प्राणो ह वा अस्योपांशुः॥
व्यान उपांशुसवन उदान एवान्तर्यामः॥
अथ यस्मादुपांशुर्नाम॥
अंशुर्वै नाम ग्रहः स प्रजापतिस्तस्यैष प्राणस्तद्यदस्यैष प्राणस्तस्मादुपांशुर्नाम॥
तम् बहिष्पवित्राद्गृह्णाति॥
पराञ्चमेवास्मिन्नेतत्प्राणं दधाति सो ऽस्यायम् पराङेव प्राणो निरर्दति तमंशुभिः पावयति पूतो ऽसदिति षड्भिः पावयति षड्वा ऋतव ऋतुभिरेवैनमेतत्पावयति॥
तदाहुः॥
यदांशुभिरुपांशु पुनाति सर्वे सोमाः पवित्रपूता अथ केनास्यांशवः पूता भवन्तीति॥
तानुपनिवपति॥
यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेति तदस्य स्वाहाकारेणैवांशवः पूता भवन्ति सर्वं वा एष ग्रहः सर्वेषां हि सवनानां रूपम्॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुः संस्थापयाम यज्ञं यदि नो ऽसुररक्षकान्यासजेयुः संस्थित एव नो यज्ञः स्यादिति॥
ते प्रातःसवन एव॥
सर्वं यज्ञं समस्थापयन्नेतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेनाचरन्त्स एषो ऽप्येतर्हि तथैव यज्ञः सन्तिष्ठत एतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेन चरति॥
स वा अष्टौ कृत्वो ऽभिषुणोति॥
अष्टाक्षरा वै गायत्री घायत्रम् प्रातः सवनम् प्रातःसवनमेवैतत्क्रियते॥
स गृह्णाति॥
वाचस्पतये पवस्वेति प्राणो वै वाचस्पतिः प्राण एष ग्रहस्तस्मादाह वाचस्पतये पवस्वेति वृष्णो अंशुभ्यां गभस्तिपूत इति सोमांशुभ्यां ह्येनम् पावयति तस्मादाह वृष्णो अंशुभ्यामिति गभस्तिपूत इति पाणी वै गभस्ती पाणिभ्यां ह्येनम् पावयति॥
अथैकादश कृत्वो ऽभिषुणोति॥
एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभम् माध्यन्दिनं सवनम् माध्यन्दिनमेवैतत्सवनं क्रियते॥
स गृह्णाति॥
देवो देवेभ्यः पवस्वेति देवो ह्येष देवेभ्यः पवते येषाम् भागो ऽसीति तेषामु ह्येष भागः॥
अथ द्वादश कृत्वो ऽभिषुणोति॥
द्वादशाक्षरा वै जगती जागतं तृतीयसवनं तृतीयसवनमेवैतत्क्रियते॥
स गृह्णाति॥
मधुमतीर्न इषष्कृधीति रसमेवास्मिन्नेतद्दधाति स्वदयत्येवैनमेतद्देवेभ्यस्तस्मादेष हतो न पूयत्यथ यज्जुहोति संस्थापयत्येवैनमेतत्॥
अष्टावष्टौ कृत्वः॥
ब्रह्मवर्चसकामस्याभिषुणुयादित्याहुरष्टाक्षरा वै गायत्री ब्रह्म गायत्री ब्रह्मवर्चसी हैव भवति॥
तच्चतुर्विंशतिं कृत्वो ऽभिषुतम् भवति॥
चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत्सं स्थापयति॥
पञ्चपञ्च कृत्वः॥
पशुकाम स्याभिषुणुयादित्याहुः पाङ्क्ता पशवः पशून्हैवावरुन्द्धे पञ्च वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत्संस्थापयति सो एषा मीमांसैवेतरं त्वेव क्रियते॥
तं गृहीत्वा परिमार्ष्टि॥
नेद्व्यवश्चोतदिति तं न सादयति प्राणो ह्यस्यैष तस्मादयमसन्नः प्राणः सञ्चरति यदीत्त्वभिचरेदथैनं सादयेदमुष्य त्वा प्राणं सादयामीति तथाह तस्मिन्न पुनरस्ति यन्नानुसृजति तेनो अध्वर्युश्च यजमानश्च ज्योग्जीवतः॥
अथो अप्येवैनं दध्यात्॥
अमुष्य त्वा प्राणमपिदधामीति तथाह तस्मिन्न पुनरस्ति यन्न सादयति तेनो प्राणान्न लोभयति॥
स वा अन्तरेव सन्त्स्वाहेति करोति॥
देवा ह वै बिभयां चक्रुर्यद्वै नः पुरैवास्य ग्रहस्य होमादसुररक्षसानीमं ग्रहं न हन्युरिति तमन्तरेव सन्तः स्वाहाकारेणाजुहवुस्तं हुतमेव सन्तमग्नावजुहवुस्तथो एवैनमेष एतदन्तरेव सन्त्स्वाहाकारेण जुहोति तं हुतमेव सन्तमग्नौ जुहोति॥
अथोपनिष्क्रामति॥
उर्वन्तरिक्षमन्वेमीत्यन्तरिक्षं वा अनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथायम् पुरुषो ऽमूल उभयतः परिच्छिन्नो ऽन्तरिक्षमनुचरत्येतद्वै यजुर्ब्रह्म रक्षोहा स एतेन ब्रह्मणान्तरिक्षमभयमनाष्ट्रं कुरुते॥
अथ वरं वृणीते॥
बलवद्ध वै देवा एतस्य ग्रहस्य होमम् प्रेप्सन्ति ते ऽस्मा एतं वरं समर्धयन्ति क्षिप्रे न इमं ग्रहं जुहवदिति तस्माद्वरं वृणीते॥
स जुहोति॥
स्वाङ्कृतो ऽसीति प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातस्तस्मादाह स्वाङ्कृतो ऽसीति विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इति सर्वाभ्यो ह्येष प्रजाभ्यः स्वयं जातो मनस्त्वाष्ट्विति प्रजापतिर्वै मनः प्रजापतिष्ट्वाश्नुतामित्येवैतदाह स्वाहा त्वा सुभव सूर्यायेति तदवरं स्वाहाकारं करोति परां देवताम्॥
अमुष्मिन्वा एतमहौषीत्॥
य एष तपति सर्वं वा एष तदेनं सर्वस्यैव परार्ध्यं करोत्यथ यदवरां देवतां कुर्यात्परं स्वाहाकारं स्यादु हैवामुष्मादादित्यात्परं तस्मादवरं स्वाहाकारं करोति परां देवताम्॥
अथ हुत्वोर्ध्वं ग्रहमुन्मार्ष्टि॥
पराञ्चमेवास्मिन्नेतत्प्राणं दधात्यथोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्टि पराञ्चमेवास्मिन्नेतत्प्राणं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति॥
अमुष्मिन्वा एतम् मण्डले ऽहौषीत्॥
य एष तपति तस्य ये रश्मयस्ते देवा मरीचिपास्तानेवैतत्प्रीणाति त एनं देवाः प्रीताः स्वर्गं लोकमभिवहन्ति॥
तस्य वा एतस्य ग्रहस्य॥
नानुवाक्यास्ति न याज्या तम् मन्त्रेण जुहोत्येतेनो हास्यैषो ऽनुवाक्यवान्भवत्येतेन याज्यवानथ यद्यभिचरेद्यो ऽस्यांशुराश्लिष्टः स्याद्बाह्वोर्वोरसि वा वाससि वा तं जुहुयाद्देवांशो यस्मै त्वेडे तत्सत्यमुपरिप्रुता भङ्गेन हतो ऽसौ फडिति यथा ह वै हन्यमानानामपधावेदेवमेषो ऽभिषूयमाणानां स्कन्दति तथा ह तस्य नैव धावन्नापधावत्परिशिष्यते यस्मा एवं करोति तं सादयति प्राणाय त्वेति प्राणो ह्यस्यैषः॥
दक्षिणार्धे हैके सादयन्ति॥
एतां ह्येष दिशमनु सञ्चरतीति तदु तथा न कुर्यादुत्तरार्ध एवैनं सादयेन्नो ह्येतस्या आहुतेः का चन परास्ति तं सादयति प्राणाय त्वेति प्राणो ह्यस्यैषः॥
अथोपांशुसवनमादत्ते॥
तं न दशाभिर्न विवित्रेणोपस्पृशति यथा ह्यद्भिः प्रणिक्तमेवं तद्यद्यंशुराश्लिष्टः स्यात्पाणिनैव प्रध्वंस्योदञ्चमुपनिपादयेद्व्यानाय त्वेति व्यानो ह्यस्यैषः॥
प्राणो ह वा अस्योपांशु॥
व्यान उपांशुसवन उदान एवान्तर्यामः॥
अथ यस्मादन्तर्यामो नाम॥
यो वै प्राणः स उदानः स व्यानस्तमेवास्मिन्नेतत्पराञ्चम् प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्प्रत्यञ्चमुदानं दधाति यदन्तर्यामं गृह्णाति सो ऽस्यायमुदानो ऽन्तरात्मन्यतस्तद्यदस्यैषो ऽन्तरात्मन्यतो यद्वैनेनेमाः प्रजा यतास्तस्मादन्तर्यामो नाम॥
तमन्तःपवित्राद्गृह्णाति॥
प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति सो ऽस्यायमुदानो ऽन्तरात्मन्हित एतेनो हास्याप्युपांशुरन्तःपवित्राद्गृहीतो भवति समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ ह्येतेनो हैवास्यैषो ऽपीतरेषु ग्रहेष्वनाक्षिद्भवति॥
अथ यस्मात्सोमम् पवित्रेण पावयति॥
यत्र वै सोमः स्वम् पुरोहितम् बृहस्पतिं जिज्यौ तस्मै पुनर्ददौ तेन संशशाम तस्मिन्पुनर्ददुष्यासैवातिशिष्टमेनो यदीन्नूनम् ब्रह्म ज्यानायाभिदध्यौ॥
तं देवाः पवित्रेणापावयन्॥
स मेध्यः पूतो देवानां हविरभवत्तथो एवैनमेष एतत्पवित्रेण पावयति स मेध्यः पूतो देवानां हविर्भवति॥
तद्यदुपयामेन ग्रहा गृह्यन्ते॥
इयं वा अदितिस्तस्या अदः प्रायणीयं हविरसावादित्यश्चरुस्तद्वै तत्पुरेव सुत्यायै सा हेयं देवेषु सुत्यायामपित्वमीषे ऽस्त्वेव मे ऽपि प्रसुते भाग इति॥
ते ह देवा ऊचुः॥
व्यादिष्टो ऽयं देवताभ्यो यज्ञस्त्वयैव ग्रहा गृह्यन्तां देवताभ्यो हूयन्तामिति तथेति सो ऽस्या एष प्रसुते भागः॥
तद्यदुपयामेन ग्रहा गृह्यन्ते॥
इयं वा उपयाम इयं वा इदमन्नाद्यमुपयछति पशुभ्यो मनुष्येभ्यो वनस्पतिभ्य इतो वा ऊर्ध्वा देवा दिवि हि देवाः॥
तद्यदुपयामेन ग्रहा गृह्यन्ते॥
अनयैव तद्गृह्यन्ते ऽथ यद्योनौ सादयतीयं वा अस्य सर्वस्य योनिरस्यै वा इमाः प्रजाः प्रजाताः॥
तं वा एतम्॥
रेतो भूतं सोममृत्विजो बिभ्रति यद्वा अयोनौ रेतः सिच्यते प्र वै तन्मीयते ऽथ यद्योनौ सादयत्यस्यामेव तत्सादयति॥
प्राणोदानौ ह वा अस्यैतौ ग्रहौ॥
तयोरुदिते ऽन्यतरं जुहोत्यनुदिते ऽन्यतरम् प्राणोदानयोर्व्याकृत्यै प्राणोदानावेवैतद्व्याकरोति तस्मादेतौ समानावेव सन्तौ नानेवाचक्षते प्राण इति चोदान इति च॥
अहोरात्रे ह वा अस्यैतौ ग्रहौ॥
तयोरुदिते ऽन्यतरं जुहोत्यनुदिते ऽन्यतरमहोरात्रयोर्व्याकृत्या अहोरात्रे एवैतद्व्याकरोति॥
अहः सन्तमुपाशुम्॥
तं रात्रौ जुहोत्यहरेवैतद्रात्रौ दधाति तस्मादपि सुतमिश्रायामुपैव किञ्चित्ख्यायते॥
रात्रिं सन्तमन्तर्यामम्॥
तमुदिते जुहोति रात्रिमेवैतदहन्दधाति तेनो हासावादित्य उद्यन्नेवेमाः प्रजा न प्रदहति तेनेमाः प्रजास्त्राताः॥
अथातो गृह्णात्येव॥
उपयामगृहीतो ऽसीत्युक्त उपयामस्य बन्धुरन्तर्यछ मघवन्पाहि सोममितीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्निति पाहि सोममिति गोपाय सोममित्येवैतदाहोरुष्य राय एषो यजस्वेति पशवो वै रायो गोपाय पशूनित्येवैतदाहेषो यजस्वेति प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति॥
अन्तस्ते द्यावापृथिवी दधामि॥
अन्तर्दधाम्युर्वन्तरिक्षम् सजूर्देवेभिरवरैः परैश्चेति तदेनं वैश्वदेवं करोति तद्यदेनेनेमाः प्रजाः प्राणत्यश्चोदनत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवो ऽन्तर्यामे मघवन्मादयस्वेतीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्नित्यथ यदन्तरन्तरिति गृह्णात्यन्तस्त्वात्मन्दध इत्येवैतदाह॥
तं गृहीत्वा परिमार्ष्टि॥
नेद्व्यवश्चोतदिति तं न सादयत्युदानो ह्यस्यैष तस्मादयमसन्न उदानः सञ्चरति यदीत्त्वभिचरेदथैनं सादयेदमुष्य त्वोदानं सादयामीति॥
स यद्युपांशुं सादयेत्॥
अथैनं सादयेद्यद्युपांशुं न सादयेन्नैनं सादयेद्यद्युपांशुमपिदध्यादप्येनं दध्याद्यद्युपांशु नापिदध्यान्नैनमपिदध्याद्यथोपांशोः कर्म तथैतस्य समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि॥
ता उ ह चरकाः॥
नानैव मन्त्राभ्यां जुह्वति प्राणोदानौ वा अस्यैतौ नानावीर्यौ प्राणोदानौ कुर्म इति वदन्तस्तदु तथा न कुर्यान्मोहयन्ति ह ते यजमानस्य प्राणोदानावपीद्वा एनं तूष्णीं जुहुयात्॥
स यद्वा उपांशु मन्त्रेण जुहोति॥
तदेवास्यैषो ऽपि मन्त्रेण हुतो भवति किमु तत्तूष्णीं जुहुयात्समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि॥
स येनैवोपांशुम् मन्त्रेण जुहोति॥
तेनैवैतम् मन्त्रेण जुहोति स्वाङ्कृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा सुभव सूर्यायेत्युक्तो यजुषो बन्धुः॥
अथ हुत्वावाञ्चं ग्रहमवमार्ष्टि॥
इदं वा उपांशुं हुत्वोर्ध्वमुन्मार्ष्ट्यथात्रावाञ्चमवमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति॥
अथ नीचा पाणिना॥
मध्यमे परिधौ प्रत्यगुपमार्ष्टीदं वा उपांशु हुत्वोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्ट्यथात्र नीचा पाणिना मध्यमे परिधौ प्रत्यगुपमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति सो ऽसावेव बन्धुः॥
तम् प्रत्याक्रम्य सादयति॥
उदानाय त्वेत्युदानो ह्यस्यैष तानि वै संस्पृष्टानि सादयति प्राणोदानावेवैतत्संस्पर्शयति प्राणोदानान्त्सन्दधाति॥
तानि वा अनिङ्ग्यमानानि शेरे॥
आ तृतीयसवनात्तस्मादिमे मनुष्याः स्वपन्ति तानि पुनस्तृतीयसवने प्रजुज्यन्ते तस्मादिमे मनुष्याः सुप्त्वा प्रबुध्यन्ते ते ऽनिशिताश्चराचरा यज्ञस्यैवैतद्विधामनु वय इव ह वै यज्ञो विधीयते तस्योपांश्वन्तर्यामावेव पक्षावात्मोपांशुसवनः॥
तानि वा अनिङ्ग्यमानानि शेरे॥
आ तृतीयसवनात्तायते यज्ञ एति वै तद्यत्तायते तस्मादिमानि वयांसि विगृह्य पक्षावनायुवानानि पतन्ति तानि पुनस्तृतीयसवने प्रयुज्यन्ते तस्मादिमानि वयांसि समासम् पक्षावायुवानानि पतन्ति यज्ञस्यैवैतद्विधामनु॥
इयं ह वा उपांशुः॥
प्राणो ह्युपांशुरिमां ह्येव प्राणन्नभिप्राणित्यसावेवान्तर्याम उदानो ह्यन्तर्यामो ऽमुं ह्येव लोकमुदनन्नभ्युदनित्यन्तरिक्षमेवोपांशुसवनो व्यानो ह्युपांशुसवनो ऽन्तरिक्षं ह्येव व्यनन्नभिव्यनिति॥
वाग्घ वा अस्यैन्द्रवायवः॥
एतन्न्वध्यात्ममिन्द्रो ह यत्र वृत्राय वज्रम् प्रजहार सो ऽबलीयान्मन्यमानो नास्तृषीतीव बिभ्यन्निलयां चक्रे तदेवापि देवा अपन्यलयन्त॥
ते ह देवा ऊचुः॥
न वै हतं वृत्रं विद्म न जीवं हन्त न एको वेत्तु यदि हतो वा वृत्रो जीवति वेति॥
ते वायुमब्रुवन्॥
अयं वै वायुर्यो ऽयम् पवते वायो त्वमिदं विद्धि यदि हतो वा वृत्रो जीवति वा त्वं वै न आशिष्टो ऽसि यदि जीविष्यति त्वमेव क्षिप्रम् पुनरागमिष्यसीति॥
स होवाच॥
किम् मे ततः स्यादिति प्रथमवषट्कार एव ते सोमस्य राज्ञ इति तथेत्येयाय वायुरेद्धतं वृत्रं स होवाच हतो वृत्रो यद्धते कुर्यात तत्कुरुतेति॥
ते देवा अभ्यसृज्यन्त॥
यथा वित्तिं वेत्स्यमाना एवं स यमेको ऽलभत स एकदेवत्यो ऽभवद्यं द्वौ स द्विदेवत्यो यम् बहवः स बहुदेवत्यस्तद्यदेनम् पात्रैर्व्यगृह्णत तस्माद्ग्रहा नाम॥
स एषामापूयत्॥
स एनाञ्छुक्तः पूतिरभिववौ स नालमाहुत्या आस नालम् भक्षाय॥
ते देवा वायुमब्रुवन्॥
वायविमं नो विवाहीमं नः स्वदयेति स होवाच किम् मे ततः स्यादिति त्वयैवैतानि पात्राण्याचक्षीरन्निति तथेति होवाच यूयं तु मे सच्युपवातेति॥
तस्य देवाः॥
यावन्मात्रमिव गन्धस्यापजघ्नुस्तम् पशुष्वदधुः स एष पशुषु कुणपगन्धस्तस्मात्कुणपगन्धान्नापिगृह्णीत सोमस्य हैष राज्ञो गन्धः॥
नो एव निष्ठीवेत्॥
तस्माद्यद्यप्यासक्त इव मन्येताभिवातम् परीयाछ्रीर्वै सोमः पाप्मा यक्ष्मः स यथा श्रेयस्यायति पापीयान्प्रत्यवरोहेदेवं हास्माद्यक्ष्मः प्रत्यवरोहति॥
अथेतरं वायुर्व्यवात्॥
तदस्वदयत्ततो ऽलमाहुत्या आसालम् भक्षाय तस्मादेतानि नानादेवत्यानि सन्ति वायव्यानीत्याचक्षते सो ऽस्यैष प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते॥
इन्द्रो ह वा ईक्षां चक्रे॥
वायुर्वै नो ऽस्य यज्ञस्य भूयिष्ठभाग्यस्य प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते हन्तास्मिन्नपित्वमिच्छा इति॥
स होवाच॥
वायवा मास्मिन्ग्रहे भजेति किं ततः स्यादिति निरुक्तमेव वाग्वदेदिति निरुक्तं चेद्वाग्वदेदा त्वा भजामीति तत एष ऐन्द्रवायवो ग्रहो ऽभवद्वायव्यो हैव ततः पुरा॥
स इन्द्रो ऽब्रवीत्॥
अर्धम् मे ऽस्य ग्रहस्येति तुरीयमेव त इति वायुरर्धमेव म इतीन्द्रस्तुरीयमेव त इति वायुः॥
तौ प्रजापतिम् प्रतिप्रश्नमेयतुः॥
स प्रजापतिर्ग्रहं द्वेधा चकार स होवाचेदं वायोरित्यथ पुनरर्धं द्वेधा चकार स होवाचेदं वायोरितीदं तवेतीन्द्र तुरीयमेव भाजयां चकार यद्वै चतुर्थं तत्तुरीयं तत एष ऐन्द्रतुरीयो ग्रहो ऽभवत्॥
तस्य वा एतस्य ग्रहस्य॥
द्वे पुरोरुचौ वायव्यैव एव पूर्व ऐन्द्रवायव उत्तरो द्वे अनुवाक्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरा द्वौ प्रैषौ वायव्य एव पूर्व ऐन्द्रवायव उत्तरो द्वे याज्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरैवमेनं तुरीयं तुरीयमेव भाजयां चकार॥
स होवाच॥
तुरीयन्तुरीयं चेन्मामबीभजुस्तुरीयमेव तर्हि वाङ्निरुक्तं वदिष्यतीति तदेतत्तुरीयं वाचो निरुक्तं यन्मनुष्या वदन्त्यथैतत्तुरीयं वाचो ऽनिरुक्तं यत्पशवो वदन्त्यथैतत्तुरीयं वाचो ऽनिरुक्तं यद्वयांसि वदन्त्यथैतत्तुरीयं वाचो ऽनिरुक्तं यदिदं क्षुद्रं सरीसृपं वदति॥
तस्मादेतदृषीणाभ्यनूक्तम्॥
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति॥
अथातो गृह्णात्येव॥
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयं वायवे त्वेति॥
अथापगृह्य पुनरानयति॥
इन्द्रवायू इमे सुता उप प्रयोभिरागतम् इन्द्रवो वामुशन्ति हि उपयामगृहीतो ऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिः सजोषोभ्यां त्वेति सादयति स यदाह सजोषोभ्यां त्वेति यो वै वायुः स इन्द्रो य इन्द्रः स वायुस्तस्मादाहैष ते योनिः सजोषोभ्यां त्वेति॥
क्रतूदक्षौ ह वा अस्य मित्रावरुणौ॥
एतन्न्वध्यात्मं स यदेव मनसा कामयत इदम् मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृध्यते स दक्षो मित्र एव क्रतुर्वरुणो दक्षो ब्रह्मैव मित्रः क्षत्रं वरुणो ऽभिगन्तैव ब्रह्म कर्ता क्षत्रियः॥
ते हैते अग्रे नानेवासतुः॥
ब्रह्म च क्षत्रं च ततः श शाकैव ब्रह्म मित्र ऋते क्षत्राद्वरुणात्स्थातुम्॥
न क्षत्रं वरुणः॥
ऋते ब्रह्मणो मित्राद्यद्ध किं च वरुणः कर्म चक्रे ऽप्रसूतम् ब्रह्मणा मित्रेण न हैवास्मै तत्समानृधे॥
स क्षत्रं वरुणः॥
ब्रह्म मित्रमुपमन्त्रयां चक्र उप मावर्तस्व संसृजावहै पुरस्त्वा करवै त्वत्प्रसूतः कर्म करवा इति तथेति तौ समसृजेतां तत एष मैत्रावरुणो ग्रहो ऽभवत्॥
सो एव पुरोधा॥
तस्मान्न ब्राह्मणः सर्वस्येव क्षत्रियस्य पुरोधां कामयेत सं ह्येतौ सृजेते सुकृतं च दुष्कृतं च नो एव क्षत्रियः सर्वमिव ब्राह्मणम् पुरोदधीत सं ह्येवैतौ सृजेते कुकृतं च दुष्कृतं च स यत्ततो वरुणः कर्म चक्रे प्रसूतम् ब्रह्मणा मित्रेण सं हैवास्मै तदानृधे॥
तत्तदवकॢप्तमेव॥
यद्ब्राह्मणो ऽराजन्यः स्याद्यद्यु राजानं लभेत समृद्धं तदेतद्ध त्वेवानवकॢप्तं यत्क्षत्रियो ऽब्राह्मणो भवति यद्ध किं च कर्म कुरुते प्रसूतम् ब्रह्मणा मित्रेण न हैवास्मै तत्समृध्यते तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मर्ध्यते॥
अथातो गृह्णात्येव॥
अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा ममेदिह श्रुतं हवम् उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वेति॥
तम् पयसा श्रिणाति॥
तद्यत्पयसा श्रीणाति वृत्रो वै सोम आसीत्तं यत्र देवा अघ्नंस्तम् मित्रमब्रुवंस्त्वमपि हंसीति स न चकमे सर्वस्य वा अहम् मित्रमस्मि न मित्रं सन्नमित्रो भविष्यामीति तं वै त्वा यज्ञादन्तरेष्याम इत्यहमपि हन्मीति होवाच तस्मात्पशवो ऽपाक्रामन्मित्रं सन्नमित्रो ऽभूदिति स पशुभिर्व्यार्ध्यत तमेतद्देवाः पशुभिः समार्धयन्यत्पयसाश्रीणंस्तथो एवैनमेष एतत्पशुभिः समर्धयति यत्पयसा श्रीणाति॥
तदाहुः॥
शश्वद्ध नैव चकमे हन्तुमिति तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य तस्मात्पयसा श्रीणाति॥
स श्रीणाति॥
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः तां धेनुम् मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीमेष ते योनिरृतायुभ्यां त्वेति सादयति स यदाहर्तायुभ्यां त्वेति ब्रह्म वा ऋतम् ब्रह्म हि मित्रो ब्रह्मो ह्यृतं वरुण एवायुः संवत्सरो हि वरुणः संवत्सर आयुस्तस्मादाहैष ते योनि ऋतायुभ्यां त्वेति॥
श्रोत्रं ह वा अस्याश्विनः॥
तस्मात्सर्वतः परिहारम् भक्षयति सर्वतो ह्यनेन श्रोत्रेण शृणोति यत्र वै भृगवो वाङ्गिरसो वा स्वर्गं लोकं समाश्नुवत तच्च्यवनो वा भार्गवश्च्यवनो वाङ्गिरसस्तदेव जीर्णिः कृत्यारूपो जहे॥
शर्यातो ह वा इदम् मानवो ग्रामेण चचार॥
स तदेव प्रतिवेशो निविविशे तस्य कुमाराः क्रीडन्त इमं जीर्णिं कृत्यारूपमनर्थ्यम् मन्यमाना लोष्टैर्विपिपिषुः॥
स शार्यातेभ्यश्चुक्रोध॥
तेभ्यो ऽसञ्ज्ञां चकार पितैव पुत्रेण युयुधे भ्राता भ्रात्रा॥
शर्यातो ह वा ईक्षां चक्रे॥
यत्किमकरं तस्मादिदमापदीति स गोपालांश्चाविपालांश्च संह्वयितवा उवाच॥
स होवाच॥
को वो ऽद्येव किञ्चिदद्राक्षीदिति ते होचुः पुरुष एवायं जीर्णिः कृत्यारूपः शेते तमनर्थ्यम् मन्यमानाः कुमारा लोष्टैर्व्यपिक्षन्निति स विदां चकार स वै च्यवन इति॥
स रथं युक्त्वा॥
सुकन्यां शार्यातीमुपाधाय प्रसिष्यन्द स आजगाम यत्रर्षिरास तत्॥
स होवाच॥
ऋषे नमस्ते यन्नावेदिषं तेनाहिंसिषमियं सुकन्या तया ते ऽपह्नुवे सञ्जानीताम् मे ग्राम इति तस्य ह तत एव ग्रामः सञ्जज्ञे स ह तत एव शर्यातो मानव उद्युयुजे नेदपरं हिनसानीति॥
अश्विनौ ह वा इदम् भिषज्यन्तौ चेरतुः॥
तौ सुकन्यामुपेयतुस्तस्याम् मिथुनमीषाते तन्न जज्ञौ॥
तौ होचतुः॥
सुकन्ये कमिमं जीर्णिं कृत्यारूपमुपशेष आवामनुप्रेहीति सा होवाच यस्मै माम् पितादान्नैवाहं तं जीवन्तं हास्यामीति तद्धायमृषिराजज्ञौ॥
स होवाच॥
सुकन्ये किं त्वैतदवोचतामिति तस्मा एतद्व्याचचक्षे स ह व्याख्यात उवाच यदि त्वैतत्पुनर्ब्रुवतः सा त्वम् ब्रूतान्न वै सुसर्वाविव स्थो न सुसमृद्धाविवाथ मे पतिं निन्दथ इति तौ यदि त्वा ब्रवतः केनावमसर्वौ स्वः केनासमृद्धाविति सा त्वम् ब्रूतात्पतिं नु मे पुनर्युवाणं कुरुतमथ वां वक्ष्यामीति ताम् पुनरुपेयतुस्तां हैतदेवोचतुः॥
सा होवाच॥
न वै सुसर्वाविव स्थो न सुसमृद्धाविवाथ मे पतिं निन्दथ इति तौ होचतुः केनावमसर्वौ स्वः केनासमृद्धाविति सा होवाच पतिं नु मे पुनर्युवाणं कुरुतमथ वां वक्ष्यामीति॥
तौ होचतुः॥
एतं ह्रदमभ्यवहर स येन वयसा कमिष्यते तेनोदैष्यतीति तं ह्रदमभ्यवजहार स येन वयसा चकमे तेनोदेयाय॥
तौ होचतुः॥
सुकन्ये केनावमसर्वौ स्वः केनासमृद्धाविति तौ हर्षिरेव प्रत्युवाच कुरुक्षेत्रे ऽमी देवा यज्ञं तन्वते ते वां यज्ञादन्तर्यन्ति तेनासर्वौ स्थस्तेनासमृद्धाविति तौ ह तत एवाश्विनौ प्रेयतुस्तावाजग्मतुर्देवान्यज्ञं तन्वानान्त्स्तुते बहिष्पवमाने॥
तौ होचतुः॥
उप नौ ह्वयध्वमिति ते ह देवा ऊचुर्न वामुपह्वयिष्यामहे बहु मनुष्येषु संसृष्टमचारिष्टम् भिषज्यन्ताविति॥
तौ होचतुः॥
विशीर्ष्णा वै यज्ञेन यजध्व इति कथं विशीर्ष्णेत्युप नु नौ ह्वयध्वमथ वो वक्ष्याव इति तथेति ता उपाह्वयन्त ताभ्यामेतमाश्विनं ग्रहमगृह्णस्तावध्वर्यू यज्ञस्याभवतां तावेतद्यज्ञस्य शिरः प्रत्यधत्तां तददस्तद्दिवाकीर्त्यानाम् ब्राह्मणे व्याख्यायते यथा तद्यज्ञस्य शिरः प्रतिदधतुस्तस्मादेष स्तुते बहिष्पवमाने ग्रहो गृह्यते स्तुते हि बहिष्पवमान आगछताम्॥
तौ होचतुः॥
मुख्यौ वा आवां यज्ञस्य स्वो यावध्वर्यू इह नाविमम् पुरस्ताद्ग्रहम् पर्याहरताभि द्विदेवत्यानिति ताभ्यामेतम् पुरस्ताद्ग्रहम् पर्याजह्रुरभि द्विदेवत्यांस्तस्मादेष दशमो ग्रहो गृह्यते तृतीय एव वषट्क्रियते ऽथ यदश्विनावितीमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनाविमे हीदं सर्वमाश्नुवाताम् पुष्करस्रजावित्यग्निरेवास्यै पुष्करमादित्यो ऽमुष्यै॥
अथातो गृह्णात्येव॥
या वां कशा मधुमत्यश्विना सूनृतावती तया यज्ञम् मिमिक्षतम् उपयामगृहीतो ऽस्यश्विभ्यां त्वैष ते योनिर्माध्वीभ्यां त्वेति सादयति तं वै मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति तद्यन्मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति॥
दध्यङ् ह वा आभ्यामाथर्वणः॥
मधु नाम ब्राह्मणमुवाच तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगछात तस्मान्मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति॥
तानि वा एतानि॥
श्लक्ष्णानि पात्राणि भवन्ति रास्नावमैन्द्रवायवपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमजकावम् मैत्रावरुणपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमौष्ठमाश्विनपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमथ यदश्विनाविति मुख्यौ वा अश्विनावौष्ठमिव वा इदम् मुखं तस्मादौष्ठमाश्विनपात्रम् भवति॥