महाहविषा ह वै देवा वृत्रं जघ्नुः॥
तेनो एव व्यजयन्त येयमेषां विजितिस्तामथ यानेवैषां तस्मिन्त्सङ्ग्रामे ऽघ्नम्स्तान्पितृयज्ञेन समैरयन्त पितरो वै त आसंस्तस्मात्पितृयज्ञो नाम॥
तद्वसन्तो ग्रीष्मो वर्षाः॥
एते ते ये व्यजयन्त शरद्धेमन्तः शिशिरस्त उ ते यान्पुनः समैरयन्त॥
अथ यदेष एतेन यजते॥
तन्नाह न्वेवैतस्य तथा कं चन घ्नन्तीति देवा अकुर्वन्निति न्वेवैष एतत्करोति यमु चैवैभ्यो देवा भागमकल्पयंस्तमु चैवैभ्य एष एतद्भागं करोति यानु चैव देवाः समैरयन्त तानु चैवैतदवति स्वानु चैवैतत्पितॄञ्छ्रेयांस लोकमुपोन्नयति यदु चैवास्यात्रात्मनो ऽचरणेन हन्यते वा मीयते वा तदु चैवास्यैतेन पुनराप्यायते तस्माद्वा एष एतेन यजते॥
स पितृभ्यः सोमवद्भ्यः॥
षट्कपाल पुरोडाश निवपति सोमाय वा पितृमते षड्वा ऋतव ऋतवः पितरस्तस्मात्षट्कपालो भवति॥
अथ पितृभ्यो बर्हिषद्भ्यः॥
अन्वाहार्यपचने धानाः कुर्वन्ति ततो ऽर्धाः पिंषन्त्यर्धा इत्येव धाना अपिष्टा भवन्ति ता धानाः पितृभ्यो बर्हिषद्भ्यः॥
अथ पितृभ्यो ऽग्निष्वात्तेभ्यः॥
निवान्यायै दुग्धे सकृदुपमथित एकशलाकया मन्थो भवति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुपमथितो भवत्येतानि हवींषि भवन्ति॥
तद्ये सोमेनेजानाः॥
ते पितरः सोमवन्तो ऽथ ये दत्तेन पक्वेन लोकं जयन्ति ते पितरो बर्हिषदो ऽथ ये ततो नान्यतरच्चन यानग्निरेव दहन्त्स्वदयति ते पितरो ऽग्निष्वात्ता एत उ ये पितरः॥
स जघनेन गार्हपत्यम्॥
प्राचीनावीती भूत्वा दक्षिणासीन एतं षट्कपालम् पुरोडाशं गृह्णाति स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति सकृत्फलीकरोति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति॥
स दक्षिणैव दृषदुपले उपदधाति॥
दक्षिणार्धे गार्हपत्यस्य षट्पालान्युपदधाति तद्यदेतां दक्षिणां दिशं सचन्त एषा हि दिक् पितॄणां तस्मादेतां दक्षिणां दिशं सचन्ते॥
अथ दक्षिणेनान्वाहार्यपचनम्॥
चतुःस्रक्तिं वेदिं करोत्यवान्तरदिशो ऽनु स्रक्तीः करोति चतस्रो वा अवान्तरदिशो ऽवान्तरदिशो वै पितरस्तस्मादवान्तरदिशो ऽनु स्रक्तीः करोति॥
तन्मध्ये ऽग्निं समादधाति॥
पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानभ्युपावृत्तास्तस्मात्तेभ्यः प्राङ् तिष्ठञ्जुहोति सर्वतः पितरो ऽवान्तरदिशो वै पितरः सर्वत इव हीमा अवान्तरदिशस्तस्मान्मध्ये ऽग्निं समादधाति॥
स तत एव प्राक् स्तम्बयजुर्हरति॥
स्तम्बयजुर्हुत्वाथेत्येवाग्रे परिगृह्णात्यथेत्यथेति पूर्वेण परिग्रहेण परिगृह्य लिखति हरति यद्धार्यम् भवति स तथैवोत्तरेण परिग्रहेण परिगृह्णात्युत्तरेण परिग्रहेण परिगृह्य प्रतिमृज्याह प्रोक्षणीरासादयेत्यासादयन्ति प्रोक्षणीरिध्मम् बर्हिरुपसादयन्ति स्रुचः सम्मार्ष्ट्याज्येनोदैति स यज्ञोपवीती भूत्वाज्यानि गृह्णाति॥
तदाहुः॥
द्विरुपभृति गृह्णीयाद्द्वौ ह्यत्रानुयाजौ भवत इति तद्वष्टावेव कृत्व उपभृति गृह्णीयान्नेद्यज्ञस्य विधाया अयानीति तस्मादष्टावेव कृत्व उपभृति गृह्णीयादाज्यानि गृहीत्वा स पुनः प्राचीनावीती भूत्वा॥
प्रोक्षणीरध्वर्युरादत्ते॥
स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयछन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिं न प्रस्तरं गृह्णाति सकृदु ह्येव पराञ्चः पितरस्तस्मान्न प्रस्तरं गृह्णाति॥
अथ सन्नहनमनुविस्रंस्य॥
अपसलवि त्रिः परिस्तृणन्पर्येति सो ऽपसलवि त्रिः परिस्तीर्य यावत्प्रस्तरभाजनं तावत्परिशिनष्ट्यथ पुनः प्रसलवि त्रिः पर्येति यत्पुनः प्रसलवि त्रिः पर्येति तद्यानेवामूंस्त्रयान्पितॄनन्ववागात्तेभ्य एवैतत्पुनरपोदेतीमं स्वं लोकमभि तस्मात्पुनः प्रसलवि त्रिः पर्येति॥
स दक्षिणैव परिधीन्परिदधाति॥
दक्षिणा प्रस्तरं स्तृणाति नान्तर्दधाति विधृती सकृदु ह्येव पराञ्चः पितरस्तस्मान्नान्तर्दधाति विधृती॥
स तत्र जुहूमासादयति॥
अथ पूर्वामुपभृतमथ ध्रुवामथ पुरोडाशमथ धाना अथ मन्थमासाद्य हवींषि सम्मृशति॥
ते सर्व एव यज्ञोपवीतिनो भूत्वा॥
इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीत्॥
तेनोपांशु चरन्ति॥
तिरइव वै पितरस्तिर इवैतद्यदुपांशु तस्मादुपांशु चरन्ति॥
परिवृते चरन्ति॥
तिर इव वै पितरस्तिर इवैतद्यत्परिवृतं तस्मात्परिवृते चरन्ति॥
अथेध्ममभ्यादधदाह॥
अग्नये समिध्यमानायानुब्रूहीति स एकामेव होता सामिधेनीं त्रिरन्वाह सकृदु ह्येव पराञ्चः पितरस्तस्मादेकां होता सामिधेनीं त्रिरन्वाह॥
सो ऽन्वाह॥
उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि उशन्नुशत आवह पितॄन्हविषे अत्तव इत्यथाग्निमावह सोममावह पितॄन्त्सोमवत आवह पितॄन्बर्हिषद आवह पितॄनग्निष्वात्तानावह देवां३ आज्यपां३ आवहाग्निं होत्रायावह स्वम् महिमानमावहेत्यावाह्योपविशति॥
अथाश्राव्य न होतारम् प्रवृणीते॥
पितृयज्ञो वा अयं नेद्धोतारम् पितृषु दधानीति तस्मान्न होतारम् प्रवृणीते सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य प्रसौति प्रसूतो ऽध्वर्युः स्रुचावादाय प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह समिधो यजेति सो ऽपबर्हिषश्चतुरः प्रयाजान्यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषश्चतुरः प्रयाजान्यजत्यथाज्यभागाभ्यां चरन्त्याज्यभागाभ्यां चरित्वा॥
ते सर्व एव प्राचीनावीतिनो भूत्वा॥
एतैर्वै हविर्भिः प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पुरस्तात्परीतः पश्चादग्नीत्तदुताश्रावयन्त्यों३ स्वधेत्यस्तु स्वधेति प्रत्याश्रावणं स्वधा नम इति वषट्कारः॥
तदु होवाचासुरिः॥
आश्रावयेयुरेव प्रत्याश्रावयेयुर्वषट्कुर्युर्नेद्यज्ञस्य विधाया अयामेति॥
अथाह पितृभ्यः सोमवद्भ्यो ऽनुब्रूहीति॥
सोमाय वा पितृमते स द्वे पुरो ऽनुवाक्ये अन्वाहैकया वै देवान्प्रच्यावयन्ति द्वाभ्याम् पितॄन्त्सकृदु ह्येव पराञ्चः पितरस्तस्माद्द्वे पुरो ऽनुवाक्ये अन्वाह॥
स उपस्तृणीत आज्यम्॥
अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्त्सोमवतो यजेति वषट्कृते जुहोति॥
अथाह पितृभ्यो बर्हिषद्भ्यो ऽनुब्रूहीति॥
स उपस्तृणीत आज्यमथासां धानानामवद्यति स तेनैव सह मन्थस्य तेन सह पुरोडाशस्य तत्सकृदवदधात्यथोपरिष्टाद्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्बर्हिषदो यजेति वषट्कृते जुहोति॥
अथाह पितृभ्यो ऽग्निष्वात्तेभ्यो ऽनुब्रूहीति॥
स उपस्तृणीत आज्यमथास्य मन्थस्यावद्यति स तेनैव सह पुरोडाशस्य तेन सह धानानां तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄनग्निष्वात्तान्यजेति वषट्कृते जुहोति॥
अथाहाग्नये कव्यवाहनायानुब्रूहीति॥
तत्स्विष्टकृते हव्यवाहनो वै देवानां कव्यवाहनः पितॄणां तस्मादाहाग्नये कव्यवाहनायानुब्रूहीति॥
स उपस्तृणीत आज्यम्॥
अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याहाग्निं कव्यवाहनं यजेति वषट्कृते जुहोति॥
स यन्नातिक्रामति॥
इत एवोपोत्थायं जुहोति सकृदु ह्येव पराञ्चः पितरो ऽथ यत्सकृत्सर्वेषां समवद्यति सकृदु ह्येव पराञ्चः पितरो ऽथ यद्व्यतिषङ्गमवदानान्यवद्यत्यृतवो वै पितर ऋतूनेवैतद्व्यतिषजत्यृतून्त्सन्दधाति तस्माद्व्यतिषङ्गमवदानान्यवद्यति॥
तद्धैके॥
एतमेव होत्रे मन्थमादधति तं होतोपहूयावैव जिघ्रति तं ब्रह्मणे प्रयछति तम् ब्रह्मावैव जिघ्रति तमग्नीधे प्रयछति तमग्नीदवैव जिघ्रत्येतन्न्वेवैतत्कुर्वन्ति यथा त्वेवेतरस्य यज्ञस्येडाप्राशित्रं समवद्यन्त्येवमेवैतस्यापि समवद्येयुस्तामुपहूयावैव जिघ्रन्ति न प्राश्नन्ति प्राशितव्य त्वेव वयम् मन्यामह इति ह स्माहासुरिर्यस्य कस्य चाग्नौ जुह्वतीति॥
अथ यतरो दास्यन्भवति॥
यद्यध्वर्युर्वा यजमानो वा स उदपात्रमादायापसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिष्यते ऽभिषिञ्चेदेवं तत्॥
अथास्य पुरोडाशस्यावदाय॥
सव्ये पाणौ कुरुते धानानामवदाय सव्ये पाणौ कुरुते मन्थस्यावदाय सव्ये पाणौ कुरुते॥
स येमामवान्तरदिशमनु स्रक्तिः॥
तस्यां यजमानस्य पित्रे ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य पितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य प्रपितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां निमृष्टे ऽत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति यथाभागमश्नीतेत्येवैतदाह तद्यमेवम् पितृभ्यो ददाति तेनो स्वान्पितॄनेतस्माद्यज्ञान्नान्तरेति२।६।१।ते सर्व एव यज्ञोपवीतिनो भूत्वा॥
उदञ्च उपनिष्क्रम्याहवनीयमुपतिष्ठन्ते देवान्वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजते ऽथैतत्पितृयज्ञेनेवाचारिषुस्तदु देवेभ्यो निह्नुवते॥
ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते इन्द्रो ह्याहवनीयो ऽक्षन्नमीमदन्त ह्यव प्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरि सुसन्दृशं त्वा वयम् मघवन्वन्दिषीमहि प्र नूनम् पूर्णबन्धुर स्तुतो यासि वशां ऽअनु {??} योजा न्विन्द्र ते हरी इति॥
अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते॥
मनो न्वाह्वामहे नाराशंसेन स्तोमेन पितॄणां च मन्मभिः आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च सूर्यं दृशे पुनर्नः पितरो मनो ददातु दैव्यो जनः जीवम् व्रातं सचेमहीति पितृयज्ञेनेव वा एतदचारिषुस्तदु खलु पुनर्जीवानपिपद्यन्ते तस्मादाह जीवं व्रातं सचेमहीति॥
अथ यतरो ददाति॥
स पुनः प्राचीनावीती भूत्वाभिप्रपद्य जपत्यमीमदन्त पितरो यथाभागमावृषायिषतेति यथाभागमाशिषुरित्येवैतदाह॥
अथोदपात्रमादाय॥
पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषे ऽभिषिञ्चेदेवं तत्तद्यत्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति प्रसलवि न इदं कर्मानुसन्तिष्ठाता इति तस्मात्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति॥
अथ नीविमुद्वृह्य नमस्करोति॥
पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट् कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तदृतुष्वेवैतद्यज्ञम् प्रतिष्ठापयति तस्मात्षट् कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशत एषो एतस्याशीः कर्मणः॥
ते सर्व एव यज्ञोपवीतिनो भूत्वा॥
अनुयाजाभ्याम् प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीदुपविशति होता होतृषदने॥
अथाह ब्रह्मन्प्रस्थास्यामि॥
समिधमाधायाग्निमग्नीत्सम्मृद्ढीति स्रुचावादाय प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह देवान्यजेति सो ऽपबर्हिषौ द्वावनुयाजौ यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषौ द्वावनुयाजौ यजति॥
अथ सादयित्वा स्रुचौ व्यूहति॥
स्रुचौ व्युह्य परिधीन्त्समज्य परिधिमभिपद्याश्राव्याहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यते नाध्वर्युः प्रस्तरं समुल्लुम्पतीत्येवोपास्ते यदा होता सूक्तवाकमाह॥
अथाग्नीदाहानुप्रहरेति॥
स न किं चनानुप्रहरति तूष्णीमेवात्मानमुपस्पृशति॥
अथाह संवदस्वेति॥
अगानग्नीदगञ्छ्रावय श्रौषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्युपस्पृशत्येव परिधीन्नानुप्रहरत्यथैतद्बर्हिरनुसमस्यति परिधींश्च॥
तद्धैके॥
हविरुछिष्टमनुसमस्यन्ति तदु तथा न कुर्याद्धुतोछिष्टं वा एतन्नेद्धुतोछिष्टमग्नौ जुहवामेति तस्मादपो वैवाभ्यवहरेयुः प्राश्नीयुर्वा॥
महाहविषा ह वै देवा वृत्रं जघ्नुः॥
तेनो एव व्यजयन्त येयमेषां विजितिस्तामथ यानेवैषां तस्मिन्त्सङ्ग्राम इषव आर्छंस्तानेतैरेव शल्पान्निरहरन्त तान्व्यवृहन्त यत्त्र्यम्बकैरयजन्त॥
अथ यदेष एतैर्यजते॥
तन्नाह न्वेवैतस्य तथा कं चनेषुरृछतीति देवा अकुर्वन्निति त्वेवैष एतत्करोति याश्च त्वेवास्य प्रजा जाता याश्चाजातास्ता उभयी रुद्रियात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्ते तस्माद्वा एष एतैर्यजते॥
ते वै रौद्रा भवन्ति॥
रुद्रस्य हीषुस्तस्माद्रौद्रा भवन्त्येककपाला भवन्त्येकदेवत्या असन्निति तस्मादेककपाला भवन्ति॥
ते वै प्रतिपुरुषम्॥
यावन्तो गृह्याः स्युस्तावन्त एकेनातिरिक्ता भवन्ति तत्प्रतिपुरुषमेवैतदेकैकेन या अस्य प्रजा जातास्ता रुद्रियात्प्रमुञ्चत्येकेनातिरिक्ता भवन्ति तद्या एवास्य प्रजा अजातास्ता रुद्रियात्प्रमुञ्चति तस्मादेकेनातिरिक्ता भवन्ति॥
स जघनेन गार्हपत्यम्॥
यज्ञोपवीती भूत्वोदङ्ङासीन एतान्गृह्णाति स तत एवोपोत्थायोदङ्तिष्ठन्नवहन्त्युदीच्यौ दृषदुपले उपदधात्युत्तरार्धे गार्हपत्यस्य कपालान्युपदधाति तद्यदेव तामुत्तरां दिशं सचन्त एषा ह्येतस्य देवस्य दिक्तस्मादेतामुत्तरां दिशं सचन्ते॥
ते वा अक्ताः स्युः॥
अक्तं हि हविस्त उ वा अनक्ता एव स्युरभिमानुको ह रुद्रः पशून्त्स्याद्यदञ्ज्यात्तस्मादनक्ता एव स्युः॥
तान्त्सार्धम् पात्र्यां समुद्वास्य॥
अन्वाहार्यपचनादुल्मुकमादायोदङ् परेत्य जुहोत्येषा ह्येतस्य देवस्य दिक् पथि जुहोति पथा हि स देवश्चरति चतुष्पथे जुहोत्येतद्ध वा अस्य जान्धितम् प्रज्ञातमवसानं यच्चतुष्पथं तस्माच्चतुष्पथे जुहोति॥
पलाशस्य पलाशेन मध्यमेन जुहोति॥
ब्रह्म वै पलाशस्य पलाशम् ब्रह्मणैवैतज्जुहोति स सर्वेषामेवावद्यत्येकस्यैव नावद्यति य एषो ऽतिरिक्तो भवति॥
स जुहोति॥
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेत्यम्बिका ह वै नामास्य स्वसा तयास्यैष सह भागस्तद्यदस्यैष स्त्रिया सह भागस्तस्मात्त्र्यम्बका नाम तद्या अस्य प्रजा जातास्ता रुद्रियात्प्रमुञ्चति॥
अथ य एष एको ऽतिरिक्तो भवति॥
तमाखूत्कर उपकिरत्येष ते रुद्र भाग आखुस्ते पशुरिति तदस्मा आखुमेव पशूनामनुदिशति तेनो इतरान्पशून्न हिनस्ति तद्यदुपकिरति तिर इव वै गर्भास्तिर इवैतद्यदुपकीर्णं तस्माद्वा उपकिरति तद्या एवास्य प्रजा अजातास्ता रुद्रियात्प्रमुञ्चति॥
अथ पुनरेत्य जपन्ति॥
अव रुद्रमदीमह्यव देवं त्र्यम्बकम् यथा नो वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसाययात् भेषजमसि भेषजं गवे ऽश्वाय पुरुषाय भेषजं सुखम् मेषाय मेष्या इत्याशीरेवैषैतस्य कर्मणः॥
अथापसलवि त्रिः परियन्ति॥
सव्यानूरूनुपाघ्नानास्त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतादित्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशासते तदु ह्येव शमिव यो मृत्योर्मुच्यातै नामृतात्तस्मादाह मृत्योर्मुक्षीय मामृतादिति॥
तदु ह्यापि कुमायः परीत्युः॥
भगस्य भजामहा इति या ह वै सा रुद्रस्य स्वसाम्बिका नाम सा ह वै भगस्येष्टे तस्मादु हापि कुमार्य परीयुर्भगस्य भजामहा इति॥
तासामुतासाम् मन्त्रो ऽस्ति॥
त्र्यम्बकं यजामहे सुगन्धिम् पतिवेदनम् उर्वारुकमिव बन्धनादितो मुक्षीय मामुत इति सा यदित इत्याह ज्ञातिभ्यस्तदाह मामुत इति पतिभ्यस्तदाह पतयो ह्येव स्त्रियै प्रतिष्ठा तस्मादाह मामुत इति॥
अथ पुनः प्रसलवि त्रिः परियन्ति॥
दक्षिणानूरूनुपाघ्नाना एतेनैव मन्त्रेण तद्यत्पुनः प्रसलवि त्रिः परियन्ति प्रसलवि न इदं कर्मानुसन्तिष्ठाता इति तस्मात्पुनः प्रसलवि त्रिः परियन्ति॥
अथैतान्यजमानो ऽञ्जलौ समोप्य॥
ऊध्वानुदस्यति यथा गौर्नोदाप्नुयात्तदात्मभ्य एवैतछल्पान्निर्मिमते तान्विलिप्सन्त उपस्पृशन्ति भेषजमेवैतत्कुर्वते तस्माद्विलिप्सन्त उपस्पृशन्ति॥
तान्द्वयोर्मूतकयोरुपनह्य॥
वेणुयष्ट्यां वा कुपे वोभयत आबध्यादङ् परेत्य यदि वृक्षं वा स्थाणु वा वेणुं वा वल्मीकं वा विन्देत्तस्मिन्नासजत्येतत्ते रुद्रावसं तेन परो मूजवतो ऽतीहीत्यवसेन वा अध्वानं यन्ति तदेनं सावसमेवान्ववार्जति यत्र यत्रास्य चरणं तदन्वत्र ह वा अस्य परो मूजवद्भ्यश्चरणं तस्मादाह परो मूजवतो ऽतीहीत्यवततधन्वा पिनाकावस इत्यहिंसन्नः शिवो ऽतीहीत्य् एवैतदाह कृत्तिवासा इति निष्वापयत्येवैनमेतत्स्वपन्नु हि न कं चन हिनस्ति तस्मादाह कृत्तिवासा इति॥
अथ दक्षिणान्बाहुनन्वावर्तन्ते॥
ते प्रतीक्षम् पुनरायन्ति पुनरेत्याप उपस्पृशन्ति रुद्रियेणेव वा एतदचारिषुः शान्तिरापस्तदद्भिः शान्त्या शमयन्ते॥
अथ केशश्मश्रूप्त्वा॥
समारोह्याग्ना उदवसायेव ह्येतेन यजते न हि तदवकल्पते यदुत्तरवेदावग्निहोत्रं जुहुयात्तस्मादुदवस्यति गृहानित्वा निर्मथ्याग्नी पौर्णमासेन यजत उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति तस्मादुदवस्यति॥
अक्षय्यं ह वै सुकृतं चातुर्मास्ययाजिनो भवति॥
संवत्सरं हि जयति तेनास्याक्षय्यम् भवति तं वै त्रेधा विभज्य यजति त्रेधा विभज्य प्रजयति सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतम् भवत्यृतुरु हैवैतद्भूत्वा देवानप्येत्यक्षय्यमु वैदेवानामेतेनो हैवास्याक्षय्यं सुकृतम् भवत्येतन्नु तद्यस्माच्चातुर्मास्यैर्यजते॥
अथ यस्माछुनासीर्येण यजेते॥
या वै देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां तछुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरं सा या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयम् परिगृह्यात्मन् कुरुते तस्माछुनासीर्येण यजते॥
तस्यावृत्॥
नोपकिरन्त्युत्तरवेदिं न गृह्णन्ति पृषदाज्यं न मन्थन्त्यग्निम् पञ्च प्रयाजा भवन्ति त्रयो ऽनुयाजा एकं समिष्टयजुः॥
अथैतान्येव पञ्च हवींषि भवन्ति॥
एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदेतैर्वै देवा वृत्रमघ्नन्नेतैर्वेव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैर्या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयम् परिगृह्यात्मन् कुरुते तस्माद्वा एतानि पञ्च हवींषि भवन्ति॥
अथ शुनासीर्यो द्वादशकपालः पुरोडाशो भवति॥
स बन्धुः शुनासीर्यस्य यम् पूर्वमवोचाम॥
अथ वायव्यम् पयो भवति॥
पयो ह वै प्रजा जाता अभिसञ्जानते विजिग्यानम् मा प्रजाः श्रियै यशसे ऽन्नाद्यायाभिसञ्जानान्ता इति तस्मात्पयो भवति॥
तद्यद्वायव्यम् भवति॥
अयं वै वायुर्यो ऽयम् पवत एष वा इदं सर्वम् प्रप्याययति यदिदं किं च वर्षति वृष्टादोषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एतदद्भ्यो ऽधि पयः सम्भवत्येष हि वा एतज्जनयति तस्माद्वायव्यम् भवति॥
अथ सौर्य एककपालः पुरोडाशो भवति एष वै सूर्यो य एष तपत्येष वा इदं सर्वमभिगोपायति साधुना त्वदसाधुना त्वदेष इदं सर्वं विदधाति साधौ त्वदसाधौ त्वदेष मा विजिग्यानम् प्रीतः साधुना त्वदभिगोपायत्साधौ त्वद्विदधदिति तस्मात्सौर्य एककपालः पुरोडाशो भवति॥
तस्याश्वः श्वेतो दक्षिणा॥
तदेतस्य रूपं क्रियते य एष तपति यद्यश्वं श्वेतं न विन्देदपि गौरेव श्वेतः स्यात्तदेतस्य रूपं क्रियते य एष तपति॥
स यत्रैव साकमेधैर्यजते॥
तछुनासीर्येण यजेत यद्वै त्रिः संवत्सरस्य यजते तेनैव संवत्सरमाप्नोति तस्माद्यदैव कदा चैतेन यजेत॥
तद्धैके॥
रात्रीरापिपयिषन्ति स यदि रात्रीरापिपयिषेद्यददः पुरस्तात्फाल्गुन्यै पौर्णमास्या उद्दृष्टं तछुनासीर्येण यजेत॥
अथ दीक्षेत तं नानीजानम् पुनः फाल्गुनी पौर्णमास्यभिपर्येयात्पुनःप्रयागरूप इव ह स यदेनमनीजानम् पुनः फाल्गुनी पौर्णमास्यभिपर्येयात्तस्मादेनं नानीजानम् पुनः फाल्गुनी पौर्णमास्यभिपर्येयादिति नूत्सृजमानस्य॥
अथ पुनः प्रयुञ्जानस्य॥
पूर्वेद्युः फाल्गुन्यै पौर्णमास्यै शुनासीर्येण यजेताथ प्रातर्वैश्वदेवेनाथ पौर्णमासेनैतदु पुनः प्रयुञ्जानस्य॥
अथातः॥
परिवर्तनस्यैव सर्वतोमुखो वा असावादित्य एष वा इदं सर्वं निर्धयति यदिदं किं च शुष्यति तेनैष सर्वतोमुखस्तेनान्नादः॥
सर्वतोमुखो ऽयमग्निः॥
यतो ह्येव कुतश्चाग्नावभ्यादधति तत एव प्रदहति तेनैष सर्वतोमुखस्तेनान्नादः॥
अथायमन्यतोमुखः पुरुषः॥
स एतत्सर्वतोमुखो भवति यत्परिवर्तयते स एवमेवान्नादो भवति यथैतावेतद्य एवं विद्वान्परिवर्तयते तस्माद्वै परिवर्तयेत॥
तदु होवाचासुरिः॥
किं नु तत्र मुखस्य यदपि सर्वाण्येव लोमानि वपेत यद्वै त्रिः संवत्सरस्य यजते तेनैव सर्वतोमुखस्तेनान्नादस्तस्मान्नाद्रियेत परिवर्तयितुमिति॥
तद्यदाहुः॥
साकमेधैर्वै देवा वृत्रमघ्नंस्तैर्वेव व्यजयन्त येयमेषां विजितिस्तामिति सर्वैर्ह त्वेव देवाश्चातुर्मास्यैर्वृत्रमघ्नन्त्सर्वैर्वेव व्ययन्त येयमेषां विजितिस्ताम्॥
ते होचुः॥
केन राज्ञा केनानीकेन योत्स्याम इति स हाग्निरुवाच मया राज्ञा मयानीकेनेति ते ऽग्निना राज्ञाग्निनानीकेन चतुरो मासः प्राजयंस्तान्ब्रह्मणा च त्रय्या च विद्यया पर्यगृह्णन्॥
ते होचुः॥
केनैव राज्ञा केनानीकेन योत्स्याम इति स ह वरुण उवाच मया राज्ञा मयानीकेनेति ते वरुणेनैव राज्ञा वरुणेनानीकेनापरांश्चतुरो मासः प्राजयंस्तान्ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन्॥
ते होचुः॥
केनैव राज्ञा केनानीकेन योत्स्याम इति स हेन्द्र उवाच मया राज्ञा मयानीकेनेति त इन्द्रेणैव राज्ञेन्द्रेणानीकेनापरांश्चतुरो मासः प्राजयंस्तान्ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन्॥
स यद्वैश्वदेवेन यजते॥
अग्निनैवैतद्राज्ञाग्निनानीकेन चतुरो मासः प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरः सा या त्र्येनी शलली सा त्रय्यै विद्यायै रूपं लोहः क्षुरो ब्रह्मणो रूपमग्निर्हि ब्रह्म लोहित इव ह्यग्निस्तस्माल्लोहः क्षुरो भवति तेन परिवर्तयते तद्ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति॥
अथ यद्वरुणप्रघासैर्यजते॥
वरुणेनैवैतद्राज्ञा वरुणेनानीकेनापरांश्चतुरो मासः प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरस्तेन परिवर्तयते तद्ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति॥
अथ यत्साकमेधैर्यजते॥
इन्द्रेणैवैतद्राज्ञेन्द्रेणानीकेनापरांश्चतुरो मासः प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरस्तेन परिवर्तयते तद्ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति॥
स यद्वैश्वदेवेन यजते॥
अग्निरेव तर्हि भवत्यग्नेरेव सायुज्यं सलोकतां जयत्यथ यत्साकमेधैर्यजत इन्द्र एव तर्हि भवतीन्द्रस्यैव सायुज्यं सलोकतां जयति॥
स यस्मिन्हर्तावमुं लोकमेति॥
स एनमृतुः परस्मा ऋतवे प्रयछति पर उ परस्मा ऋतवे प्रयछति स परममेव स्थानम् परमां गतिं गछति चातुर्मास्ययाजी तदाहुर्न चातुर्मास्ययाजिनमनुविन्दन्ति परमं ह्येव खलु स स्थानम् परमाङ्गतिं गछतीति॥