०२

दक्षिणेनाहवनीयम् प्राचीनग्रीवे कृष्णाजिने उपस्तृणाति॥
तयोरेनमधि दीक्षयति यदि द्वे भवतस्तदनयोर्लोकयो रूपं तदेनमनयोर्लोकयोरधि दीक्षयति॥
सम्बद्धान्ते भवतः॥
सम्बद्धान्ताविव हीमौ लोकौ तर्द्मसमुते पश्चाद्भवतस्तदिमावेव लोकौ मिथुनीकृत्य तयोरेनमधि दीक्षयति॥
यद्यु एक भवति॥
तदेषां लोकानां रूपं तदेनमेषु लोकेष्वधि दीक्षयति यानि शुक्लानि तानि दिवो रूपं यानि कृष्णानि तान्यस्यै यदि वेतरथा यान्येव कृष्णानि तानि दिवो रूपंयानि शुक्लानि तान्यस्यै यान्येव बभ्रूणीव हरीणि तान्यन्तरिक्षस्य रूपं तदेनमेषु लोकेष्वधि दीक्षयति॥
अन्तकमु तर्हि पश्चात्प्रत्यस्येत्॥
तदिमानेव लोकान्मिथुनीकृत्य तेष्वेनमधि दीक्षयति॥
अथ जघनेन कृष्णाजिने पश्चात् प्राङ् जान्वाक्न उपविशति स यत्र शुक्लानां च कृष्णानां च सन्धिर्भवति तदेवमनिमृश्य जपत्यृक्सामयोः शिल्पे स्थ इति यद्वै प्रतिरूपं तछिल्पमृचां च साम्नां च प्रतिरूपे स्थ इत्येवैतदाह॥
ते वामारभ इति॥
गर्भो वा एष भवति यो दीक्षते स छन्दांसि प्रविशति तस्मान्न्वक्नाङ्गुलिरिव भवति न्यक्नाङ्गुलय इव हि गर्भाः॥
स यदाह॥
ते वामारभ इति ते वाम् प्रविशामीत्येवैतदाह ते मा पातमास्य यज्ञस्योदृच इति ते मा गोपायतमास्य यज्ञस्य संस्थाया इत्येवैतदाह॥
अथ दक्षिणेन जानुनारोहति॥
शर्मासि शर्म मे यछेति चर्म वा एतत्कृष्णस्य तदस्य तन्मानुषं शर्म देवत्रा तस्मादाह शर्मासि शर्म मे यछेति नमस्ते अस्तु मा मा हिंसीरिति श्रेयांसं वा एष उपाधिरोहति यो यज्ञं यज्ञो हि कृष्णाजिनं तस्मा एवैतद्यज्ञाय निह्नुते तथो हैनमेष यज्ञो न हिनस्ति तस्मादाह नमस्ते अस्तु मा मा हिंसीरिति॥
स वै जघनार्ध इवैवाग्र आसीत॥
अथ यदग्र एव मध्य उपविशेद्य एनं तत्रानुष्ठ्या हरेद्द्रप्स्यति वा प्र वा पतिष्यतीति तथा हैव स्यात्तस्माज्जघनार्ध इवैवाग्र आसीत॥
अथ मेखलाम् परिहरते॥
अङ्गिरसो ह वै दीक्षितानबल्यमविन्दत्ते नान्यद्व्रतादशनमवाकल्पयंस्त एतामूर्जमपश्यन्त्समाप्तिं ताम् मध्यत आत्मन ऊर्जमदधत समाप्तिं तया समाप्नुवंस्तथो एवैष एताम् मध्यत आत्मन ऊर्जन्धत्ते समाप्तिं तया समाप्नोति॥
सा वै शाणी भवति॥
मृद्व्यसदिति न्वेव शाणी यत्र वै प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञात्तस्य यन्नेदिष्ठमुल्बमासीत्ते शणास्तस्मात्ते पूतयो वान्ति यद्वस्य जराय्वासीत्तद्दीक्षितवसनमन्तरं वा उल्बं जरायुणो भवति तस्मादेषान्तरा वाससो भवति स यथैवातः प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञादेवमेवैषो ऽतो जायते गर्भो भूत्वैतस्माद्यज्ञात्॥
सा वै त्रिवृद्भवति॥
त्रिवृद्ध्यन्नम् पशवो ह्यन्नम् पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृद्भवति॥
मुञ्जवल्शेनान्वस्ता भवति॥
वज्रो वै शरो विरक्षस्तायै स्तुकासर्गं सृष्टा भवति सा यत्प्रसलवि सृष्टा स्याद्यथेदमन्या रज्जवो मानुषी स्याद्यद्वपसलवि सृष्टा स्यात्पितृदेवत्या स्यात्तस्मात्स्तुकासर्गं सृष्टा भवति॥
ताम् परिहरते॥
ऊर्गस्याङ्गिरसीत्यङ्गिरसो ह्येतामूर्जमपश्यन्नूर्णम्रदा ऊर्जम् मयि धेहीति नात्र तिरोहितमिवास्ति॥
अथ नीविमुद्गूहते॥
सोमस्य नीविरसीत्यदीक्षितस्य वा अस्यैषाग्रे नीविर्भवत्यथात्र दीक्षितस्य सोमस्य तस्मादाह सोमस्य नीविरसीति॥
अथ प्रोर्णुते॥
गर्भो वा एष भवति यो दीक्षते प्रावृता वै गर्भो उल्बेनेव जरायुणेव तस्माद्वै प्रोर्णुते॥
स प्रोर्णुते॥
विष्णोः शर्मासि शर्म यजमानस्येत्युभयं वा एषो ऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च यदह दीक्षते तद्विष्णुर्भवति यद्यजते तद्यजमानस्तस्मादाह विष्णोः शर्मासि शर्म यजमानस्येति॥
अथ कृष्णविषाणां सिचि बध्नीते॥
देवाश्च वा असुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुर्मन एव देवा उपायन्वाचमसुरा यज्ञमेव तद्देवा उपायन्वाचमसुरा अमूमेव देवा उपायन्निमामसुराः॥
ते देवा यज्ञमब्रुवन्॥
योषा वा इयं वागुपमन्त्रयस्व ह्वयिष्यते वै त्वेति स्वयं वा हैवैक्षत योषा वा इयं वागुपमन्त्रयै ह्वयिष्यते वै मेति तामुपामन्त्रयत सा हास्मा आरकादिवैवाग्र आसूयत्तस्मादु स्त्री पुंसोपमन्त्रितारकादिवैवाग्रे ऽसूयति स होवाचारकादिव वै म आसूयीदिति॥
ते होचुः॥
उपैव भगवो मन्त्रयस्व ह्वयिष्यते वै त्वेति तामुपामन्त्रयत सा हास्मै निपलाशमिवोवाद तस्मादु स्त्री पुंसोपमन्त्रिता निपलाशमिवैव वदति स होवाच निपलाशमिव वै मे ऽवादीदिति॥
ते होचुः॥
उपैव भगवो मन्त्रयस्व ह्वयिष्यते वै त्वेति तामुपामन्त्रयत सा हैनं जुहुव तस्मादु स्त्री पुमांसं ह्वयत एवोत्तमं स होवाचाह्वत वै मेति॥
ते देवा ईक्षां चक्रिरे॥
योषा वा इयं वाग्यदेनं न युवितेहैव मा तिष्ठन्तमभ्येहीति ब्रूहि ताम् तु न आगताम् प्रतिप्रब्रूतादिति सा हैनं तदेव तिष्ठन्तमभ्येयाय तस्मादु स्त्री पुमांसं संस्कृते तिष्ठन्तमभ्यैति तां हैभ्य आगताम् प्रतिप्रोवाचेयं वा आगादिति॥
तां देवाः॥
असुरेभ्यो ऽन्तरायंस्तां स्वीकृत्याग्नावेव परिगृह्य सर्वहुतमजुहवुराहुतिर्हि देवानां स यामेवामूमनुष्टुभाजुहवुस्तदेवैनां तद्देवाः स्व्यकुर्वत ते ऽसुरा आत्तवचसो हे ऽलवो हे ऽलव इति वदन्तः पराबभूवुः॥
तत्रैतामपि वाचमूदुः॥
उपजिज्ञास्यां स म्लेछस्तस्मान्न ब्राह्मणो म्लेछेदसुर्या हैषा वा नतेवैष द्विषतां सपत्नानामादत्ते वाचं ते ऽस्यात्तवचसः पराभवन्ति य एवमेतद्वेद॥
सो ऽयं यज्ञो वाचमभिदध्यौ॥
मिथुन्येनया स्यामिति तां सम्बभूव॥
इन्द्रो ह वा ईक्षां चक्रे॥
महद्वा इतो ऽभ्वं जनिष्यते यज्ञस्य च मिथुनाद्वाचश्च यन्मा तन्नाभिभवेदिति स इन्द्र एव गर्भो भूत्वैतन्मिथुनम् प्रविवेश॥
स ह संवत्सरे जायमान ईक्षां चक्रे॥
महावीर्या वा इयं योनिर्या मामदीधरत यद्वै मेतो महदेवाभ्वं नानुप्रजायेत यन्मा तन्नाभिभवेदिति॥
ताम् प्रतिपरामृश्यवेष्ट्याछिनत्॥
तां यज्ञस्य शीर्षन्प्रत्यदधाद्यज्ञो हि कृष्णः स यः स यज्ञस्तत्कृष्णाजिनं यो सा योनिः सा कृष्णविषाणाथ यदेनामिन्द्र आवेष्ट्याछिनत्तस्मादावेष्टितेव स यथैवात इन्द्रो ऽजायत गर्भो भूत्वैतस्मान्मिथुनादेवमेवैषो ऽतो जायते गर्भो भूत्वैतस्मान्मिथुनात्॥
तां वा उत्तानामिव बध्नाति॥
उत्तानेव वै योनिर्गर्भम् बिभर्त्यथ दक्षिणाम् भ्रुवमुपर्युपरि ललाटमुपस्पृशतीन्द्रस्य योनिरसीतीन्द्रस्य ह्येषा योनिरतो वा ह्येनाम् प्रविशन्प्रविशत्यतो वा जायमानो जायते तस्मादाहेन्द्रस्य योनिरसीति॥
अथोल्लिखति॥
सुसस्याः कृषीस्कृधीति यज्ञमेवैतज्जनयति यदा वै सुषमम् भवत्यथालं यज्ञाय भवति यदो दुःषमम् भवति न तर्ह्यात्मने चनालम् भवति तद्यज्ञमेवैतज्जनयति॥
अथ न दीक्षितः॥
काष्ठेन वा नखेन वा कण्डूयेत गर्भो वा एष भवति यो दीक्षते यो वै गर्भस्य काष्ठेन वा नखेन वा कण्डूयेदपास्यन्म्रित्येत्ततो दीक्षितः पामनो भवितोर्दीक्षितं वा अनु रेतांसि ततो रेतांसि पामनानि जनितोः स्वा वै योनी रेतो न हिनस्त्येषा वा एतस्य स्वा योनिर्भवति यत्कृष्णविषाणा तथो हैनमेषा न हिनस्ति तस्माद्दीक्षितः कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषाणायाः॥
अथास्मै दण्डम् प्रयछति॥
वज्रो वै दण्डो विरक्षस्तायै॥
औदुम्बरो भवति॥
अन्नं वा ऊर्गुदुम्बर ऊर्जो ऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरो भवति॥
मुखसम्मितो भवति॥
एतावद्वै वीर्यं स यावदेव वीर्यं तावांस्तद्भवति यन्मुखसम्मितः॥
तमुछ्रयति॥
उछ्रयस्व वनस्पत ऊर्ध्वो मा पाह्यंहस आस्य यज्ञस्योदृच इत्यूर्ध्वो मा गोपायास्य यज्ञस्य संस्थाया इत्येवैतदाह॥
अत्र हैके॥
अङ्गुलिश्च न्यचन्ति वाचं च यछन्त्यतो हि किं च न जपिष्यन्भवतीति वदन्तस्तदु तथा न कुर्याद्यथा पराञ्चं धावन्तमनुलिप्सेत तं नानुलभेतैवं ह स यज्ञं नानुलभते तस्मादमुत्रैवाङ्गुलीर्न्यचेदमुत्र वाचं यछेत्॥
अथ यद्दीक्षितः॥
ऋचं वा यजुर्वा साम वाभिव्याहरत्यभिस्थिरमभिस्थिरमेवैतद्यज्ञमारभते तस्मादमुत्रैवाङ्गुलीर्न्यचेदमुत्र वाचं यछेत्॥
अथ यद्वाचं यछति॥
वाग्वै यज्ञो यज्ञमेवैतदात्मन्धत्ते ऽथ यद्वाचंयमो व्याहरति तस्मादु हैष विसृष्टो यज्ञः पराङावर्तते तत्रो वैष्णवीमृचं वा यजुर्वा जपेद्यज्ञो वै विष्णुस्तद्यज्ञम् पुनरारभते तस्यो हैषा प्रायश्चित्तिः॥
अथैक उद्वदति॥
दीक्षितो ऽयम् ब्राह्मणो दीक्षितो ऽयम् ब्राह्मण इति निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयत्ययम् महावीर्यो यो यज्ञम् प्रापदित्ययं युष्माकैको ऽभूत्तं गोपायतेत्येवैतदाह त्रिष्कृत्व आह त्रिवृद्धि यज्ञः॥
अथ यद्ब्राह्मण इत्याह॥
अनद्धेव वा अस्याता पुरा जानम् भवतीदं ह्याहू रक्षांसि योषितमनुसचन्ते तदुत रक्षांस्येव रेत आदधतीत्यथात्राद्धा जायते यो ब्रह्मणो यो यज्ञाज्जायते तस्मादपि राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ब्रूयाद्ब्रह्मणो हि जायते यो यज्ञाज्जायते तस्मादाहुर्न सवनकृतं हन्यादेनस्वी हैव सवनकृतेति॥
वाचं यछति॥
स वाचंयम आस्त आस्तमयात्तद्यद्वाचं यछति॥
यज्ञेन वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम॥
तद्वा ऋषीणामनुश्रुतमास॥
ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यो दीक्षते वाग्वै यज्ञः॥
तामस्तमिते वाचं विसृजते॥
संवत्सरो वै प्रजापतिः प्रजापतिर्यज्ञो ऽहोरात्रे वै संवत्सर एते ह्येनम् परिप्लवमाने कुरुतः सो ऽहन्नदीक्षिष्ट स रात्रिम् प्रापत्स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतदाप्त्वा वाचं विसृजते॥
तद्धैके॥
नक्षत्रं दृष्ट्वा वाचं विसर्जयन्त्यत्रानुष्ट्यास्तमितो भवतीति वदन्तस्तदु तथा न कुर्यात्क्व ते स्युर्यन्मेघः स्यात्तस्माद्यत्रैवानुष्ट्यास्तमितम् मन्येत तदेव वाचं विसर्जयेत्॥
अनेनो हैके वाचं विसर्जयनि॥
भूर्भुवः स्वरिति यज्ञमाप्याययामो यज्ञं सन्दध्म इति वदन्तस्तदु तथा न कुर्यान्न ह स यज्ञमाप्याययति न सन्दधाति य एतेन वाचं विसर्जयति॥
अनेनैव वाचं विसर्जयेत्॥
व्रतं कृणुत व्रतं कृणुताग्निर्ब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञिय इत्येष ह्यस्यात्र यज्ञो भवत्येतद्धविर्यथा पुराग्निहोत्रं तद्यज्ञेनैवैतद्यज्ञं सम्भृत्य यज्ञे यज्ञम् प्रतिष्ठापयति यज्ञेन यज्ञं सन्तनोति सन्ततं ह्येवास्यैतद्व्रतम् भवत्या सुत्यायै त्रिष्कृत्व आह त्रिवृद्धि यज्ञः॥
अथाग्निमभ्यावृत्य वाचं विसृजते॥
न ह स यज्ञमाप्याययति न सन्दधाति यो ऽतो ऽन्येन वाचं विसृजते स प्रथमं व्याहरन्त्सत्यं वाचो ऽभिव्याहरति॥
अग्निर्ब्रह्मेति॥
अग्निर्ह्येव ब्रह्माग्निर्यज्ञ इत्यग्निर्ह्येव यज्ञो वनस्पतिर्यज्ञिय इति वनस्पतयो हि यज्ञिया न हि मनुष्या यजेरन्यद्वनस्पतयो न स्युस्तस्मादाह वनस्पतिर्यज्ञिय इति॥
अथास्मै व्रतं श्रपयन्ति॥
देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति शृतं वै देवानां हविर्नाशृतं तस्माछ्रपयन्ति तदेष एव व्रतयति नाग्नौ जुहोति तद्यदेष एव व्रतयति नाग्नौ जुहोति॥
यज्ञेन वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम॥
तद्वा ऋषीणामनुश्रुतमास॥
ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एष वा अत्र यज्ञो भवति यो दीक्षत एष ह्येनं तनुत एष एनं जनयति तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत्पुनराप्याययति यदेष एव व्रतयति नाग्नौ जुहोति न हाप्याययेद्यदग्नौ जुहुयाज्जुह्वदु हैव मन्येत नाजुह्वत्॥
इमे वै प्राणाः॥
मनोजाता मनोयुजो दक्षक्रतवो वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा एतासु हैवास्यैतद्देवतासु हुतम् भवति॥
तद्धैके॥
प्रथमे व्रत उभौ व्रीहियवावावपन्त्युभाभ्यां रसाभ्यां यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तत्पुनराप्याययाम इति वदन्तो यद्यु व्रतदुघा न दुहीत यस्यैवातः कामयेत तस्य व्रतं कुर्यादेतदु ह्येवास्यैता उभौ व्रीहियवावन्वारब्धौ भवत इति तदु तथा न कुर्यान्न ह स यज्ञमाप्याययति न सन्दधाति य उभौ व्रीहियवावावपति तस्मादन्यतरमेवावपेद्धविर्वा अस्यैता उभौ व्रीहियवौ भवतः स यदेवास्यैतौ हविर्भवतस्तदेवास्यैतावन्वारब्धौ भवतो यद्यु व्रतदुघा न दुहीत यस्यैवातः कामयेत तस्य व्रतं कुर्यात्॥
तद्धैके॥
प्रथमे व्रते सर्वौषधं सर्वसुरभ्यावपन्ति यदि दीक्षितमार्तिर्विन्देद्येनैवातः कामयेत तेन भिषज्येद्यथा व्रतेन भिषज्येदिति तदु तथा न कुर्यान्मानुषं ह ते यज्ञे कुर्वन्ति व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति यदि दीक्षितमार्तिर्विन्देद्येनैवातः कामयेत तेन भिषज्येत्समाप्तिर्ह्येव पुण्या॥
अथास्मै व्रतम् प्रयछति॥
अतिनीय मानुषं कालं सायन्दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे व्याकृत्या एव दैवं चैवैतन्मानुषं च व्याकरोति॥
अथास्मै व्रतम् प्रदास्यन्नप उपस्पर्शयति॥
दैवीं धियम् मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वश इति मानुषाय वा एष पुराशनायावनेनिक्ते ऽथात्र दैव्यै धिये तस्मादाह दैवीं धियम् मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वश इति स यावत्कियच्च व्रतं व्रतयिष्यन्नप उपस्पृशेदेतेनैवोपस्पृशेत्॥
अथ व्रतं व्रतयति॥
ये देवा मनोजाता मनोयुजो दक्षक्रतवस्ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहेति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति॥
अथ व्रतं व्रतयित्वा नाभिमुपस्पृशते॥
श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधा इति देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवत्यनुत्सिक्तं वै देवानां हविरथैतद्व्रतप्रदो मिथ्य करोति व्रतमुपोत्सिञ्चन्व्रतम् प्रमीणाति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्याकृतम् भवति न व्रतम् प्रमीणाति तस्मादाह श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृध इति स यावत्कियच्च व्रतं व्रतयित्वा नाभिमुपस्पृशेदेतेनैवोपस्पृशेत्कस्तद्वेद यद्व्र२तप्रदो व्रतमुपोत्सिञ्चेत्॥
अथ यत्र मेक्ष्यन्भवति॥
तत्कृष्णविषाणया लोष्टं वा किञ्चिद्वोपहन्तीयं ते यज्ञिया तनूरितीयं वै पृथिवी देवो देवयजनी सा दीक्षितेन नाभिमिह्या तस्या एतदुद्गृह्यैव यज्ञियां तनूमथायज्ञियं शरीरमभिमेहत्यपो मुञ्चामि न प्रजामित्युभयं वा अत एत्यापश्च रेतश्च स एतदप एव मुञ्चति न प्रजामंहोमुचः स्वाहाकृता इत्यंहस इव ह्येता मुञ्चन्ति यदुदरे गुष्टितम् भवति तस्मादाहांहोमुच इति स्वाहाकृताम् पृथिवीमाविशतेत्याहुतयो भूत्वा शान्ताः पृथिवीमाविशतेत्येवैतदाह॥
अथ पुनर्लोष्टं न्यस्यति॥
पृथिव्या सम्भवेतीयं वै पृथिवी देवी देवयजनी सा दीक्षितेन नाभिमिह्या तस्या एतदुद्गृह्यैव यज्ञियां तनूमथायज्ञियं शरीरमभ्यमिक्षत्तामेवास्यामेतत्पुनर्यज्ञियां तनूं दधाति तस्मादाह पृथिव्या सम्भवेति॥
अथाग्नये परिदाय स्वपिति॥
देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवाः स्वपन्त्यनवरुद्धो वा एतस्यास्वप्नो भवत्यग्निर्वै देवानां व्रतपतिस्तस्मा एवैतत्परिदाय स्वपित्यग्ने त्वं सु जागृहि वयं सु मन्दिषीमहीत्यग्ने त्वं जागृहि वयं स्वप्स्याम इत्येवैतदाह रक्षा णो अप्रयुछन्निति गोपाय नो ऽप्रमत्त इत्येवैतदाह प्रबुधे नः पुनस्कृधीति यथेतः सुप्त्वा स्वस्ति प्रबुध्यामहा एवं नः कुर्वित्येवैतदाह॥
अथ यत्र सुप्त्वा॥
पुनर्नावद्रास्यन्भवति तद्वाचयति पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रम् म आगन्निति सर्वे ह वा एते स्वपतो ऽपक्रामन्ति प्राण एव न तैरेवैतत्सुप्त्वा पुनः सङ्गछते तस्मादाह पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रम् म आगन् वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यादिति तद्यदेवात्र स्वप्नेन वा येन वा मिथ्याकर्म तस्मान्नः सर्वस्मादग्निर्गोपायत्वित्येवैतदाह तस्मादाह वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यादिति॥
अथ यद्दीक्षितः॥
अव्रत्यं वा व्याहरति क्रुध्यति वा तन्मिथ्याकरोति व्रतम् प्रमीणात्यक्रोधो ह्येव दीक्षितस्याग्निर्वै देवानां व्रतपतिस्तमेवैतदुपधावति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वां यज्ञष्वीड्य इति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्याकृतम् भवति न व्रतम् प्रमीणाति तस्मादाह त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वं यज्ञष्वीड्य इति॥
अथ यद्दीक्षितायाभिहरन्ति॥
तस्मिन्वाचयति रास्वेयत्सोमा भूयो भरेति सोमो ह वा अस्मा एतद्युते यद्दीक्षितायाभिहरन्ति स यदाह रास्वेययत्सोमेति रास्व न इयत्सोमेत्येवैतदाहा भूयो भरेत्या नो भूयो हरेत्येवैतदाह देवो नः सविता वसोर्दाता वस्वदादिति तथो हास्मा एतत्सवितृप्रसूतमेव दानाय भवति॥
पुरास्तमयादाह॥
दीक्षित वाचं यछेति तामस्तमिते वाचं विसृजते पुरोदयादाह दीक्षित वाचं यछेति तामुदिते वाचं विसृजते सन्तत्या एवाहरेवैतद्रात्र्या सन्तनोत्यह्ना रात्रिम्॥
नैनमन्यत्र चरन्तमभ्यस्तमियात्॥
न स्वपन्तमभ्युदियात्स यदेनमन्यत्र चरन्तमभ्यस्तमियाद्रात्रेरेनं तदन्तरियाद्यत्स्वपन्तमभ्युदियादह्न एनं तदन्तरियान्नात्र प्रायश्चित्तिरस्ति प्रतिगुप्यमेवैतस्मात् न पुरावभृथादपो ऽभ्यवेयान्नैनमभिवर्षेदनवकॢप्तं ह तद्यत्पुरावभृथादपो ऽभ्यवेयाद्यद्वैनमभिवर्षेदथ परिह्वालं वाचं वदति न मानुषीम् प्रसृतां तद्यत्परिह्वालं वाचं वदति न मानुषीम् प्रसृताम्॥
यज्ञेन वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो॥
तद्वा ऋषीणामनुश्रुतमास॥
ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यो दीक्षते वाग्वै यज्ञस्तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत्पुनराप्याययति यत्परिह्वालं वाचं वदति न मानुषी प्रसृतां न हाप्याययेद्यत्प्रसृताम् मानुषीं वाचं वदेत्तस्मात्परिह्वालं वाचं वदति न मानुषीम् प्रसृताम्॥
स वै धीक्षते॥
वाचे हि धीक्षते यज्ञाय हि धीक्षते यज्ञो हि वाग्धीक्षितो ह वै नामैतद्यद्दीक्षित इति॥
आदित्यं चरुम् प्रायणीयं निर्वपति॥
देवा ह वा अस्यां यज्ञं तन्वाना इमां यज्ञादन्तरीयुः सा हैषामियं यज्ञम् मोहयां चकार कथं नु मयि यज्ञं तन्वाना मां यज्ञादन्तरीयुरिति तं ह यज्ञं न प्रजज्ञुः॥
ते होचुः॥
यन्न्वस्यामेव यज्ञमतंस्महि कथं नु नो ऽमहत्कथं न प्रजानीम इति॥
ते होचुः॥
अस्यामेव यज्ञं तन्वाना इमां यज्ञादन्तरगाम सा न इयमेव यज्ञममूमुहदिमामेवोपधावामेति॥
ते होचुः॥
यन्नु त्वय्येव यज्ञमतंस्महि कथं नु नो ऽमुहत्कथं न प्रजानीम इति॥
सा होवाच॥
मय्येव यज्ञं तन्वाना मां यज्ञादन्तरगात सा वो ऽहमेव यज्ञममूमुहम् भागं नु मे कल्पयताथ यज्ञं द्रक्ष्यथाथ प्रज्ञास्यथेति॥
तथेति देवा अब्रुवन्॥
तवैव प्रायणीयस्तवोदयनीय इति तस्मादेष आदित्य एव प्रायणीयो भवत्यादित्य उदयनीय इयं ह्येवादितिस्ततो यज्ञमपश्यंस्तमतन्वत॥
स यदादित्यं चरुम् प्रायणीयं निर्वपति॥
यज्ञस्यैव दृष्ट्यै यज्ञं दृष्ट्वा क्रीणानि तं तनवा इति तस्मादादित्यं चरुम् प्रायणीयं निर्वपति तद्वै निरुप्तं हविरासीदनिष्टा देवता॥
अथैभ्यः पथ्या स्वस्तिः प्रारोचत॥
तामयजन्वाग्वै पथ्या स्वस्तिर्वाग्यज्ञस्तद्यज्ञमपश्यंस्तमतन्वत॥
अथैभ्यो ऽग्निः सारोचत॥
तमयजन्त्स यदाग्नेयं यज्ञस्यासीत्तदपश्यन्यद्वै शुष्कं यज्ञस्य तदाग्नेयं तदपश्यंस्तदतन्वत॥
अथैभ्यः सोमः प्रारोचत॥
तमयजन्त्स यत्सौम्यं यज्ञस्यासीत्तदपश्यन्यद्वा आर्द्रं यज्ञस्य तत्सौम्यं तदपश्यंस्तदतन्वत॥
अथैभ्यः सविता प्रारोचत॥
तमयजन्पशवो वै सविता पशवो यज्ञस्तद्यज्ञमपश्यंस्तमतन्वताथ यस्यै देवतायै हविर्निरुप्तमासोत्तामयजन्॥
ता वा एताः॥
पञ्च देवता यजति यो वै स यज्ञो मुग्ध आसीत्पाङ्क्तो वै स आसीत्तमेताभिः पञ्चभिर्देवताभिः प्राजानन्॥
ऋतवो मुग्धा आसन्पञ्च॥
तानेताभिरेव पञ्चभिर्देवताभिह् प्राजानन्॥
दिशो मुग्धा आसन्पञ्च॥
ता एताभिरेव पञ्चभिर्देवताभिः प्राजानन्॥
उदीचीमेव दिशम्॥
पथ्यया स्वस्त्या प्राजानंस्तस्मादत्रोत्तराहि वाग्वदति कुरुपञ्चालत्रा वाग्घ्येषा निदानेनोदीचीं ह्येतया दिशम् प्राजानन्नुदीची ह्येतस्यै दिक्॥
प्राचीमेव दिशम्॥
अग्निना प्राजानंस्तस्मादग्निम् पश्चात्प्राञ्चमुद्धृत्योपासते प्राचीं ह्येतेन दिशम् प्राजानन्प्राची ह्येतस्य दिक्॥
दक्षिणामेव दिशम्॥
सोमेन प्राजानंस्तस्मात्सोमं क्रीतं दक्षिणा परिवहन्ति तस्मादाहुः पितृदेवत्यः सोम इति दक्षिणां ह्येतेन दिशम् प्राजानन्दक्षिणा ह्येतस्य दिक्॥
प्रतीचीमेव दिशम्॥
सवित्रा प्राजानन्नेष वै सविता य एष तपति तस्मादेष प्रत्यङ्ङेति प्रतीचीं ह्येतेन दिशम् प्राजानन्प्रतीची ह्येतस्य दिक्॥
ऊर्ध्वामेव दिशम्॥
अदित्या प्राजानन्नियं वा अदितिस्तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतय ऊर्ध्वां ह्येतया दिशम् प्राजानन्नूर्ध्वा ह्येतस्यै दिक्॥
शिरो वै यज्ञस्यातिथ्यम्॥
बाहू प्रायणीयोदयनीयावभितो वै शिरो बाहू भवतस्तस्मादभित आतिथ्यमेते हविषी भवतः प्रायणीयश्चोदयनीयश्च॥
तदाहुः॥
यदेव प्रायणीये क्रियेत तदुदयनीये क्रियेत यदेव प्रायणीयस्य बर्हिर्भवति तदुदयनीयस्य बर्हिर्भवतीति तदपोद्धृत्य निदधाति तां स्थालीं सक्षामकर्षाम् प्रमृज्य मेक्षणं निदधाति य एव प्रायणीयस्यर्त्विजो भवन्ति त उदयनीयस्यर्त्विजो भवन्ति तद्यदेतत्समानं यज्ञे क्रियते तेन बाहू सदृशौ तेन सरूपौ॥
तदु तथा न कुर्यात्॥
काममेवैतद्बर्हिरनुप्रहरेदेवम् मेक्षणं निर्णिज्य स्थालीं निदध्याद्य एव प्रायणीयस्यर्त्विजो भवन्ति त उदयनीयस्यर्त्विजो भवन्ति यद्यु ते विप्रेताः स्युरप्यन्य एव स्युः स यद्वै समानीर्देवता यजति समानानि हवींषि भवन्ति तेनैव बाहू सदृशौ तेन सरूपौ॥
स वै पञ्च प्रायणीये देवता यजति॥
पञ्चोदयनीये तस्मात्पञ्चेत्थादङ्गुलयः पञ्चेत्थात्तछम्य्वन्तम् भवति न पत्नीः संयाजयन्ति पूर्वार्धं वा अन्वात्मनो बाहू पूर्व्:र्धमेवैतद्यज्ञस्याभिसंस्करोति तस्माछम्य्वन्तम् भवति न पत्नीः संयाजयन्ति॥
दिवि वै सोम आसीत्॥
अथेह देवास्ते देवा अकामयन्ता नः सोमो गछेत्तेनागतेन यजेमहीति त एते माये असृजन्त सुपर्णीं च कद्रूं च तद्धिष्ण्यानाम् ब्राह्मणे व्याख्यायते सौपर्णीकाद्रवं यथा तदास॥
तेभ्यो गायत्री सोममछापतत्॥
तस्या आहरन्त्यै गन्धर्वो विश्वावसुः पर्यमुष्णात्ते देवा अविदुः प्रच्युतो वै परस्तात्सोमो ऽथ नो नागछति गन्धर्वा वै पर्यमोषिषुरिति॥
ते होचुः॥
योषित्कामा वै गन्धर्वा वाचमेवैभ्यः प्रहिणवाम सा नः सह सोमेनागमिष्यतीति तेभ्यो वाचम् प्राहिण्वन्त्सैनान्त्सह सोमेनागछत्॥
ते गन्धर्वा अन्वागत्याब्रुवन्॥
सोमो युष्माकं वागेवास्माकमिति तथेति देवा अब्रुवन्निहो चेदागान्मैनामभीषहेव नैष्ट विह्वयामहा इति तां व्यह्वयन्त॥
तस्यै गन्धर्वाः॥
वेदानेव प्रोचिर इति वै वयं विद्मेति वयं विद्मेति॥
अथ देवाः॥
वीणामेव सृष्ट्वा वादयन्तो निगायन्तो निषेदुरिति वै वयं गास्याम इति त्वा प्रमोदयिष्यामह इति सा देवानुपाववर्त सा वै सा तन्मोघमुपाववर्त या स्तुवद्भ्यः शंसद्भ्यो नृत्तं गीतमुपाववर्त तस्मादप्येतर्हि मोघसंहिता एव योषा एवं हि वागुपावर्तत तामु ह्यन्या अनु योषास्तस्माद्य एव नृत्यति यो गायति तस्मिन्नेवैता निमिश्लतमा इव॥
तद्वा एतदुभयं देवेष्वासीत्॥
सोमश्च वाक्च स यत्सोमं क्रीणात्यागत्या एवागतेन यजा इत्यनागतेन ह वै स सोमेन यजते यो ऽक्रीतेन यजते॥
अथ यद्ध्रुवायामाज्यम् परिशिष्टम् भवति॥
तज्जुह्वां चतुष्कृत्वो विगृह्णाति बर्हिषा हिरण्यम् प्रबध्यावधाय जुहोति कृत्स्नेन पयसा जुहवानीति समानजन्म वै पयश्चहिरण्यं चोभयं ह्यग्निरेतसम्॥
स हिरण्यमवदधाति॥
एषा ते षुक्र तनूरेतद्वर्च इति वर्चो वा एतद्यद्धिरण्यं तया सम्भवम् भ्राजं गछेति स यदाह तया सम्भवेति तया सम्पृच्यस्वेत्येवैतदाह भ्राजं गछेति सोमो वै भ्राट् सोमं गछेत्येवैतदाह॥
तां यथैवादो देवाः॥
प्राहिण्वन्त्सोममछैवमेवैनामेष एतत्प्रहिणोति सोममछ वाग्वै सोमक्रयणी निदानेन तामेतयाहुत्या प्रीणाति प्रीतया सोमं क्रीणानीति॥
स जुहोति॥
जूरसीत्येतद्ध वा अस्या एकं नाम यज्जूरसीति धृता मनसेति मनसा वा इयं वाग्धृता मनो वा इदम् पुरस्ताद्वाच इत्थं वद मैतद्वादीरित्यलग्लमिव ह वै वाग्वदेद्यन्मनो न स्यात्तस्मादाह धृता मनसेति॥
जुष्टा विष्णव इति॥
जुष्टा सोमायेत्येवैतदाह यमछेम इति तस्यास्ते सत्यसवसः प्रसव इति सत्यप्रसवा न एधि सोमं नो ऽछेहीत्येवैतदाह तन्वो यन्त्रमशीय स्वाहेति स ह वै तन्वो यन्त्रमश्नुते यो यज्ञस्योदृचं गछति यज्ञस्योदृचं गछानीत्येवैतदाह॥
अथ हिरण्यमपोद्धरति॥
तन्मनुष्येषु हिरण्यं करोति स यत्सहिरण्यं जुहुयात्परागु हैवैतन्मनुष्येभ्यो हिरण्यम् प्रवृञ्ज्यात्तन्न मनुष्येषु हिरण्यमभिगम्येत॥
सो ऽपोद्धरति॥
शुक्रमसि चन्द्रमस्यमृतमसि वैश्वदेवमसीति कृत्स्नेन पयसा हुत्वा यदेवैतत्तदाह शुक्रमसीति शुक्रं ह्येतच्चन्द्रमसीति चन्द्रं ह्येतदमृतमसीत्यमृतं ह्येतद्वैश्वदेवमसीति वैश्वदेवं ह्येतत्प्रमुच्य तृणम् बर्हिष्यपिसृजति सूत्रेण हिरण्यम् प्रबध्नीते॥
अथापरं चतुर्गृहीतमाज्यं गृहीत्वा॥
अन्वारभस्व यजमानेत्याहापोर्णुवन्ति शालायै द्वारे दक्षिणतः सोमक्रयण्युपतिष्ठते तत्प्रहितामेवैनामेतत्सतीम् प्राहैषीद्वाग्वै सोमक्रयणी निदानेन तामेतयाहुत्याप्रैषीत्प्रीतया सोमं क्रीणानीति॥
अथोपनिष्क्रम्याभिमन्त्रयते॥
चिदसि मनासीति चित्तं वा इदम् मनो वागनुवदति धीरसि दक्षिणेति धिया-धिया ह्येतया मनुष्या जुज्यूषन्त्यनूक्तेनेव प्रकामोद्येनेव गाथाभिरिव तस्मादाह धीरसीति दक्षिणेति दक्षिणा ह्येषा क्षत्रियासि यज्ञियासीति क्षत्रिया ह्येषा यज्ञिया ह्येषादितिरस्युभयतःशीर्ष्णीति स यदेनया समानं सद्विपर्यासं वदति यदपरं तत्पूर्वं करोति यत्पूर्वं तदपरं तेनोभयतःशीर्ष्णी तस्मादाहादितिरस्युभयतःशीर्ष्णीति॥
सा नः सुप्राची सुप्रतीच्येधीति॥
सुप्राची न एधि सोमं नो ऽछेहीत्येवैतदाह सुप्रतीची त एधि सोमेन नः सह पुनरेहीत्येवैतदाह तस्मादाह सा नः सुप्राची सुप्रतीच्येधीति॥
मित्रस्त्वा पदि बध्नीतामिति॥
वरुण्या वा एषा यद्रज्जुः सा यद्रज्ज्वाभिहिता स्याद्वरुण्या स्याद्यद्वनभिहिता स्यादयतेव स्यादेतद्वा अवरुण्यं यन्मैत्रं सा यथा रज्ज्वाभिहिता यतैवमस्यै तद्भवति यदाह मित्रस्त्वा पदि बध्नीतामिति॥
पूषाध्वनस्पात्विति॥
इयं वै पृथिवी पूषा यस्य वा इयमध्वन्गोप्त्री भवति तस्य न का चन ह्वला भवति तस्मादाह पूषाध्वनस्पात्विति॥
इन्द्रायाध्यक्षायेति॥
स्वध्यक्षासदित्येवैतदाह यदाहेन्द्रायाध्यक्षायेत्यनु माता मन्यतामनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्य इति सा यत्ते जन्म तेन नो ऽनुमता सोममछेहीत्येवैतदाह सा देवि देवमछेहीति देवी ह्येषा देवमछैति यद्वाक्सोमं तस्मादाह सा देवि देवमछेहीतीन्द्राय सोममितीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय सोममिति रुद्रस्त्वावर्तयत्वित्यप्रणाशायैतदाह रुद्रं हि नाति पशवः स्वस्ति सोमसखा पुनरेहीति स्वस्ति नः सोमेन सह पुनरेहीत्येवैतदाह॥
तां यथैवादो देवाः॥
प्राहिण्वन्त्सोममछ सैनान्त्सह सोमेनागछदेवमेवैनामेष एतत्प्रहिणोति सोममछ सैनं सह सोमेनागछति॥
तं यथैवादो देवाः॥
व्यह्वयन्त गन्धर्वैः सा देवानुपावर्ततैवमेवैनामेतद्यजमानो विह्वयते सा यजमानमुपावर्तते तामुदीचीमत्याकुर्वन्त्युदीची हि मनुष्याणां दिक्सो एव यजमानस्य तस्मादुदीचीमत्याकुर्वन्ति॥