शिरो वै यज्ञस्यातिथ्यं बाहू प्रायणीयोदयनीयौ॥
अभितो वै शिरो बाहू भवतस्तस्मादभित आतिथ्यमेते हविषी भवतः प्रायणीयश्चोदयनीयश्च॥
अथ यस्मादातिथ्यं नाम॥
अतिथिर्वा एष एतस्यागछति यत्सोमः क्रीतस्तस्मा एतद्यथा राज्ञे वा ब्राह्मणाय वा महोक्षं वा महाजं वा पचेत्तदह मानुषं हविर्देवानामेवमस्मा एतदातिथ्यं करोति॥
तदाहुः॥
पूर्वो ऽतीत्य गृह्णीयादिति यत्र वा अर्हन्तमागतं नापचायन्ति क्रुध्यति वै स तत्र तथा हापचितो भवति॥
तद्वा अन्यतर एव विमुक्तः स्यात्॥
अन्यतरो ऽविमुक्तो ऽथ गृह्णीयात्स यदन्यतरो विमुक्तस्तेनागतो यद्वन्यतरो ऽविमुक्तस्तेनापचितः॥
तदु तथा न कुर्यात् विमुच्यैव प्रपाद्य गृह्णीयाद्यथा वै देवानां चरणं तद्वा अनु मनुष्याणां तस्मान्मानुषे यावन्न विमुञ्चते नैवास्मै तावदुदकं हरन्ति नापचितिं कुर्वन्त्यनागतो हि स तावद्भवत्यथ यदैव विमुञ्चते ऽथास्मा उदकं हरन्त्यथापचितिं कुर्वन्ति तर्हि हि स आगतो भवति तस्माद्विमुच्यैव प्रपाद्य गृह्णीयात्॥
स वै सन्त्वरमाण इव गृह्णीयात्॥
तथा हापचितो भवति तत्पत्न्यन्वारभते पर्युह्यमाणं वै यजमानो ऽन्वारभते ऽथात्र पत्न्युभयत एवैतन्मिथुनेनान्वारभेते यत्र वा अर्हन्नागछति सर्वगृह्या इव वै तत्र चेष्टन्ति तथा हापचितो भवति॥
स वा अन्येनैव ततो यजुषा गृह्णीयात्॥
येनो चान्यानि हवींष्येकं वा एष भागं क्रीयमाणो ऽभिक्रीयते छन्दसामेव राज्याय छन्दसां साम्राज्याय तस्य छन्दांस्यभितः साचयानि यथा राज्ञो ऽराजानो राजकृतः सूतग्रामण्य एवमस्य छन्दांस्यभितः साचयानि॥
न वै तदवकल्पते॥
यच्छन्दोभ्य इति केवलं गृह्णीयाद्यत्र वा अर्हते पचन्ति तदभितः साचयो ऽन्वाभक्ता भवन्त्यराजानो राजकृतः सूतग्रामण्यस्तस्माद्यत्रैवैतस्यै गृह्णीयात्तदेव छन्दांस्यन्वाभजेत्॥
स गृह्णाति॥
अग्नेस्तनूरसि विष्णवे त्वेत्यग्निर्वै गायत्री तद्गायत्रीमन्वाभजति॥
सोमस्य तनूरसि विष्णवे त्वेति॥
क्षत्रं वै सोमः क्षत्रं त्रिष्टुप्तत्त्रिष्टुभमन्वाभजति॥
अतिथेरातिथ्यमसि विष्णवे त्वेति॥
सो ऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते छन्दोभ्यः॥
श्येनाय त्वा सोमभृते विष्णवे त्वेति॥
तद्गायत्रीमन्वाभजति सा यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः सोमभृत्तेनैवैनामेतद्वीर्येण द्वितीयमन्वाभजति॥
अग्नये त्वा रायस्पोषदे विष्णवे त्वेति॥
पशवो वै रायस्पोषः पशवो जगती तज्जगतीमन्वाभजति॥
अथ यत्पञ्च कृत्वो गृह्णाति॥
संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तम् पञ्चभिराप्नोति तस्मात्पञ्च कृत्वो गृह्णात्यथ यद्विष्णवे त्वा विष्नवे त्वेति गृह्णाति विष्णवे हि गृह्णाति यो यज्ञाय गृह्णाति॥
नवकपालः पुरोडाशो भवति॥
शिरो वै यज्ञस्यातिथ्यं नवाक्षरा वै गायत्र्यष्टौ तानि यान्यन्वाह प्रणवो नवमः पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्मान्नवकपालः पुरोडाशो भवति॥
कार्ष्मर्यमयाः परिधयः॥
देवा ह वा एतं वनस्पतिषु राक्षोघ्नं ददृशुर्यत्कार्ष्मर्यं शिरो वै यज्ञस्यातिथ्यं नेछिरो यज्ञस्य नाष्ट्रा रक्षांसि हिनसन्निति तस्मात्कार्ष्मर्यमयाः परिधयो भवन्ति॥
आश्ववालः प्रस्तरः॥
यज्ञो ह देवेभ्यो ऽपचक्राम सो ऽश्वो भूत्वा पराङाववर्त तस्य देवा अनुहाय वालानभिपेदुस्तानालुलुपुस्तानालुप्य सार्धं सन्न्यासुस्तत एता ओषधयः समभवन्यदश्ववालाः शिरो वै यज्ञस्यातिथ्यं जघनार्धो वाला उभयत एवैतद्यज्ञम् परिगृह्णाति यदाश्ववालाः प्रस्तरो भवति॥
ऐक्षव्यौ विधृती॥
नेद्बर्हिश्च प्रस्तरश्च संलुभ्यात इत्यथोत्पूयाज्यं सर्वाण्येव चतुर्गृहीतान्याज्यानि गृह्णाति न ह्यत्रानुयाजा भवन्ति॥
आसाद्य हवींष्यग्निम् मन्थति॥
शिरो वै यज्ञस्यातिथ्यं जनयन्ति वा एनमेतद्यन्मन्थन्ति शीर्षतो वा अग्रे जायमानो जायते शीर्षत एवैतदग्रे यज्ञं जनयत्यग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति शिरो वै यज्ञस्यातिथ्यं शीर्षत एवैतद्यज्ञं सर्वाभिर्देवताभिः समर्धयति तस्मादग्निम् मन्थति॥
सो ऽधिमन्थनं शकलमादत्ते॥
अग्नेर्जनित्रमसीत्यत्र ह्यग्निर्जायते तस्मादाहाग्नेर्जनित्रमसीति॥
अथ दर्भतरुणके निदधाति॥
वृषणौ स्थ इति तद्यावेवेमौ स्त्रियै साकञ्जावेतावेवैतौ॥
अथाधरारणिं निदधाति॥
उर्वश्यसीत्यथोत्तरारण्याज्यविलापनीमुपस्पृशत्यायुरसीति तामभिनिदधाति पुरूरवा असीत्युर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरेवमेवैष एतस्मन्मिथुनाद्यज्ञं जनयत्यथाहाग्नये मथ्यमानायानुब्रूहीति॥
स मन्थति॥
गायत्रेण त्वा छन्दसा मन्थामि त्रैष्टुभेन त्वा छन्दसा मन्थामि जागतेन त्वा छन्दसा मान्थामीति तं वै छन्दोभिरेव मन्थति छन्दांसि मथ्यमानायान्वाह छन्दांस्येवैतद्यज्ञमन्वायातयति यथामुमादित्यं रश्मयो जातायानुब्रूहीत्याह यदा जायते प्रह्रियमाणायेत्यनुप्रहरन्॥
सो ऽनुप्रहरति॥
भवतं नः समनसौ सचेतसावरेपसौ मा यज्ञं हिंसिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य न इति शान्तिमेवाभ्यामेतद्वदति यथा नान्यो ऽन्यं हिंस्याताम्॥
अथ स्रुवेणोपहत्याज्यम्॥
अग्निमभिजुहोत्यग्नावग्निश्चरति प्रविष्ट ऋषीणाम् पुत्रो अभिशस्तिपावा स नः स्योनः सुयजा यजेह देवेभ्यो हव्यं सदमप्रयुछन्त्स्वाहेत्याहुत्यै वा एतमजीजनत तमेतयाहुत्याप्रैषीत्तस्मादेवमभिजुहोति॥
तदिडान्तम् भवति॥
नानुयाजान्यजन्ति शिरो वै यज्ञस्यातिथ्यम् पूर्वार्धो वै शिरः पूर्वार्धमेवैतद्यज्ञस्याभिसंस्करोति स यद्धानुयाजान्यजेद्यथा शीर्षतः पर्याहृत्य पादौ प्रतिदध्यादेवं तत्तस्मादिडान्तं भवति नानुयाजान्यजन्ति॥
आतिथ्येन वै देवा इष्ट्वा॥
तान्त्समदविन्दत्ते चतुर्धा व्यद्रवन्नन्यो ऽन्यस्य श्रिया अतिष्ठमाना अग्निर्वसुभिः सोमो रुद्रैर्वरुण आदित्यैरिन्द्रो मरुद्भिर्बृहस्पतिर्विश्वैर्देवैरित्यु हैक आहुरेते ह त्वेव ते विश्वे देवा ये ते चतुर्धा व्यद्रवंस्तान्विद्रुतानसुररक्षान्यनुव्यवेयुः॥
ते ऽविदुः॥
पापीयांसो वै भवामो ऽसुररक्षसानि वै नो ऽनुव्यवागुर्द्विषद्भ्यो वै रध्यामो हन्त सञ्जानामहा एकस्य श्रियै तिष्ठामहा इति त इन्द्रस्य श्रिया अतिष्ठन्त तस्मादाहुरिन्द्रः सर्वा देवता इन्द्रश्रेष्ठा देवा इति॥
तस्मादु ह न स्वा ऋतीयेरन्॥
य एषाम् परस्तरामिव भवति स एनाननुव्यवैति ते प्रियं द्विषतां कुर्वन्ति द्विषद्भ्यो रध्यन्ति तस्मान्न ऽर्तीयेरन्त्स यो हैवं विद्वान्न ऽर्तीयते ऽप्रियं द्विषतां करोति न द्विपद्भ्यो रध्यति तस्मान्न ऽर्तीयेत॥
ते होचुः॥
हन्तेदं तथा करवामहै यथा न इदमाप्रदिवमेवाजर्यमसदिति॥
ते देवाः॥
जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे ते होचुरेतेन नः स नानासदेतेन विष्वङ्यो न एतदतिक्रामादिति कस्योपद्रष्टुरिति तनूनप्तुरेव शाक्वरस्येति यो वा अयम् एष तनूनपाछाक्वरः सो ऽयम् प्रजानामुपद्रष्टा प्रविष्टस्ताविमौ प्राणोदानौ॥
तस्मादाहुः॥
मनो देवा मनुष्यस्याजानन्तीति मनसा सङ्कल्पयति तत्प्राणमपिपद्यते प्राणो वातं वातो देवेभ्य आचष्टे यथा पुरुषस्य मनः॥
तस्मादेतदृषिणाभ्यनूक्तम्॥
मनसा सङ्कल्पयति तद्वातमपिगछति वातो देवेभ्य आचष्टे यथा पुरुष ते मन इति॥
ते देवाः॥
जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे ते होचुरेतेन नः स नानासदेतेन विष्वङ्यो न एतदतिक्रामादिति तद्देवा अप्येतर्हि नातिक्रामन्ति के हि स्युर्यदतिक्रामेयुरनृतं हि वदेयुरेकं ह वै देवा व्रतं चरन्ति सत्यमेव तस्मादेषां जितमनपजय्यं तस्माद्यश एवं ह वा अस्य जितमनपजय्यमेवं यशो भवति य एवं विद्वान्त्सत्यं वदति तदेतत्तानूनप्त्रं निदानेन॥
ते देवाः॥
जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे ऽथैत आज्यान्येव गृह्णाना जुष्टास्तनूः प्रियाणि धामानि सार्धं समवद्यन्ते तस्मादु ह न सर्वेणेव समभ्यवेयान्नेन्मे जुष्टास्तन्वः प्रियाणि धामानि सार्धं समभ्यवायानिति येनो ह समभ्यवेयान्नास्मै द्रुह्येदिदं ह्याहुर्न सतानुनप्त्रिणे द्रोग्धव्यमिति॥
अथातो गृह्णात्येव॥
आपतये त्वा परिपतये गृह्णामीति यो वा अयम् पवत एष आ च पतति परि च पतत्येतस्मा उ हि गृह्णाति तस्मादाहापतये त्वा परिपतये गृह्णामीति॥
तनूनप्त्रे शाक्वरायेति॥
यो वा अयम् पवत एष तनूतप्ता शाक्वर एतस्मा उ हि गृह्णाति तस्मादाह तनूनप्त्रे शाक्वरायेति॥
शक्वन ओजिष्ठायेति॥
एष वै शक्वौजिष्ठ एतस्मा उ हि गृह्णाति तस्मादाह शक्वन ओजिष्ठायेति॥
अथातः समवमृशन्त्येव॥
एतद्ध देवा भूयः समामिर इत्थं नः सो ऽमुथासद्यो न एतदतिक्रामादिति तथो एवैत एतत्सममन्त इत्थं नः सो ऽमुथासद्यो न एतदतिक्रामादिति॥
ते समवमृशन्ति॥
अनाधृष्टमस्यनाधृष्यं देवानामोज इत्यनाधृष्टा हि देवा आसन्ननाधृष्याः सह सन्तः समानं वदन्तः समानं दध्राणा देवानामोज इति देवानां वै जुष्टास्तन्वः प्रियाणि धामान्यनभिशस्त्यभिशस्तिपा अनभिशस्तेन्यमिति सर्वां हि देवा अभिशस्तिं तीर्णा अञ्जसा सत्यमुपगेषमिति सत्यं वदानि मेदमतिक्रमिषमित्येवैतदाह स्विते मा धा इति स्विते हि तद्देवा आत्मानमदधत यत्सत्यमवदन्यत्सत्यमकुर्वस्तस्मादाह स्विते मा धा इति॥
अथ यास्तद्देवाः॥
जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तदिन्द्रे सन्न्यदधतैष वा इन्द्रो य एष तपति न ह वा एषो ऽग्रे तताप यथा हैवैदमन्यत्कृष्णमेवं हैवास तेनैवैतद्वीर्येण तपति तस्माद्यदि बहवो दीक्षेरन्गृहपतय एव व्रतमभ्युत्सिच्य प्रयछेयुः स हि तेषामिन्द्रभाजनम् भवति यद्यु दक्षिणावता दीक्षेत यजमानायैव व्रतमभ्युत्सिच्य प्रयछेयुरिदं ह्याहुरिन्द्रो यजमान इति॥
अथ यास्तद्देवाः॥
जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तत्सार्धं सञ्जघ्ने तत्सामाभवत्तस्मादाहुः सत्यं साम देवजं सामेति॥
आतिथ्येन वै देवा इष्ट्वा॥
तान्त्समदविन्दत्ते तानूनप्त्रैः समशाम्यंस्त एतस्य प्रायश्चित्तिमैछन्यदन्यो ऽन्यम् पापमवदन्नाह पुरावभृथात्पुनर्दीक्षामवाकल्पयंस्त एतामवान्तरां दीक्षामपश्यन्॥
ते ऽग्निनैव त्वचं विपल्याङ्गयन्त॥
तपो वा अग्निस्तपो दीक्षा तदवान्तरां दीक्षामुपायंस्तद्यदवान्तरां दीक्षामुपायंस्तस्मादवान्तरदीक्षा सन्तरामङ्गुलीराञ्चन्त सन्तराम् मेखलाम् पर्यस्तामेवैनामेतत्सतीम् पर्यास्यन्त तथो एवैष एतद्यदतः प्राचीनमव्रत्यं वा करोत्यव्रत्यम् वा वदति तस्यैवैतत्प्रायश्चित्तिं कुरुते॥
सो ऽग्निनैव त्वचं विपल्यङ्गयते॥
तपो वा अग्निस्तपो दीक्षा तदवान्तरां दीक्षामुपैति सन्तरामङ्गुलीरचते सन्तराम् मेखलाम् पर्यस्तामेवैनामेतत्सतीम् पर्यस्यते प्रजामु हैव तद्देवा उपायन्॥
ते ऽग्निनैव त्वच विपल्याङ्गयन्त॥
अग्निर्वै मिथुनस्य कर्ता प्रजनयिता तत्प्रजामुपायन्त्सन्तरामङ्गुलीराञ्चन्त सन्तराम् मेखलां तत्प्रजामात्मन्नकुर्वत तथो एवैष एतत्प्रजामेवोपैति॥
सो ऽग्निनैव त्वचं विपल्यङ्गयते॥
अग्निर्वै मिथुनस्य कर्ता प्रजनयिता तत्प्रजामुपैति सन्तरामङ्गुलीरचते सन्तराम् मेखलां तत्प्रजामात्मन्कुरुते॥
देवानामु ह स्म दीक्षितानाम्॥
यः समिद्धारो वा स्वाध्यायं वा विसृजते तं ह स्मेतरस्यैवेतरं रूपेणेतरस्येतरमसुररक्षसानि जिघांसन्ति ते ह पापं वदन्त उपसमेयुरिति वै मां त्वमचिकीर्षीरिति माजिघांसीरित्यग्निर्हैव तथा नान्यमुवादाग्निं तथा नान्यः॥
ते होचुः॥
अपीत्थं त्वामग्ने ऽवादिषूरिति नैवाहमन्यं न मामन्य इति॥
ते ऽविदुः॥
अयं वै नो विरक्षस्तमो ऽस्यैव रूपमसाम तेन रक्षांस्यतिमोक्ष्यामहे तेन स्वर्गं लोकं समश्नुविष्यामह इति ते ऽग्निरेव रूपमभवंस्तेन रक्षांस्यत्यमुच्यन्त तेन स्वर्गं लोकं समाश्नुवत तथो एवैष एतदग्नेरेव रूपम् भवति तेन रक्षांस्यतिमुच्यते तेन स्वर्गं लोकं समश्नुते स वै समिधमेवाभ्यादधदवान्तरदीक्षामुपैति॥
स समिधमभ्यादधाति॥
अग्ने व्रतपास्त्वे व्रतपा इत्यग्निर्हि देवानां व्रतपतिस्तस्मादाहाग्ने व्रतपास्त्वे व्रतपा इति या तव तनूरियं सा मयि यो मम तनूरेषा सा त्वयि सह नौ व्रतपते व्रतानीति तदग्निना त्वचं विपल्यङ्गयते ऽनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरिति तदवान्तरां दीक्षामुपैति सन्तरामङ्गुलीरचते सन्तराम् मेखलाम् पर्यस्तामेवैतत्सतीम् पर्यस्यते॥
अथैनमतो मदन्तीभिरुपचरन्ति॥
तपो वा अग्निस्तपो मदन्त्यस्तस्मादेनम् मदन्तीभिरुपचरन्ति॥
अथ मदन्तीभिरुपस्पृश्य॥
राजानमाप्याययन्ति तद्यन्मदन्तीरुपस्पृश्य राजानमाप्याययन्ति वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसामेति तस्मान्मदन्तीरुपस्पृश्य राजानमाप्याययन्ति॥
तदाहुः॥
यस्मा एतदाप्यायनं क्रियत आतिथ्यं सोमाय तमेवाग्र आप्याययेयुरथावान्तरदीक्षामथ तानूनप्त्राणीति तदु तथा न कुर्याद्यज्ञस्य वा एवं कर्मात्र वा एनान्त्समदविन्दत्ते संशममेव पूर्वमुपायन्नथावान्तरदीक्षामथाप्यायनम्॥
तद्यदाप्याययन्ति॥
देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतछरीरं यद्गिरयो यदश्मानस्तदेषोशाना नामौषधिर्जायत इति ह स्माह श्वेतकेतुरौद्दालकिस्तामेतदाहृत्याभिषुण्वन्ति तां दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं कुर्वन्तीति तथो एवैनामेष एतद्दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं करोति॥
मधु सारघमिति वा आहुः॥
यज्ञो ह वै मधु सारघमथैत एव सरघो मधुकृतो यदृत्विजस्तद्यथा मधु मधुकृत आप्याययेयुरेवमेवैतद्यज्ञमाप्याययन्ति॥
यज्ञेन वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम॥
तद्वा ऋषीणामनुश्रुतमास॥
ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यो दीक्षते वाग्वै यज्ञस्तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत्पुनराप्याययति॥
ते वै षड्भूत्वाप्याययन्ति॥
षड्वा ऋतव ऋतव एवैतद्भूत्वाप्याययन्ति॥
त आप्याययन्ति॥
अंशुरंशुष्टे देव सोमाप्यायतामिति तदस्यांशुमंशुमेवाप्याययन्तीन्द्रायैकधनविद इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेत्येकधनविद इति शतंशतं ह स्म वा एष देवान्प्रत्येकैक एवांशुरेकधनानाप्यायते दशदश वा तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेतीन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतदाप्याययत्या त्वमिन्द्राय प्यायस्वेति तदेतस्मिन्नाप्यायनं दधात्याप्याययास्मान्त्सखीन्त्सन्या मेधयेति स यत्सनोति तत्तदाह यत्सन्येत्यथ यदनुब्रूते तदु तदाह यन्मघयेति स्वस्ति ते देव सोम सत्यामशीयेत्येका वा एतेषामाशीर्भवत्यृत्विजां च यजमानस्य च यज्ञस्योदृचं गछेमेति यज्ञस्योदृचं गछानीत्येवैतदाह॥
अथ प्रस्तरे निह्नुवते॥
उत्तरतउपचारो वै यज्ञो ऽथैतद्दक्षिणेवान्वित्याप्याययन्त्यग्निर्वै यज्ञस्तद्यज्ञम् पृष्ठतः कुर्वन्ति तन्मिथ्याकुर्वन्ति देवेभ्य आवृश्च्यन्ते यज्ञो वै प्रस्तरस्तद्यज्ञम् पुनरारभन्ते तस्यो हैषा प्रायश्चित्तिस्तथो हैषामेतन्न मिथ्याकृतम् भवति न देवेभ्य आवृश्च्यन्ते तस्मात्प्रस्तरे निह्नुवते॥
तदाहुः॥
अक्ते निह्नुवीराननक्ता इत्यनक्ते हैव निह्नुवीरन्ननुप्रहरणं ह्येवाक्तस्य॥
ते निह्नुवते॥
एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्य इति सत्यं सत्यवादिभ्य इत्यैवैतदाह नमो द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यां निह्नुवते ययोरिदं सर्वमधि॥
अथाह समुल्लुप्य प्रस्तरम्॥
अग्नीन्मदन्त्यापाइति मदन्तीत्यग्नीदाह ताभिरेहीत्युपर्युपर्यग्निमतिहरति स यन्नानुप्रहरत्येतेन ह्यत ऊर्ध्वान्यहानि प्रचरिष्यन्भवत्यथ यदुपर्युपर्यग्निमतिहरति तदेवास्यानुप्रहृतभाजनम् भवति तमग्नीधे प्रयछति तमग्नीन्निदधाति॥
ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः॥
तस्माद्यदि प्रवर्ग्यवान्भवति प्रवर्ग्येण प्रचर्याथोपसद्भिः प्रचरन्ति तद्ग्रीवाः प्रतिदधाति॥
तद्याः पूर्वाह्णे ऽनुवाक्या भवन्ति॥
ता अपराह्णे याज्या या याज्यास्ता अनुवाक्यास्तद्व्यतिषजति तस्मादिमानि ग्रीवाणाम् पर्वाणि व्यतिषक्तानीमान्यस्थीनि॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ततो ऽसुरा एषु लोकेषु पुरश्चक्रिरे ऽयस्मयीमेवास्मिंलोके रजतामन्तरिक्षे हरिणीं दिवि॥
तद्वै देवा अस्पृण्वत॥
त एताभिरुपसद्भिरुपासीदंस्तद्यदुपासीदंस्तस्मादुपसदो नाम ते पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तस्मादाहुरुपसदा पुरं जयन्तीति यदहोपासते तेनेमाम् मानुषीम् पुरं जयन्ति॥
एताभिर्वै देवा उपसद्भिः॥
पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतन्नाहैवास्मा अस्मिंलोके कश्चन पुरः कुरुत इमानेवैतल्लोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादुपसद्भिर्यजते॥
ता वा आज्यहविषो भवन्ति॥
वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येन पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतेन वज्रेणाज्येनेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादाज्यहविषो भवन्ति॥
स वा अष्टौ कृत्वो जुह्वां गृह्णाति॥
चतुरुपभृत्यथो इतरथाहुश्चतुरेव कृत्वो जुह्वां गृह्णीयादष्टौ कृत्व उपभृतीति॥
स वा अष्टावेव कृत्वो जुह्वां गृह्णाति॥
चतुरुपभृति तद्वज्रमभिभारं करोति तेन वज्रेणाभिभारेणेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति॥
अग्नीषोमौ वै देवानां सयुजौ॥
ताभ्यां सार्धं गृह्णाति विष्णव एकाकिने ऽन्यतरमेवाघारमाघारयति यं स्रुवेण प्रतिक्रामति वा उत्तरमाघारमाघार्याभिजित्या अभिजयानीति तस्मादन्यतरमेवाघारमाघारयति यं स्रुवेण॥
अथाश्राव्य न होतारम् प्रवृणीते॥
सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य प्रसौति प्रसूतो ऽध्वर्युः स्रुचावादत्ते॥
स आहातिक्रामन्नग्नये ऽनुब्रूहीति॥
आश्राव्याहाग्निं यजेति वषट्कृते जुहोति॥
अथाह सोमायानुब्रूहीति॥
आश्राव्याह सोमं यजेति वषट्कृते जुहोति॥
अथ यदुपभृत्याज्यम् भवति॥
तत्समानयमान आह विष्णवे ऽनुब्रूहीत्याश्राव्याह विष्णुं यजेति वषट्कृते जुहोति॥
स यत्समानत्र तिष्ठन्जुहोति॥
न यथेदम् प्रचरन्त्सञ्चरत्यभिजित्या अभिजयानीत्यथ यदेता देवता यजति वज्रमेवैतत्संस्करोत्यग्निमनीकं सोमं शल्पं विष्णुं कुल्मलं॥
संवत्सरो हि वज्रः॥
अग्निर्वा अहः सोमो रात्रिरथ यदन्तरेण तद्विष्णुरेतद्वै परिप्लवमानं संवत्सरं करोति॥
संवत्सरो वज्रः॥
एतेन वै देवाः संवत्सरेण वज्रेण पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतेन संवत्सरेण वज्रेणेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादेता देवता यजति॥
स वै तिस्र उपसद उपेयात्॥
त्रयो वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया॥
ताः षट्सम्पद्यन्ते॥
षड्वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति॥
यद्यु द्वादशोपसद उपेयात्॥
द्वादश वै मासाः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया॥
ताश्चतुर्विंशतिः सम्पद्यन्ते॥
चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति॥
स यत्सायम्प्रातः प्रचरति॥
तथा ह्येव सम्पत्सम्पद्यते स यत्पूर्वाह्णे प्रचरति तज्जयत्यथ यदपराह्णे प्रचरति सुजितमसदित्यथ यज्जुहोतीदं वै पुरं युद्यन्ति तां जित्वा स्वां सतीं प्रपद्यन्ते॥
स यत्प्रचरति तद्युध्यत्यथ यत्सन्तिष्ठते तज्जयत्यथयज्जुहोति स्वामेवैतत्सतीम् प्रपद्यते॥
स जुहोति॥
यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने ऽयःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीदयस्मयी हि सासीत्॥
अथ जुहोति॥
यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने रजःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीद्रजता हि सासीत्॥
अथ जुहोति॥
ययाद्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने हरिशया तनूर्वर्षिष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीद्धरिणी हि सासीद्यद्यु द्वादशोपसद उपेयाच्चतुरहमेकया प्रचरेच्चतुरहमेकया॥
अथातो व्रतोपसदामेव॥
परउर्वीर्वा अन्या उपसदः परो ऽह्वीरन्याः स यासामेकम् प्रथमाहं दोग्ध्यथ द्वावथ त्रींस्ताः परउर्वीरथ यासां त्रीन्प्रथमाहं दोग्ध्यथ द्वावथैकं ताः परो ऽह्वीर्या वै परो ऽह्वीस्ताः परउर्वीर्याः परउर्वीस्ताः परो ऽह्वीः॥
तपसा वै लोकं जयन्ति॥
तदस्यैतत्परः पर एव वरीयस्तपो भवति परःपरः श्रेयांसं लोकं जयति वसीयानु हैवास्मिंलोके भवति य एवं विद्वान्परो ऽह्वीरुपसद उपैति तस्मादु परो ऽह्वीरेवोपसद उपेयाद्यद्यु द्वादशोपसद उपेयात्त्रींश्चतुरहं दोहयेद्द्वौ चतुरहमेकं चतुरहम्॥