तद्य एष पूर्वार्ध्यो वर्षिष्ठ स्थूणाराजो भवति॥
तस्मात्प्राङ् प्रक्रामति त्रीन्विक्रमांस्तछङ्कुं निहन्ति सो ऽन्तःपातः॥
तस्मान्मध्यमाछङ्कोः॥
दक्षिणा पञ्चदश विक्रमान्प्रक्रामति तछङ्कु निहन्ति सा दक्षिणा श्रोणिः॥
तस्मान्मध्यमाछङ्कोः उदङ् पञ्चदश विक्रमान्प्रक्रामति तछङ्कु निहन्ति सोत्तरा श्रोणिः॥
तस्मान्मध्यमाछङ्कोः॥
प्राङ् षट्त्रिंशतं विक्रमान्प्रक्रामति तछङ्कु निहन्ति स पूर्वार्धः॥
तस्मान्मध्यमाछङ्कोः॥
दक्षिणा द्वादश विक्रमान्प्रक्रामति तछङ्कु निहन्ति स दक्षिणो ऽंसः॥
तस्मान्मध्यमाछङ्कोः॥
उदङ् द्वादश विक्रमान्प्रक्रामति तछङ्कु निहन्ति स उत्तरो ऽंस एषा मात्रा वेदेः॥
अथ यत्त्रिंशद्विक्रमा पश्चाद्भवति॥
त्रिंशदक्षरा वै विराड्विराजा वै देवा अस्मिंलोके प्रत्यतिष्ठंस्तथो एवैष एतद्विराजैवास्मिंलोके प्रतितिष्ठति॥
अथो अपि त्रयस्त्रिंशत्स्युः॥
त्रयस्त्रिंशदक्षरा वै विराड्विराजैवास्मिंलोके प्रतितिष्ठति॥
अथ यत्षट्त्रिंशद्विक्रमा प्राची भवति॥
षट्त्रिंशदक्षरा वै बृहती बृहत्या वै देवाः स्वर्गं लोकं समाश्नुवत तथो एवैष एतद्बृहत्यैव स्वर्गं लोकं समश्नुते सो ऽस्य दिव्याहवनीयो भवति॥
अथ यच्चतुर्विंशतिविक्रमा पुरस्ताद्भवति॥
चतुर्विंशत्यक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्माच्चतुर्विंशतिविक्रमा पुरस्ताद्भवत्येषा मात्रा वेदेः॥
अथ यत्पश्चाद्वरीयसी भवति॥
पश्चाद्वरीयसी पृथुश्रोणिरिति वै योषाम् प्रशंसन्ति यद्वेव पश्चाद्वरीयसी भवति पश्चादेवैतद्वरीयः प्रजननं करोति तस्मात्पश्चाद्वरीयसः प्रजननादिमाः प्रजाः प्रजायन्ते॥
नासिका ह वा एषा यज्ञस्य यदुत्तरवेदिः॥
अथ यदेनामुत्तरां वेदेरुपकिरति तस्मादुत्तरवेदिर्नाम॥
द्वय्यो ह वा इदमग्रे प्रजा आसुः॥
आदित्याश्चैवाङ्गिरसश्च ततो ऽङ्गिरसः पूर्वे यज्ञं समभरंस्ते यज्ञं सम्भृत्योचुरग्निमिमां नः श्वःसुत्यामादित्येभ्यः प्रब्रूह्यनेन नो यज्ञेन याजयतेति॥
ते हादित्या ऊचुः॥
उपजानीत यथास्मानेवाङ्गिरसो याजयान्न वयमङ्गिरस इति॥
ते होचुः॥
न वा अन्येन यज्ञादपक्रमणमस्त्यन्तरामेव सुत्यां ध्रियामहा इति ते यज्ञं सञ्जह्रुस्ते यज्ञं सम्भृत्योचुः श्वःसुत्यां वै त्वमस्मभ्यमग्ने प्रावोचो ऽथ वयमद्यसुत्यामेव तुभ्यम् प्रब्रूमो ऽङ्गिरोभ्यश्च तेषां नस्त्वं होतासीति॥
ते ऽन्यमेव प्रतिप्रजिघ्युः॥
अङ्गिरसो ऽछ ते हाप्यङ्गिरसो ऽग्नये ऽन्वागत्य चुक्रुधुरिव कथं नु नो दूतश्चरन्न प्रत्यादृथा इति॥
स होवाच॥
अनिन्द्या वै मावृषत सो निन्द्यैर्वृतो नाशकमपक्रमितुमिति तस्मादु हानिन्द्यस्य वृतो नापक्रामेत्त एतेन सद्यःक्रियाङ्गिरस आदित्यानयाजयन्त्स सद्यःक्रीः॥
तेभ्यो वाचं दक्षिणामानयन्॥
तां न प्रत्यगृह्णन्हास्यामहे यदि प्रतिग्रहीष्याम इति तदु तद्यज्ञस्य कर्म न व्यमुच्यत यद्दाक्षिणमासीत्॥
अथैभ्यः सूर्यं दक्षिणामानयन्॥
तम् प्रत्यगृह्णंस्तस्मादु ह स्माहुरङ्गिरसो वयं वा आर्त्विजीनाः स्मो वयं दक्षिणीया अपि वा अस्माभिरेष प्रतिगृहीतो य एष तपतीति तस्मात्सद्यःक्रियो ऽश्वः श्वेतो दक्षिणा॥
तस्य रुक्मः पुरस्ताद्भवति॥
तदेतस्य रूपं क्रियते य एष तपति यद्यश्वं श्वेतं न विन्देदपि गौरेव श्वेतः स्यात्तस्य रुक्मः पुरस्ताद्भवति तदेतस्य रूपं क्रियते य एष तपति॥
तेभ्यो ह वाक्चुक्रोध॥
केन मदेष श्रेयान्बन्धुना केना यदेतम् प्रत्यग्रहीष्ट न मामिति सा हैभ्यो ऽपचक्राम सोभयानन्तरेण देवासुरान्त्सयत्तान्त्सिंही भूत्वाददाना चचार तामुपैव देवा अमन्त्रयन्तोपासुरा अग्निरेव देवानां दूत आस सहरक्षा इत्यसुररक्षसमसुराणाम्॥
सा देवानुपावर्त्स्यन्त्युवाच॥
यद्वा उपावर्तेय किम् मे ततः स्यादिति पूर्वामेव त्वाग्नेराहुतिः प्राप्स्यतीत्यथ हैषा देवानुवाच याम् मया कां चाशिषमाशासिष्यध्वे सा वः सर्वा समर्धिष्यत इति सैवं देवानुपाववर्त॥
स यद्धार्यमाणे ऽग्नौ॥
उत्तरवेदिं व्याघारयति यदेवैनामदो देवा अब्रुवन्पूर्वां त्वाग्नेराहुतिः प्राप्स्यतीति तदेवैनामेतत्पूर्वामग्नेराहुतिः प्राप्नोति वाग्घ्येषा निदानेनाथ यदुत्तरवेदिमुपकिरति यज्ञस्यैव सर्वत्वाय वाग्घि यज्ञो वागु ह्येषा॥
तां वै युगशम्येन विमिमीते॥
युगेन यत्र हरन्ति शम्यया यतो हरन्ति युगशम्येन वै योग्यं युञ्जन्ति सा यदेवादः सिंही भूत्वाशान्तेवाचरत्तदेवैनामेतद्यज्ञे युनक्ति॥
तस्मान्निवृत्तदक्षिणां न प्रतिगृह्णीयात्॥
सिंही हैनम् भूत्वा क्षिणोति नो हामाकुर्वीत सिंही हैवैनम् भूत्वा क्षिणोति नो हान्यस्मै दद्याद्यज्ञं तदन्यत्रात्मनः कुर्वीत तस्माद्यो ऽस्यापि पाप इव समानबन्धुः स्यात्तस्मा एनां दद्यात्स यद्ददाति तदेनं सिंही भूत्वा न क्षिणोति यदु समानबन्धवे ददाति तदु नान्यत्रात्मनः कुरुत एषो निवृत्तदक्षिणायै प्रतिष्ठा॥
अथ शम्यां च स्फ्यं चादत्ते॥
तद्य एष पूर्वार्ध्यः उत्तरार्ध्यः शङ्कुर्भवति तस्मात्प्रत्यङ् प्रक्रामति त्रीन्विक्रमांस्तच्चात्वालम् परिलिखति सा चात्वालस्य मात्रा नात्र मात्रास्ति यत्रैव स्वयम् मनसा मन्येताग्रेणोत्करं तच्चात्वालम् परिलिखेत्॥
स वेद्यन्तात्॥
उदीचीं शम्यां निदधाति स परिलिखति तप्तायनी मे ऽसीतीमामेवैतदाहास्यां हितप्त एति॥
अथ पुरस्तात्॥
उदीचीं शम्यां निदधाति स परिलिखति वित्तायनी मे ऽसीतीमामेवैतदाहास्यां हि विविदान एति॥
अथानुवेद्यन्तम्॥
प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मा नाथितादितीमामेवैतदाह यत्र नाथैतन्मावतादिति॥
अथोत्तरतः॥
प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मा व्यथितादितीमामेवैतदाह यत्र व्यथैतन्मावतादिति॥
अथ हरति॥
यत्र हरति तदग्नीदुपसीदति स वा अग्नीनामेव नामानि गृह्णन्हरति यान्वा अमून्देवा अग्रे ऽग्नीन्होत्राय प्रावृणत ते प्राधन्वंस्त इमा एव पृथिवीरुपासर्पन्निमामहैव द्वे अस्याः परे तेनैवैतान्निदानेन हरति॥
स प्रहरति विदेदग्निर्नभो नामाग्ने अङ्गिर आयुना नाम्नेहीति स यत्प्राधन्वंस्तदायुर्दधाति तत्समीरयति यो स्याम् पृथिव्यामसीति यो ऽस्याम् पृथिव्यामसीति हृत्वा निदधाति यत्ते ऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति यत्ते ऽनाधृष्टं रक्षोभिर्नाम यज्ञियं तेन त्वादध इत्येवैतदाहानु त्वा देववीतय इति चतुर्थं हरति देवेभ्यस्त्वा जुष्टां हरामीत्येवैतदाह तां वै चतुःस्रक्तेश्चात्वालाद्ध्रति चतस्रो वै दिशः सर्वाभ्य एवैनामेतद्दिग्भ्यो हरति॥
अथानुव्यूहति॥
सिंह्यसि सपत्नसाही देवेभ्यः कल्पस्वेति सा यदेवादः सिंही भूत्वाशान्तेवाचरत्तदेवैनामेतदाह सिंह्यसीति सपत्नसाहीति त्वया वयं सपत्नान्पापीयसः क्रियास्मेत्येवैतदाह देवेभ्यः कल्पस्वेति योषा वा उत्तरवेदिस्तामेवैतद्देवेभ्यः कल्पयति॥
तां वै युगमात्रीं वा सर्वतः करोति॥
यजमानस्य वा दशदश पदानि दशाक्षरा वै विराड्वाग्वै विराड्वाग्यज्ञो मध्ये नाभिकामिव करोति समानत्रासीनो व्याघारयाणीति॥
तामद्भिरभ्युक्षति॥
सा यदेवादः सिंही भूत्वाशान्तेवाचरछान्तिरापस्तामद्भिः शमयति योषा वा उत्तरवेदिस्तामेवैतद्देवेभ्यो हिन्वति तस्मादद्भिरभ्युक्षति॥
सो ऽभ्युक्षति॥
सिंह्यसि सपत्नसाही देवेभ्यः शुन्धस्वेत्यथ सिकताभिरनुविकिरत्यलङ्कारो न्वेव सिकता भ्राजन्त इव हि सिकता अग्नेर्वा एतद्वैश्वानरस्य भस्म यत्सिकता अग्निं वा अस्यामाधास्यन्भवति तथो हैनामग्निर्न हिनस्ति तस्मात्सिकताभिरनुविकिरति सो ऽनुविकिरति सिंह्यसि सपत्नसाही देवेभ्यः शुम्भस्वेत्यथैनां छादयति सा छन्नैतां रात्रिं वसति॥
इध्यमभ्यादधति॥
उपयमनीरुपकल्पयन्त्याज्यमधिश्रयति स्रुवं च स्रुचं सम्मार्ष्ट्यथोत्पूयाज्यम् पञ्चगृहीतं गृह्णीते यदा प्रदीप्त इध्मो भवति॥
अथोद्यछन्तीध्मम्॥
उपयछन्त्युपयमनीरथाहाग्नये प्रह्रियमाणायानुब्रूह्येकस्फ्ययानूदेहीत्यनूदैति प्रतिप्रस्थातैकस्फ्ययैतस्मान्मध्यमाछङ्कोर्य एष वेदेर्जघनार्धे भवति तद्यदेवात्रान्तःपातेन गार्हपत्यस्य वेदेर्व्यवछिन्नम् भवति तदेवैतदनुसन्तनोति॥
तद्धैके॥
ओत्तरवेदेरनूदायन्ति तदु तथा न कुर्यादैवैतस्मान्मध्यमाछङ्कोरनूदेयात्त आयन्त्यागछन्त्युत्तरवेदिम्॥
प्रोक्षणीरध्वर्युरादत्ते॥
स पुरस्तादेवाग्रे प्रोक्षत्युदङ् तिष्ठन्निन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वितीन्द्रघोषस्त्वा वसुभिः पुरस्ताद्गोपायत्वित्येवैतदाह॥
अथ पश्चात्प्रोक्षति॥
प्रचेतास्त्वा रुद्रैः पश्चात्पात्विति प्रचेतास्त्वा रुद्रैः पश्चाद्गोपायत्वित्येवैतदाह॥
अथ दक्षिणतः प्रोक्षति॥
मनोजवास्त्वा पितृभिर्दक्षिणतः पात्विति मनोजवास्त्वा पितृभिर्दक्षिणतो गोपायत्वित्येवैतदाह॥
अथोत्तरतः प्रोक्षति॥
विश्वकर्मा त्वादित्यैरुत्तरतः पात्विति विश्वकर्मा त्वादित्यैरुत्तरतो गोपायत्वित्येवैतदाह॥
अथ याः प्रोक्षण्यः परिशिष्यन्ते॥
तद्ये एते पूर्वे स्रक्ती तयोर्या दक्षिणा ता न्यन्तेन बहिर्वेदि निनयतीदमहं तप्तं वार्बहिर्धा यज्ञान्निःसृजामीति सा यदेवादः सिंही भूत्वाशान्तेवाचरत्तामेवास्या एतछुचं बहिर्धा यज्ञान्निःसृजति यदि नाभिचरेद्यद्यु अभिचरेदादिशेदिदमहं तप्तं वारमुमभि निःसृजामीति तमेतया शुचा विध्यति स शोचन्नेवामुं लोकमेति॥
स यद्धार्यमाणे ऽग्नौ॥
उत्तरवेदिं व्याघारयति यदेवैनामदो देवा अब्रुवन्पूर्वां त्वाग्नेराहुतिः प्राप्स्यतीति तदेवैनामेतत्पूर्वामग्नेराहुतिः प्राप्नोति यद्वेषा देवानब्रवीद्यां मया कां चाशिषमाशासिष्यध्वे सा वः सर्वा समर्धिष्यत इति तामेनयात्रर्त्विजो यजमानायाशिषमाशासते सास्मै सर्वा समृध्यते॥
तद्वा एतदेकं कुर्वन्द्वयं करोति॥
यदुत्तरवेदिं व्याघारयत्यथ यैषाम् मध्ये नाभिकेव भवति तस्यै ये पूर्वे स्रक्ती तयोर्या दक्षिणा॥
तस्यामाघारयति॥
सिंह्यसि स्वाहेत्यथापरयोरुत्तरस्यां सिंह्यस्यादित्यवनिः स्वाहेत्यथापरयोर्दक्षिणस्यां सिंह्यसि ब्रह्मवनिः क्षत्रवनिः स्वाहेति बह्वी वै यजुःष्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये॥
अथ पूर्वयोरुत्तरस्यां॥
सिंह्यसि सुप्रजावनी रायस्पोषवनिः स्वाहेति तत्प्रजामाशास्ते यदाह सुप्रजावनिरिति रायस्पोषवनिरिति भूमा वै रायस्पोषस्तद्भूमानमाशास्ते॥
अथ मध्य आघारयति॥
सिंह्यस्यावह देवान्यजमानाय स्वाहेति तद्देवान्यजमानायावाहयत्यथ स्रुचमुद्यछति भूतेभ्यस्त्वेति प्रजा वै भूतानि प्रजाभ्यस्त्वेत्येवैतदाह॥
अथ परिधीन्परिदधाति॥
ध्रुवो ऽसि पृथिवीं दृंहेति मध्यमं ध्रुवक्षिदस्यन्तरिक्षं दृंहेति दक्षिणमच्युतक्षिदसि दिवं दृंहेत्युत्तरमग्नेः पुरीषमसीति सम्भारानुपनिवपति तद्यत्सम्भारा भवन्त्यग्नेरेव सर्वत्वाय॥
शरीरं हैवास्य पीतुदारु॥
तद्यत्प्रैतुदारवाः परिधयो भवन्ति शरीरेणैवैनमेतत्समर्धयति कृत्स्नं करोति॥
मांसं हैवास्य गुल्गुलु॥
तद्यद्गुल्गुलु भवति मांसेनैवैनमेतत्समर्धयति कृत्स्नं करोति॥
गन्धो हैवास्य सुगन्धितेजनम्॥
तद्यत्सुगन्धितेजनम् भवति गन्धेनैवैनमेतत्समर्धयति कृत्स्नं करोति॥
अथ यद्वृष्णे स्तुका भवति॥
वृष्णेर्ह वै विषाणे अन्तरेणाग्निरेकां रात्रिमुवास तद्यदेवात्राग्नेर्न्यक्तं तदिहाप्यसदिति तस्माद्वृष्णे स्तुका भवति तस्माद्या शीर्ष्णो नेदिष्ठं स्यात्तामाछिद्याहरेद्यद्यु तां न विन्देदपि यामेव कां चाहरेत्तद्यत्परिधयो भवन्ति गुप्त्या एव दूर इव ह्येनमुत्तरे परिधय आगछन्ति॥
पुरुषो वै यज्ञः॥
पुरुषस्तेन यज्ञो यदेनम् पुरुषस्तनुत एष वै तायमानो यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः॥
शिर एवास्य हविर्धानम्॥
वैष्णवं देवतयाथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम॥
मुखमेवास्याहवनीयः॥
स यदाहवनीये जुहोति यथा मुख आसिञ्चेदेवं तत्॥
स्तुप एवास्य यूपः॥
बाहू एवास्याग्नीध्रीयश्च मार्जालीयश्च॥
उदरमेवास्य सदः॥
तस्मात्सदसि भक्षयन्ति यद्धीदं किं चाश्नन्त्युदर एवेदं सर्वं प्रतितिष्ठत्यथ यदस्मिन्विश्वे देवा असीदंस्तस्मात्सदो नाम त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्ति॥
अथ यावेतौ जघनेनाग्नी॥
पादावेवास्यैतावेष वै तायमानो यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः॥
उभयतोद्वारं हविर्धानम् भवति॥
उभयतोद्वारं सदस्तस्मादयम् पुरुष आन्तं सन्तृणः प्रणिक्ते हविर्धाने उपतिष्ठते॥
ते समववर्तयन्ति॥
दक्षिणेनैव दक्षिणमुत्तरेणोत्तरं यद्वर्षीयस्तद्दक्षिणं स्यात्॥
तयोः समववृत्तयोः॥
छदिरधिनिदधति यदि छदिर्न विन्देयुश्छदिःसम्मिताम् भित्तिम् प्रत्यानह्यन्ति रराट्याम् परिश्रयन्त्युछ्रायीभ्यां छदिः पश्चादधिनिदधति छदिःसम्मितां वा भित्तिम्॥
अथ पुनः प्रपद्य॥
चतुर्गृहीतमाज्यं गृहीत्वा सावित्रम् प्रसवाय जुहोति सविता वै देवानाम् प्रसविता सवितृप्रसूताय यज्ञं तनवामहा इति तस्मात्सावित्रं जुहोति॥
स जुहोति॥
युञ्जते मन उत युञ्जते धिय इति मनसा च वै वाचा च यज्ञं तन्वते स यदाह युञ्जते मन इति तन्मनो युनक्त्युत युञ्जते धिय इति तद्वाचं युनक्ति धियाधिया ह्येतया मनुष्या जुज्यूषन्त्यनूक्तेनेव प्रकामोद्येनेव गाथाभिरिव ताभ्यां युक्ताभ्यां यज्ञं तन्वते॥
विप्रा विप्रस्य बृहतो विपश्चित इति॥
ये वै ब्राह्मणाः शुश्रुवांसो ऽनूचानास्ते विप्रास्तानेवैतदभ्याह बृहतो विपश्चित इति यज्ञो वै बृहन्विपश्चिद्यज्ञमेवैतदभ्याह वि होत्रा दधे वयुनाविदेक इदिति वि हि होत्रा दधते यज्ञं तन्वाना मही देवस्य सवितुः परिष्टुतिः स्वाहेति तत्सावित्रम् प्रसवाय जुहोति॥
अथापरं चतुर्गृहीतमाज्यं गृहीत्वा॥
उपनिष्क्रामति दक्षिणया द्वारा पत्नीं निष्क्रामयन्ति स दक्षिणस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् समूढमस्य पांसुरे स्वाहेति संस्रवम् पत्न्यै पाणावानयति साक्षस्य सन्तापमुपानक्ति देवश्रुतौ देवेष्वाघोषतमिति प्रयछति प्रतिप्रस्थात्रे स्रुचं चाज्यविलापनीं च पर्याणयन्ति पत्नीमुभौ जघनेनाग्नी॥
चतुर्गृहीतमाज्यं गृहीत्वा॥
प्रतिप्रस्थातोत्तरस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीरावती धेनुमती हि भूतं सूयवसिनी मनवे दशस्या व्यस्कभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः स्वाहेति संस्रुवम् पत्न्यै पाणावानयति साक्षस्य सन्तापमुपानक्ति देवश्रुतौ देवेष्वाघोषतमिति तद्यदेवं जुहोति॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुर्वज्रो वा आज्य त एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवाघ्नंस्तथैषां नियानं नान्ववायंस्तथो एवैष एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवहन्ति तथास्य नियानं नान्वयन्ति तद्यद्वैष्णवीभ्यामृग्भ्यां जुहोति वैष्णवं हि हविर्धानम्॥
अथ यत्पत्न्यक्षस्य सन्तापमुपानक्ति॥
प्रजननमेवैतत्क्रियते यदा वै स्त्रियै च पुंसश्च सन्तप्यते ऽथ रेतः सिच्यते तत्ततः प्रजायते परागुपानक्ति पराग्घ्येव रेतः सिच्यते ऽथाह हविर्धानाभ्याम् प्रवर्त्यमानाभ्यामनुब्रूहीति॥
अथ वाचयति॥
प्राची प्रेतमध्वरं कल्पयन्ती इत्यध्वरो वै यज्ञः प्राची प्रेतं यज्ञं कल्पयन्ती इत्येवैतदाहोर्ध्वं यज्ञं नयतम् मा जिह्वरतमित्यूर्ध्वमिमं यज्ञं देवलोकं नयतमित्येवैतदाह मा जिह्वरतमिति तदेतस्मा अह्वलामाशास्ते समुद्गृह्येव प्रवर्तयेयुर्यथा नोत्सर्जेतामसुर्या वा एषा वाग्याक्षे नेदिहासुर्या वाग्वदादिति यद्युत्सर्जेताम्॥
एतद्वाचयेत्॥
स्वं गोष्ठमावदतं देवी दुर्ये आयुर्मा निर्वादिष्टम् प्रजाम् मा निर्वादिष्टमिति तस्यो हैषा प्रायश्चित्तिः॥
तदाहुः॥
उत्तरवेदेः प्रत्यङ् प्रक्रामेत्त्रीन्विक्रमांस्तद्धविर्धाने स्थापयेत्सा हविर्धानयोर्मात्रेति नात्र मात्रास्ति यत्रैव स्वयम् मनसा मन्येत नाहैव सत्रात्यन्तिके नो दूरे तत्स्थापयेत्॥
ते अभिमन्त्रयते॥
अत्र रमेथां वर्ष्मन्पृथिव्या इति वर्ष्म ह्येतत्पृथिव्यै भवति दिवि ह्यस्याहवनीयो भवति नभ्यस्थे करोति तद्धि क्षेमस्य रूपम्॥
अथोत्तरेण पर्येत्याध्वर्युः॥
दक्षिणं हविर्धानमुपस्तभ्नाति विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे॥
अथ प्रतिप्रस्थाता॥
उत्तरं हविर्धानमुपस्तभ्नाति दिवो वा विष्ण उत वा पृथिव्या महो वा विष्ण उरोरन्तरिक्षात उभा हि हस्ता वसुना पृणस्वा प्रयछ दक्षिणादोत सव्याद्विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे तद्यद्वैष्णवैर्यजुर्भिरुपचरन्ति वैष्णवं हि हविर्धानम्॥
अथ मध्यमं छदिरुपस्पृश्य वाचयति॥
प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेतीदं हैवास्यैतछीर्षकपालं यदिदमुपरिष्टादधीव ह्येतत्क्षियन्त्यन्यानि शीर्षकपालानि तस्मादाहाधिक्षियन्तीति॥
अथ रराट्यामुपस्पृश्य वाचयति॥
विष्णो रराटमसीति ललाटं हैवास्यैतदथोछ्राय्या उपस्पृश्य वाचयति विष्णोः श्नप्त्रे स्थ इति स्रक्वे हैवास्यैते अथ यदिदम् पश्चाच्छदिर्भवतीदं हैवास्यैतछीर्षकपालं यदिदम् पश्चात्॥
अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति॥
विष्णोः स्यूरसीत्यथ ग्रन्थिं करोति विष्णोर्ध्रुवो ऽसीति नेद्व्यंवपद्याता इति तम् प्रकृते कर्मन्विष्यति तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति तन्निष्ठितमभिमृशति वैष्णवमसीति वैष्णवं हि हविर्धानम्॥
द्वयं वा अभ्युपरवाः खायन्ते॥
शिरो वै यज्ञस्य हविर्धानं तद्य इमे शीर्षश्चत्वारः कूपा इमावह द्वाविमौ द्वौ तानेवैतत्करोति तस्मादुपरवान् खनति॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ततो ऽसुरा एषु लोकेषु कृत्यां वलगान्निचख्नुरुतैवं चिद्देवानभिभवेमेति॥
तद्वै देवा अस्पृण्वत॥
त एतैः कृत्या वलगानुदखनन्यदा वै कृत्यामुत्खनन्त्यथ सालसा मोघा भवति तथो एवैष एतद्यद्यस्मा अत्र कश्चिद्द्विषन्भ्रातृव्यः कृत्यां वलगान्निखनति तानेवैतदुत्किरति तस्मादुपरवान् खनति स दक्षिणस्य हविर्धानस्याधो ऽधः प्रउगं खनति॥
सो ऽभ्रिमादत्ते॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति॥
तान्प्रादेशमात्रं विना परिलिखति॥
इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति॥
तद्यावेतौ पूर्वौ॥
तयोर्दक्षिणमेवाग्रे परिलिखेदथापरयोरुत्तरमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरम्॥
अथो इतरथाहुः॥
अपरयोरेवाग्र उत्तरम् परिलिखेदथ पूर्वयोर्दक्षिणमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरमित्यथो अपि समीच एव परिलिखेदेतं त्वेवोत्तमम् परिलिखेद्य एष पूर्वयोरुत्तरो भवति॥
तान्यथापरिलिखितमेव यथापूर्वं खनति॥
बृहन्नसि बृहद्रवा इत्युपस्तौत्येवैनानेतन्महयत्येव यदाह बृहन्नसि बृहद्रवा इति बृहतीमिन्द्राय वाचं वदेतीन्द्रो वै यज्ञस्य देवता वैष्णवं हविर्धानं तत्सेन्द्रं करोति तस्मादाह बृहतीमिन्द्राय वाचं वदेति॥
रक्षोहणं वलगहनमिति॥
रक्षसां ह्येते वलगानाम् बधाय खायन्ते वैष्णवीमिति वैष्णवी हि हविर्धाने वाक्॥
तान्यथाखातमेवोत्किरति॥
इदमहं तं वलगमुत्किरामि यम् मे निष्ट्यो यममात्यो निचखानेति निष्ट्यो वा वा अमात्यो वा कृत्यां वलगन्निखनति तानेवैतदुत्किरति॥
इदमहं तं वलगमुत्किरामि॥
यम् मे समानो यमसमानो निचखानेति समानो वा वा असमानो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति॥
इदमहं तं वलगमुत्किरामि॥
यम् मे सबन्धुर्यमसबन्धुर्निचखानेति सबन्धुर्वा वा असबन्धुर्वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति॥
इदमहं तं वलगमुत्किरामि॥
यम् मे सजातो यमसजातो निचखानेति सजातो वा वा असजातो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरत्युत्कृत्यां किरामीत्यन्तत उद्वपति तत्कृत्यामुत्किरति॥
तान्बाहुमात्रान् खनेत्॥
अन्तो वा एषो ऽन्तेनैवैतत्कृत्याम् मोहयति तानक्ष्णया सन्तृन्दन्ति यद्यक्ष्णया न शक्नुयादपि समीचस्तस्मादिमे प्राणाः परः सन्तृणाः॥
तान्यथाखातमेवावमर्शयति॥
स्वराडसि सपत्नहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराडस्यमित्रहेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते॥
अथाध्वर्युश्च यजमानश्च सम्मृशेते॥
पूर्वयोर्दक्षिणे ऽध्वर्युर्भवत्यपरयोरुत्तरे यजमानः सो ऽध्वर्युः पृछति यजमान किमत्रेति भद्रमित्याह तन्नौ सहेत्युपांश्वध्वर्युः॥
अथापरयोर्दक्षिणे ऽध्वर्युर्भवति॥
पूर्वयोरुत्तरे यजमानः पृछत्यध्वर्यो किमत्रेति भद्रमित्याह तन्म इति यजमानस्तद्यदेवं सम्मृशेते प्राणानेवैतत्सयुजः कुरुतस्तस्मादिमे प्राणाः परः संविद्रे ऽथ यत्पृष्टो भद्रमिति प्रत्याह कल्याणमेवैतन्मानुष्यै वाचो वदति तस्मात्पृष्टो भद्रमिति प्रत्याहाथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यानेवैतत्करोति॥
स प्रोक्षति॥
रक्षोहणो वो वलगहन इति रक्षोहणो ह्येते वलगहनो ह्येते प्रोक्षामि वैष्णवानिति वैष्णवा ह्येते॥
अथ याः प्रोक्षण्यः परिशिष्यते॥
ता अवटेष्ववनयति तद्या इमाः प्राणेष्वापस्ता एवैतद्दधाति तस्मादेषु प्राणेष्विमा आपः॥
सो ऽवनयति॥
रक्षोहणो वो वलगहनो ऽवनयामि वैष्णवानित्यथ बर्हींषि प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति तद्यानीमानि प्राणेषु लोमानि तान्येवैतद्दधाति तस्मादेषु प्राणेष्विमानि लोमानि॥
सो ऽवस्तृणाति॥
रक्षोहणो वो वलगहनो ऽवस्तृणामि वैष्णवानित्यथ बर्हींषि तनूनीवोपरिष्टात्प्रछादयति केशा हैवास्यैते॥
अथाधिषवणे फलके उपदधाति॥
रक्षोहणौ वां वलगहना उपदधामि वैष्णवी इति हनू हैवास्यैते अथ पर्यूहति रक्षोहणौ वां वलगहनौ पर्यूहामि वैष्णवी इति दृंहत्येवैने एतदशिथिले करोति॥
अथाधिषवणम् परिकृत्तम् भवति॥
सर्वरोहितं जिह्वा हैवास्यैषा तद्यत्सर्वरोहितम् भवति लोहिनीव हीयं जिह्वा तन्निदधाति वैष्णवमसीति वैष्णवं ह्येतत्॥
अथ ग्राव्ण उपावहरति॥
दन्ता हैवास्य ग्रावाणस्तद्यद्ग्रावभिरभिषुण्वन्ति यथा दद्भिः प्सायादेवं तत्तान्निदधाति वैष्णवा स्थेति वैष्णवा ह्येत एतदु यज्ञस्य शिरः संस्कृतम्॥