०१

देवयजनं जोषयन्ते॥
स यदेव वर्षिष्ठं स्यात्तज्जोषयेरन्यदन्यद्भूमेराभिशयीतातो वै देवा दिवमुपोदक्रामन्देवान्वा एष उपोत्क्रामति यो दीक्षते स सदेवे देवयजने यजते स यद्धान्यद्भूमेरभिशयीतावरतर इव हेष्ठ्वा स्यात्तस्माद्यदेव वर्षिष्ठं स्यात्तज्जोषयेरन्॥
तद्वर्ष्म सत्समं स्यात्॥
समं सदविभ्रंशि स्यादविभ्रंशि सत्प्राक्प्रवणं स्यात्प्राची हि देवानां दिगथो उदक्प्रवणमुदीची हि मनुष्याणां दिग्दक्षिणतः प्रत्युछ्रितमिव स्यादेषा वै दिक् पितॄणां स यद्दक्षिणाप्रवणं स्यात्क्षिप्रे ह यजमानो ऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति तस्माद्दक्षिणतः प्रत्युछ्रितमिव स्यात्॥
न पुरस्ताद्देवयजनमात्रमतिरिच्येत॥
द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते कामं ह दक्षिणतः स्यादेवमुत्तरत एतद्ध त्वेव समृद्धं देवयजनं यस्य देवयजनमात्रम् पश्चात्परिशिष्यते क्षिप्रे हैवैनमुत्तरा देवयज्योपनमतीति नु देवयजनस्य॥
तदु होवाच याज्ञवल्क्यः॥
वार्ष्ण्याय देवयजनं जोषयितुमैम तत्सात्ययज्ञो ऽब्रवीत्सर्वा वा इयम् पृथिवी देवी देवयजनं यत्र वा अस्यै क्व च यजुषैव परिगृह्य याजयेदिति॥
ऋत्विजो हैव देवयजनम्॥
ये ब्राह्मणाः शुश्रुवांसो ऽनूचाना विद्वांसो याजयन्ति सैवाह्वलैतन्नेदिष्ठमामिव मन्यामह इति॥
तछालो वा विमितं वा प्राचीनवंशम् मिन्वन्ति॥
प्राची हि देवानां दिक् पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानुपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति॥
तस्मादु ह न प्रतीचीनशिराः शयीत॥
नेद्देवानभिप्रसार्य शया इति या दक्षिणा दिक् सा पितॄणां या प्रतीची सासर्पाणां यतो देवा उच्चक्रमुः सैषाहीना योदीची दिक् सा मनुष्याणां तस्मान्मानुष उदीचीनवंशामेव शालां वा विमितं वा मिन्वन्त्युदीची हि मनुष्याणां दिग्दीक्षितस्यैव प्राचीनवंशा नादीक्षितस्य॥
तां वा एताम् परिश्रयन्ति॥
नेदभिवर्षादिति न्वेव वर्षा देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति तिर इव वै देवा मनुष्येभ्यस्तिर इवैतद्यत्परिश्रितं तस्मात्परिश्रयन्ति॥
तन्न सर्व इवाभिप्रपद्येत ब्राह्मणो वैव राजन्यो वा वैश्यो वा ते हि यज्ञियाः॥
स वै न सर्वेणेव संवदेत॥
देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवा सर्वेणेव संवदन्ते ब्राह्मणेन वैव राजन्येन वा वैश्येन वा ते हि यज्ञियास्तस्माद्यद्येनं शूद्रेण संवादो विन्देदेतेषामेवैकम् ब्रूयादिममिति विचक्ष्वेममिति विचक्ष्वेत्येष उ तत्र दीक्षितस्योपचारः॥
अथारणी पाणौ कृत्वा॥
शालामध्यवस्यति स पूर्वार्ध्यं स्थूणाराजमभिपद्यैतद्यजुराहैदमगन्म देवयजनम् पृथिव्या यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैश्च देवैर्जुष्टम् भवति ये चेमे ब्राह्मणाः शुश्रुवांसो ऽनूचाना यदहास्य ते ऽक्षिभ्यामीक्षन्ते ब्राह्मणाः शुश्रुवांसस्तदहास्य तैर्जुष्टम् भवति॥
यद्वाह॥
यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैर्देवैर्जुष्टम् भवत्यृक्सामाभ्यां सन्तरन्तो यजुर्भिरित्यृक्सामाभ्यां वै यजुर्भिर्यज्ञस्योदृचं गछन्ति यज्ञस्योदृचं गछानीत्येवैतदाह रायस्पोषेण समिषा मदेमेति भूमा वै रायस्पोषः श्रीर्वै भूमाशिषमेवैतदाशास्ते समिषा मदेमेतीषम् मदतीति वै तमाहुर्यः श्रियमश्नुते यः परमतां गछति तस्मादाह समिषा मदेमेति॥
अपराह्णे दीक्षेत॥
पुरा केशश्मश्रोर्वपनाद्यत्कामयेत तदश्नीयाद्यद्वा सम्पद्येत व्रतं ह्येवास्यातो ऽशनम् भवति यद्यु नाशिशिषेदपि कामं नाश्नीयात्॥
अथोत्तरेण शालाम् परिश्रयन्ति॥
तदुदकुम्भमुपनिदधाति तन्नापित उपतिष्ठते तत्केशश्मश्रु च वपते नखानि च निकृन्तते ऽस्ति वै पुरुषस्यामेध्यं यत्रास्यापो नोपतिष्ठन्ते केशश्मश्रौ च वा अस्य नखेषु चापो नोपतिष्ठन्ते तद्यत्केशश्मश्रु च वपते नखानि च निकृन्तते मेध्यो भूत्वा दीक्षा इति॥
तद्धैके॥
सर्व एव वपन्ते सर्व एव मेध्या भूत्वा दीक्षिष्यामह इति तदु तथा न कुर्याद्यद्वै केशश्मश्रु च वपते नखानि च निकृन्तते तदेव मेध्यो भवति तस्मादु केशश्मश्रु चैव वपेत नखानि च निकृन्तेत॥
स वै नखान्येवाग्रे निकृन्तते॥
दक्षिणस्यैवाग्रे सव्यस्य वा अग्रे मानुषे ऽथैवं देवत्राङ्गुष्ठयोरेवाग्रे कनिष्ठिकयोर्वा अग्रे मानुषे ऽथैवं देवत्रा॥
स दक्षिणमेवाग्रे गोदानं वितारयति॥
सव्यं वा अग्रे मानुषे ऽथैवं देवत्रा॥
स दक्षिणमेवाग्रे गोदानमभ्युनत्ति॥
इमा आपः शमु मे सन्तु देवीरिति स यदाहेमा आपः शमु मे सन्तु देवीरिति वज्रो वा आपो वज्रो हि वा आपस्तस्माद्येनैता यन्ति निम्नं कुर्वन्ति यत्रोपतिष्ठन्ते निर्दहन्ति तत्तदेतमेवैतद्वज्रं शमयति तथो हैनमेष वज्रः शान्तो न हिनस्ति तस्मादाहेमा आपः शमु मे सन्तु देवीरिति॥
अथ दर्भतरुणकमन्तर्दधाति॥
ओषधे त्रायस्वेति वज्रो वै क्षुरस्तथो हैनमेष वज्रः क्षुरो न हिनस्त्यथ क्षुरेणाभिनिदधाति स्वधिते मैनं हिंसीरिति वज्रो वै क्षुरस्तथो हैनमेष वज्रः क्षुरो न हिनस्ति॥
प्रछिद्योदपात्रे प्रास्यति॥
तूष्णीमेवोत्तरं गोदानमभ्युनत्ति तूष्णीं दर्भतरुणकमन्तर्दधाति तूष्णीं क्षुरेणाभिनिधाय प्रछिद्योदपात्रे प्रास्यति॥
अथ नापिताय क्षुरम् प्रयछति॥
स केशश्मश्रु वपति स यदा केशश्मश्रु वपति॥
अथ स्नाति॥
अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वा आपो मेध्यो भूत्वा दीक्षा इति पवित्रं वा आपः पवित्रपूतो दीक्षा इति तस्माद्वै स्नाति॥
स स्नाति॥
आपो अस्मान्मातरः शुन्धयन्त्विति घृतेन नो घृतप्वः पुनन्त्व् इति तद् वै सपूतं यं घृतेनापुनंस्तस्मादाह घृतेन नो घृतप्वः पुनन्त्विति विश्वं हि रिप्रम् प्रवहन्ति देवीरिति यद्वै विश्वं सर्वं तद्यदमेध्यं रिप्रं तत्सर्वं ह्यस्मादमेध्यम् प्रवहन्ति तस्मादाह विश्वं हि रिप्रम् प्रवहन्ति देवीरिति॥
अथ प्राङिवोदङ्ङुत्क्रामति॥
उदिदाभ्यः शुचिरा पूत एमीत्युद्ध्याभ्यः शुचिः पूत एति॥
अथ वासः परिधत्ते॥
सर्वत्वायैव स्वामेवास्मिन्नेतत्त्वचं दधाति या ह वा इयं गोस्त्वक्पुरुषे हैषाग्र आस॥
ते देवा अब्रुवन्॥
गौर्वा इदं सर्वं बिभर्ति हन्त येयम् पुरुषे त्वग्गव्येतां दधाम तयैषा वर्षन्तं तया हिमं तया घृणिं तितिक्षिष्यत इति॥
ते ऽवछाय पुरुषम्॥
गव्येतां त्वचमदधुस्तयैषा वर्षन्तं तया हिमं तया घृणिं तितिक्षते॥
अवछितो हि वै पुरुषः॥
तस्मादस्य यत्रैव क्व च कुशो वा यद्वा विकृन्तति तत एव लोहितमुत्पतति तस्मिन्नेतां त्वचमदधुर्वास एव तस्मान्नान्यः पुरुषाद्वासो बिभर्त्येतां ह्यस्मिंस्त्वचमदधुस्तस्मादु सुवासा एव बुभूषेत्स्वया त्वचा समृध्या इति तस्मादप्यश्लीलं सुवाससं दिदृक्षन्ते स्वया हि त्वचा समृद्धो भवति॥
नो हान्ते गोर्नग्नः स्यात्॥
वेद ह गौरहमस्य त्वचम् बिभर्मीति सा बिभ्यती त्रसति त्वचम् म आदास्यत इति तस्मादु गावः सुवाससमुपैव निश्रयन्ते॥
तस्य वा एतस्य वाससः॥
अग्नेः पर्यासो भवति वायोरनुछादो नीविः पितॄणां सर्पाणाम् प्रघातो विश्वेषां देवानां तन्तव आरोका नक्षत्राणामेवं हि वा एतत्सर्वे देवा अन्वायत्तास्तस्माद्दीक्षितवसनम् भवति॥
तद्वा अहतं स्यात्॥
अयातयामतायै तद्वै निष्पेष्टवै ब्रूयाद्यदेवास्यात्रामेध्या कृणत्ति वा वयति वा तदस्य मेध्यमसदिति यद्यु अहतं स्यादद्भिरभ्युक्षेन्मेध्यमसदित्यथो यदिदं स्नातवस्यं निहितमपल्पूलनकृतम् भवति तेनो हापि दीक्षेत॥
तत्परिधत्ते॥
दीक्षातपसोस्तनूरसीत्यदीक्षितस्य वाअस्यैषाग्रे तनूर्भवत्यथात्र दीक्षातपसोस्तस्मादाह दीक्षातपसोस्तनूरसीति तां त्वा शिवां शग्माम् परिदध इति तां त्वा शिवां साध्वीम् परिदध इत्येवैतदाह भद्रं वर्णम् पुष्यन्निति पापवा एषो ऽग्रे वर्णम् पुष्यति यममुमदीक्षितो ऽथात्र भद्रं तस्मादाह भद्रं वर्णम् पुष्यन्निति॥
अथैनं शालाम् प्रपादयति॥
स धेन्वै चानडुहश्च नाश्नीयाद्धेन्वनडुहौ वा इदं सर्वम् बिभृतस्ते देवा अब्रुवन्धेन्वनडुहौ वा इदं सर्वम् बिभृतो हन्त यदन्येषां वयसां वीर्यं तद्धेन्वनडुहयोर्दधामेति स यदन्येषां वयसां वीर्यमासीत्तद्धेन्वनडुहयोरदधुस्तस्माद्धेनुश्चैवानड्वांश्च भूयिष्ठम् भुङ्क्तस्तद्धैतत्सर्वाश्यमिव यो धेन्वनडुहयोरश्नीयादन्तगतिरिव तं हाद्भुतमभिजनितोर्जायायै गर्भं निरबधीदिति पपमकदिति पापी कीर्तिस्तस्माद्धेन्वनडुहयोर्नाश्नीयात्तदु होवाच याज्ञवल्क्यो ऽश्नाम्येवाहमंसलं चेद्भवतीति॥
अपः प्रणीय॥
आग्नावैष्णवमेकादशकपालम् पुरोडाशं निर्वपत्यग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वत्यग्निर्वै यज्ञस्यावरार्ध्यो विष्णुः परार्ध्यस्तत्सर्वाश्चैवैतद्देवताः परिगृह्य सर्वं च यज्ञम् परिगृह्य दीक्षा इति तस्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति॥
तद्धैके॥
आदित्येभ्यश्चरुं निर्वपन्ति तदस्ति पर्युदितमिवाष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि देवां उप प्रैत्सप्तभिः परा मार्ताण्डमास्यदिति॥
अष्टौ ह वै पुत्रा अदितेः॥
यांस्त्वेतद्देवा आदित्या इत्याचक्षते सप्त हैव ते ऽविकृतं हाष्टमं जनयां चकार मार्ताण्डं सन्देघो हैवास यावानेवोर्ध्वस्तावांस्तिर्यङ् पुरुषसम्मित इत्यु हैक आहुः॥
त उ हैत ऊचुः॥
देवा आदित्या यदस्मानन्वजनिमा तदमुयेव भूद्धन्तेमं विकरवामेति तं विचक्रुर्यथायम् पुरुषो विकृतस्तस्य यानि मांसानि सङ्कृत्य सन्न्यासुस्ततो हस्ती समभवत्तस्मादाहुर्न हस्तिनम् प्रतिगृह्णीयात्पुरुषाजानो हि हस्तीति यमु ह तद्विचक्रुः स विवस्वानादित्यस्तस्येमाः प्रजाः॥
स होवाच॥
राध्नवान्मे स प्रजायां य एतमादित्येभ्यश्चरुं निर्वपादिति राध्नोति हैव य एतमादित्येभ्यश्चरुं निर्वपत्ययं त्वेवाग्नावैष्णवः प्रज्ञातः॥
तस्य सप्तदश सामिधेन्यो भवन्ति॥
उपांशु देवते यजति पञ्च प्रयाजा भवन्ति त्रयो ऽनुयाजाः संयाजयन्ति पत्नीः सर्वत्वायैव समिष्टयजुरेव न जुहोति नेदिदं दीक्षितवसनम् परिधाय पुरा यज्ञस्य संस्थाया अन्तं गछानीत्यान्तो हि यज्ञस्य समिष्टयजुः॥
अथाग्रेण शालां तिष्ठन्नभ्यङ्क्ते॥
अरुर्वै पुरुषो ऽवाछितो ऽनरुरेवैतद्भवति यदभ्यङ्क्ते गवि वै पुरुषस्य त्वग्गोर्वा एतन्नवनीतम् भवति स्वयैवैनमेतत्त्वचा समर्धयति तस्माद्वा अभ्यङ्क्ते॥
तद्वै नवनीतम् भवति॥
घृतं वै देवानाम् फाण्टम् मनुष्याणामथैतन्नाहैव घृतं नो फाण्टं स्यादेव घृतं स्यात्फाण्टमयातयामतायै तदेनमयातयाम्नैवायातयामानं करोति॥
तमभ्यनक्ति॥
शीर्षतो ऽग्र आ पादाभ्यामनुलोमम् महीनाम् पयो ऽसीति मह्य इति ह वा एतासामेकं नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनाम् पयो ऽसीति वर्चोदा असि वर्चो मे देहीति नात्र तिरोहितमिवास्ति॥
अथाक्ष्यावानक्ति॥
अरुर्वै पुरुषस्याक्षि प्रशान्ममेति ह स्माह याज्ञवल्क्यो दुरक्ष इव हास पूयो हैवास्य दूषीका ते एवैतदनरुष्करोति यदक्ष्यावानक्ति॥
यत्र वै देवाः॥
असुररक्षसानि जघ्नुस्तछुष्णो दानवः प्रत्यङ् पतित्वा मनुष्याणामक्षीणि प्रविवेश स एष कनीनकः कुमारक इव परिभासते तस्मा एवैतद्यज्ञमुपप्रयन्त्सर्वतो ऽश्मपुराम् परिदधात्यश्मा ह्याञ्जनम्॥
त्रैककुदम् भवति॥
यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्तद्यत्त्रैककुदम् भवति चक्षुष्येवैतच्चक्षुर्दधाति तस्मात्त्रैककुदम् भवति यदि त्रैककुदं न विन्देदप्यत्रैककुदमेव स्यात्समानी ह्येवाञ्जनस्य बन्धुता॥
शरेषीकयानक्ति॥
वज्रो वै शरो विरक्षस्तायै सतूला भवत्यमूलं वा इदमुभयतः परिच्छिन्नं रक्षो ऽन्तरिक्षमनुचरति यथायम् पुरुषो ऽमूल उभयतः परिच्छिन्नो ऽन्तरिक्षमनुचरति तद्यत्सतूला भवति विरक्षस्तायै॥
स दक्षिणमेवाग्र आनक्ति॥
सव्यं वा अग्रे मानुषे ऽथैवं देवत्रा॥
स आनक्ति॥
वृत्रस्यासि कनीनक इति वृत्रस्य ह्येष कनीनकश्चक्षुर्दा असि चक्षुर्मे देहीति नात्र तिरोहितमिवास्ति॥
स दक्षिणं सकृद्यजुषानक्ति॥
सकृत्तूष्णीमथोत्तरं सकृद्यजुषानक्ति द्विस्तूष्णीं तदुत्तरमेवैतदुत्तरावत्करोति॥
तद्यत्पञ्च कृत्व आनक्ति॥
संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तम् पञ्चभिराप्नोति तस्मात्पञ्च कृत्व आनक्ति॥
अथैनं दर्भपवित्रेण पावयति॥
अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वै दर्भा मेध्यो भूत्वा दीक्षा इति पवित्रं वै दर्भाः पवित्रपूतो दीक्षा इति तस्मादेनं दर्भपवित्रेण पावयति॥
तद्वा एकं स्यात्॥
एको ह्येवायम् पवते तदेतस्यैव रूपेण तस्मादेकं स्यात्॥
अथो अपि त्रीणि स्युः॥
एको ह्येवायम् पवते सो ऽयम् पुरुषे ऽन्तः प्रविष्टस्त्रेधाविहितः प्राण उदानो व्यान इति तदेतस्यैवानु मात्रां तस्मात्त्रीणि स्युः॥
अथो अपि सप्त स्युः॥
सप्त वा इमे शीर्षन्प्राणास्तस्मात्सप्त स्युस्त्रिःसप्तान्येव स्युरेकविंशतिरेषैव सम्पत्॥
तं सप्तभिः सप्तभिः पावयति॥
चित्पतिर्मा पुनात्विति प्रजापतिर्वै चित्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह वाक्पतिर्मा पुनात्विति प्रजापतिर्वै वाक्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह देवो मा सविता पुनात्विति तद्वै सुपूतं यं देवः सवितापुनात्तस्मादाह देवो मा सविता पुनात्वित्यछिद्रेण पवित्रेणेति यो वा अयम् पवत एषो ऽछिद्रम् पवित्रमेतेनैतदाह सूर्यस्य रश्मिभिरित्येते वै पवितारो यत्सूर्यस्य रश्मयस्तस्मादाह सूर्यस्य रश्मिभिरिति॥
तस्य ते पवित्रपत इति॥
पवित्रपतिर्हि भवति पवित्रपूतस्येति पवित्रपूतो हि भवति यत्कामः पुने तछकेयमिति यज्ञस्योदृचं गछानीत्येवैतदाह॥
अथाशिषामारम्भं वाचयति॥
आ वो देवास ईमहे वामम् प्रयत्यध्वरे आ वो देवास आशिषो यज्ञियासो हवामह इति तदस्मै स्वाः सतीरृत्विज आशिष आशासते॥
अथाङ्गुलीर्न्यचति॥
स्वाहा यज्ञम् मनस इति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा द्यावापृथिवीभ्यामिति द्वे स्वाहा वातादारभ इति मुष्टीकरोति न वै यज्ञः प्रत्यक्षमिवारभे यथायं दण्डो वा वासो वा परो ऽक्षं वै देवाः परो ऽक्षं यज्ञः॥
स यदाह॥
स्वाहा यज्ञम् मनस इति तन्मनस आरभते स्वाहोरोरन्तरिक्षादिति तदन्तरिक्षादारभते स्वाहा द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यामारभते ययोरिदं सर्वमधि स्वाहा वातादारभ इति वातो वै यज्ञस्तद्यज्ञम् प्रत्यक्षमारभते॥
अथ यत्स्वाहा स्वाहेति करोति॥
यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन्धत्ते ऽत्रो एव वाचं यछति वाग्वै यज्ञो यज्ञमेवैतदात्मन्धत्ते॥
अथैनं शालाम् प्रपादयति॥
स जघनेनाहवनीयमेत्यग्रेण गार्हपत्यं सो ऽस्य सञ्चरो भवत्या सुत्यायै तद्यदस्यैष सञ्चरो भवत्या सुत्याया अग्निर्वै योनिर्यज्ञस्य गर्भो दीक्षितो ऽन्तरेण वै योनिं गर्भः सञ्चरति स यत्स तत्रैजति त्वत्परि त्वदावर्तते तस्मादिमे गर्भा एजन्ति त्वत्परि त्वदावर्तन्ते तस्मादस्यैष सचरो भवत्या सुत्यायै॥
सर्वाणि ह वै दीक्षाया यजूंष्यौद्ग्रभणानि॥
उद्गृभ्णीते वा एषो ऽस्माल्लोकाद्देवलोकमभि यो दीक्षत एतैरेव तद्यजुर्भिरुद्गृभ्णीते तस्मादाहुः सर्वाणि दीक्षाया यजूंष्यौद्ग्रभणानीति तत एतान्यवान्तरामाचक्षत औद्ग्रभणानीत्याहुतयो ह्येता आहुतिर्हि यज्ञः परो ऽक्षं वै यजुर्जपत्यथैष प्रत्यक्षं यज्ञो यदाहुतिस्तदेतेन यज्ञेनोद्गृभ्णीते ऽस्माल्लोकाद्देवलोकमभि॥
ततो यानि त्रीणि स्रुवेण जुहोति॥
तान्याधीतयजूंषीत्याचक्षते सम्पद एव कामाय चतुर्थं हूयते ऽथ यत्पञ्चमं स्रुचा जुहोति तदेव प्रत्यक्षमौद्ग्रभणमनुष्टुभा हि तज्जुहोति वाग्घ्यनुष्टुब्वाग्घि यज्ञः॥
यज्ञेन वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम॥
तद्वा ऋषीणामनुश्रुतमास॥
ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यदेतानि जुहोति॥
तानि वै पञ्च जुहोति॥
संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तम् पञ्चभिराप्नोति तस्मात्पञ्च जुहोति॥
अथातो होमस्यैव॥
आकुत्यै प्रयुजे ऽग्नये स्वाहेत्या वा अग्रे कुवते यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते॥
मेधायै मनसे ऽग्नये स्वाहेति॥
मेधया वै मनसाभिगछति यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते॥
दीक्षायै तपसे ऽग्नये स्वाहेति॥
अन्वेवैतदुच्यते नेत्तु हूयते॥
सरस्वत्यै पूष्णे ऽग्नये स्वाहेति॥
वाग्वै सरस्वती वाग्यज्ञः पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवो हि यज्ञस्तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते॥
तदाहुः॥
अनद्धेवैता आहुतयो हूयन्ते ऽप्रतिष्ठिता अदेवकास्तत्र नेन्द्रो न सोमो नाग्निरिति॥
आकूत्यै प्रयुजे ऽग्नये स्वाहेति॥
नात एकं चनाग्निर्वा अद्धेवाग्निः प्रतिष्ठितः स यदग्नौ जुहोति तेनैवैता अद्धेव तेन प्रतिष्ठितास्तस्मादु सर्वास्वेवाग्नये स्वाहेति जुहोति तत एतान्याधीतयजूंषीत्याचक्षते॥
आकूत्यै प्रयुजे ऽग्नये स्वाहेति॥
आत्मना वा अग्र आकुवते यजेयेति तमात्मन एव प्रयुङ्क्ते यत्तनुते ते अस्यैते आत्मन्देवते आधीते भवत आकूतिश्च प्रयुक्च॥
मेधायै मनसे ऽग्नये स्वाहेति॥
मेधया वै मनसाभिगछति यजेयेति ते अस्यैते आत्मन्देवते आधीते भवतो मेधा च मनश्च॥
सरस्वत्यै पूष्णे ऽग्नये स्वाहेति॥
वाग्वै सरस्वती वाग्यज्ञः सास्यैषात्मन्देवताधीता भवति वाक्पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवो हि यज्ञस्ते ऽस्यैत आत्मन्पशव आधीता भवन्ति तद्यदस्यैता आत्मन्देवता आधीता भवन्ति तस्मादाधीतयजूंषि नाम॥
अथ चतुर्थी जुहोति॥
आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष बृहस्पतये हविषा विधेम स्वाहेत्येषा ह नेदीयो यज्ञस्यापां हि कीर्तयत्यापो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति लोकानां हि कीर्तयति बृहस्पतये हविषा विधेम स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्म यज्ञ एतेनो हैषा नेदीयो यज्ञस्य॥
अथ याम् पञ्चमीं स्रुचा जुहोति॥
सा हैव प्रत्यक्षं यज्ञो ऽनुष्टुभा हि तां जुहोति वाग्घ्यनुष्टुब्वाग्घि यज्ञः॥
अथ यद्ध्रुवायामाज्यम् परिशिष्टम् भवति॥
तज्जुह्वामानयति त्रिः स्रुवेणाज्यविलापन्या अधि जुह्वां गृह्णाति यत्तृतीयं गृह्णाति तत्स्रुवमभिपूरयति॥
स जुहोति॥
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहेति॥
सैषा देवताभिः पङ्क्तिर्भवति॥
विश्वो देवस्येति वैश्वदेवं नेतुरिति सावित्रम् मर्तो वुरीतेति मैत्रं द्युम्नं वृणीतेति बार्हस्पत्यं द्युम्नं हि बृहस्पतिः पुष्यस इति पौष्णम्॥
सैषा देवताभिः पङ्क्तिर्भवति॥
पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्यैतमेवैतयाप्नोति यद्देवताभिः पङ्क्तिर्भवति॥
तां वा अनुष्टुभा जुहोति॥
वाग्वा अनुष्टुब्वाग्यज्ञस्तद्यज्ञम् प्रत्यक्षमाप्नोति॥
तदाहुः॥
एतामेवैकां जुहुयाद्यस्मै कामायेतरा हूयन्त एतयैव तं काममाप्नोतीति तां वै यद्येकां जुहुयात्पूर्णां जुहुयात्सर्वं वै पूर्णं सर्वमेवैनयैतदाप्नोत्यथ यत्स्रुवमभिपूरयति स्रुचं तदभिपूरयति ताम् पूर्णां जुहोत्यन्वैवैतदुच्यते सर्वास्त्वेव हूयन्ते॥
तां वा अनुष्टुभा जुहोति॥
सैषानुष्टुप्सत्येकत्रिंशदक्षरा भवति दश पाण्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिंशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषः पुरुषो यज्ञः पुरुषसम्मितो यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैनयैतदाप्नोति यदनुष्टुभैकत्रिंशदक्षरया जुहोति॥