयुः॥
सैषा कामदुघैवेन्द्रस्योद्धारः॥
त्रिभ्य एवैनम् प्रातःसवन उक्थेभ्यो विगृह्णाति त्रिभ्यो माध्यन्दिने सवने तत्षट् कृत्वः षड्वा ऋतव ऋतवो वा इमान्त्सर्वान्कामान्पचन्त्येतेनो हैषा कामदुघैवेन्द्रस्योद्धारः॥
तं वा अपुरोरुक्कं गृह्णाति॥
उक्थं हि पुरोरुगृग्घि पुरोरुगृग्घ्युक्थं साम ग्रहो ऽथ यदन्यज्जपति तद्यजुस्ता हैता अभ्यर्ध एवाग्र ऋग्भ्य आसुरभ्यर्धो युजुर्भ्यो ऽभ्यर्धः सामभ्यः॥
ते देवा अब्रुवन् हन्तेमा यजुःषु दधाम तथेयम् बहुलतरेव विद्या भविष्यतीति ता यजुःष्वदधुस्तत एषा बहुलतरेव विद्याभवत्॥
तं यदपुरोरुक्कं गृह्णाति॥
उक्थं हि पुरोरुगृग्घि पुरोरुगृग्घ्युक्थं स यदेवैनमुक्थेभ्यो विगृह्णाति तेनो हास्यैष पुरोरुङ्मान्भवति तस्मादपुरोरुक्कं गृह्णाति॥
अथातो गृह्णात्येव॥
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय त्वेति बृहद्वते वयस्वत इति वीर्यवत इत्येवैतदाह यदाह बृहद्वते वयस्वत इत्युक्थाव्यं गृह्णामीत्युक्थेभ्यो ह्येनं गृह्णाति यत्त इन्द्र बृहद्वय इति यत्त इन्द्र वीर्यमित्येवैतदाह तस्मै त्वा विष्णवे त्वेति यज्ञस्य ह्येनमायुषे गृह्णाति तस्मादाह तस्मै त्वा विष्णवे त्वेत्येष ते योनिरुक्थेभ्यस्त्वेति सादयत्युक्थेभ्यो ह्येनं गृह्णाति॥
तं विगृह्णाति॥
देवेभ्यस्त्वा देवाव्यं यज्ञस्यायुषे गृह्णामीति प्रशासनं स कुर्याद्य एवं कुर्याद्यथादेवतं त्वेव विगृह्णीयात्॥
मित्रावरुणाभ्यां त्वा॥
देवाव्यं यज्ञस्यायुषे गृह्णामीत्येव मैत्रावरुणाय मैत्रावरुणीषु हि तस्मै स्तुवते मैत्रावरुणीरनुशंसति मैत्रावरुण्या यजति॥
इन्द्राय त्वा॥
देवाव्यं यज्ञस्यायुषे गृह्णामीत्येव ब्राह्मणाछंसिन ऐन्द्रीषु हि तस्मै स्तुवत ऐन्द्रीरनुशंसत्यैन्द्र्या यजति॥
इन्द्राग्निभ्यां त्वा॥
देवाव्यं यज्ञस्यायुषे गृह्णामीत्येवाछावाकायैन्द्राग्नीषु हि तस्मै स्तुवत ऐन्द्राग्नीरनुशंसत्यैन्द्राग्न्या यजतीन्द्राय त्वेत्येव माध्यन्दिने सवन ऐन्द्रं हि माध्यन्दिनं सवनम्॥
तदु ह चरकाध्वर्यवो विगृह्णन्ति॥
उपयामगृहीतो ऽसि देवेभ्यस्त्वा देवाव्यमुक्थेभ्य उक्थाव्यम् मित्रावरुणाभ्यां जुष्टं गृह्णाम्येष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयति पुनर्हविरसीति स्थालीमभिमृशति॥
उपयामगृहीतो ऽसि॥
देवेभ्यस्त्वा देवाव्यमुक्थेभ्य उक्थाव्यमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वेति सादयति पुनर्हविरसीति स्थालीमभिमृशति॥
उपयामगृहीतो ऽसि॥
देवेभ्यस्त्वा देवाव्यमुक्थेभ्य उक्थाव्यमिन्द्राग्निभ्यां जुष्टं गृह्णाम्येष ते योनिरिन्द्राग्निभ्यां त्वेति सादयति नात्र पुनर्हविरसीति स्थालीमभिमृशतीन्द्राय त्वेन्द्राय त्वेत्येव माध्यन्दिने सवन ऐन्द्रं हि माध्यन्दिनं सवनं द्विर्ह पुनर्हविरसीति स्थालीमभिमृशति तूष्णीं तृतीयं निदधाति॥
तं वै नोपयामेन गृह्णीयात्॥
न योनौ सादयेदग्रे ह्येवैष उपयामेन गृहीतो भवत्यग्रे योनौ सन्नो जामितायै जामि ह कुर्याद्यदेनमत्राप्युपयामेन गृह्णीयाद्यद्योनौ सादयेदथ यत्पुनर्हविरसीति स्थालीमभिमृशति पुनर्ह्यस्यै ग्रहं ग्रहीष्यन्भवति न तदाद्रियेत तूष्णीमेव निदध्यात्॥
अयं ह वा अस्यैष प्राणः॥
यो ऽयम् पुरस्तात्स वै वैश्वानर एवाथ यो ऽयम् पश्चात्स ध्रुवस्तौ ह स्मैतौ द्वावेवाग्रे ग्रहौ गृह्णन्ति ध्रुववैश्वानराविति तयोरयमप्येतर्ह्यन्यतर एव गृह्यते ध्रुव एव स यदि तं चरकेभ्यो वा यतो वानुब्रुवीत यजमानस्य तं चमसे ऽवनयेदथैतमेव होतृचमसे॥
यद्वा अस्यावाचीनं नाभेः॥
तदस्यैष आत्मनः सो ऽस्यैष आयुरेव तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णात्यजरा हीयममृताजरं ह्यमृतमायुस्तस्मादनया गृह्णाति॥
तं वै पूर्णं गृह्णाति॥
सर्वं वै तद्यत्पूर्णं सर्वं तद्यदायुस्तस्मात्पूर्णं गृह्णाति॥
वैश्वानराय गृह्णाति॥
संवत्सरो वै वैश्वानरः संवत्सर आयुस्तस्माद्वैश्वानराय गृह्णाति॥
स प्रातःसवने गृहीतः॥
ऐतस्मात्कालादुपशेते तदेनं सर्वाणि सवनान्यतिनयति॥
तं न स्तूयमाने ऽवनयेत्॥
न ह संवत्सरं यजमानो ऽतिजीवेद्यत्स्तूयमाने ऽवनयेत्॥
तं शस्यमाने ऽवनयति॥
तदेनं द्वादशं स्तोत्रमतिनयति तथा परम्परमायुः समश्नुते तथो ह यजमानो ज्योग्जीवति तस्माद्ब्राह्मणो ऽग्निष्टोमसत्स्यादैतस्य होमान्न सर्पेन्न प्रस्रावयेत तथा सर्वमायुः समश्नुत आयुर्वा अस्यैष तथा सर्वमायुरेति॥
यद्वा अस्यावाचीनं नाभेः॥
तदस्यैष आत्मनः स यत्पुरैतस्य होमात्सर्पेद्वा प्र वा स्रावयेत ध्रुवं हावमेहेन्नेद्ध्रुवमवमेहानीति तस्माद्वा अग्निष्टोमसद्भवति तद्वै तद्यजमान एव यजमानस्य ह्येष तदात्मनः॥
स वा अग्निष्टोमसद्भवति॥
यशो वै सोमस्तस्माद्यश्च सोमे लभते यश्च नोभावेवागछतो यश एवैतद्द्रष्टुमागछन्ति तद्वा एतद्यशो ब्राह्मणाः सम्प्रसृप्यात्मन्दधते यद्भक्षयन्ति स ह यश एव भवति य एवं विद्वान्भक्षयति॥
ते वा एते॥
सर्पन्त एवाग्निष्टोमसद्येतद्यशः सन्निधाय सर्पन्ति ते पराञ्चो यशसो भवन्ति तदेष परिगृह्यैव पुनरात्मन्यशो धत्ते तेषां हैष एव यशस्वितमो भूत्वा प्रैति य एवं विद्वानग्निष्टोमसद्भवति॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरे ऽस्माकमयम् भविष्यत्यस्माकमयम् भविष्यतीति॥
ततो देवाः॥
अर्चन्तः श्राम्यन्तश्चेरुस्त एतदग्निष्टोमसद्यं ददृशुस्त एतेनाग्निष्टोमसद्येन सर्वं यज्ञं समवृञ्जन्तान्तरायन्नसुरान्यज्ञात्तथो एवैष एतेनाग्निष्टोमसद्येन सर्वं यज्ञं संवृङ्क्ते ऽन्तरेति सपत्नान्यज्ञात्तस्माद्वा अग्निष्टोमसद्भवति॥
तं गृहीत्वोत्तरे हविर्धाने सादयति प्राणा वै ग्रहा नेत्प्राणान्मोहयानीत्युपकीर्णे वा इतरान्ग्रहान्सादयत्यथैतं व्युह्य न तृणं चनान्तर्धाय॥
यद्वा अस्योर्ध्वं नाभेः॥
तदस्यैत आत्मन उपरीव वै तद्यदूर्ध्वं नाभेरुपरीवैतद्यदुपकीर्णं तस्मादुपकीर्णे सादयत्यथैतं व्युह्य न तृणं चनान्तर्धाय॥
यद्वा अस्यावाचीनं नाभेः॥
तदस्यैष आत्मनो ऽध इव वै तद्यदवाचीनं नाभेरध इवैतद्य द्व्युह्य न तृणं चनान्तर्धाय तस्मादेतं व्युह्य न तृणं चनान्तर्धाय सादयति॥
एष वै प्रजापतिः॥
य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते स यानुपकीर्णे सादयति तस्माद्यास्ताननु प्रजाः प्रजायन्ते ता अन्येनात्मनो ऽस्याम् प्रतितिष्ठन्ति या वै शफैः प्रतितिष्ठन्ति ता अन्येनात्मनो ऽस्याम् प्रतितिष्ठन्त्यथ यदेतं व्युह्य न तृणं चनान्तर्धाय सादयति तस्माद्या एतमनु प्रजाः प्रजायन्ते या आत्मनैवास्याम् प्रतितिष्ठन्ति मनुष्याश्च श्वापदाश्च॥
तद्वा एतत्॥
अस्या एवान्यदुतरं करोति यदुपकिरति स यानुपकीर्णे सादयति तस्माद्यास्ताननु प्रजाः प्रजायन्ते ता अन्येनैवात्मनो ऽस्याम् प्रतितिष्ठन्ति शफैः॥
तद्वा एतत्॥
आहवनीये जुह्वति पुरोडाशं धानाः करम्भं दध्यामिक्षामिति तद्यथा मुख आसिञ्चेदेवं तदथैष एकरूप उपशेत आप इवैव तस्माद्यदनेन मुखेन नानारूपमशनमश्नात्यथैतेन प्राणेनैकरूपमेव प्रस्रावयते ऽप इवैवाथ यस्माद् ध्रुवो नाम॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तान्दक्षिणतो ऽसुररक्षसान्यासेजुस्तेषामेतान्दक्षिणान्ग्रहानुज्जघ्नुरप्येतद्दक्षिणं हविर्धानमुज्जघ्नुरथैतमेव न शेकुरुद्धन्तुं तदुत्तरमेव हविर्धानं दक्षिणं हविर्धानमदृंहत्तद्यदेतं न शेकुरुद्धन्तुं तस्माद्ध्रुवो नाम॥
तं वै गोपायन्ति॥
शिरो वा एष एतस्यै गायत्र्यै यज्ञो वै गायत्री द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशत्यक्षरा वै गायत्री तस्या एष शिरः श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्यो ऽर्धस्य श्रेष्टो भवत्यसावमुष्यार्धस्य शिर इत्याहुः श्रेष्ठो ह व्यथेत यदेष व्यथेत यजमानो वै श्रेष्ठो नेद्यजमानो व्यथाता इति तस्माद्वै गोपायन्ति॥
वत्सो वा एषः॥
एतस्यै गायत्र्यै यज्ञो वै गायत्री द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशत्यक्षरा वै गायत्री तस्या एष वत्सस्तं यद्गोपायन्ति गोपायन्ति वा इमान्वत्सान्दोहाय यदिदम् पयो दुह्र एवमियं गायत्री यजमानाय सर्वान्कामान्दोहाता इति तस्माद्वै गोपायन्ति॥
अथ यदध्वर्युश्च प्रतिप्रस्थाता च॥
निश्च क्रामतः प्र च पद्येते यथा बद्धवत्सोपाचरेदेवमेतं ग्रहमुपाचरतस्तमवनयति गायत्रीमेवैतत्प्रस्रावयति प्रत्तेयं गायत्री यजमानाय सर्वान्कामान्दोहाता इति तस्माद्वा अवनयति॥
सो ऽवनयति॥
ध्रुवं ध्रुवेण मनसा वाचा सोममवनयामीति गृह्णामीति वाथा न इन्द्र इद्विशो ऽसपत्नाः समनसस्करदिति यथा न इन्द्र इमाः प्रजा विशः श्रियै यशसे ऽन्नाद्यायासपत्नाः सम्मनसः करवदित्येवैतदाद॥
अथातो गृह्णात्येव॥
मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरमृत आ जातमग्निम्॥
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः॥
उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमो ऽच्युतानामच्युतक्षित्तम एष ते योनिर्वैश्वानराय त्वेति सादयति व्युह्य न तृणं चनान्तर्धाय वैश्वानराय ह्येनं गृह्णाति॥
ग्रहान्गृहीत्वा॥
उपनिष्क्रम्य विप्रुषां होमं जुहोति तद्यद्विप्रुषां होमं जुहोति या एवास्यात्र विप्रुष स्कन्दन्ति ता एवैतदाहवनीये स्वगाकरोत्याहवनीयो ह्याहुतीनाम् प्रतिष्ठा तस्माद्विप्रुषां होमं जुहोति॥
स जुहोति॥
यस्ते द्रप्स स्कन्दति यस्ते अंशुरिति यो वै स्तोक स्कन्दति स द्रप्सस्तत्तमाह यस्ते अंशुरिति तदंशुमाह ग्रावच्युतो धिषणयोरुपस्थादिति ग्राव्णा हि च्युतो ऽधिषवणाभ्यां स्कन्दत्यध्वर्योर्वा परि वा यः पवित्रादित्यध्वर्योर्वा हि पाणिभ्यां स्कन्दति पवित्राद्वा तं ते जुहोमि मनसा वषट्कृतं स्वाहेति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति॥
अथ स्तीर्णायै वेदेः॥
द्वे तृणे अध्वर्युरादत्ते तावध्वर्यू प्रथमौ प्रतिपद्येते प्राणोदानौ यज्ञस्याथ प्रस्तोता वागेव यज्ञस्याथोद्गातात्मैव प्रजापतिर्यज्ञस्याथ प्रतिहर्ता भिषग्वा व्यानो वा॥
तान्वा एतान्॥
पञ्चर्त्विजो यजमानो ऽन्वारभत एतावान्वैसर्वो यज्ञो यावन्त एते पञ्चर्त्विजो भवन्ति पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतद्यजमानो ऽन्वारभते॥
अथान्यतरत्तृणम्॥
चात्वालमभिप्रास्यति देवानामुत्क्रमणमसीति यत्र वै देवा यज्ञेन स्वर्गं लोकं समाश्नुवत त एतस्माच्चात्वालादूर्ध्वाः स्वर्गं लोकमुपोदक्रामंस्तद्यजमानमेवैतत्स्वर्ग्यम् पन्थानमनुसङ्ख्यापयति॥
अथान्यतरत्तृणम्॥
पुरस्तादुद्गातॄणामुपास्यति तूष्णिमेव स्तोमो वा एष प्रजापतिर्यदुद्गातारः स इदं सर्वं युत इदं सर्वं सम्भवति तस्मा एवैतत्तृणमपिदधाति तथो हाध्वर्युं न युते नैनं सम्भवत्यथ यदा जपन्ति-जपन्ति ह्यत्रोद्गातारः॥
अथ स्तोत्रमुपाकरोति॥
सोमः पवत इति स वै परागेव स्तोत्रमुपाकरोति पराञ्च स्तुवते देवान्वा एतानि स्तोत्राण्यभ्युपावृत्तानि यत्पवमानाः पराञ्चो ह्येतैर्देवाः स्वर्गं लोकं समाश्नुवत तस्मात्परागेव स्तोत्रमुपाकरोति पराञ्च स्तुवते॥
उपावर्तध्वमिति वा अन्यानि स्तोत्राणि॥
अभ्यावर्तं धुर्यै स्तुवत इमा वै प्रजा एतानि स्तोत्राण्यभ्युपावृत्तास्तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्ते॥
अथ यदत्र बहिष्पवमानेन स्तुवते॥
अत्र ह वा असावग्र आदित्य आस तमृतवः परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोदक्रामन्त्स एष ऋतुषु प्रतिष्ठितस्तपति तथो एवैतदृत्विजो यजमानम् परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोत्क्रामन्ति तस्मादत्र बहिष्पवमानेन स्तुवते॥
नौर्ह वा एषा स्वर्ग्या॥
यद्बहिष्पवमानं तस्या ऋत्विज एव स्फ्याश्चारित्राश्च स्वर्गस्य लोकस्य सम्पारणास्तस्या एक एव मज्जयिता य एव निन्द्यः स यथा पूर्णामभ्यारुह्य मज्जयेदेवं हैनां स मज्जयति तद्वै सर्व एव यज्ञो नौः स्वर्ग्या तस्मादु सर्वस्मादेव यज्ञान्निन्द्यम् परिबिबाधिषेत॥
अथ स्तुत एतां वाचं वदति॥
अग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशां अलङ्कुरु पशुनेहीति विहरत्यग्नीदग्नीन्त्समिन्द्ध एवैनानेतत्स्तृणाति बर्हि स्तीर्णे बर्हिषि समिन्द्धे देवेभ्यो जुहवानीति पुरोडाशां अलङ्कुर्विते पुरोडाशैर्हि प्रचरिष्यन्भवति पशुनेहीति पशुं ह्युपाकरीष्यन्भवति॥
अथ पुनः प्रपद्य॥
आश्विनं ग्रहं गृह्णात्याश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपम् परिव्ययति परिवीय यूपम् पशुमुपाकरोति रसमेवास्मिन्नेतद्दधाति॥
स प्रातःसवन आलब्धः॥
आ तृतीयसवनाछ्रप्यमाण उपशेते सर्वस्मिन्नेवैतद्यज्ञे रसं दधाति सर्वं यज्ञं रसेन प्रसजति॥
तस्मादाग्नेयमग्निष्टोम आलभते॥
तद्धि सलोम यदाग्नेयमग्निष्टोम आलभेत यद्युक्थ्यः स्यादैन्द्राग्नं द्वितीयमालभेतैन्द्राग्नानि ह्युक्थानि यदि षोडशी स्यादैन्द्रं तृतीयमालभेतेन्द्रो हि षोडशी यद्यतीरात्रः स्यात्सारस्वतं चतुर्थमालभेत वाग्वै सरस्वती योषा वै वाग्योषा रात्रिस्तद्यथायथं यज्ञक्रतून्व्यावर्तयति॥
अथ सवनीयैः पुरोडाशैः प्रचरति॥
देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतछरीरं यद्गिरयो यदश्मानस्तदेषोशाना नामौषधिर्जायत इति ह स्माह श्वेतकेतुरौद्दालकिस्तामेतदाहृत्याभिषुण्वन्तीति॥
स यत्पशुमालभते॥
रसमेवास्मिन्नेतद्दधात्यथ यत्सवनीयैः पुरोडाशैः प्रचरति मेधमेवास्मिन्नेतद्दधाति तथो हास्यैष सोम एव भवति॥
सर्व ऐन्द्रा भवन्ति॥
इन्द्रो वै यज्ञस्य देवता तस्मात्सर्व ऐन्द्रा भवन्ति॥
अथ यत्पुरोडाशः धानाः करम्भो दध्यामिक्षेति भवति या यज्ञस्य देवतास्ताः सुप्रीता असन्निति॥
इदं वा अपूपमशित्वा कामयते॥
धानाः खादेयं करम्भमश्नीयां दध्यश्नीयामामिक्षामश्नीयामिति ते सर्वे कामा या यज्ञस्य देवतास्ताः सुप्रीता असन्नित्यथ यदेषा प्रातःसवन एव मैत्रावरुणी पयस्यावकॢप्ता भवति नेतरयोः सवनयोः॥
गायत्री वै प्रातःसवनं वहति॥
त्रिष्टुम्माध्यन्दिनं सवनं जगती तृतीयसवनं तद्वा अनेकाकिन्येव त्रिष्टुम्माध्यन्दिनं सवनं वहति गायत्र्या च बृहत्या चानेकाकिनी जगती तृतीयसवनं गायत्र्योष्णिहककुब्भ्यामनुष्टुभा॥
गायत्र्येवैकाकिनी प्रातःसवनं वहति॥
सैताभ्याम् पङ्क्तिभ्यां स्तोत्रपङ्क्त्या च हविष्पङ्क्त्या च चत्वार्याज्यानि बहिष्पवमानम् पञ्चमम् पञ्चपरा पङ्क्तिः सैतया स्तोत्रपङ्क्त्यानेकाकिनी गायत्री प्रातःसवनम् वहति॥
इन्द्रस्य पुरोडाशः॥
हर्योर्धानाः पूष्णः करम्भः सरस्वत्यै दधि मित्रावरुणयोः पयस्या पञ्चपदा पङ्क्तिः सैतया हविष्पङ्क्त्यानेकाकिनी गायत्री प्रातःसवनं वहत्येतस्या एव पङ्क्तेः सम्पदः कामाय प्रातःसवन एवैषा मैत्रावरुणी पयस्यावकॢप्ता भवति नेतरयोः सवनयोः॥