०६

उदरमेवास्य सदः॥
तस्मात्सदसि भक्षयन्ति यद्धीदं किं चाश्नन्त्युदर एवेदं सर्वम् प्रतितिष्ठत्यथ यदस्मिन्विश्वे देवा असीदंस्तस्मात्सदो नाम त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्त्यैन्द्रं देवतया॥
तन्मध्य औदुम्बरीम् मिनोति॥
अन्नं वा ऊर्गुदुम्बर उदरमेवास्य सदस्तन्मध्यतो ऽन्नाद्यं दधाति तस्मान्मध्य औदुम्बरीम् मिनोति॥
अथ य एष मध्यमः शङ्कुर्भवति॥
वेदेर्जघनार्धे तस्मात्प्राङ् प्रक्रामति षड्विक्रमान्दक्षिणा सप्तममपक्रामति सम्पदः कामाय तदवटम् परिलिखति॥
सो ऽभ्रिमादत्ते॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति॥
अथावटम् परिलिखति॥
इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति॥
अथ खनति॥
प्राञ्चमुत्करमुत्किरति यजमानेन सम्मायौदुम्बरीम् परिवासयति तामग्रेण प्राचीं निदधात्येतावन्मात्राणि बर्हींष्युपरिष्टादधिनिदधाति॥
अथ यवमत्यः प्रोक्षण्यो भवन्ति॥
आपो ह वा ओषधीनां रसस्तस्मादोषधयः केवल्यः खादिता न धिन्वन्त्योषधय उ हापां रसस्तस्मादापः पीताः केवल्यो न धिन्वन्ति यदैवोभय्यः संसृष्टा भवन्त्यथैव धिन्वन्ति तर्हि हि सरसा भवन्ति सरसाभिः प्रोक्षाणीति॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ततो देवेभ्यः सर्वा एवौषधय ईयुर्यवा हैवैभ्यो नेयुः॥
तद्वै देवा अस्पृण्वत॥
त एतैः सर्वाः सपत्नानामोषधीरयुवत यदयुवत तस्माद्यवा नाम॥
ते होचुः॥
हन्त यः सर्वासामोषधीनां रसस्तं यवेषु दधामेति स यःसर्वासामोषधीनां रस आसीत्तं यवेष्वदधुस्तस्माद्यत्रान्या ओषधयो म्लायन्ति तदेते मोदमाना वर्धन्त एवं ह्येषु रसमदधुस्तथो एवैष एतैः सर्वाः सपत्नानामोषधीर्युते तस्माद्यवमत्यः प्रोक्षण्यो भवन्ति॥
स यवानावपति॥
यवो ऽसि यवयास्मद्द्वेषो यवयारातीरिति नात्र तिरोहितमिवास्त्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यामेवैतत्करोति॥
स प्रोक्षति॥
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेतीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति॥
अथ याः प्रोक्षण्यः परिशिष्यन्ते॥
ता अवटे ऽवनयति शुन्धन्तां लोकाः पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति॥
अथ बर्हींषि॥
प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्य वा अस्या एतद्भवति यन्निखातं सा यथानिखातौषधिषु मिता स्यादेवमेतास्वोषधिषु मिता भवति॥
तामुछ्रयति॥
उद्दिवं स्तभानान्तरिक्षम् पृण दृंहस्व पृथिव्यामितीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति॥
अथ मिनोति॥
द्युतानस्त्वा मारुतो मिनोत्विति यो वा अयम् पवत एष द्युतानो मारुतस्तदेनामेतेन मिनोति मित्रावरुणौ ध्रुवेण धर्मणेति प्राणोदानौ वै मित्रावरुणौ तदेनाम् प्राणोदानाभ्याम् मिनोति॥
अथ पर्यूहति॥
ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्यूहामीति बह्वी वै यजुःष्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये रायस्पोषवनीति भूमा वै रायस्पोषस्तद्भूमानमाशास्ते॥
अथ पर्यृषति॥
ब्रह्म दृंह क्षत्रं दृंहायुर्दृंह प्रजां दृंहेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते समम्भूमि पर्यर्षणं करोति गर्तस्य वा उपरिभूम्यथैवं देवत्रा तथा हागर्तमिद्भवति॥
अथाप उपनिनयति॥
यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः सन्दधाति तस्मादप उपनिनयति॥
अथैवमभिपद्य वाचयति॥
ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्नायतने प्रजया भूयादिति पशुभिरिति वैवं यं कामं कामयते सो ऽस्मै कामः समृध्यते॥
अथ स्रुवेणोपहत्याज्यम्॥
विष्टपमभि जुहोति घृतेन द्यावापृथिवी पूर्येथामिति तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयत्यनयोरूर्जं रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति॥
अथ छदिरधिनिदधाति॥
इन्द्रस्य छदिरसीत्यैन्द्रं हि सदो विश्वजनस्य छायेति विश्वगोत्रा ह्यस्मिन्ब्राह्मणा आसते तदुभयतश्छदिषी उपदधात्युत्तरतस्त्रीणि परस्त्रीणि तानि नव भवन्ति त्रिवृद्वै यज्ञो नव वै त्रिवृत्तस्मान्नव भवन्ति॥
तदुदीचीनवंशं सदो भवति॥
प्राचीनवंशं हविर्धानमेतद्वै देवानां निष्केवल्यं यद्धविर्धानं तस्मात्तत्र नाश्नन्ति न भक्षयन्ति निष्केवल्यं ह्येतद्देवानां स यो ह तत्राश्नीयाद्वा भक्षयेद्वा मूर्धा हास्य विपतेदथैते मिश्रे यदाग्नीध्रं च सदश्च तस्मात्तयोरश्नन्ति तस्माद्भक्षयन्ति मिश्रे ह्येते उदीची वै मनुष्याणां दिक्तस्मादुदीचीनवंशं सदो भवति॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः॥
वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इतीन्द्रो वै गिर्वा विशो गिरो विश्वेवैतत्क्षत्रम् परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढम्॥
अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति॥
इन्द्रस्य स्यूरसीत्यथ ग्रन्थिं करोतीन्द्रस्य ध्रुवो ऽसीति नेद्व्यवपद्याता इति प्रकृते कर्मन्विष्यति तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति तन्निष्ठितमभिमृशत्यैन्द्रमसीत्यैन्द्रं हि सदः॥
अथ हविर्धानयोः॥
जघनार्धं समन्वीक्ष्योत्तरेणाग्नीध्रम् मिनोति तस्यार्धमन्तर्वेदि स्यादर्धम् बहिर्वेद्यथो अपि भूयो ऽर्धादन्तर्वेदि स्यात्कनीयो बहिर्वेद्यथो अपि सर्वमेवान्तर्वेदि स्यात्तन्निष्ठितमभिमृशति वैश्वदेवमसीति द्वयेनैतद्वैश्वदेवं यदस्मिन्पूर्वेद्युर्विश्वे देवा वसतीवरीषूपवसन्ति तेन वैश्वदेवम्॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तान्दक्षिणतो ऽसुररक्षसान्यासेजुस्तान्त्सदसो जिग्युस्तेषामेतान्धिष्ण्यानुद्वापयां चक्रुर्य एते ऽन्तःसदसम्॥
सर्वे ह स्म वा एते पुरा ज्वलन्ति॥
यथायमाहवनीयो यथा गार्हपत्यो यथाग्नीध्रीयस्तद्यत एनानुदवापयंस्तत एवैतन्न ज्वलन्ति तानाग्नीध्रमभि संरुरुधुस्तानप्यर्धमाग्नीध्रस्य जिग्युस्ततो विश्वे देवा अमृतत्वमपाजयंस्तस्माद्वैश्वदेवम्॥
तान्देवाः प्रतिसमैन्धत॥
यथा प्रत्यवस्येत्तस्मादेनान्त्सवने सवन एव प्रतिसमिन्धते तस्माद्यः समृद्धः स आग्नीध्रं कुर्याद्यो वै ज्ञातो ऽनूचानः स समृद्धस्तस्मादग्नीधे प्रथमाय दक्षिणां नयन्त्यतो हि विश्वे देवा अमृतत्वमपाजयंस्तस्माद्यं दीक्षितानामबल्यं विन्देदाग्नीध्रमेनं नयतेति ब्रूयात्तदनार्तं तन्नारिष्यतीति तद्यदतो विश्वे देवा अमृतत्वमपाजयंस्तस्माद्वैश्वदेवम्॥
विजामानो हैवास्य धिष्ण्याः॥
इमे समङ्का ये वै समङ्कास्ते विजामान एत उ हैवास्यैत आत्मनः॥
दिवि वै सोम आसीत॥
अथेह देवास्ते देवा अकामयन्ता नः सोमो गछेत्तेनागतेन यजेमहीति त एते माये असृजन्त सुपर्णीं च कद्रूं च वागेव सुपर्णीयं कद्रूस्ताभ्यां समदं चक्रुः॥
ते हर्तीयमाने ऊचतुः॥
यतरा नौ दवीयः परापश्यादात्मानं नौ सा जयादिति तथेति सा ह कद्रूरुवाच परेक्षस्वेति॥
सा ह सुपर्ण्युवाच॥
अस्य सलिलस्य पारे ऽश्वः श्वेत स्थाणौ सेवते तमहम् पश्यामीति तमेव त्वम् पश्यसीति तं हीत्यथ ह कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहम् पश्यामीति॥
सा यत्सुपर्ण्युवाच॥
अस्य सलिलस्य पार इति वेदिर्वै सलिलं वेदिमेव सा तदुवाचाश्वः श्वेत स्थाणौ सेवत इत्यग्निर्वा अश्वः श्वेतो यूप स्थाणुरथ यत्कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहम् पश्यामीति रशना हैव सा॥
सा ह सुपर्ण्युवाच॥
एहीदम् पताव वेदितुं यतरा नौ जयतीति सा ह कद्रूरुवाच त्वमेव पत त्वं वै न आख्यास्यसि यतरा नौ जयतीति॥
सा ह सुपर्णी पपात॥
तद्ध तथैवास यथा कद्रूरुवाच तामागतामभ्युवाद त्वमजैषीरहामिति त्वमिति होवाचैतद्व्याख्यानं सौपर्णीकाद्रवमिति॥
सा ह कद्रूरुवाच॥
आत्मानं वै त्वाजैषं दिव्यसौ सोमस्तं देवेभ्य आहर तेन देवेभ्य आत्मानं निष्क्रीणीष्वेति तथेति सा छन्दांसि ससृजे सा गायत्री दिवः सोममाहरत्॥
हिरण्मय्योर्ह कुश्योरन्तरवहित आस॥
ते ह स्म क्षुरपवी निमेषं निमेषमभिसन्धत्तो दीक्षातपसौ हैव ते आसतुस्तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमा होत्राः॥
तयोरन्यतरां कुशीमाचिच्छेद॥
तां देवेभ्यः प्रददौ सा दीक्षा तया देवा अदीक्षन्त॥
अथ द्वितीयां कुशीमाचिच्छेद॥
तां देवेभ्यः प्रददौ तत्तपस्तया देवास्तप उपायन्नुपसदस्तपो ह्युपसदः॥
खदिरेण ह सोममाचखाद॥
तस्मात्खदिरो यदेनेनाखिदत्तस्मात्खादिरो यूपो भवति खादिर स्फ्यो ऽछावाकस्य हैनं गोपनायां जहार सो ऽछावाको ऽहीयत॥
तमिन्द्राग्नी अनुसमतनुताम्॥
प्रजानाम् प्रजात्यै तस्मादैन्द्राग्नो ऽछावाकः॥
तस्माद्दीक्षिता राजानं गोपायन्ति॥
नेन्नो ऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह॥
तस्माद्ब्रह्मचारिण आचार्यं गोपायन्ति॥
गृहान्पशून्नेन्नो ऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह तेनैतेन सुपर्णी देवेभ्य आत्मानं निरक्रीणीत तस्मादाहुः पुण्यलोक ईजान इति॥
ऋणं ह वै पुरुषो जायमान एव॥
मृत्योरात्मना जायते सयद्यजते यथैव तत्सुपर्णी देवेभ्य आत्मानं निरक्रीणीतैवमेवैष एतन्मृत्योरात्मानं निष्क्रीणीते॥
तेन देवा अयजन्त॥
तमेते गन्धर्वाः सोमरक्षा अन्वाजग्मुस्ते ऽन्वागत्याब्रुवन्ननु नो यज्ञ आभजत मा नो यज्ञादन्तर्गातास्त्वेव नो ऽपि यज्ञे भाग इति॥
ते होचुः॥
किं नस्ततः स्यादिति यथैवास्यामुत्र गोप्तारो ऽभूमैवमेवास्यापीह गोप्तारो भविष्याम इति॥
तथेति देवा अब्रुवन्॥
सोमक्रयणा व इति तानेभ्य एतत्सोमक्रयणाननुदिशत्यथैनानब्रुवंस्तृतीयसवने वो घृत्याहुतिः प्राप्स्यति न सौम्यापहृतो हि युष्मत्सोमपीथस्तेन सोमाहुतिं नार्हथेति सैनानेषा तृतीयसवन एव घृत्याहुतिः प्राप्नोति न सौम्या यछालाकैर्धिष्ण्यान्व्याघारयति॥
अथ यदग्नौ होष्यन्ति॥
तद्वो विष्यतीति स यदग्नौ जुह्वति तदेनानवत्यथ यद्वः सोमम् बिभ्रत उपर्युपरि चरिष्यन्ति तद्वो विष्यतीति स यदेनान्त्सोमम् बिभ्रत उपर्युपरि चरन्ति तदेनानवति तस्मादध्वर्युः समया धिष्ण्यान्नातीयादध्वर्युर्हि सोमम् बिभर्ति तमेते व्यात्तेन प्रत्यासते स एतेषां व्यात्तमापद्येत तमग्निर्वाभिदहेद्यो वायं देवः पशूनामीष्टे स वा हैनमभिमन्येत तस्माद्यद्यध्वर्योः शालायामर्थः स्यादुत्तरेणैवाग्नीध्रीयं सञ्चरेत्॥
ते वा एते॥
सोमस्यैव गुप्त्यै न्युप्यन्त आहवनीयः पुरस्तान्मार्जालीयो दक्षिणत आग्नीध्रीय उत्तरतो ऽथ ये सदसि ते पश्चात्॥
तेषां वा अर्धानुपकिरन्ति॥
अर्धाननुदिशन्त्येत उ हैवैतद्दध्रिरे ऽर्धान्न उपकिरन्त्वर्धाननुदिशन्तु तथा यस्माल्लोकादागताः स्मो दिवस्तथा तं लोकम् प्रतिप्रज्ञास्यामस्तथा न जिह्मा एष्याम इति॥
स यानुपकिरन्ति॥
तेनास्मिंलोके प्रत्यक्षम् भवन्त्यथ याननुदिशन्ति तेनामुष्मिंलोके प्रत्यक्षम् भवन्ति॥
ते वै द्विनामानो भवन्ति॥
एत उ हैवैतद्दध्रिरे न वा एभिर्नामभिररात्स्म येषां नः सोममपाहार्षुर्हन्ति द्वितीयानि नामानि करवामहा इति ते द्वितीयानि नामान्यकुर्वत तैरराध्नुवन्यानपहृतसोमपीथान्त्सतो ऽथ यज्ञ आभजंस्तस्माद्द्विनामानस्तस्माद्ब्राह्मणो ऽनृध्यमाने द्वितीयं नाम कुर्वीत राध्नोति हैव य एवं विद्वान्द्वितीयं नाम कुरुते॥
स यदग्नौ जुहोति॥
तद्देवेषु जुहोति तस्माद्देवाः सन्त्यथ यत्सदसि भक्षयन्ति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्त्यथ यद्धविर्धानयोर्नाराशंसाः सीदन्ति तत्पितृषु जुहोति तस्मात्पितरः सन्ति॥
या वै प्रजा यज्ञे ऽनन्वाभक्ताः॥
पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतास्ता यज्ञ आभजति मनुष्याननु पशवो देवाननु वयांस्योषधयो वनस्पतयो यदिदं किं चैवमु तत्सर्वं यज्ञ आभक्तं ते ह स्मैत उभये देवमनुष्याः पितरः सम्पिबन्ते सैषा सम्पा ते ह स्म दृश्यमाना एव पुरा सम्पिबन्त उतैतर्ह्यदृश्यमानाः॥
सर्वं वा एषो ऽभि दीक्षते॥
यो दीक्षते यज्ञं ह्यभि दीक्षते यज्ञं ह्येवेदं सर्वमनु तं यज्ञं सम्भृत्य यमिममभि दीक्षते सर्वमिदं विसृजते॥
यद्वैसर्जिनानि जुहोति॥
स यदिदं सर्वं विसृजते तस्माद्वैसर्जिनानि नाम तस्माद्यो ऽपिव्रतः स्यात्सो ऽन्वारभेत यद्यु अन्यत्र चरेन्नाद्रियेत यद्वै जुहोति तदेवेदं सर्वं विसृजते॥
यद्वेव वैसर्जिनानि जुहोति॥
यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते यज्जुहोति तस्माद्वैसर्जिनानि जुहोति॥
सो ऽपराह्णे वेदिं स्तीर्त्वा॥
अर्धव्रतम् प्रदाय सम्प्रपद्यन्त इध्ममभ्यादधत्युपयमनीरुपकल्पयन्त्याज्यमधिश्रयति स्रुचः सम्मार्ष्ट्युपस्थे राजानं यजमानः कुरुते ऽथ सोमक्रयण्यै पदं जघनेन गार्हपत्यम् परिकिरति पदा वै प्रतितिष्ठति प्रतिष्ठित्या एव॥
तद्धैके॥
चतुर्धा कुर्वन्ति यत्राहवनीयमुद्धरन्ति तासूपयमनीषु चतुर्भागमक्षं चतुर्भागेणोपाञ्जन्त्येतासूपयमनीषु चतुर्भागं जघनेन गार्हपत्यं चतुर्भागम् परिकिरति॥
तदु तथा न कुर्यात्॥
सार्धमेव परिकिरेज्जघनेन गार्हपत्यमथोत्पूयाज्यं चतुर्गृहीते जुह्वां चोपभृति च गृह्णाति पञ्चगृहीतम् पृषदाज्यं ज्योतिरसि विश्वरूपं विश्वेषां देवानां वैश्वदेवं हि पृषदाज्यं धारयन्ति स्रुचो यदा प्रदीप्त इध्मो भवति॥
अथ जुहोति॥
त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वरूथं स्वाहेति तदेतेनैवास्याम् पृथिव्याम् प्रतिष्ठायाम् प्रतितिष्ठत्येतेनेमं लोकं स्पृणुते॥
अथाप्तवे द्वितीयामाहुतिं जुहोति॥
जुषाणो अप्तुराज्यस्य वेतु स्वाहेत्येष उ हैवैतदुवाच रक्षोभ्यो वै बिभेमि यथा मान्तरा नाष्ट्रा रक्षांसि न हिनसन्नेवम् मा कनीयांसमेव बधात्कृत्वातिनयत स्तोकमेव स्तोको ह्यप्तुरिति तमेतत्कनीयांसमेव बधात्कृत्वात्यनयन्त्स्तोकमेव स्तोको ह्यप्तू रक्षोभ्यो भीषा तस्मादप्तवे द्वितीयामाहुतिं जुहोति॥
उद्यछन्तीध्मम्॥
उपयछन्त्युपयमनीरथाहाग्नये प्रह्रियमाणायानुब्रूहि सोमाया प्रणीयमानायेति वाग्नये प्रह्रियमाणायानुब्रूहीति त्वेव ब्रूयात्॥
आददते ग्राव्णः॥
द्रोणकलशं वायव्यानीध्मं कार्ष्मर्यमयान्परिधीनाश्ववालम् प्रस्तरमैक्षव्यौ विधृती तद्बर्हिरुपसन्नद्धम् भवति वपाश्रपण्यौ रशने अरणी अधिमन्थनः शकलो वृषणौ तत्समादाय प्राञ्च आयन्ति स एष ऊर्ध्वो यज्ञ एति॥
तदायत्सु वाचयति॥
अग्ने नय सुपथा राय अस्मान्विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेमेत्यग्निमेवैतत्पुरस्तात्करोत्यग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण हरन्ति त आयन्त्यागछन्त्याग्नीध्रं तमाग्नीध्रे निदधाति॥
स निहिते जुहोति॥
अयं नो अग्निर्वरिवस्कृणोत्वयम् मृधः पुर एतु प्रभिन्दन् अयं वाजाञ्जयतु वाजसातावयं शत्रूञ्जयतु जर्हृषाणः स्वाहेति तदेतेनैवैतस्मिन्नन्तरिक्षे प्रतिष्ठायाम् प्रतितिष्ठत्येतेनैतं लोकं स्पृणुते॥
तदेव निदधति ग्राव्णः॥
द्रोणकलशं वायव्यान्यथेतरमादायायन्ति तदुत्तरेणाहवनीयमुपसादयन्ति॥
प्रोक्षणीरध्वर्युरादत्ते॥
स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयछन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिमाश्ववालः प्रस्तर उपसन्नद्धो भवति तं गृह्णाति गृहीत्वा प्रस्तरमेकवृद्बर्हि स्तृणाति स्तीर्त्वा बर्हिः कार्ष्मर्यमयान्परिधीन्परिदधाति परिधाय परिधीन्त्समिधावभ्यादधात्यभ्याधाय समिधौ॥
अथ जुहोति॥
उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति तदेतेनैवैतस्यां दिवि प्रतिष्ठायाम् प्रतितिष्ठत्येतेनैतं लोकं स्पृणुत यदेतया जुहोति॥
यद्वेव वैष्णव्यर्चा जुहोति॥
कनीयांसं वा एनमेतद्बधात्कृत्वात्यनैषु स्तोकमेव स्तोको ह्यप्तुस्तमेतदभयम् प्राप्य य एवैष तं करोति यज्ञमेव यज्ञो हि विष्णुस्तस्माद्वैष्णव्यर्चा जुहोति॥
अथासाद्य स्रुचः॥
अप उपस्पृश्य राजानम् प्रपादयति तद्यदासाद्य स्रुचो ऽप उपस्पृश्य राजानम् प्रपादयति वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति तस्मादासाद्य स्रुचो ऽप उपस्पृश्य राजानम् प्रपादयति॥
स दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति॥
तदेनमासादयति देव सवितरेष ते सोमस्तं रक्षस्व मा त्वा दभन्निति तदेनं देवायैव सवित्रे परिददाति गुप्त्यै॥
अथानुसृज्योपतिष्ठते॥
एतत्त्वं देव सोम देवो देवान् उपागा इदमहम् मनुष्यान्त्सह रायस्पोषेणेत्यग्नीषोमौ वा एतमन्तर्जम्भ आदधाते यो दीक्षत आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति यो वै विष्णुः सोमः स हविर्वा एष देवानाम् भवति यो दीक्षते तदेनमन्तर्जम्भ आदधाते तत्प्रत्यक्षं सोमान्निर्मुच्यते यदाहैतत्त्वं देव सोम देवो देवान् उपागा इदमहम् मनुष्यान्त्सह रायस्पोषेणेति भूमा वै रायस्पोषः सह भूम्नेत्येवैतदाह॥
अथोपनिष्क्रामति॥
स्वाहा निर्वरुणस्य पाशान्मुच्य इति वरुणपाशे वा एषो ऽन्तर्भवति यो ऽन्यस्यासंस्तत्प्रत्यक्षं वरुणपाशान्निर्मुच्यते यदाह स्वाहा निर्वरुणस्य पाशान्मुच्य इति॥
अथेत्याहवनीये समिधमभ्यादधाति॥
अग्ने व्रतपास्त्वे व्रतपा इत्यग्निर्हि देवानां व्रतपतिस्तस्मादाहाग्ने व्रतपास्त्वे व्रतपा इति या तव तनूर्मय्यभूदेषा सा त्वयि यो मम तनूस्त्वय्यभूदियं सा मयि यथायथं नौ व्रतपते व्रतान्यनु मे दीक्षां दीक्षापतिरमंस्तानु तपस्तपस्पतिरिति तत्प्रत्यक्षमग्नेर्निर्मुच्यते स स्वेन सतात्मना यजते तस्मादस्यात्राश्नन्ति मानुषो हि भवति तस्मादस्यात्र नाम गृह्णन्ति मानुषो हि भवत्यथ यत्पुरा नाश्नन्ति यथा हविषो हुतस्य नाश्नीयादेवं तत्तस्माद्दीक्षितस्य नाश्नीयादथात्राङ्गुलीर्विसृजते॥
यूपं व्रक्ष्यन्वैष्णव्यर्चा जुहोति॥
विष्णवो हि यूपस्तस्माद्वैष्णव्यर्चा जुहोति॥
यद्वेव वैष्णव्या जुहोति॥
यज्ञो वै विष्णुर्यज्ञेनैवैतद्यूपमछैति तस्माद्वैष्णव्यर्चा जुहोति॥
स यदि स्रुचा जुहोति॥
चतुर्गृहीतमाज्यं गृहीत्वा जुहोति यद्यु स्रुवेण स्रुवेणैवोपहत्य जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति॥
यदाज्यम् परिशिष्टम् भवति॥
तदादत्ते यत्तक्ष्णः शस्त्रम् भवति तत्तक्षादत्ते त आयन्ति स यं यूपं जोषयन्ते॥
तमेवमभिमृश्य जपति॥
पश्चाद्वैव प्राङ् तिष्ठन्नभिमन्त्रयते ऽत्यन्यान् अगां नान्यान् उपागामित्यति ह्यन्यानेति नान्यानुपैति तस्मादाहात्यन्यान् अगां नान्यान् उपागामिति॥
अर्वाक्त्वा परेभ्यो ऽविदम् परो ऽवरेभ्य इति॥
अर्वाग्घ्येनम् परेभ्यो वृश्चति य एतस्मान्पराञ्चो भवन्ति परो ऽवरेभ्य इति परो ह्येनमवरेभ्यो वृश्चति य एतस्मादर्वाञ्चो भवन्ति तस्मादाहार्वाक्त्वा परेभ्यो ऽविदम् परो ऽवरेभ्य इति॥
तं त्वा जुषामहे देव वनस्पते देवयज्याया इति॥
तद्यथा बहूनाम् मध्यात्साधवे कर्मणे जुषेत स रातमनास्तस्मै कर्मणे स्यादेवमेवैनमेतद्बहूनाम् मध्यात्साधवे कर्मणे जुषते स रातमना व्रश्चनाय भवति॥
देवास्त्वा देवयज्यायै जुषन्तामिति॥
तद्वै समृद्धं यं देवाः साधवे कर्मणे जुषान्तै तस्मादाह देवास्त्वा देवयज्यायै जुषन्तामिति॥
अथ स्रुवेणोपस्पृशति॥
विष्णवे त्वेति वैष्णवो हि यूपो यज्ञो वै विष्णुर्यज्ञाय ह्येनं वृश्चति तस्मादाह विष्णवे त्वेति॥
अथ दर्भतरुणकमन्तर्दधाति॥
ओषधे त्रायस्वेति वज्रो वै परशुस्तथो हैनमेष वज्रः परशुर्न हिनस्त्यथ परशुना प्रहरति स्वधिते मैनं हिंसीरिति वज्रो वै परशुस्तथो हैनमेष वज्रः परशुर्न हिनस्ति॥
स यम् प्रथमं शकलमपछिनत्ति॥
तमादत्ते तं वा अनक्षस्तम्भं वृश्चेदुत ह्येनमनसा वहन्ति तथानो न प्रतिबाधते॥
तम् प्राञ्चम् पातयेत्॥
प्राची हि देवानां दिगथो उदञ्चमुदीची हि मनुष्याणां दिगथो प्रत्यञ्चं दक्षिणायै त्वेवैनं दिशः परिबिबाधिषेतैषा वै दिक् पितॄणां तस्मादेनं दक्षिणायै दिशः परिबिबाधिषेत॥
तम् प्रच्यवमानमनुमन्त्रयते॥
द्याम् मा लेखीरन्तरिक्षम् मा हिंसीः पृथिव्या सम्भवेति वज्रो वा एष भवति यं यूपाय वृश्चन्ति तस्माद्वज्रात्प्रच्यवमानादिमे लोकाः संरेजन्ते तदेभ्य एवैनमेतल्लोकेभ्यः शमयति तथेमांलोकाञ्छान्तो न हिनस्ति॥
स यदाह॥
द्याम् मा लेखीरिति दिवम् मा हिंसीरित्येवैतदाहान्तरिक्षम् मा हिंसीरिति नात्र तिरोहितमिवास्ति पृथिव्या सम्भवेति पृथिव्या सञ्जानीष्वेत्येवैतदाहायं हि त्वा स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायेत्येष ह्येनं स्वधितिस्तेजमानः प्रणयति॥
अथाव्रश्चनमभिजुहोति॥
नेदतो नाष्ट्रा रक्षांस्यनूत्तिष्ठानिति वज्रो वा आज्यं तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यवबाधते तथातो नाष्ट्रा रक्षांसि नानूत्तिष्ठन्त्यथो रेतो वा आज्यं तद्वनस्पतिष्वेवैतद्रेतो दधाति तस्माद्रेतस आव्रश्चनाद्वनस्पतयो ऽनु प्रजायन्ते॥
स जुहोति॥
अतस्त्वं देव वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयं रुहेमेति नात्र तिरोहितमिवास्ति॥
तम् परिवासयति॥
स यावन्तमेवाग्रे परिवासयेत्तावान्त्स्यात्३।६।४।पञ्चारत्निम् परिवासयेत्॥
पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य तस्मात्पञ्चारत्निम् परिवासयेत्॥
षडरत्निम् परिवासयेत्॥
षड्वा ऋतवः संवत्सरस्य संवत्सरो वज्रो वज्रो यूपस्तस्मात्षडरत्निम् परिवासयेत्॥
अष्टारत्निम् परिवासयेत्॥
अष्टाक्ष्रा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्ध एष यज्ञस्य तस्मादष्टारत्निम् परिवासयेत्॥
नवारत्निम् परिवासयेत्॥
त्रिवृद्वै यज्ञो नव वै त्रिवृत्तस्मान्नवारत्निम् परिवासयेत्॥
एकादशारत्निम् परिवासयेत्॥
एकादशाक्षरा वै त्रिष्टुब्वज्रस्त्रिष्टुब्वज्रो यूपस्तस्मादेकादशारत्निं परिवासयेत्॥
द्वादशारत्निम् परिवासयेत्॥
द्वादश वै मासाः संवत्सरस्य संवत्सरो वज्रो वज्रो यूपस्तस्माद्द्वादशारत्निम् परिवासयेत्॥
त्रयोदशारत्निम् परिवासयेत्॥
त्रयोदश वै मासाः संवत्सरस्य संवत्सरो वज्रो वज्रो यूपस्तस्मात्त्रयोदशारत्निम् परिवासयेत्॥
पञ्चदशारत्निम् परिवासयेत्॥
पञ्चदशो वै वज्रो वज्रो यूपस्तस्मात्पञ्चदशारत्निम् परिवासयेत्॥
सप्तादशारत्निर्वाजपेययूपः॥
अपरिमित एव स्यादपरिमितेन वा एतेन वज्रेण देवा अपरिमितमजयंस्तथो एवैष एतेन वज्रेणापरिमितेनैवापरिमितं जयति तस्मादपरिमित एव स्यात्॥
स वा अष्टाश्रिर्भवति॥
अष्टाक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्मादष्टाश्रिर्भवति॥