प्रजापतिर्वै प्रजाः ससृजानो रिरिचान इवामन्यत॥
तस्मात्पराच्यः प्रजा आसुर्नास्य प्रजाः श्रिये ऽन्नाद्याय तस्थिरे॥
स ऐक्षतारिक्ष्यहम्॥
अस्मा उ कामायासृक्षि न मे स कामः समार्धि पराच्यो मत्प्रजा अभूवन्न मे प्रजाः श्रिये ऽन्नाद्यायास्थिषतेति॥
स ऐक्षत प्रजापतिः॥
कथं नु पुनरात्मानमाप्याययेयोप मा प्रजाः समावर्तेरंस्तिष्ठेरन्मे प्रजाः श्रिये ऽन्नाद्यायेति॥
सो ऽर्चञ्छ्राम्यंश्चचार प्रजाकामः॥
स एतामेकादशिनीमपश्यत्स एकादशिन्येष्ट्वा प्रजापतिः पुनरात्मानमाप्याययतोपैनम् प्रजाः समावर्तन्तातिष्ठन्तास्य प्रजाः श्रिये ऽन्नाद्याय स वसीयानेवेष्ट्वाभवत्॥
तस्मै कमेकादशिन्या यजेत॥
एवं हैव प्रजया पशुभिराप्यायत उपैनम् प्रजाः समावर्तन्ते तिष्ठन्ते ऽस्य प्रजाः श्रिये ऽन्नाद्याय स वसीयानेवेष्ट्वा भवत्येतस्मै कमेकादशिन्या यजते॥
स आग्नेयम् प्रथमम् पशुमालभते॥
अग्निर्वै देवतानाम् मुखम् प्रजनयिता स प्रजापतिः स उ एव यजमानस्तस्मादाग्नेयो भवति॥
अथ सारस्वतम्॥
वाग्वै सरस्वती वाचैव तत्प्रजापतिः पुनरात्मानमाप्याययत वागेनमुपसमावर्तत वाचमनुकामात्मनो ऽकुरुत वाचो एवैष एतदाप्यायते वागेनमुपसमावर्तते वाचमनुकामात्मनः कुरुते॥
अथ सौम्यम्॥
अन्नं वै सोमो ऽन्नेनैव तत्प्रजापतिः पुनरात्मानमाप्याययतान्नमेनमुपसमावर्ततान्नमनुकमात्मनो ऽकुरुतान्नेनो एवैष एतदाप्यायते ऽन्नमेनमुपसमावर्तते ऽन्नमनुकमात्मनः कुरुते॥
तद्यत्सारस्वतमनु भवति॥
वाग्वै सरस्वत्यन्नं सोमस्तस्माद्यो वाचा प्रसाम्यन्नादो हैव भवति॥
अथ पौष्णम्॥
पशवो वै पूषा पशुभिरेव तत्प्रजापतिः पुनरात्मानमाप्याययत पशव एनमुपसमावर्तन्त पशूननुकानात्मनो ऽकुरुत पशुभिर्वेवैष एतदाप्यायते पशव एनमुपसमावर्तन्ते पशूननुकानात्मनः कुरुते॥
अथ बार्हस्पत्यम्॥
ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैतत्प्रजापतिः पुनरात्मानमाप्याययत ब्रह्मैनमुपसमावर्तत ब्रह्मानुकमात्मनो ऽकुरुत ब्रह्मणो एवैष एतदाप्यायते ब्रह्मैनमुपसमावर्तते ब्रह्मानुकमात्मनः कुरुते॥
तद्यत्पौष्णमनु भवति॥
पशवो वै पूषा ब्रह्म बृहस्पतिस्तस्माद्ब्राह्मणः पशूनभिधृष्णुतमः पुराहिता ह्यस्य भवन्ति मुख आहितास्तस्मादु तत्सर्वं दत्त्वाजिनवासी चरति॥
अथ वैश्वदेवं॥
सर्वं वै विश्वे देवाः सर्वेणैव तत्प्रजापतिः पुनरात्मानमाप्याययत सर्वमेनमुपसमावर्तत सर्वमनुकमात्मनो ऽकुरुत सर्वेणो एवैष एतदाप्यायते सर्वमेनमुपसमावर्तते सर्वमनुकमात्मनः कुरुते॥
तद्यद्बार्हस्पत्यमनु भवति॥
ब्रह्म वै बृहस्पतिः सर्वमिदं विश्वे देवा अस्यैवैतत्सर्वस्य ब्रह्म मुखं करोति तस्मादस्य सर्वस्य ब्राह्मणो मुखम्॥
अथैन्द्रम्॥
इन्द्रियं वै वीर्यमिन्द्रम् इन्द्रियेणैव तद्वीर्येण प्रजापतिः पुनरात्मानमाप्याययतेन्द्रियमेनं वीर्यमुपसमावर्ततेन्द्रियं वीर्यमनुकमात्मनो ऽकुरुतेन्द्रियेणो एवैष एतद्वीर्येणाप्यायत इन्द्रियमेनं वीर्यमुपसमावर्तत इन्द्रियं वीर्यमनुकमात्मनः कुरुते॥
तद्यद्वैश्वदेवमनु भवति॥
क्षत्रं वा इन्द्रो विशो विश्वे देवा अन्नाद्यमेवास्मा एतत्पुरस्तात्करोति॥
अथ मारुतम्॥
विशो वै मरुतो भूमो वै विड्भूम्नैव तत्प्रजापतिः पुनरात्मानमाप्याययत भूमैनमुपसमावर्तत भूमानमनुकमात्मनो ऽकुरुत भूम्नो एवैष एतदाप्यायते भूमैनमुपसमावर्तते भूमानमनुकमात्मनः कुरुते॥
तद्यदैन्द्रमनु भवति॥
क्षत्रं वा इन्द्रो विशो विश्वे देवा विशो वै मरुतो विशैवैतत्क्षत्रम् परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढम्॥
अथैन्द्राग्नम्॥
तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र उभाभ्यामेव तद्वीर्याभ्याम् प्रजापतिः पुनरात्मानमाप्याययतोभे एनं वीर्ये उपसमावर्तेतामुभे वीर्ये अनुके आत्मनो कुरुतोभाभ्याम्वेवैष एतद्वीर्याभ्यामाप्यायत उभे एनं वीर्ये उपसमावर्तेते उभे वीर्ये अनुके आत्मनः कुरुते॥
अथ सावित्रम्॥
सविता वै देवानाम् प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते॥
अथ वारुणमन्तत आलभते॥
तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति॥
तस्माद्यदि यूपैकादशिनी स्यात्॥
आग्नेयमेवाग्निष्ठे नियुञ्ज्यादथेतरान्व्युपनयेयुर्यथापूर्वम्॥
यद्यु पश्वेकादशिनी स्यात्॥
आग्नेयमेव यूप आलभेरन्नथेतरान्यथापूर्वम्॥
तान्यत्रोदीचो नयन्ति॥
आग्नेयमेव प्रथमं नयन्त्यथेतरान्यथापूर्वम्॥
तान्यत्र निविध्यन्ति॥
आग्नेयमेव प्रथमं दक्षिणार्ध्यं निविध्यन्त्यथेतरानुदीचो ऽतिनीय यथापूर्वम्॥
तेषां यत्र वपाभिः प्रचरन्ति॥
आग्नेयस्यैव प्रथमस्य वपया प्रचरन्त्यथेतरेषां यथापूर्वम्॥
तैर्यत्र प्रचरन्ति॥
आग्नेयेनैव प्रथमेन प्रचरन्त्यथेतरैर्यथापूर्वम्॥
यत्र वै यज्ञस्य शिरो ऽछिद्यत॥
तस्य रसो द्रुत्वापः प्रविवेष तेनैवैतद्रसेनापः स्यन्दन्ते तमेवैतद्रसं स्यन्दमानम् मन्यन्ते॥
स यद्वसतीवरीरछैति॥
तमेवैतद्रसमाहृत्य यज्ञे दधाति रसवन्तं यज्ञं करोति तस्माद्वसतीवरीरछैति॥
ता वै सर्वेषु सवनेषु विभजति॥
सर्वेष्वेवैतत्सवनेषु रसं दधाति सर्वाणि सवनानि रसवन्ति करोति तस्मात्सर्वेषु विभजति॥
ता वै स्यन्दमानानां गृह्णीयात्॥
ऐद्धि स यज्ञस्य रसस्तस्मात्स्यन्दमानानां गृह्णीयात्॥
गोपीथाय वा एता गृह्यन्ते॥
सर्वं वा इदमन्यदिलयति यदिदं किं चापि यो ऽयम् पवते ऽथैता एव नेलयन्ति तस्मात्स्यन्दमानानां गृह्णीयात्॥
दिवा गृह्णीयात्॥
पश्यन्यज्ञस्य रसं गृह्णानीति तस्माद्दिवा गृह्णीयादेतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवास्तस्माद्दिवा गृह्णीयाद्दिवेव वा एष तस्माद्वेव दिवा गृह्णीयात्॥
एतद्ध वै विश्वे देवाः॥
यजमानस्य गृहानागछन्ति स यः पुरादित्यस्यास्तमयाद्वसतीवरीर्गृह्णाति यथा श्रेयस्यागमिष्यत्यावसथेनोपकॢप्तेनोपासीतैवं तत्त एतद्धविः प्रविशन्ति त एतासु वसतीवरीषूपवसन्ति स उपवसथः॥
स यस्यागृहीता अभ्यस्तमियात्॥
तत्र प्रायश्चित्तिः क्रियते यदि पुरेजानः स्यान्निनाह्याद्गृह्णीयाद्दिवा हि तस्य ताः पुरा गृहीता भवन्ति यद्यु अनीजानः स्याद्य एनमीजान उपावसितो वा पर्यवसितो वा स्यात्तस्य निनाह्याद्गृह्णीयाद्दिवा हि तस्य ताः पुरा गृहीता भवन्ति॥
यद्यु एतदुभयं न विन्देत्॥
उल्कुषीमेवादायोपपरेयात्तामुपर्युपरि धारयन्गृह्णीयाद्धिरण्यं वोपर्युपरि धारयन्गृह्णीयात्तदेतस्य रूपं क्रियते य एष तपति॥
अथातो गृह्णात्येव॥
हविष्मतीरिमा आप इति यज्ञस्य ह्यासु रसः प्राविशत्तस्मादाह हविष्मतीरिमा आप इति हविष्मान् आविवासतीति हविष्मान्ह्येना यजमान आविवासति तस्मादाह हविष्मान् आविवासतीति॥
हविष्मान्देवो अध्वर इति॥
अध्वरो वै यज्ञस्तद्यस्मै यज्ञाय गृह्णाति तं हविष्मन्तं करोति तस्मादाह हविष्मान्देवो अध्वर इति॥
हविष्मान् अस्तु सूर्य इति॥
एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवास्तस्मादाह हविष्मान् अस्तु सूर्य इति॥
ता आहृत्य जघनेन गार्हपत्यं सादयति॥
अग्नेर्वो ऽपन्नगृहस्य सदसि सादयामीत्यग्नेर्वो ऽनार्तगृहस्य सदसि सादयामीत्येवैतदाहाथ यदाग्नीषोमीयः पशुः सन्तिष्ठते ऽथ परिहरति व्युत्क्रामतेत्याहाग्रेण हविर्धाने यजमान आस्ते ता आदत्ते॥
स दक्षिणेन निष्क्रामति॥
ता दक्षिणायां श्रोणौ सादयतीन्द्राग्न्योर्भागधेयी स्थेति विश्वेभ्यो ह्येना देवेभ्यो गृह्णातीन्द्राग्नी हि विश्वे देवास्ताः पुनराहृत्याग्रेण पत्नीं सादयति स जघनेन पत्नीम् पर्येत्य ता आदत्ते॥
स उत्तरेण निष्क्रामति॥
ता उत्तरायां श्रोणौ सादयति मित्रावरुणयोर्भागधेयी स्थेति नैवं सादयेदतिरिक्तमेतन्नैवं सम्पत्सम्पद्यत इन्द्राग्न्योर्भागधेयी स्थेत्येव ब्रूयात्तदेवानतिरिक्तं तथा सम्पत्सम्पद्यते॥
गुप्त्यै वा एताः परिह्रियन्ते॥
अग्निः पुरस्तादथैताः समन्तम् पल्यङ्ग्यन्ते नाष्ट्रा रक्षांस्यपघ्नत्यस्ता आग्नीध्रे सादयति विश्वेषां देवानाम् भागधेयी स्थेति तदासु विश्वान्देवान्त्संवेशयत्येते वै वसतां वरं तस्माद्वसतीवर्यो नाम वसतां ह वै वरम् भवति य एवमेतद्वेद॥
तानि वा एतानि सप्त यजूंषि भवन्ति॥
चतुर्भिर्गृह्णात्येकेन जघनेन गार्हपत्यं सादयत्येकेन परिहरत्येकेनाग्नीध्रे तानि सप्त यत्र वै वाचः प्रजातानि छन्दांसि सप्तपदा वै तेषाम् परार्ध्या शक्वर्येतामभिसम्पदं तस्मात्सप्त यजूंषि भवन्ति॥
तान्त्सम्प्रबोधयन्ति॥
ते ऽप उपस्पृश्याग्नीध्रमुपसमायन्ति त आज्यानि गृह्णते गृहीत्वाज्यान्यायन्त्यासाद्याज्यानि॥
अथ राजानमुपावहरति॥
इयं वै प्रतिष्ठा जनूरासाम् प्रजानामिमामेवैतत्प्रतिष्ठामभ्युपावहरति तमस्यै तनुते तमस्यै जनयति॥
अन्तरेणेष उपावहरति॥
यज्ञो वा अनस्तन्न्वेव यज्ञान्न बहिर्धा करोति ग्रावसु सम्मुखेष्वधिनिदधाति क्षत्रं वै सोमो विशो ग्रावाणः क्षत्रमेवैतद्विश्यध्यूहति तद्यत्सम्मुखा भवन्ति विशमेवैतत्सम्मुखां क्षत्रियमभ्यविवादिनीं करोति तस्मात्सम्मुखा भवन्ति॥
स उपावहरति॥
हृदे त्वा मनसे त्वेति यजमानस्यैतत्कामायाह हृदयेन हि मनसा यजमानस्तं कामं कामयते यत्काम्या यजते तस्मादाह हृदे त्वा मनसे त्वेति॥
दिवे त्वा सूर्याय त्वेति॥
देवलोकाय त्वेत्येवैतदाह यदाह दिवे त्वेति सूर्याय त्वेति देवेभ्यस्त्वेत्येवैतदाहोर्ध्वमिममध्वरं दिवि देवेषु होत्रा यछेत्यध्वरो वै यज्ञ ऊर्द्वमिमं यज्ञं दिवे देवेषु धेहीत्येवैतदाह॥
सोम राजन्विश्वास्त्वम् प्रजा उपावरोहेति॥
तदेनमासाम् प्रजानामाधिपत्याय राज्यायोपावहरति॥
अथानुसृज्योपतिष्ठते॥
विश्वास्त्वाम् प्रजा उपावरोहन्त्वित्ययथायथमिव वा एतत्करोति यदाह विश्वास्त्वम् प्रजा उपावरोहेति क्षत्रं वै सोमस्तत्पापवस्यसं करोति तद्धेदमनु पापवस्यसं क्रियते ऽथात्र यथायथं करोति यथापूर्वं यदाह विश्वास्त्वाम् प्रजा उपावरोहन्त्विति तदेनमाभिः प्रजाभिः प्रत्यवरोहयति तस्मादु क्षत्रियमायन्तमिमाः प्रजा विशः प्रत्यवरोहन्ति तमधस्तादुपासत उपसन्नो होता प्रातरनुवाकमनुवक्ष्यन्भवति॥
अथ समिधमभ्यादधदाह॥
देवेभ्यः प्रातर्यावभ्यो ऽनुब्रूहीति छन्दांसि वै देवाः प्रातर्यावाणश्छन्दांस्यनुयाजा देवेभ्यः प्रेष्य देवान्यजेति वा अनुयाजैश्चरन्ति॥
तदु हैक आहुः॥
देवेभ्यो ऽनुब्रूहीति तदु तथा न ब्रूयाच्छन्दांसि वै देवाः प्रातर्यावाणश्छन्दांस्यनुयाजा देवेभ्यः प्रेष्य देवान्यजेति वा अनुयाजैश्चरन्ति तस्मादु ब्रूयाद्देवेभ्यः प्रातर्यावभ्यो ऽनुब्रूहीत्येव॥
अथ यत्समिधमभ्यादधाति॥
छन्दांस्येवैतत्समिन्द्धे ऽथ यद्धोता प्रातरनुवाकमन्वाह छन्दांस्येवैतत्पुनराप्याययत्ययातयामानि करोति यातयामानि वै देवैश्छन्दांसि छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत न वा अत्र स्तुवते न शंसन्ति तच्छन्दांस्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते तस्माद्धोता प्रातरनुवाकमन्वाह॥
तदाहुः॥
कः प्रातरनुवाकस्य प्रतिगर इति जाग्रद्धैवाध्वर्युरुपासीत स यन्निमिषति स हैवास्य प्रतिगरस्तदु तथा न कुर्याद्यदि निद्रायादपि कामं स्वप्यात्स यत्र होता प्रातरनुवाकम् परिदधाति तत्प्रचरणीति स्रुग्भवति तस्यां चतुर्गृहीतमाज्यं गृहीत्वा जुहोति॥
यत्र वै यज्ञस्य शिरो ऽछिद्यत॥
तस्य रसो द्रुत्वापः प्रविवेश तमदः पूर्वेद्युर्वसतीवरीभिराहरत्यथ यो ऽत्र यज्ञस्य रसः परिशिष्टस्तमेवैतदछैति॥
यद्धैवैतामाहुतिं जुहोति॥
एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्धे याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति ता एवैतत्प्रीणाति ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रसं सन्नमन्ति॥
स जुहोति॥
शृणोत्वग्निः समिधा हवम् म इति शृणोतु म इदमग्निरनु मे जानात्वित्येवैतदाह शृण्वन्त्वापो धिषणाश्च देवीरिति शृण्वन्तु म इदमापो ऽनु मे जानन्त्वित्येवैतदाह श्रोता ग्रावाणो विदुषो न यज्ञमिति शृण्वन्तु म इदं ग्रावाणो ऽनु मे जानन्त्वित्येवैतदाह विदुषो न यज्ञमिति विद्वांसो हि ग्रावाणः शृणोतु देवः सविता हवम् मे स्वाहेति शृणोतु म इदं देवः सवितानु मे जानात्वित्येवैतदाह सविता वै देवानाम् प्रसविता तत्सवितृप्रसूत एवैतद्यज्ञस्य रसमछैति॥
अथापरं चतुर्गृहीतमाज्यं गृहीत्वा॥
उदङ् प्रयन्नाहाप इष्य होतरित्यप इछ होतरित्येवैतदाह तद्यदतो होतान्वाहैतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्ध एतानु चैवैतदनुतिष्ठते नेदेनानन्तरा नाष्ट्रा रक्षांसि हिनसन्निति॥
अथ सम्प्रेष्यति॥
मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति सम्प्रैष एवैषः॥
त उदञ्चो निष्क्रामन्ति॥
जघनेन चात्वालमग्रेणाग्नीध्रं स यस्यां ततो दिश्यापो भवन्ति तद्यन्ति ते वै सह पत्नीभिर्यन्ति तद्यत्सह पत्नीभिर्यन्ति॥
यत्र वै यज्ञस्य शिरो ऽछिद्यत॥
तस्य रसो द्रुत्वापः प्रविवेश तमेते गन्धर्वाः सोमरक्षा जुगुपुः॥
ते ह देवा ऊचुः॥
इयमु न्वेवेह नाष्ट्रा यदिमे गन्धर्वाः कथं न्विममभये ऽनाष्ट्रे यज्ञस्य रसमाहरेमेति॥
ते होचुः॥
योषित्कामा वै गन्धर्वाः सह पत्नीभिरयाम ते पत्नीष्वेव गन्धर्वा गर्धिष्यन्त्यथैतमभये ऽनाष्ट्रे यज्ञस्य रसमाहरिष्याम इति॥
ते सह पत्नीभिरीयुः॥
ते पत्नीष्वेव गन्धर्वा जगृधुरथैतमभये नाष्ट्रे यज्ञस्य रसमाजह्रुः॥
तथो एवैष एतत्॥
महैव पत्नीभिरेति ते पत्नीष्वेव गन्धर्वा गृध्यन्त्यथैतमभये ऽनाष्ट्रे यज्ञस्य रसमाहरति॥
सो ऽपो ऽभिजुहोति॥
एतां ह वा आहुतिं हृतामेष यज्ञस्य रस उपसमेति ताम् प्रत्युत्तिष्ठति तमेवैतदाविष्कृत्य गृह्णाति॥
यद्वेवैतामाहुतिं जुहोति॥
एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्धे तमपो याचति याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति ता एवैतत्प्रीणाति ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रसं सन्नमन्ति॥
स जुहोति॥
देवीरापो अपान्नपादिति देव्यो ह्यापस्तस्मादाह देवीरापो अपान्नपादिति यो व ऊर्मिर्हविष्य इति यो व ऊर्मिर्यज्ञिय इत्येवैतदाहेन्द्रियावान्मदिन्तम इति वीर्यवानित्येवैतदाह यदाहेन्द्रियावानिति मदिन्तम इति स्वादिष्ठ इत्येवैतदाह तं देवेभ्यो देवत्रा दत्तेत्येतदेना अयाचिष्ट यदाह तं देवेभ्यो देवत्रा दत्तेति शुक्रपेभ्य इति सत्यं वै शुक्रं सत्यपेभ्य इत्येवैतदाह येषाम् भाग स्थ स्वाहेति तेषामु ह्येष भागः॥
अथ मैत्रावरुणचमसेनैतामाहुतिमपप्लावयति॥
कार्षिरसीति यथा वा अङ्गारो ऽग्निना प्सातः स्यादेवमेषाहुतिरेतया देवतया प्साता भवति राजानं वा एताभिरद्भिरुपस्रक्ष्यन्भवति या एता मैत्रावरुणचमसे वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति तस्माद्वा अपप्लावयति॥
अथ गृह्णाति॥
समुद्रस्य त्वाक्षित्या उन्नयामीत्यापो वै समुद्रो ऽप्स्वेवैतदक्षितिं दधाति तस्मादाप एतावति भोगे भुज्यमाने न क्षीयन्ते तदन्वेकधनानुन्नयन्ति तदनु पान्नेजनान्॥
तद्यन्मैत्रावरुणचमसेन गृह्णाति॥
यत्र वै देवेभ्यो यज्ञो ऽपाक्रामत्तमेतद्देवाः प्रैषैरेव प्रैषमैछन्पुरोरुग्भिः प्रारोचयन्निविद्भिर्न्यवेदयंस्तस्मान्मैत्रावरुणचमसेन गृह्णाति॥
त आयन्ति॥
प्रत्युपतिष्ठते ऽग्नीच्चात्वाले वसतीवरीभिश्च होतृचमसेन च स उपर्युपरि चात्वालं संस्पर्शयति वसतीवरीश्च मैत्रावरुणचमसं च समापो अद्भिरग्मत समोषधीभिरोषधीरिति यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो यश्चाद्याहृतस्तमेवैतदुभयं संसृजति॥
तद्धैके॥
एव मैत्रावरुणचमसे वसतीवरीर्नयन्त्या मैत्रावरुणचमसाद्वसतीवरीषु यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो यश्चाद्याहृतस्तमेवैतदुभयं संसृजाम इति वदन्तस्तदु तथा न कुर्याद्यद्वा आधवनीये समवनयति तदेवैष उभयो यज्ञस्य रसः संसृज्यते ऽथ होतृचमसे वसतीवरीर्गृह्णाति निग्राभ्याभ्यस्तद्यदुपर्युपरि चात्वालं संस्पर्शयत्यतो वै देवा दिवमुपोदक्रामंस्तद्यजमानमेवैतत्स्वर्ग्यम् पन्थानमनुसङ्ख्यापयति॥
त आयन्ति॥
तं होता पृछत्यध्वर्यो ऽवेरपा इत्यविदो ऽपा इत्येवैतदाह तम् प्रत्याहोतेव नन्नमुरित्यविदमथो मे ऽनंसतेत्येवैतदाह॥
स यद्यग्निष्टोमः स्यात्॥
यदि प्रचरण्यां संस्रवः परिशिष्टो ऽलं होमाय स्यात्तं जुहुयाद्यद्यु नालं होमाय स्यादपरं चतुर्गृहीतमाज्यं गृहीत्वा जुहोति यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः स यन्ता शश्वतीरिषः स्वाहेत्याग्नेय्या जुहोत्यग्निर्वा अग्निष्टोमस्तदग्नावग्निष्टोमम् प्रतिष्ठापयति मर्तवत्या पुरुषसम्मितो वा अग्निष्टोम एवं जुहुयाद्यद्यग्निष्टोमः स्यात्॥
यद्युक्थ्यः स्यात्॥
मध्यमम् परिधिमुपस्पृशेत्त्रयः परिधयस्त्रीण्युक्थान्येतैरु हि तर्हि यज्ञः प्रतितिष्ठति यद्यु अतिरात्रो वा षोडशी वा स्यान्नैव जुहुयान्न मध्यमम् परिधिम् उपस्पृशेत्समुद्यैव तूष्णीमेत्य प्रपद्येत तद्यथायथं यज्ञक्रतून्व्यावर्तयति॥
अयुङ्गा-अयुङ्गा एकधना भवन्ति॥
त्रयो वा पञ्च वा पञ्च वा सप्त वा नव वा नव वैकादश वैकादश वा त्रयोदश वा त्रयोदश वा पञ्चदश वा द्वन्द्वमह मिथुनम् प्रजननमथा थ एष एको ऽतिरिच्यते स यजमानस्य श्रियमभ्यतिरिच्यते स वा एषां सधनं यो यजमानस्य श्रियमभ्यतिरिच्यते तद्यदेषां सधनं तस्मादेकधना नाम॥
अथाधिषवणे पर्युपविशन्ति॥
अथास्यां हिरण्यम् बध्नीते द्वयं वा इदं न तृतीयमस्ति सत्यं चैवानृतं च सत्यमेव देवा अनृतम् मनुष्या अग्निरेतसं वै हिरण्यं सत्येनांशूनुपस्पृशानि सत्येन सोमम् पराहणानीति तस्माद्वा अस्यां हिरण्यम् बध्नीते॥
अथ ग्रावाणमादत्ते॥
ते वा एते ऽश्ममया ग्रावाणो भवन्ति देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतछरीरं यद्गिरयो यदश्मानस्तछरीरेणैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादश्ममया भवन्ति घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथात उदेति तथा सञ्जीवति तस्मादश्ममया ग्रावाणो भवन्ति॥
तमादत्ते॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामाददे रावासीति सविता वै देवानाम् प्रसविता तत्सवितृप्रसूत एवैनमेतदादत्ते ऽश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यू तत्तयोरेव बाहुभ्यामादत्ते न स्वाभ्याम् पूष्णो हस्ताभ्यामिति पूषा भागदुघस्तत्तस्यैव हस्ताभ्यामादत्ते न स्वाभ्यां वज्रो वा एष तस्य न मनुष्यो भर्ता तमेताभिर्देवताभिरादत्ते॥
आददे रावासीति॥
यदा वा एनमेतेनाभिषुण्वन्त्यथाहुतिर्भवति यदाहुतिं जुहोत्यथ दक्षिणा ददात्येतद्ध्येष द्वयं रासत आहुतीश्च दक्षिणाश्च तस्मादाह रावासीति॥
गभीरमिममध्वरं कृधीति॥
अध्वरो वै यज्ञो महान्तमिमं यज्ञं कृधीत्येवैतदाहेन्द्राय सुषूतममितीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेति सुषूतममिति सुसुतममित्येवैतदाहोत्तमेन पविनेत्येष वा उत्तमः पविर्यत्सोमस्तस्मादाहोत्तमेन पविनेत्यूर्जस्वन्तम् मधुमन्तम् पयस्वन्तमिति रसवन्तमित्येवैतदाह यदाहोर्जस्वन्तम् मधुमन्तम् पयस्वन्तमिति॥
अथ वाचं यछति॥
देवा ह वै यज्ञं तन्वानास्ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुरुपांशु यजाम वाचं यछामेति त उपांश्वयजन्वाचमयछन्॥
अथ निग्राभ्या आहरति॥
तास्वेनं वाचयति निग्राभ्या स्थ देवश्रुतस्तर्पयत मा मनो मे तर्पयत वाचम् मे तर्पयत प्राणम् मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रम् मे तर्पयतात्मानम् मे तर्पयत प्रजाम् मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति रसो वा आपस्तास्वेवैतामाशिषमाशास्ते सर्वं च म आत्मानं तर्पयत प्रजाम् मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति स य एष उपांशुसवनः स विवस्वानादित्यो निदानेन सो ऽस्यैष व्यानः॥
तमभिमिमीते॥
घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथात उदेति तथा सञ्जीवति यद्वेव मिमीते तस्मान्मात्रा मनुष्येषु मात्रो यो चाप्यन्या मात्रा॥
स मिमीते॥
इन्द्राय त्वा वसुमते रुद्रवत इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय त्वेति वसुमते रुद्रवत इति तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजतीन्द्राय त्वादित्यवत इति तदिन्द्रमेवान्वादित्यानाभजतीन्द्राय त्वाभिमातिघ्न इति सपत्नो वा अभिमातिरिन्द्राय त्वा सपत्नघ्न इत्येवैतदाह सो ऽस्योद्धारो यथा श्रेष्ठन्योद्धार एवमस्यैष ऋते देवेभ्यः॥
श्येनाय त्वा सोमभृत इति॥
तद्गायत्र्यै मिमीते ऽग्नये त्वा रायस्पोषद इत्यग्निर्वै गायत्री तद्गायत्र्यै मिमीते स यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन मा श्येनः सोमभृत्तेनैवास्या एतद्वीर्येण द्वितीयम् मिमीते॥
अथ यत्पञ्च कृत्वो मिमीते॥
संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तम् पञ्चभिराप्नोति तस्मात्पञ्च कृत्वाम् मिमीते॥
तमभिमृशति॥
यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राये कृध्यधि दात्रे वोच इति यत्र वा एषो ऽग्रे देवानां हविर्बभूव तद्धेक्षां चक्रे मैव सर्वेणेवात्मना देवानां हविर्भूवमिति स एतास्तिस्रस्तनूरेषु लोकेषु विन्यधत्त॥
तद्वै देवा अस्पृण्वत॥
ते ऽस्यैतेनैवैतास्तनूराप्नुवन्त्स कृत्स्न एव देवानां हविरभवत्तथो एवास्यैष एतेनैवैतास्तनूराप्नोति स कृत्स्न एव देवानां हविर्भवति तस्मादेवमभिमृशति॥
अथ निग्राभ्याभिरुपसृजति॥
आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते तस्मादेनाः स्यन्दमाना न किं चन प्रतिघारयति ता ह स्वमेव वशं चेरुः कस्मै नु वयं तिष्ठेमहि याभिरस्माभिर्वृत्रो हत इति सर्वं वा इदमिन्द्राय तस्थानमास यदिदं किं चापि यो ऽयम् पवते॥
स इन्द्रो ऽब्रवीत्॥
सर्वं वै म इदं तस्थानं यदिदं किं च तिष्ठध्वमेव म इति ता होचुः किं नस्ततः स्यादिति प्रथमभक्ष एव वः सोमस्य राज्ञ इति तथेति ता अस्मा अतिष्ठन्त तास्तस्थाना उरसि न्यगृह्णीत तद्यदेना उरसि न्यगृह्णीत तस्मान्निग्राभ्या नाम तथैवैता एतद्यजमान उरसि निगृह्णीते स आसामेष प्रथमभक्षः सोमस्य राज्ञो यन्निग्राभ्याभिरुपसृजति॥
स उपसृजति॥
श्वात्रा स्थ वृत्रतुर इति शिवा ह्यापस्तस्मादाह श्वात्रा स्थेति वृत्रतुर इति वृत्रं ह्येता अघ्नन्राधोगूर्ता अमृतस्य पत्नीरित्यमृता ह्यापस्ता देवीर्देवत्रेमं यज्ञं नयतेति नात्र तिरोहितमिवास्त्युपहूताः सोमस्य पिबतेति तदुपहूता एव प्रथमभक्षं सोमस्य राज्ञो भक्षयन्ति॥
अथ प्रहरिष्यन्॥
यं द्विष्यात्तम् मनसा ध्यायेदमुष्मा अहम् प्रहरामि न तुभ्यमिति यो न्वेवेमम् मानुषम् ब्राह्मणं हन्ति तं न्वेव परिचक्षते ऽथ किं य एतं देवी हि सोमो घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथात उदेति तथा सञ्जीवति तथानेनस्यम् भवति यद्यु न द्विष्यादपि तृणमेव मनसा ध्यायेत्तथो अनेनस्यम् भवति॥
स प्रहरति॥
मा भेर्मा संविक्था इति मा त्वम् भैषीर्मा संविक्था अमुष्मा अहम् प्रहरामि न तुभ्यमित्येवैतदाहोर्जं धत्स्वेति रसं धत्स्वेत्येवैतदाह धिषणे वीड्वी सती वीडयेथामूर्जं दधाथामितोमे एवैतत्फलके आहुरित्यु हैक आहुः किं नु तत्र यो ऽप्येते फलके भिन्द्यादिमे हवै द्यावापृथिवी एतस्माद्वज्रादुद्यतात्संरेजेते तदाभ्यामेवैनमेतद्द्यावापृथिवीभ्यां शमयति तथेमे शान्तो न हिनस्त्यूर्जं दधाथामिति रसं दधाथामित्येवैतदाह पाप्मा हतो न सोम इति तदस्य सर्वम् पाप्मानं हन्ति॥
स वै त्रिरभिषुणोति॥
त्रिः सम्भरति चतुर्निग्राभमुपैति तद्दश दशाक्षरा वै विराड्वैराजः सोमस्तस्माद्दश कृत्वः सम्पादयति॥
अथ यन्निग्राभमुपैति॥
यत्र वा एषो ऽग्रे देवानां हविर्बभूव तद्धेमा दिशो ऽभिदध्यावाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पृशेयेति तमेतद्देवा आभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना समस्पर्शयन्यन्निग्राभमुपायंस्तथो एवैनमेष एतदाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयति यन्निग्राभमुपैति॥
स उपैति॥
प्रागपागुदगधराक्सर्वतस्त्वा दिश आधावन्त्विति तदेनमाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयत्यम्ब निष्पर समरीर्विदामिति योषा वा अम्बा योषा दिशस्तस्मादाहाम्ब निष्परेति समरीर्विदामिति प्रजा वा अरीः सम् प्रजा जानतामित्येवैतदाह तस्माद्या अपि विटूरमिव प्रजा भवन्ति समेव ता जानते तस्मादाह समरीर्विदामिति॥
अथ यस्मात्सोमो नाम॥
यत्र वा एषो ऽग्रे देवानां हविर्बभूव तद्धेक्षां चक्रे मैव सर्वेणेवात्मना देवानां हविर्भूवमिति तस्य या जुष्टतमा तनूरास तामपनिदधे तद्वै देवा अस्पृण्वत ते होचुरुपैवैताम् प्रवृहस्व सहैव न एतया हविरेधीति तां दूर इवोपप्रावृहत स्वा वै म एषेति तस्मात्सोमो नाम॥
अथ यस्माद्यज्ञो नाम॥
घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तद्यदेनं जनयन्ति स तायमानो जायते स यन्जायते तस्माद्यञ्जो यञ्जो हवै नामैतद्यद्यज्ञ इति॥
तत्रैतामपि वाचमुवाद॥
त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वच इति मर्त्यो हैवैतद्भवन्नुवाच त्वमेवेतो जनयितासि नान्यस्त्वदिति॥
अथ निग्राभ्याभ्यो ग्रहान्विगृह्णते॥
आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते स्यन्दमानानां वै वसतीवरीर्गृह्णाति वसतीवरीभ्यो निग्राभ्या निग्राब्याभ्यो ग्रहान्विगृह्णते तेनैवैतद्वीर्येण ग्रहान्विगृह्णते होतृचमसाद्योषा वा ऋग्घोता योषायै वा इमाः प्रजाः प्रजायन्ते तदेनमेतस्यै योषाया ऋचो होतुः प्रजनयति तस्माद्धोतृचमसात्॥