तद्यत्रैतत्प्रवृतो होता होतृषदन उपविशति॥
तदुपविश्य प्रसौति प्रसूतो ऽध्वर्युः स्रुचावादत्ते॥
अथाप्रीभिश्चरन्ति॥
तद्यदाप्रीभिश्चरन्ति सर्वेणेव वा एष मनसा सर्वेणेवात्मना यज्ञं सम्भरति सं च जिहीर्षति यो दीक्षते तस्य रिरिचान इवात्मा भवति तमेताभिराप्रीभिराप्याययन्ति तद्यदाप्याययन्ति तस्मादाप्रियो नाम तस्मादाप्रीभिश्चरन्ति॥
ते वा एत एकादश प्रयाजा भवन्ति॥
दश वा इमे पुरुषे प्राणा आत्मैकादशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषस्तदस्य सर्वमात्मानमाप्यायन्ति तस्मादेकादश प्रयाजा भवन्ति॥
स आश्राव्याह॥
समिधः प्रेष्येति प्रेष्य प्रेष्येति चतुर्थेचतुर्थे प्रयाजे समानयमानो दशभिः प्रयाजैश्चरति दश प्रयाजानिष्ट्वाह शासमाहरेत्यसिं वै शास इत्याचक्षते॥
अथ यूपशकलमादत्ते॥
तावग्रे जुह्वा अक्त्वा पशोर्ललाटमुपस्पृशति घृतेनाक्तौ पशूंस्त्रायेथामिति वज्रो वै यूपशकलो वज्रः शासो वज्र आज्यं तमेवैतत्कृत्स्नं वज्रं सम्भृत्य तमस्याभिगोप्तारं करोति नेदेनं नाष्ट्रा रक्षांसि हिनसन्निति पुनर्यूपशकलमवगूहत्येषा ते प्रज्ञाताश्रिरस्त्वित्याह शासम् प्रयछन्त्सादयति स्रुचौ॥
अथाह पर्यग्नये ऽनुब्रूहीति॥
उल्मुकमादायाग्नीत्पर्यग्निं करोति तद्यत्पर्यग्निं करोत्यछिद्रमेवैनमेतदग्निना परिगृह्णाति नेदेनं नाष्ट्रा रक्षांसि प्रमृशानित्यग्निर्हि रक्षसामपहन्ता तस्मात्पर्यग्निं करोति तद्यत्रैनं श्रपयन्ति तदभिपरिहरति॥
तदाहुः॥
पुनरेतदुल्मुकं हरेदथात्रान्यमेवाग्निं निर्मथ्य तस्मिन्नेनं श्रपयेयुराहवनीयो वा एष न वा एष तस्मै यदस्मिन्नशृतं श्रपयेयुस्तस्मै वा एष यदस्मिञ्छृतं जुहुयुरिति॥
तदु तथा न कुर्यात्॥
यथा वै ग्रसितमेवमस्यैतद्भवति यदेनेन पर्यग्निं करोति स यथा ग्रसितमनुहायाछिद्य तदन्यस्मै प्रयछेदेवं तत्तस्मादेतस्यैवोल्मुकस्याङ्गारान्निमृद्य तस्मिन्नेनं श्रपयेयुः॥
अथोल्मुकमादायाग्नीत्पुरस्तात्प्रतिपद्यते॥
अग्निमेवैतत्पुरस्तात्करोत्यग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण पशुं नयन्ति तं वपाश्रपणीभ्याम् प्रतिप्रस्थातान्वारभते प्रतिप्रस्थातारमध्वर्युरध्वर्युं यजमानः॥
तदाहुः॥
नैष यजमानेनान्वारभ्यो मृत्यवे ह्येतं नयन्ति तस्मान्नान्वारभेतेति तदन्वेवारभेत न वा एतम् मृत्यवे नयन्ति यं यज्ञाय नयन्ति तस्मादन्वेवारभेत यज्ञादु हैवात्मानमन्तरियाद्यन्नान्वारभेत तस्मादन्वेवारभेत तत्परो ऽक्षमन्वारब्धम् भवति वपाश्रपणीभ्याम् प्रतिप्रस्थाता प्रतिप्रस्थातारमध्वर्युरध्वर्युं यजमान एतदु परो ऽक्षमन्वारब्धम् भवति॥
अथ स्तीर्णायै वेदेः॥
द्वे तृणे अध्वर्युरादत्ते स आश्राव्याहोपप्रेष्य होतर्हव्या देवेभ्य इत्येतदु वैश्वदेवम् पशौ॥
अथ वाचयति॥
रेवति यजमान इति वाग्वै रेवती सा यद्वाग्बहु वदति तेन वाग्रेवती प्रियं धा आविशेत्यनार्तिमाविशेत्येवैतदाहोरोरन्तरिक्षात्सजूर्देवेन वातेनेत्यन्तरिक्षं वा अनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथायम् पुरुषो ऽमूल उभयतः परिच्छिन्नो ऽन्तरिक्षमनुचरति तद्वातेनैनं संविदानान्तरिक्षाद्गोपायेत्येवैतदाह यदाहोरोरन्तरिक्षात्सजूर्देवेन वातेनेति॥
अस्य हविषस्त्मना यजेति॥
वाचमेवैतदाहानार्तस्यास्य हविष आत्मना यजेति समस्य तन्वा भवेति वाचमेवैतदाहानार्तस्यास्य हविषस्तन्वा सम्भवेति॥
तद्यत्रैनं विशसन्ति॥
तत्पुरस्तात्तृणमुपास्यति वर्षो वर्षीयसि यज्ञे यज्ञपतिं धा इति बर्हिरेवास्मा एतत्स्तृणात्यस्कन्नं हविरसदिति तद्यदेवास्यात्र विशस्यमानस्य किञ्चित्स्कन्दति तदेतस्मिन्प्रतितिष्ठति तथा नामुया भवति॥
अथ पुनरेत्याहवनीयमभ्यावृत्यासते॥
नेदस्य सञ्ज्ञप्यमानस्याध्यक्षा असामेति तस्य न कूटेन प्रघ्नन्ति मानुषं हि तन्नो एव पश्चात्कर्णम् पितृदेवत्यं हि तदपिगृह्य वैव मुखं तमयन्ति वेष्कं वा कुर्वन्ति तन्नाह जहि मारयेति मानुषं हि तत्सञ्ज्ञपयान्वगन्निति तद्धि देवत्रा स यदाहान्वगन्नित्येतर्हि ह्येष देवाननुगछति तस्मादाहान्वगन्निति॥
तद्यत्रैनं निविध्यन्ति॥
तत्पुरा सञ्ज्ञपनाज्जुहोति स्वाहा देवेभ्य इत्यथ यदा प्राह सञ्ज्ञप्तः पशुरित्यथ जुहोति देवेभ्यः स्वाहेति पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयो ऽन्ये तानेवैतत्प्रीणाति त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ते वा एते परिपशव्ये इत्याहुती स यदि कामयेत जुहुयादेते यद्यु कामयेतापि नाद्रियेत॥
यदा प्राह सञ्ज्ञप्तः पशुरिति॥
अथाध्वर्युराह नेष्टः पत्नीमुदानयेत्युदानयति नेष्टा पत्नीम् पान्नेजनम् बिभ्रतीम्॥
तां वाचयति॥
नमस्त आतानेति यज्ञो वा आतानो यज्ञं हि तन्वते तेन यज्ञ आतानो जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञम् प्रसादयिष्यन्भवति तस्मा एवैतद्यज्ञाय निह्नुते तथो हैनामेष यज्ञो न हिनस्ति तस्मादाह नमस्त आतानेति॥
अनर्वा प्रेहीति॥
असपत्नेन प्रेहीत्येवैतदाह घृतस्य कुल्या उप ऋतस्य पथ्या अन्विति साधूपेत्येवैतदाह देवीरापः शुद्धा वोढ्वं सुपरिविष्टा देवेषु सुपरिविष्टा वयम् परिवेष्टारो भूयास्मेत्यप एवैतत्पावयति॥
अथ पशोः प्राणानद्भिः पत्न्युपस्पृशति॥
तद्यदद्भिः प्राणानुपस्पृशति जीवं वै देवानां हविरमृतममृतानामथैतत्पशुं घ्नन्ति यत्सञ्ज्ञपयन्ति यद्विशासत्यापो वै प्राणास्तदस्मिन्नेतान्प्राणान्दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम्॥
अथ यत्पत्न्युपस्पृशति॥
योषा वै पत्नी योषायै वा इमाः प्रजाः प्रजायन्ते तदेनमेतस्यै योषायै प्रजनयति तस्मात्पत्न्युपस्पृशति॥
सोपस्पृशति॥
वाचं ते शुन्धामीति मुखम् प्राणं ते शुन्धामीति नासिके चक्षुस्ते शुन्धामीत्यक्ष्यौ श्रोत्रं ते शुन्धामीति कर्णौ नाभिं ते शुन्धामीति यो ऽयमनिरुक्तः प्राणो मेढ्रं ते शुन्धामीति वा पायुं ते शुन्धामीति यो ऽयम् पश्चात्प्राणस्तत्प्राणान्दधाति तत्समीरयत्यथ संहृत्य पदश्चरित्रांस्ते शुन्धामीति पद्भिर्वै प्रतितिष्ठति प्रतिष्ठित्या एव तदेनम् प्रतिष्ठापयति॥
अथ या आपः परिशिष्यन्ते॥
अर्धा वा यावत्यो वा ताभिरेनं यजमानश्च शीर्षतो ऽग्रे ऽनुषिञ्चतस्तत्प्राणांश्चैवास्मिंस्तत्तौ धत्तस्तच्चैनमतः समीरयतः॥
तद्यत्क्रूरीकुर्वन्ति॥
यदास्थापयन्ति शान्तिरापस्तदद्भिः शान्त्या शमयतस्तदद्भिः सन्धत्तः॥
तावनुषिञ्चतः॥
मनस्त आप्यायतां वाक्त आप्यायताम् प्राणस्त आप्यायतां चक्षुस्त आप्यायतां श्रोत्रं त आप्यायतामिति तत्प्राणान्धत्तस्तत्समीरयतो यत्ते क्रूरं यदास्थितं तत्त आप्यायतां निष्ट्यायतामिति॥
तद्यत्क्रूरीकुर्वन्ति॥
यदास्थापयन्ति शान्तिरापस्तदद्भिः शान्त्या शमयतस्तदद्भिः सन्धत्तस्तत्ते शुध्यत्विति तन्मेध्यं कुरुतः शसहोभ्य इति जघनेन पशुं निनयतः॥
तद्यत्क्रूरीकुर्वन्ति॥
यदास्थापयन्ति नेदतदन्वशान्तान्यहोरात्राण्यसन्निति तस्माछमहोभ्य इति जघनेन पशुं निनयतः॥
अथोत्तानम् पशुम् पर्यस्यन्ति॥
स तृणमन्तर्दधात्योषधे त्रायस्वेति वज्रो वा असिस्तथो हैनमेष वज्रो ऽसिर्न हिनस्त्यथासिनाभिनिदधाति स्वधिते मैनं हिंसीरिति वज्रो वा असिस्तथो हैनमेष वज्रो ऽसिर्न हिनस्ति॥
सा या प्रज्ञाताश्रिः॥
तयाभिनिदधाति सा हि यजुष्कृता मेध्या तद्यदग्रं तृणस्य तत्सव्ये प्राणौ कुरुते ऽथ यद्बुध्नं तद्दक्षिणेनादत्ते॥
स यत्राछ्यति॥
यत एतल्लोहितमुत्पतति तदुभयतो ऽनक्ति रक्षसाम् भागो ऽसीति रक्षसां ह्येष भागो यदसृक्॥
तदुपास्याभितिष्ठति॥
इदमहं रक्षो ऽभितिष्ठामीदमहं रक्षो ऽवबाध इदमहं रक्षो ऽधमं तमो नयामीति तद्यज्ञेनैवैतन्नाष्ट्रा रक्षांस्यवबाधते तद्यदमूलमुभयतः परिच्छिन्नम् भवत्यमूलं वा इदमुभयतः परिच्छिन्नं रक्षो ऽन्तरिक्षमनुचरति यथायम् पुरुषो ऽमूल उभयतः परिच्छिन्नो ऽन्तरिक्षमनुचरति तस्मादमूलमुभयतः परिच्छिन्नम् भवति॥
अथ वपामुत्खिदन्ति॥
तया वपाश्रपण्यौ प्रोर्णौति घृतेन द्यावापृथिवी प्रोर्णुवाथामिति तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयत्यनयोरूर्जं रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति॥
कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः॥
यत्र वै देवा अग्रे पशुमालेभिरे तदुदीचः कृष्यमाणस्यावाण्नेधः पपात स एष वनस्पतिरजायत तद्यत्कृष्यमाणस्यावाङपतत्तस्मात्कार्ष्मर्यस्तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः॥
ताम् परिवासयति॥
ताम् पशुश्रपणे प्रतपति तथो हास्यात्रापि शृता भवति पुनरुल्मुकमग्नीदादत्ते ते जघनेन चात्वालं यन्ति त आयन्त्यागछन्त्याहवनीयं स एतत्तृणमध्वर्युराहवनीये प्रास्यति वायो वै स्तोकानामिति स्तोकानां हैषा समित्॥
अथोत्तरतस्तिष्ठन्वपाम् प्रतपति॥
अत्येष्यन्वा एषो ऽग्निम् भवति दक्षिणतः परीत्य श्रपयिष्यंस्तस्मा एवैतन्निह्नुते तथो हैनमेषो ऽतियन्तमग्निर्न हिनस्ति तस्मादुत्तरतस्तिष्ठन् वपाम् प्रतपति॥
तामन्तरेण यूपं चाग्निं च हरन्ति॥
तद्यत्समया न हरन्ति येनान्यानि हवींषि हरन्ति नेदशृतया समया यज्ञम् प्रसजामेति यदु बाह्येन न हरन्त्यग्रेण यूपम् बहिर्धा यज्ञात्कुर्युस्तस्मादन्तरेण यूपं चाग्निं च हरन्ति दक्षिणतः परीत्य प्रतिप्रस्थाता श्रपयति॥
अथ स्रुवेणोपहत्याज्यम्॥
अध्वर्युर्वपामभिजुहोत्यग्निराज्यस्य वेतु स्वाहेति तथो हास्यैते स्तोकाः शृताः स्वाहाकृता आहुतयो भूत्वाग्निम् प्राप्नुवन्ति॥
अथाह स्तोकेभ्यो ऽनुब्रूहीति॥
स आग्नेयी स्तोकेभ्यो ऽन्वाह तद्यदाग्नेयी स्तोकेभ्यो ऽन्वाहेतःप्रदाना वै वृष्टिरितो ह्यग्निर्वृष्टिं वनुते स एतै स्तोकैरेतान्त्स्तोकान्वनुते त एते स्तोका वर्षन्ति तस्मादाग्नेयी स्तोकेभ्यो ऽन्वाह यदा शृता भवति॥
अथाह प्रतिप्रस्थाता शृता प्रचरेति॥
स्रुचावादायाध्वर्युरतिक्रम्याश्राव्याह स्वाहाकृतिभ्यः प्रेष्येति वषट्कृते जुहोति॥
हुत्वा वपामेवाग्रे ऽभिघारयति॥
अथ पृषदाज्यं तदु ह चरकाध्वर्यवः पृषदाज्यमेवाग्रे ऽभिघारयन्ति प्राणः पृषदाज्यमिति वदन्तस्तदु ह याज्ञवल्क्यं चरकाध्वर्युरनुव्याजहारैवं कुर्वन्तम् प्राणं वा अयमन्तरगादध्वर्युः प्राण एनं हास्यतीति॥
स ह स्म बाहू अन्ववेक्ष्याह॥
इमौ पलितौ बाहू क्व स्विद्ब्राह्मणस्य वचो बभूवेति न तदाद्रियेतोत्तमो वा एष प्रयाजो भवतीदं वै हविर्यज्ञ उत्तमे प्रयाजे ध्रुवामेवाग्रे ऽभिघारयति तस्यै हि प्रथमावाज्यभागौ होष्यन्भवति वपां वा अत्र प्रथमां होष्यन्भवति तस्माद्वपामेवाग्रे ऽभिघारयेदथ पृषदाज्यमथ यत्पशुं नाभिघारयति नेदशृतमभिघारयाणीत्येतदेवास्य सर्वः पशुरभिघारितो भवति यद्वपामभिघारयति तस्माद्वपामेवाग्रे ऽभिघारयेदथ पृषदाज्यम्॥
अथाज्यमुपस्तृणीते॥
अथ हिरण्यशकलमवदधात्यथ वपामवद्यन्नाहाग्नीषोमाभ्यां छागस्य वपायै मेदसो ऽनुब्रूहीत्यथ हिरण्यशकलमवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति॥
तद्यद्धिरण्यशकलावभितो भवतः॥
घ्नन्ति वा एतत्पशुं यदग्नौ जुह्वत्यमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति तथात उदेति तथा सञ्जीवति तस्माद्धिरण्यशकलावभितो भवत आश्राव्याहाग्नीषोमाभ्यां छागस्य वपाम् मेदः प्रेष्येति न प्रस्थितमित्याह प्रसुते प्रस्थितमिति वषट्कृते जुहोति॥
हुत्वा वपां समीच्यौ॥
वपाश्रपण्यौ कृत्वानुप्रास्यति स्वाहाकृते ऊर्ध्वनभसम् मारुतं गछतमिति नेदिमे अमुया सतो याभ्यां वपामशिश्रपामेति॥
तद्यद्वपया चरन्ति॥
यस्यै वै देवतायै पशुमालभन्ते तामेवैतद्देवतामेतेन मेधेन प्रीणाति सैषा देवतैतेन मेधेन प्रीता शान्तोत्तराणि हवींषि श्रप्यमाणान्युपरमति तस्माद्वपया चरन्ति॥
अथ चात्वाले मार्जयन्ते॥
क्रूरी वा एतत्कुर्वन्ति यत्सञ्ज्ञपयन्ति यद्विशासति सान्तिरापस्तदद्भिः शान्त्या शमयन्ते तदद्भिः सन्दधते तस्माच्चात्वाले मार्जयन्ते॥
यद्देवत्यः पशुर्भवति॥
तद्देवत्यम् पुरोडाशमनुनिर्वपति तद्यत्पुरोडाशमनुनिर्वपति सर्वेषां वा एष पशूनाम् मेधो यद्व्रीहियवौ तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्पुरोडाशमनुनिर्वपति॥
अथ यद्वपया प्रचर्य॥
एतेन पुरोडाशेन प्रचरति मध्यतो वा इमां वपामुत्खिदन्ति मध्यत एवैनमेतेन मेधेन समर्धयति कृत्स्नं करोति तस्माद्वपया प्रचर्यैतेन पुरोडाशेन प्रचरत्येष न्वेवैतस्य बन्धुर्यत्र क्व चैष पशुम् पुरोडाशो ऽनुनिरुप्यते॥
अथ पशुं विशास्ति॥
त्रिः प्रच्यावयतात्त्रिःप्रच्युतस्य हृदयमुत्तमं कुरुतादिति त्रिवृद्धि यज्ञः॥
अथ शमितारं संशास्ति॥
यत्त्वा पृछाछूतं हविः शमितारिति शृतमित्येव ब्रूतान्न शृतम् भगवो न शृतं हीति॥
अथ जुह्वा पृषदाज्यस्योपहत्य॥
अध्वर्युरुपनिष्क्रम्य पृछति शृतं हविः शमितारिति शृतमित्याह तद्देवानामित्युपांश्वध्वर्युः॥
तद्यत्पृछति॥
शृतं वै देवानां हविर्नाशृतं शमिता वै तद्वेद यदि शृतं वा भवत्यशृतं वा॥
तद्यत्पृछति॥
शृतेन प्रचराणीति तद्यद्यशृतम् भवति शृतमेव देवानां हविर्भवति शृतं यजमानस्यानेना अध्वर्युर्भवति शमितरि तदेनो भवति त्रिष्कृत्वः पृछति त्रिवृद्धि यज्ञो ऽथ यदाह तद्देवानामिति तद्धि देवानां यछूतं तस्मादाह तद्देवानामिति॥
स हृदयमेवाग्रे ऽभिघारयति॥
आत्मा वै मनो हृदयम् प्राणः पृषदाज्यमात्मन्येवैतन्मनसि प्राणं दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम्॥
सो ऽभिघारयति॥
सं ते मनो मनसा सम् प्राणः प्राणेन गछतामिति न स्वाहाकरोति न ह्येषाहुतिरुद्वासयन्ति पशुम्॥
तं जघनेन चात्वालमन्तरेण यूपं चाग्निं च हरन्ति॥
तद्यत्समया न हरन्ति येनान्यानि हवींषि हरन्ति शृतं सन्तं नेदङ्गशो विकृत्तेन क्रूरीकृतेन समया यज्ञम् प्रसजामेति यदु बाह्येन न हरन्त्यग्रेण यूपम् बहिर्धा ह यज्ञात्कुर्युस्तस्मादन्तरेण यूपं चाग्निं च हरन्ति दक्षिणतो निधाय प्रतिप्रस्थातावद्यति प्लक्षशाखा उत्तरबर्हिर्भवन्ति ता अध्यवद्यति तद्यत्प्लक्षशाखा उत्तरबर्हिर्भवन्ति॥
यत्र वै देवाः॥
अग्रे पशुमालेभिरे तं त्वष्टा शीर्षतो ऽग्रे ऽभ्युवामोतैवं चिन्नालभेरन्निति त्वष्टुर्हि पशवः स एष शीर्षन्मस्तिष्को ऽनूक्यश्च मज्जा तस्मात्स वान्त इव त्वष्टा ह्येतमभ्यवमत्तस्मात्तं नाश्नीयात्त्वष्टुर्ह्येतदभिवान्तम्॥
तस्यावाङ् मेधः पपात॥
स एष वनस्पतिरजायत तं देवाः प्रापश्यंस्तस्मात्प्रख्यः प्रख्यो ह वै नामैतद्यत्प्लक्ष इति तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्प्लक्षशाखा उत्तरबर्हिर्भवन्ति॥
अथाज्यमुपस्तृणीते॥
जुह्वां चोपभृति च वसाहोमहवन्यां समवत्तधान्यामथ हिरण्यशकलाववदधाति जुह्वां चोपभृति च॥
अथ मनोतायै हविषो ऽनुवाच आह॥
तद्यन्मनोतायै हविषो ऽनुवाच आह सर्वा ह वै देवताः पशुमालभ्यमानमुपसङ्गछन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यतीति सर्वासां हि देवतानां हविः पशुस्तासां सर्वासां देवतानाम् पशौ मनांस्योतानि भवन्ति तान्येवैतत्प्रीणाति तथो हामोघाय देवतानाम् मनांस्युपसङ्गतानि भवन्ति तस्मान्मनोतायै हविषो ऽनुवाच आह॥
स हृदयस्यैवाग्रे ऽवद्यति॥
तद्यन्मध्यतः सतो हृदयस्याग्रे ऽवद्यति प्राणो वै हृदयमतो ह्ययमूर्ध्वः प्राणः सञ्चरति प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ यदास्मात्प्राणो ऽपक्रामति दार्वेव तर्हि भूतो ऽनर्थ्यः शेते॥
हृदयमु वै पशुः॥
तदस्यात्मन एवाग्रे ऽवद्यति तस्माद्यदि किञ्चिदवदानं हीयेत न तदाद्रियेत सर्वस्य हैवास्य तत्पशोरवत्तम् भवति यद्धृदयस्याग्रे ऽवद्यति तस्मान्मध्यतः सतो हृदयस्यैवाग्रे ऽवद्यत्यथ यथापूर्वम्॥
अथ जिह्वायै॥
सा हीयम् पूर्वार्धात्प्रतिष्ठत्यथ वक्षसस्तद्धि ततो ऽथैकचरस्य दोष्णो ऽथ पार्श्वयोरथ तनिम्नो ऽथ वृक्कयोः॥
गुदं त्रेधा करोति॥
स्थविमोपयड्द्भ्यो मध्यं जुह्वां द्वेधा कृत्वावद्यत्यणिम त्र्यङ्गेष्वथैकचरायै श्रोणेरेतावन्नु जुह्वामवद्यति॥
अथोपभृति॥
त्र्यङ्ग्यस्य दोष्णो गुदं द्वेधा कृत्वावद्यति त्र्यङ्ग्यायै श्रोणेरथ हिरण्यशकलाववदधात्यथोपरिष्टादाज्यस्याभिघारयति॥
अथ वसाहोमं गृह्णाति॥
रेडसीति लेलयेव हि यूस्तस्मादाह रेडसीत्यग्निष्ट्वा श्रीणात्वित्यग्निर्ह्येतछ्रपयति तस्मादाहाग्निष्ट्वा श्रीणात्वित्यापस्त्वा समरिणन्नित्यापो ह्येतमङ्गेभ्यो रसं सम्भरन्ति तस्मादाहापस्त्वा ममरिणन्निति॥
वातस्य त्वा ध्राज्या इति॥
अन्तरिक्षं वा अयमनुपवते यो ऽयम् पवते ऽन्तरिक्षाय वै गृह्णाति तस्मादाह वातस्य त्वा ध्राज्या इति॥
पूष्णा रंह्या इति॥
एष वै पूष्णो रंहिरेतस्मा उ हि गृह्णाति तस्मादाह पूष्णो रंह्या इति॥
ऊष्मणो व्यथिषदिति॥
एष वा ऊष्मैतस्मा उ हि गृह्णाते तस्मादाहोष्मणो व्यथिषदित्यथोपरिष्टाद्द्विराज्यस्याभिघारयति॥
अथ पार्श्वेन वासिना वा प्रयौति॥
प्रयुत द्वेष इति तन्नाष्ट्रा एवैतद्रक्षांस्यतो ऽपहन्ति॥
अथ यद्यूष्परिशिष्यते॥
तत्समवत्तधान्यामानयति तद्धृदयम् प्रास्यति जिह्वां वक्षस्तनिम मतस्ने वनिष्ठुमथोपरिष्टाद्द्विराज्यस्याभिघारयति॥
तद्यद्धिरण्यशकलावभितो भवतः॥
घ्नन्ति वा एतत्पशुं यदग्नौ जुह्वत्यमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति तथात उदेति तथा सञ्जीवति तस्माद्धिरण्यशकलावभितो भवतः॥
अथ यदक्ष्णयावद्यति॥
सव्यस्य च दोष्णो दक्षिणायाश्च च दोष्णः सव्यावाश्च श्रोणेस्तस्मादयम् पशुरक्ष्णया पदो हरत्यथ यत्सम्यगवद्येत्समीचो हैवायम् पशुः पदो हरेत्तस्मादक्ष्णयावद्यत्यथ यन्न शीर्ष्णो ऽवद्यति नांसयोर्नानूकस्य नापरसक्थयोः॥
असुरा ह वा अग्रे पशुमालेभिरे॥
तद्देवा भीषा नोपावेयुस्तान्हेयम् पृथिव्युवाच मैतदादृड्वमहं व एतस्याध्यक्षा भविष्यामि यथा यथैत एतेन चरिष्यन्तीति॥
सा होवाच॥
अन्यतरामेवाहुतिमहौषुरन्यतराम् पर्यशिषन्निति स याम् पर्यशिंषंस्तानीमान्यवदानाने ततो देवाः स्विष्टकृते त्र्यङ्गाण्यपाभजंस्तस्मात्त्र्यङ्गाण्यथासुरा अवाद्यञ्छीर्ष्णों ऽसयोरनूकस्यापरसक्थयोस्तस्मात्तेषां नावद्येद्यन्न्वेव त्वष्टानूकमभ्यवमत्तस्मादनूकस्य नावद्येदथाहाग्नीषोमाभ्यां छागस्य हविषो ऽनुब्रूहीत्याश्राव्याहाग्नीषोमाभ्यां छागस्य हविः प्रेष्येति न प्रस्थितमित्याह प्रसुते प्रस्थितमिति॥
अन्तरेणार्धर्चौ याज्यायै वसाहोमं जुहोति॥
इतो वा अयमूर्ध्वो मेध उत्थितो यमस्या इमं रसम् प्रजा उपजीवन्त्यर्वाचीनं दिवो रसो वै वसाहोमो रसो मेधो रसेनैवैतद्रसं तीव्रीकरोति तस्मादयं रसो ऽद्यमानो न क्षीयते॥
तद्यदन्तरेण॥
अर्धर्चौ याज्यायै वसाहोमं जुहोतीयं वा अर्धर्चो ऽसौ द्यौरर्धर्चो ऽन्तरा वै द्यावापृथिवी अन्तरिक्षमन्तरिक्षाय वै जुहोति तस्मादन्तरेणार्धर्चौ याज्यायै वसाहोमं जुहोति॥
स जुहोति॥
घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहेत्येतेन वैश्वदेवेन यजुषा जुहोति वैश्वदेवं वा अन्तरिक्षं तद्यदेनेनेमाः प्रजाः प्राणत्यश्चोदानत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवं वषट्कृते जुहोति यानि जुह्वामवदानानि भवन्ति॥
अथ जुह्वा पृषदाज्यस्योपघ्नन्नाह॥
वनस्पतये ऽनुब्रूहीत्याश्राव्याह वनस्पतये प्रेष्येति वषट्कृते जुहोति तद्यद्वनस्पतये जुहोत्येतमेवैतद्वज्रं यूपम् भागिनं करोति सोमो वै वनस्पतिः पशुमेवैतत्सोमं करोति तद्यदन्तरेणोभे आहुती जुहोति तयोभयं व्याप्नोति तस्मादन्तरेणोभे आहुती जुहोति॥
अथ यान्युपभृत्यवदानानि भवन्ति॥
तानि समानयमान आहाग्नये स्विष्टकृते ऽनुब्रूहीत्याश्राव्याहाग्नये स्विष्टकृते प्रेष्येति वषट्कृते जुहोति॥
अथ यद्वसाहोमस्य परिशिष्यते॥
तेन दिशो व्याघारयति दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहेति रसो वै वसाहोमः सर्वास्वेवैतद्दिक्षु रसं दधाति तस्मादयं दिशि-दिशि रसो ऽभिगम्यते॥
अथ पशुं सम्मृशति॥
एतर्हि सम्मर्शनस्य कालो ऽथ यत्पुरा समृशति य इम उपतिष्ठन्ते ते विमथिष्यन्त इति शङ्कमानो यद्यु विमाथान्न शङ्केतात्रैव सम्मृशेत्॥
ऐन्द्रः प्राणः॥
अङ्गे-अङ्गे निदीध्यदैन्द्र उदानो अङ्गे-अङ्गे निधीत इति यदङ्गशो विकृत्तो भवति तत्प्राणोदानाभ्यां सन्दधाति देव त्वष्टर्भूरि ते संसमेतु सलक्ष्मा यद्विषुरूपम् भवातीति कृत्स्नवृतमेवैतत्करोति देवत्रा यन्तमवसे सखायो ऽनु त्वा मातापितरो मदन्त्विति तद्यत्रैनमहौषीत्तदेनं कृत्स्नं कृत्वानुसमस्यति सो ऽस्य कृत्स्नो ऽमुष्मिंलोक आत्मा भवति॥
त्रीणि ह वै पशोरेकादशानि॥
एकादश प्रयाजा एकादशानुयाजा एकादशोपयजो दश पाण्या अङ्गुलयो दश पाद्या दश प्राणाः प्राण उदानो व्यान इत्येतावान्वै पुरुषो यः परार्ध्यः पशूनां यं सर्वे ऽनु पशवः॥
तदाहुः॥
किं तद्यज्ञे क्रियते येन प्राणः सर्वेभ्यो ऽङ्गेभ्यः शिव इति॥
यदेव गुदं त्रेधा करोति॥
प्राणो वै गुदः सो ऽयम् प्राङाततस्तमयम् प्राणो ऽनुसञ्चरति॥
स यदेव गुदं त्रेधा करोति॥
तृतीयमुपयड्भ्यस्तृतीयं जुह्वां तृतीयमुपभृति तेन प्राणः सर्वेभ्यो ऽङ्गेभ्यः शिवः॥
स ह त्वेव पशुमालभेत॥
य एनम् मेधमुपनयेद्यदि कृशः स्याद्यदुदर्यस्य मेदसः परिशिष्यत तद्गुदे न्यृषेत्प्राणो वै गुदः सो ऽयम् प्राङाततस्तमयम् प्राणो ऽनुसञ्चरति प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ यदास्मात्प्राणो ऽपक्रामति दार्वेव तर्हि भूतो ऽनर्थ्यः शेते॥
गुदो वै पशुह्॥
मेदो वै मेधस्तदेनम् मेधमुपनयति यद्यु अंसलो भवति स्वयमुपेत एव तर्हि मेधम् भवति॥
अथ पृषदाज्यं गृह्णाति॥
द्वयं वा इदं सर्पिश्चैव दधि च द्वन्द्वं वै मिथुनम् प्रजननम् मिथुनमेवैतत्प्रजननं क्रियते॥
तेनानुयाजेषु चरति॥
पशवो वा अनुयाजाः पयः पृषदाज्यं तत्पशुष्वेवैतत्पयो दधाति तदिदम् पशुषु पयो हितम् प्राणो हि पृषदाज्यमन्नं हि पृषदाज्यमन्नं हि प्राणः॥
तेन पुरस्तादनुयाजेषु चरति॥
स यो ऽयम् पुरस्तात्प्राणस्तमेवैतद्दधाति तेन पश्चादुपयजति स यो ऽयम् पश्चात्प्राणस्तमेवैतद्दधाति ताविमा उभयतः प्राणौ हितौ यश्चायमुपरिष्टाद्यश्चाधस्तात्॥
तद्वा एतदेको द्वाभ्यां वषट्करोति॥
अध्वर्यवे च यश्चैष उपयजत्यथ यद्यजन्तमुपयजति तस्मादुपयजो नामाथ यदुपयजति प्रैवैतज्जनयति पश्चाद्ध्युपयजति पश्चाद्धि योषायै प्रजाः प्रजायन्ते॥
स उपयजति॥
समुद्रं गछ स्वाहेत्यापो वै समुद्र आपो रेतो रेत एवैतत्सिञ्चति॥
अन्तरिक्षं गछ स्वाहेति॥
अन्तरिक्षं वा अनु प्रजाः प्रजायन्ते ऽन्तरिक्षमेवैतदनु प्रजनयति॥
देवं सवितारं गछ स्वाहेति सविता वै देवानाम् प्रसविता सवितृप्रसूत एवैतत्प्रजनयति॥
मित्रावरुणौ गछ स्वाहेति॥
प्राणोदानौ वै मित्रावरुणौ प्राणोदानावेवैतत्प्रजासु दधाति॥
अहोरात्रे गछ स्वाहेति॥
अहोरात्रे वा अनु प्रजाः प्रजायन्ते ऽहोरात्रे एवैतदनु प्रजनयति॥
छन्दांसि गछ स्वाहेति॥
सप्त वै छन्दांसि सप्त ग्राम्याः पशवः सप्तारण्यास्तानेवैतदुभयान्प्रजनयति॥
द्यावापृथिवी गछ स्वाहेति॥
प्रजापतिर्वै प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्याम् पर्यगृह्णात्ता इमा द्यावापृथिवीभ्याम् परिगृहीतास्तथो एवैष एतत्प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्याम् परिगृह्णाति॥
अथात्युपयजति॥
स यन्नात्युपयजेद्यावत्यो हैवाग्रे प्रजाः सृष्टास्तावत्यो हैव स्युर्न प्रजायेरन्नथ यदत्युपयजति प्रैवैतज्जनयति तस्मादिमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्ते॥
सो ऽत्युपयजति॥
यज्ञं गछ स्वाहेत्यापो वै यज्ञ आपो रेतो रेत एवैतत्सिञ्चति॥
सोमं गछ स्वाहेति॥
रेतो वै सोमो रेत एवैतत्सिञ्चति॥
दिव्यं नभो गछ स्वाहेति॥
आपो वै दिव्यं नभ आपो रेतो रेत एवैतत्सिञ्चति॥
अग्निं वैश्वानरं गछ स्वाहेति॥
इयं वै पृथिव्यग्निर्वैश्वानरः सेयम् प्रतिष्ठेमामेवैतत्प्रतिष्ठामभिप्रजनयति॥
अथ मुखं विमृष्टे॥
मनो मे हार्दि यछेति तथो होपयष्टात्मानं नानुप्रवृणक्ति॥
अथ जाघन्या पत्नीः संयाजयन्ति॥
जघनार्धो वै जाघनी जघनार्धाद्वै योषायै प्रजाः प्रजायन्ते तत्प्रैवैतज्जनयति यज्जाघन्या पत्नीः संयाजयन्ति॥
अन्तरतो देवानाम् पत्नीभ्यो ऽवद्यति॥
अन्तरतो वै योषायै प्रजाः प्रजायन्त उपरिष्टादग्नये गृहपतय उपरिष्टाद्वै वृषा योषाम् अधिद्रवति॥
अथ हृदयशूलेनावभृथं यन्ति॥
पशोर्ह वा आलभ्यमानस्य हृदयं शुक्समभ्यवैति हृदयाद्धृदयशूलमथ यछृतस्य परितृन्दन्ति तदलञ्जुषं तस्मादु परितृद्यैव शूलाकुर्यात्तत्त्रिःप्रच्युते पशौ हृदयम् प्रवृह्योत्तमम् प्रत्यवदधाति॥
अथ हृदयशूलम् प्रयछति॥
तन्न पृथिव्याम् परास्येन्नाप्सु स यत्पृथिव्याम् परास्येदोषधीश्च वनस्पतींश्चैषा शुक्प्रविशेद्यदप्सु परास्येदप एषा शुक्प्रविशेत्तस्मान्न पृथिव्यां नाप्सु॥
अप एवाभ्यवेत्य॥
यत्र शुष्कस्य चार्द्रस्य च सन्धिः स्यात्तदुपगूहेद्यद्यु अभ्यवायनाय ग्लायेदग्रेण यूपमुदपात्रं निनीय यत्र शुष्कस्य चार्द्रस्य च सन्धिर्भवति तदुपगूहति नापो नौषधीर्हिंसीरिति तथा नापो नौषधीर्हिनस्ति धाम्नोधाम्नो राजंस्ततो वरुण नो मुञ्च यदाहुरघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्चेति तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति॥
अथाभिमन्त्रयते॥
सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति यत्र वा एतेन प्रचरन्त्यापश्च ह वा अस्मात्तावदोषधयश्चापक्रम्येव तिष्ठन्ति तदु ताभिर्मित्रधेयं कुरुते तथो हैनं ताः पुनः प्रविशन्त्येषो तत्र प्रायश्चित्तिः क्रियते स वै नाग्नीषोमीयस्य पशोः करोति नाग्नेयस्य वशाया एवानूबन्ध्यायै तां हि सर्वो ऽनु यज्ञः सन्तिष्ठत एतदु हास्याग्नीषोमीयस्य च पशोराग्नेयस्य च हृदयशूलेन चरितम् भवति यद्वशायाश्चरन्ति॥