०७

अभ्रिमादत्ते॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति॥
अथावटम् परिलिखति॥
इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति॥
अथ खनति॥
प्राञ्चमुत्करमुत्किरत्युपरेण सम्मायावटं खनति तदग्रेण प्राञ्चं यूपं निदधात्येतावन्मात्राणि बर्हींष्युपरिष्टादधिनिदधाति तदेवोपरिष्टाद्यूपशकलमधिनिदधाति पुरस्तात्पार्श्वतश्चषालमुपनिदधात्यथ यवमत्यः प्रोक्षण्यो भवन्ति सो ऽसावेव बन्धुः॥
स यवानावपति॥
यवो ऽसि यवयास्मद्द्वेषो यवयारातीरिति नात्र तिरोहितमिवास्त्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यमेवैतत्करोति॥
स प्रोक्षति॥
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति वज्रो वै यूप एषां लोकानामभिगुप्त्या एषां त्वा लोकानामभिगुप्त्यै प्रोक्षामीत्येवैतदाह॥
अथ याः प्रोक्षण्यः परिशिष्यन्ते॥
ता अवटे ऽवनयति शुन्धन्तां लोकाः पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति॥
अथ बर्हींषि॥
प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्यं वा अस्यैतद्भवति यन्निखातं स यथानिखात ओषधिषु मितः स्यादेवमेतास्वोषधिषु मितो भवति॥
अथ यूपशकलम् प्रास्यति॥
तेजो ह वा एतद्वनस्पतीनां यद्बाह्याशकलस्तस्माद्यदा बाह्याशकलमपतक्ष्णुवन्त्यथ शुष्यन्ति तेजो ह्येषामेतत्तद्यद्यूपशकलम् प्रास्यति सतेजसम् मिनवानीति तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्माद्यूपशकलम् प्रास्यति॥
स प्रस्यति॥
अग्रेणीरसि स्वावेश उन्नेतॄणामिति पुरस्ताद्वा अस्मादेषो ऽपछिद्यते तस्मादाहाग्रेणीरसि स्वावेश उन्नेतॄणामित्येतस्य वित्तादधि त्वा स्थास्यतीत्यधि ह्येनं तिष्ठति तस्मादाहैतस्य वित्तादधि त्वा स्थास्यतीति॥
अथ स्रुवेणोपहत्याज्यम्॥
अवटमभिजुहोति नेदधस्तान्नाष्ट्रा रक्षांस्युपोत्तिष्ठानिति वज्रो वा आज्यं तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यवबाधते तथाधस्तान्नाष्ट्रा रक्षांसि नोपोत्तिष्ठन्त्यथ पुरस्तात्परीत्योदङ्ङासीनो यूपमनक्ति स आह यूपायाज्यमानायानुब्रूहीति॥
सो ऽनक्ति॥
देवस्त्वा सविता मध्वानक्त्विति सविता वै देवानाम् प्रसविता यजमानो वा एष निदानेन यद्यूपः सर्वं वा इदम् मधु यदिदं किं च तदेनमनेन सर्वेण संस्पर्शयति तदस्मै सविता प्रसविता प्रसौति तस्मादाह देवस्त्वा सविता मध्वानक्त्विति॥
अथ चषालमुभयतः प्रत्यज्य प्रतिमुञ्चति॥
सुपिप्पलाभ्यस्त्वौषधीभ्य इति पिप्पलं हैवास्यैतद्यन्मध्ये सङ्गृहीतमिव भवति तिर्यग्वा इदं वृक्षे पिप्पलमाहतं स यदेवेदं सम्बन्धनं चान्तरोपेनितमिव तदेवैतत्करोति तस्मान्मध्ये सङ्गृहीतमिव भवति॥
आन्तमग्निष्ठामनक्ति॥
यजमानो वा अग्निष्ठा रस आज्यं रसेनैवैतद्यजमानमनक्ति तस्मादान्तमग्निष्ठामनक्त्यथ परिव्ययणम् प्रतिसमन्तम् परिमृशत्यथाहोछ्रीयमाणायानुब्रूहीति॥
स उछ्रियति॥
द्यामग्रेणास्पृक्ष आन्तरिक्षम् मध्येनाप्राः पृथिवीमुपरेणादृंहीरिति वज्रो वै यूप एषां लोकानामभिजित्यै तेन वज्रेणेमांलोकान्त्स्पृणुत एभ्यो लोकेभ्यः सपत्नान्निर्भजति॥
अथ मिनोति॥
या ते धामान्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः अत्राह तदुरुगायस्य विष्णोः परमम् पदमवभारि भूरीत्येतया त्रिष्टुभा मिनोति वज्रस्त्रिष्टुब्वज्रो यूपस्तस्मात्त्रिष्टुभा मिनोति॥
सम्प्रत्यग्निमग्निष्टाम् मिनोति॥
यजमानो वा अग्निष्ठाग्निरु वै यज्ञः स यदग्नेरग्निष्ठां ह्वलयेद्ध्वलेद्ध यज्ञाद्यजमानस्तस्मात्सम्प्रत्यग्निमग्निष्ठाम् मिनोत्यथ पर्यूहत्यथ पर्यृषत्यथाप उपनिनयति॥
अथैवमभिपद्य वाचयति॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्युः सखेति वज्रं वा एष प्राहार्षीद्यो यूपमुदशिश्रियद्विष्णोर्विजितिम् पश्यतेत्येवैतदाह यदाह विष्णोः कर्माणि पश्यत यतो व्रतानि पश्पशे इन्द्रस्य युज्यः सखेतीन्द्रो वै यज्ञस्य देवता वैष्णवो यूपस्तं सेन्द्रं करोति तस्मादाहेन्द्रस्य युज्यः सखेति॥
अथ चषालमुदीक्षते॥
तद्विष्णोः परमम् पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततमिति वज्रं वा एष प्राहार्षीद्यो यूपमुदशिश्रियत्ता विष्णोर्विजितिम् पश्यतेत्येवैतदाह यदाह तद्विष्णोः परमम् पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततमिति॥
अथ परिव्ययति॥
अनग्नतायै न्वेव परिव्ययति तस्मादत्रेव परिव्ययत्यत्रेव हीदं वासो भवत्यन्नाद्यमेवास्मिन्नेतद्दधात्यत्रेव हीदमन्नम् प्रतितिष्ठति तस्मादत्रेव परिव्ययति॥
त्रिवृता परिव्ययति॥
त्रिवृद्ध्यन्नम् पशवो ह्यन्नम् पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृता परिव्ययति॥
स परिव्ययति॥
परिवीरसि परि त्वा दैवीर्विशो व्ययन्ताम् परीमं यजमानं रायो मनुष्याणामिति तद्यजमानायाशिषमाशास्ते यदाह परीमं यजमानं रायो मनुष्याणामिति॥
अथ यूपशकलमवगूहति॥
दिवः सूनुरसीति प्रजा हैवास्यैषा तस्माद्यदि यूपैकादशिनी स्यात्स्वं स्वमेवावगूहेदविपर्यासं तस्य हैषामुग्धानुव्रता प्रजा जायते ऽथ यो विपर्यासमवगूहति न स्वंस्वं तस्य हैषा मुग्धाननुव्रता प्रजा जायते तस्मादु स्वं स्वमेवावगूहेदविपर्यासम्॥
स्वर्गस्यो हैष लोकस्य समारोहणः क्रियते॥
यद्यूपशकल इयं रशना रशनायै यूपशकलो यूपशकलाच्चषालं चषालात्स्वर्गं लोकं समश्नुते॥
अथ यस्मात्स्वरुर्नाम॥
एतस्माद्वा एषो ऽपछिद्यते तस्यैतत्स्वमेवारुर्भवति तस्मात्स्वरुर्नाम॥
तस्य यन्निखातम्॥
तेन पितृलोकं जयत्यथ यदूर्ध्वं निखातादा रशनायै तेन मनुष्यलोकं जयत्यथ यदूर्ध्वं रशनाया आ चषालात्तेन देवलोकं जयत्यथ यदूर्ध्वं चषालाद्द्व्यङ्गुलं वा त्र्यङ्गुलं वा साध्या इति देवास्तेन तेषां लोकं जयति सलोको वै साध्यैर्देवैर्भवति य एवमेतद्वेद॥
तं वै पूर्वार्धे मिनोति॥
वज्रो वै यूपो वज्रो दण्डः पूर्वार्धं वै दण्डस्याभिपद्य प्रहरति पूर्वार्ध एष यज्ञस्य तस्मात्पूर्वार्धे मिनोति॥
यज्ञेन वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम पुरस्ताद्वै प्रज्ञा पुरस्तान्मनोजवस्तस्मात्पूर्वार्धे मिनोति॥
स वा अष्टाश्रिर्भवति॥
अष्टाक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्मादष्टाश्रिर्भवति॥
तं ह स्मैतं देवा अनुप्रहरन्ति॥
यथेदमप्येतर्ह्येके ऽनुप्रहरन्तीति देवा अकुर्वन्निति ततो रक्षांसि यज्ञमनूदपिबन्त॥
ते देवा अध्वर्युमब्रुवन्॥
यूपशकलमेव जुहुधि तदहैष स्वगाकृतो भविष्यति तथो रक्षांसि यज्ञं नानूत्पास्यन्ते ऽयं वै वज्र उद्यत इति॥
सो ऽध्वर्युः॥
यूपशकलमेवाजुहोत्तदहैष स्वगाकृत आसीत्तथो रक्षांसि यज्ञं नानूदपिबन्तायं वै वज्र उद्यत इति॥
तथो एवैष एतत्॥
यूपशकलमेव जुहोति तदहैष स्वगाकृतो भवति तथो रक्षांसि यज्ञं नानूत्पिबन्ते ऽयं वै वज्र उद्यत इति स जुहोति दिवं ते धूमो गछतु स्वर्ज्योतिह् पृथिवीम् भस्मनापृण स्वाहेति॥
यावतो वै वेदिस्तावती पृथिवी॥
वज्रा वै यूपास्तदिमामेवैतत्पृथिवीमेतैर्वज्रैः स्पृणुते ऽस्यै सपत्नान्निर्भजति तस्माद्यूपैकादशिनी भवति द्वादश उपशयो भवति वितष्टस्तं दक्षिणत उपनिदधाति तद्यद्द्वादश उपशयो भवति॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तद्य एत उछ्रिता यथेषुरस्ता तया वै स्तृणुते वा न वा स्तृणुते यथा दण्डः प्रहृतस्तेन वै स्तृणुते वा न वा स्तृणुते ऽथ य एष द्वादश उपशयो भवति यथेषुरायतानस्ता यथोद्यतमप्रहृतमेवमेष वज्र उद्यतो दक्षिणतो नाष्ट्राणां रक्षसामपहत्यै तस्माद्द्वादश उपशयो भवति॥
तं निदधाति॥
एष ते पृथिव्यां लोक आरण्यस्ते पशुरिति पशुश्च वै यूपश्च तदस्मा आरण्यमेव पशूनामनुदिशति तेनो एष पशुमान्भवति तद्वयं यूपैकादशिन्यै सम्मयनमाहुः श्वःसुत्यायै ह न्वेवैके सम्मिन्वन्ति प्रकुब्रतायै चैव श्वःसुत्यायै यूपम् मिन्वन्तीत्यु च॥
तदु तथा न कुर्यात्॥
अग्निष्ठमेवोछ्रयेदिदं वै यूपमुछ्रित्याध्वर्युरा परिव्ययणान्नान्वर्जत्यपरिवीता वा एत एतां रात्रिं वसन्ति सा न्वेव परिचक्षा पशवे वै यूपमुछ्रयन्ति प्रातर्वै पशूनालभन्ते तस्मादु प्रातरेवोछ्रयेत्॥
स य उत्तरो ऽग्निष्ठात्स्यात्॥
तमेवाग्र उछ्रयेदथ दक्षिणमथोत्तरं दक्षिणार्ध्यमुत्तमं तथोदीची भवति॥
अथो इतरथाहुः॥
दक्षिणमेवाग्रे ऽग्निष्ठादुछ्रयेदथोत्तरमथ दक्षिणमुत्तरार्ध्यमुत्तमं तथो हास्योदगेव कर्मानुसन्तिष्ठत इति॥
स यो वर्षिष्ठः स दक्षिणार्ध्यः स्यात्॥
अथ ह्रसीयानथ ह्रसीयानुत्तरार्ध्यो ह्रसिष्ठस्तथोदीची भवति॥
अथ पत्नीभ्यः पत्नीयूपमुछ्रयन्ति॥
सर्वत्वाय न्वेव पत्नीयूप उछ्रायते तत्त्वाष्ट्रम् पशुमालभते त्वष्टा वै सिक्तं रेतो विकरोति तदेष एवैतत्सिक्तं रेतो विकरोति मुष्करो भवत्येष वै प्रजनयिता यन्मुष्करस्तस्मान्मुष्करो भवति तं न संस्थापयेत्पर्यग्निकृतमेवोत्सृजेत्स यत्संस्थापयेत्प्रजायै हान्तमियात्तत्प्रजामुत्सृजति तस्मान्न संस्थापयेत्पर्यग्निकृतमेवोत्सृजेत्॥
पशुश्च वै यूपश्च॥
न वा ऋते यूपात्पशुमालभन्ते कदा चन तद्यत्तथा न ह वा एतस्मा अग्रे पशवश्चक्षमिरे यदन्नमभिविष्यन्यथेदमन्नम् भूता यथा हैवायं द्विपात्पुरुष उछ्रित एवं हैव द्विपाद उछ्रिताश्चेरुः॥
ततो देवा एतं वज्रं ददृशुः॥
यद्यूपं तमुछिश्रियुस्तस्माद्भीषा प्राव्लीयन्त ततश्चतुष्पादा अभवंस्ततो ऽन्नमभवन्यथेदमन्नम् भूता एतस्मै हि वा एते ऽतिष्ठन्त तस्माद्यूप एव पशुमालभन्ते नर्ते यूपात्कदा चन॥
अथोपाकृत्य पशुम्॥
अग्निम् मथित्वा नियुनक्ति तद्यत्तथा न ह वा एतस्मा अग्रे पशवश्चक्षमिरे यद्धविरभविष्यन्यथैनानिदं हविर्भूतानग्नौ जुह्वति तान्देवा उपनिरुरुधुस्त उपनिरुद्धा नोपावेयुः॥
ते होचुः॥
न वा इमे ऽस्य यामं विदुर्यदग्नौ हविर्जुह्वति नैताम् प्रतिष्ठामुपरुध्यैव पशूनग्निम् मथित्वाग्नावग्निं जुहवाम ते वेदिष्यन्त्येष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततो ऽभ्यवैष्यन्ति ततो रातमनस आलम्भाय भविष्यन्तीति॥
त उपरुध्यैव पशून्॥
अग्निम् मथित्वाग्नावग्निमजुहुवुस्ते ऽविदुरेष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततो ऽभ्यवायंस्ततो रातमनस आलम्भायाभवन्॥
तथो एवैष एतत्॥
उपरुध्यैव पशुमग्निम् मथित्वाग्नावग्निं जुहोति स वेदैष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततो ऽभ्यवैति ततो रातमना आलम्भाय भवति तस्मादुपाकृत्य पशुमग्निम् मथित्वा नियुनक्ति॥
तदाहुः॥
नोपाकुर्यान्नाग्निम् मन्थेद्रशनामेवादायाञ्जसोपपरेत्याभिधाय नियुञ्ज्यादिति तदु तथा न कुर्याद्यथाधर्मं तिरश्चथा चिकीर्षेदेवं तत्तस्मादेतदेवानुपरीयात्॥
अथ तृणमादायोपाकरोति॥
द्वितीयवान्निरुणधा इति द्वितीयवान्हि वीर्यवान्॥
स तृणमादत्ते॥
उपावीरसीत्युप हि द्वितीयो ऽवति तस्मादाहोपावीरसीत्युप देवान्दैवीर्विशः प्रागुरिति दैव्यो वा एता विशो यत्पशवो ऽस्थिषत देवेभ्य इत्येवैतदाह यदाहोप देवान्दैवीर्विशः प्रागुरिति॥
उशिजो वह्नितमानिति॥
विद्वांसो हि देवास्तस्मादाहोशिजो वह्नितमानिति॥
देव त्वष्टर्वसु रमेति॥
त्वष्टा वै पशूनामीष्टे पशवो वसु तानेतद्देवा अतिष्ठमानांस्त्वष्टारमब्रुवन्नुपनिमदेति यदाह देव त्वष्टर्वसु रमेति॥
हव्या ते स्वदन्तामिति॥
यदा वा एत एतस्मा अध्रियन्त यद्धविरभविष्यंस्तस्मादाह हव्या ते स्वदन्तामिति॥
रेवती रमध्वमिति॥
रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमिति बृहस्पते धारया वसूनीति ब्रह्म वै बृहस्पतिः पशवो वसु तानेतद्देवा अतिष्ठमानान्ब्रह्मणैव परस्तात्पर्यदधुस्तन्नात्यायंस्तथो एवैनानेष एतद्ब्रह्मणैव परस्तात्परिदधाति तन्नातियन्ति तस्मादाह बृहस्पते धारया वसूनीति पाशं कृत्वा प्रतिमुञ्चत्यथातो नियोजनस्यैव॥
पाशं कृत्वा प्रतिमुञ्चति॥
ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चामीति वरुण्या वा एषा यद्रज्जुस्तदेनमेतदृतस्यैव पाशे प्रतिमुञ्चति तथो हैनमेषा वरुण्या रज्जुर्न हिनस्ति॥
धर्षा मानुष इति॥
न वा एतमग्रे मनुष्यो ऽधृष्णोत्स यदेवर्तस्य पाशेनैतद्देवहविः प्रतिमुञ्चत्यथैनम् मनुष्यो धृष्णोति तस्मादाह धर्षा मानुष इति॥
अथ नियुनक्ति॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामग्नीषोमाभ्यां जुष्टं नियुनज्मीति तद्यथैवादो देवतायै हविर्गृह्णन्नादिशत्येवमेवैतद्देवताभ्यामादिशत्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यमेवैतत्करोति॥
स प्रोक्षति॥
अद्भ्यस्त्वौषधीभ्य इति तद्यत एव सम्भवति तत एवैतन्मेध्यं करोतीदं हि यदा वर्षत्यथौषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति रसाद्रेतो रेतसः पशवस्तद्यत एव सम्भवति यतश्च जायते तत एवैतन्मेध्यं करोति॥
अनु त्वा माता मन्यतामनु पितेति॥
स हि मातुश्चाधि पितुश्च जायते तद्यत एव जायते तत एवैतन्मेध्यं करोत्यनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्य इति स यत्ते जन्म तेन त्वानुमतमारभ इत्येवैतदाहाग्नीषोमाभ्यां त्वा जुष्टम् प्रोक्षामीति तद्याभ्यां देवताभ्यामारभते ताभ्याम् मेध्यं करोति॥
अथोपगृह्णाति॥
अपाम् पेरुरसीति तदेनमन्तरतो मेध्यं करोत्यथाधस्तादुपोक्षत्यापो देवीः स्वदन्तु स्वात्तं चित्सद्देवहविरिति तदेनं सर्वतो मेध्यं करोति॥
अथाहाग्नये समिध्यमानायानुब्रूहीति॥
स उत्तरमाघारमाघार्यासंस्पर्शयन्त्स्रुचौ पर्येत्य जुह्वा पशुं समनक्ति शिरो वै यज्ञस्योत्तर आघार एष वा अत्र यज्ञो भवति यत्पशुस्तद्यज्ञ एवैतछिरः प्रतिदधाति तस्माज्जुह्वा पशुं समनक्ति॥
स ललाटे समनक्ति॥
सं ते प्राणो वातेन गछतामिति समङ्गानि यजत्रैरित्यंसयोः सं यज्ञपतिराशिषेति श्रोण्योः स यस्मै कामाय पशुमालभन्ते तत्प्राप्नुहीत्येवैतदाह॥
इदं वै पशोः सञ्ज्ञप्यमानस्य॥
प्राणो वातमपिपद्यते तत्प्राप्नुहि यत्ते प्राणो वातमपिपद्याता इत्येवैतदाह समङ्गानि यजत्रैरित्यङ्गैर्वा अस्य यजन्ते तत्प्राप्नुहि यत्ते ऽङ्गैर्यजान्ता इत्येवैतदाह स यज्ञपतिराशिषेति यजमानस्य वा एतेनाशिषमाशास्ते तत्प्राप्नुहि यत्त्वया यजमानायाशिषमाशासान्ता इत्येवैतदाह सादयति स्रुचावथ प्रवरायाश्रावयति सो ऽसावेव बन्धुः॥
अथ द्वितीयमाश्रावयति॥
द्वौ ह्यत्र होतारौ भवतः स मैत्रावरुणायाहैवाश्रावयति यजमानं त्वेव प्रवृणीते ऽग्निर्ह दैवीनां विशाम् पुरएतेत्यग्निर्हि देवतानाम् मुखं तस्मादाहाग्निर्ह दैवीनां विशाम् पुरएतेत्ययं यजमानो मनुष्याणामिति तं हि सो ऽन्वर्धो भवति यस्मिन्नर्धे यजते तस्मादाहायं यजमानो मनुष्याणामिति तयोरस्थूरि गार्हपत्यं दीदयछतं हिमा द्वा यू इति तयोरनार्तानि गार्हपत्यानि शतं वर्षाणि सन्त्वित्येवैतदाह॥
राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति॥
राधांस्येव सम्पृञ्चाथाम् नापि तनूरित्येवैतदाह तौ ह यत्तनूरपि सम्पृञ्चीयाताम् प्राग्निर्यजमानं दहेत्स यदग्नौ जुहोति तदेषो ऽग्नये प्रयछत्यथ यामेवात्रर्त्विजो यजमानायाशिषमाशासते तामस्मै सर्वामग्निः समर्धयति तद्राधांस्येव सम्पृञ्चाते नापि तनूस्तस्मादाह राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति॥