प्रजापतिर्ह वा इदमग्र एक एवास॥
स ऐक्षत कथं नु प्रजायेयेति सो ऽश्राम्यत्स तपो ऽतप्यत स प्रजा असृजत ता अस्य प्रजाः सृष्टाः पराबभूवुस्तानीमानि वयांसि पुरुषो वै प्रजापतेर्नेदिष्ठं द्विपाद्वा अयम् पुरुषस्तस्माद्द्विपादो वयांसि॥
स ऐक्षत प्रजापतिः॥
यथा न्वेव पुरैको ऽभूवमेवमु न्वेवाप्येतर्ह्येक एवास्मीति स द्वितीयाः ससृजे ता अस्य परैव बभूवुस्तदिदं क्षुद्रं सरीसृपं यदन्यत्सर्पेभ्यस्तृतीयाः ससृज इत्याहुस्ता अस्य परैव बभूवुस्त इमे सर्पा एता ह न्वेव द्वयीर्याज्ञवल्क्य उवाच त्रयीरु तु पुनरृचा॥
सो ऽर्चञ्छ्राम्यन्प्रजापतिरीक्षां चक्रे॥
कथं नु मे प्रजाः सृष्टाः पराभवन्तीति स हैतदेव ददर्शानशनतया वै मे प्रजाः पराभवन्तीति स आत्मन एवाग्रे स्तनयोः पय आप्याययां चक्रे स प्रजा असृजत ता अस्य प्रजाः सृष्टा स्तनावेवाभिपद्य तास्ततः सम्बभूवुस्ता इमा अपराभूतः॥
तस्मादेतदृषिणाभ्यनूक्तम्॥
प्रजा ह तिस्रो अत्यायमीयुरिति तद्याः पराभूतास्ता एवैतदभ्यनूक्तं न्यन्या अर्कमभितो विविश्र इत्यग्निर्वा अर्कस्तद्या इमाः प्रजा अपराभूतास्ता अग्निमभितो निविष्टास्ता एवैतदभ्यनूक्तम्॥
महद्ध तस्थौ भुवनेष्वन्तरिति॥
प्रजापतिमेवैतदभ्यनूक्तम् पवमानो हरित आविवेशेति दिशो वै हरितस्ता अयं वायुः पवमान आविष्टस्ता एवैषर्गभ्यनूक्ता ता इमाह् प्रजास्तथैव प्रजायन्ते यथैव प्रजापतिः प्रजा असृजतेदं हि यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनामथैव यज्जायते तज्जायते तास्तत स्तनावेवाभिपद्य सम्भवन्ति॥
तद्वै पय एवान्नम्॥
एतद्ध्यग्रे प्रजापतिरन्नमजनयत तद्वा अन्नमेव प्रजा अन्नाद्धि सम्भवन्तीदं हि यासां पयोभवति स्तनावेवाभिपद्य तास्ततः सम्भवन्त्यथ यासाम् पयो न भवति जातमेव ता अथादयन्ति तदु ता अन्नादेव सम्भवन्ति तस्माद्वन्नमेव प्रजाः॥
स यः प्रजाकामः॥
एतेन हविषा यजत आत्मानमेवैतद्यज्ञं विधत्ते प्रजापतिम् भूतम्॥
स वा आग्नेयो ऽष्टाकपालः पुरोडाशो भवति॥
अग्निर्वै देवतानाम् मुखम् प्रजनयिता स प्रजापतिस्तस्मादाग्नेयो भवति॥
अथ सौम्यश्चरुर्भवति॥
रेतो वै सोमस्तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति तत्पुरस्तान्मिथुनम् प्रजननम्॥
अथ सावित्रः॥
द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम् प्रसविता प्रजापतिर्मध्यतः प्रजनयिता तस्मात्सावित्रो भवति॥
अथ सारस्वतश्चरुर्भवति॥
पौष्णश्चरुर्योषा वै सरस्वती वृषा पूषा तत्पुनर्मिथुनम् प्रजननमेतस्माद्वा उभयतो मिथुनात्प्रजननात्प्रजापतिः प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव मिथुनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा एतानि पञ्च हवींषि भवन्ति॥
अथातः पयस्याया एवायतनम्॥
मारुतस्तु सप्तकपालो विशो वै मरुतो देवविशस्ता हेदमनिषेद्ध्रा इव चेरुस्ताः प्रजापतिं यजमानमुपेत्योचुर्वि वै ते मथिष्यामह इमाः प्रजा या एतेन हविषा स्रक्ष्यस इति॥
स ऐक्षत प्रजापतिः॥
परा मे पूर्वाः प्रजा अभूवन्निमा उ चेदिमे विमथ्नते न ततः किं चन परिशेक्ष्यत इति तेभ्य एतम् भागमकल्पयदेतम् मारुतं सप्तकपालम् पुरोडाशं स एष मारुतः सप्तकपालस्तद्यत्सप्तकपालो भवति सप्त सप्त हि मारुतो गणस्तस्मान्मारुतः सप्तकपालः पुरोडाशो भवति॥
तं वै स्वतवोभ्य इति कुर्यात्॥
स्वयं हि त एतम् भागमकुर्वतोतो स्वतवोभ्यो याज्यानुवाक्ये न विन्दन्ति स उ खलु मारुत एव स्यात्स वा एष प्रजाभ्य एवाहिंसायै क्रियते तस्मान्मारुतः॥
अथातः पयस्यैव॥
पयसो वै प्रजाः सम्भवन्ति पयसः सम्भूतास्तद्यत एव सम्भूता यतः सम्भवन्ति तदेवाभ्य एतत्करोति तद्याः पूर्वैर्हविर्भिः प्रजाः सृजते ता एतस्मात्पयस एतस्यै पयस्यायै सम्भवन्ति॥
तस्याम् मिथुनमस्ति॥
योषा पयस्या रेतो वाजिनं तस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत तद्यदेतस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत तस्माद्वैश्वदेवी भवति॥
अथ द्यावापृथिव्य एककपालः पुरोडाशो भवति॥
एतैर्वै हविर्भिः प्रजापतिः प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्याम् पर्यगृह्णात्ता इमा द्यावापृथिवीभ्याम् परिगृहीतास्तथो एवैष एतद्य एतैर्हविर्भिः प्रजाः सृजते ता द्यावापृथिवीभ्याम् परिगृह्णाति तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति॥
अथात आवृदेव॥
नोपकिरन्त्युत्तरवेदिं विसृष्टमसत्सर्वमसद्वैश्वदेवमसदिति त्रेधा बर्हिः सन्नद्धम् भवति तत्पुनरेकधैतद्धि प्रजननस्य रूपम् प्रजननमु हीदम् पिता माता यज्जायते तत्तृतीयं तस्मात्त्रेधा सत्पुनरेकधा प्रस्व उपसन्नद्धा भवन्ति तम् प्रस्तरं गृह्णाति प्रजननमु हीदम् प्रजननमु हि प्रस्वस्तस्मात्प्रसूः प्रस्तरं गृह्णाति॥
आसाद्य हवींष्यग्निम् मन्थन्ति॥
अग्निं ह वै जायमानमनु प्रजापतेः प्रजा जज्ञिरे तथो एवैतस्याग्निमेव जायमानमनु प्रजा जायन्ते तस्मादासाद्य हवींष्यग्निम् मन्थन्ति॥
नवप्रयाजम् भवति॥
नवानुयाजं दशाक्षरा वै विराडथैतामुभयतो न्यूनां विराजं करोति प्रजननायैतस्माद्वा उभयतो न्यूनात्प्रजननात्प्रजापतिः प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव न्यूनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्मान्नवप्रयाजम् भवति नवानुयाजम्॥
त्रीणि समिष्टयजूंषि भवन्ति॥
ज्याय इव हीदं हविर्यज्ञाद्यत्र नवप्रयाजं नवानुयाजमथो अप्येकमेव स्याद्धविर्यज्ञो हि तस्य प्रथमजो गौर्दक्षिणा॥
एतेन वै प्रजापतिः यज्ञेनेष्ट्वा॥
येयम् प्रजापतेः प्रजापतिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिम् प्रजायत एतां श्रियं गछति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत॥
वैश्वदेवेन वै प्रजापतिः॥
प्रजाः ससृजे ता अस्य प्रजाः सृष्टा वरुणस्य यवाञ्जक्षुर्वरुण्यो ह वा अग्रे यवस्तद्यन्न्वेव वरुणस्य यवान्प्रादस्तस्माद्वरुणप्रघासा नाम॥
ता वरुणो जग्राह॥
ता वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यष्च शिश्यिरे च निषेदुश्च प्राणोदानौ हैवाभ्यो नापचक्रमतुरथान्याः सर्वा देवता अपचक्रमुस्तयोर्हैवास्य हेतोः प्रजा न पराबभूवुः॥
ता एतेन हविषा प्रजापतिरभिषज्यत्॥
तद्याश्चैवास्य प्रजा जाता आसन्याश्चाजातास्ता उभयीर्वरुणपाशात्प्रामुञ्चत्ता अस्यानमीवा अकिल्विषाः प्रजाः प्राजायत॥
अथ यदेष एतैश्चतुर्थे मासि यजते॥
तन्नाह न्वेवैतस्य तथा प्रजा वरुणो गृह्णातीति देवा अकुर्वन्निति न्वेवैष एतत्करोति याश्च न्वेवास्य प्रजा जाता याश्चाजातास्ता उभयीर्वरुणपाशात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायते तस्माद्वा एष एतैश्चतुर्थे मासि यजते॥
तद्वै द्वे वेदी द्वावग्नी भवतः॥
तद्यद्द्वे वेदी द्वावग्नी भवतस्तदुभयत एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्माद्द्वे वेदी द्वावग्नी भवतः॥
स उत्तरस्यामेव वेदौ॥
उत्तरवेदिमुपकिरति न दक्षिणस्यां क्षत्र वै वरुणो विशो मरुतः क्षत्रमेवैतद्विश उत्तरे करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुत्तरस्यामेव वेदा उत्तरवेदिमुपकिरति न दक्षिणस्याम्॥
अथैतान्येव पञ्च हवींषि भवन्ति॥
एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदितश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा एतानि पञ्च हवींषि भवन्ति॥
अथैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति॥
प्राणोदानौ वा इन्द्राग्नी तद्यथा पुण्यं चक्रुषे पुण्यं कुर्यादेवं तत्तयोर्हैवास्य हेतोः प्रजा न पराबभूवुस्तत्प्राणोदानाभ्यामेवैतत्प्रजा भिषज्यति प्राणोदानौ प्रजासु दधाति तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति॥
उभयत्र पयस्ये भवतः॥
पयसो वै प्रजाः सम्भवन्ति पयसः सम्भूतास्तद्यत एव सम्भूता यतः सम्भवन्ति तत एवैतदुभयतो वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्मादुभयत्र पयस्ये भवतः॥
वारुण्युत्तरा भवति॥
वरुणो ह वा अस्य प्रजा अगृह्णात्तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति मारुती दक्षिणाजामितायै न्वेव मारुती भवति जामि ह कुर्याद्यदुभे वारुण्यौ स्यातामतो ह वा अस्य दक्षिणतो मरुतः प्रजा अजिघांसंस्तानेतेन भागेनाशमयत्तस्मान्मारुती दक्षिणा॥
तयोरुभयोरेव करीराण्यावपति॥
कं वै प्रजापतिः प्रजाभ्यः करीरैरकुरुत कम्वेवैष एतत्प्रजाभ्यः कुरुते॥
तयोरुभयोरेव शमीपलाशान्यावपति॥
शं वै प्रजापतिः प्रजाभ्यः शमीपलाशैरकुरुत शम्वेवैष एतत्प्रजाभ्यः कुरुते॥
अथ काय एककपालः पुरोडाशो भवति॥
कं वै प्रजापतिः प्रजाभ्यः कायेनैककपालेन पुरोडाशेनाकुरुत कम्वेवैष एतत्प्रजाभ्यः कायेनैककपालेन पुरोडाशेन कुरुते तस्मात्काय एककपालः पुरोडाशो भवति॥
अथ पूर्वेद्युः॥
अन्वाहार्यपचने ऽतुषानिव यवान् कृत्वा तानीषदिवोपतप्य तेषां करम्भपात्राणि कुर्वन्ति यावन्तो गृह्याः स्मुस्तावन्त्येकेनातिरिक्तानि॥
तत्रापि मेषं च मेषीं च कुर्वन्ति॥
तयोर्मेषे च मेष्यां च यद्यनैडकीरूर्णी विन्देत्ताः प्रणिज्य निश्लेषयेद्यद्यु अनैडकीर्न विन्देदथो अपि कुशीर्णा एव स्युः॥
तद्यन्मेषश्च मेषी च भवतः॥
एष वै प्रत्यक्षं वरुणस्य पशुर्यन्मेषस्तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति यवमयौ भवतो यवान्हि जक्षुषीर्वरुणो ऽगृह्णान्मिथुनौ भवतो मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति॥
स उत्तरस्यामेव पयस्यायाम् मेषीमवदधाति॥
दक्षिणस्याम् मेषमेवमिव हि मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेते॥
स सर्वाण्येव हवींष्यध्वर्युः॥
उत्तरस्यां वेदावासादयत्यथैतामेव पयस्याम् प्रतिप्रस्थाता दक्षिणस्यां वेदावासादयति॥
आसाद्य हवींष्यग्निम् मन्थति॥
अग्निम् मन्थित्वानुप्रहृत्याभिजुहोत्यथाध्वर्युरेवाहाग्नये समिध्यमानायानुब्रूहीति ता उभावेवेध्मावभ्याधत्त उभौ समिधौ परिशिंष्ट उभौ पूर्वावाघारावाघारयतो ऽथाध्वर्युरेवाहाग्निमग्नीत्सम्मृड्ढीत्यसम्मृष्टमेव भवति सम्प्रेषितम्॥
अथ प्रतिप्रस्थाता प्रतिपरैति॥
स पत्नीमुदानेष्यन्पृछति केन चरसीति वरुण्यं वा एतत्स्त्री करोति यदन्यस्य सत्यन्येन चरत्यथो नेन्मे ऽन्तःशल्पा जुहवदिति तस्मात्पृछति निरुक्तं वा एनः कनीयो भवति सत्यं हि भवति तस्माद्वेव पृछति सा यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहितं स्यात्॥
तां वाचयति॥
प्रघासिनो हवामहे मरुतश्च रिशादसः करम्भेण सजोषस इति यथा पुरो ऽनुवाक्यैवमेषैतयैवैनानेतेभ्यः पात्रेभ्यो ह्वयति॥
तानि वै प्रतिपुरुषम्॥
यावन्तो गृह्याः स्युतावन्त्येकेनातिरिक्तानि भवन्ति तत्प्रतिपुरुषमेवैतदेकैकेन या अस्य प्रजा जातास्ता वरुणपाशात्प्रमुञ्चत्येकेनातिरिक्तानि भवन्ति तद्या एवास्य प्रजा अजातास्ता वरुणपाशात्प्रमुञ्चति तस्मादेकेनातिरिक्तानि भवन्ति॥
पात्राणि भवन्ति पात्रेषु ह्यशनमश्यते यवमयानि भवन्ति यवान्हि जक्षुषीर्वरुणो ऽगृह्णाछूर्पेण जुहोति शूर्पेण ह्यशनं क्रियते पत्नी जुहोति मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति॥
पुरा यज्ञात्पुराहुतिभ्यो जुहोति॥
अहुतादो वै विशो विशो वै मरुतो यत्र वै प्रजापतेः प्रजा वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यश्च शिश्यिरे च निषेदुश्च तद्धासाम् मरुतः पाप्मानं विमेथिरे तथो एवैतस्य प्रजानाम् मरुतः पाप्मानं विमथ्नते तस्मात्पुरा यज्ञात्पुराहुतिभ्यो जुहोति॥
स वै दक्षिणे ऽग्नौ जुहोति॥
यद्ग्रामे यदरण्य इति ग्रामे वा ह्यरण्ये वैनः क्रियते यत्सभायां यदिन्द्रिय इति यत्सभायामिति यन्मानुष इति तदाह यदिन्द्रिय इति यद्देवत्रेति तदाह यदेनश्चकृमा वयमिदं तदवयजामहे स्वाहेति यत्किं च वयमेनश्चकृमेदं वयं तस्मात्सर्वस्मात्प्रमुच्यामह इत्येवैतदाह॥
अथैन्द्रीम् मरुत्वतीं जपति॥
यत्र वै प्रजापतेः प्रजानाम् मरुतः पाप्मानं विमेथिरे तद्धेक्षां चक्र इमे ह मे प्रजा न विमथ्नीरन्निति॥
स एतामैन्द्रीम् मरुत्वतीमजपत्॥
क्षत्रं वा इन्द्रो विशो मरुतः क्षत्रं वै विशो निषेद्धा निषिद्धा असन्निति तस्मादैन्द्री॥
मो षू णः॥
इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः महश्चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीरिति॥
अथैनां वाचयति॥
अक्रन् कर्म कर्मकृत इत्यक्रन्हि कर्म कर्मकृतः सह वाचा मयोभुवेति सह हि वाचाक्रन्देवेभ्यः कर्म कृत्वेति देवेभ्यो हि कर्म कृत्वास्तम् प्रेत सचाभुव इत्यन्यतो ह्योढया सह भवन्ति तस्मादाह सचाभुव इत्यस्तम् प्रेतेति जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञम् प्रासीषदद्गृहा वा अस्तं गृहाः प्रतिष्ठा तद्गृहेष्वेवैनामेतत्प्रतिष्ठायाम् प्रतिष्ठापयति॥
प्रतिपराणीयोदैति प्रतिप्रस्थाता॥
सम्मृजन्त्यग्निं सम्मृष्टे ऽग्नौ ता उभावेवोत्तरावाघारावाघारयतो ऽथाध्वर्युरेवाश्राव्य होतारम् प्रवृणीते प्रवृतो होतोत्तरस्यै वेदेर्होतृषदन उपविशत्युपविश्य प्रसौति ता उभावेव प्रसूतौ स्रुच आदायातिक्रामतो ऽतिक्रम्याश्राव्याध्वर्युरेवाह समिधो यजेति यज यजेति चतुर्थे-चतुर्थे प्रयाजे समानयमानौ नवभिः प्रयाजैश्चरतः॥
अथाध्वर्युरेवाहाग्नये ऽनुब्रूहीति॥
आग्नेयमाज्यभागं ता उभावेव चतुराज्यस्यावदायातिक्रामतो ऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं यजेति ता उभावेव वषट्कृते जुहुतः॥
अथाध्वर्युरेवाह सोमायानुब्रूहीति॥
सौम्यमाज्यभागं ता उभावेव चतुराज्यस्यावदायातिक्रामतो ऽतिक्रम्याश्राव्याध्वर्युरेवाह सोमं यजेति ता उभावेव वषट्कृते जुहुतः॥
तद्यत्किं च वाचा कर्तव्यम्॥
अध्वर्युरेव तत्करोति न प्रतिप्रस्थाता तद्यदध्वर्युरेवाश्रावयतीहैव यत्र वषट्क्रियते॥
कृतानुकर एव प्रतिप्रस्थाता॥
क्षत्रं वै वरुणो विशो मरुतस्तत्क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्याद्यदपि प्रतिप्रस्थाताश्रावयेत्तस्मान्न प्रतिप्रस्थाताश्रावयति॥
प्राणावेव प्रतिप्रस्थाता॥
स्रुचौ कृत्वोपास्ते ऽथाध्वर्युरेवैतैर्हविर्भिः प्रचरत्याग्नेयेनाष्टाकपालेन पुरोडाशेन सौम्येन चरुणा सावित्रेण द्वादशकपालेन वाष्टाकपालेन वा पुरोडाशेन सारस्वतेन चरुणा पौष्णेन चरुणैन्द्राग्नेन द्वादशकपालेन पुरोडाशेन॥
अथैताभ्याम् पयस्याभ्याम् प्रचरिष्यन्तौ विपरिहरतः॥
स यो मेषो भवति मारुत्यां तं वारुण्यामवदधाति या मेषी भवति वारुण्यां ताम् मारुत्यामवदधाति तद्यदेवं विपरिहरतः क्षत्रं वै वरुणो वीर्यम् पुमान्वीर्यमेवैतत्क्षत्रे धत्तो ऽवीर्या वै स्त्री विशो मरुतस्तदवीर्यामेवैतद्विशं कुरुतस्तस्मादेवं विपरिहरतः॥
अथाध्वर्युरेवाह वरुणायानुब्रूहीति॥
स उपस्तृणीत आज्यमथास्यै वारुण्यै पयस्यायै द्विरवद्यति सो ऽन्यतरेणावदानेन सह मेषमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यतिक्रम्याश्राव्याह वरुणं यजेति वषट्कृते जुहोति॥
सव्ये पाणावध्वर्युः॥
स्रुचौ कृत्वा दक्षिणेन प्रतिप्रस्थातुर्वा सो ऽन्वारभ्याह मरुद्भ्यो ऽनुब्रूहीत्युपस्तृणीत आज्यम् प्रतिप्रस्थाताथास्यै मारुत्यै पयस्यायै द्विरवद्यति सो ऽन्यतरेणावदानेन सह मेषीमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यथाध्वर्युरेवाश्राव्याह मरुतो यजेति वषट्कृते जुहोति॥
अथाध्वर्युरेव कायेन॥
एककपालेन पुरोडाशेन प्रचरति कायेनैककपालेन पुरोडाशेन प्रचर्याध्वर्युरेवाहाग्नये स्विष्टकृते ऽनुब्रूहीति स सर्वेषामेव हविषामध्वर्युः सकृत्सकृदवद्यत्यथैतस्या एव पयस्यायै प्रतिप्रस्थाता सकृदवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयतस्ता उभावेवातिक्रामतो ऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं स्विष्टकृतं यजेति ता उभावेव वषट्कृते जुहुतः॥
अथाध्वर्युरेव प्राशित्रमवद्यति॥
इडां समवदाय प्रतिप्रस्थात्रे ऽतिप्रजिहीते तत्रापि प्रतिप्रस्थाता मारुत्यै पयस्यायै द्विरभ्यवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयत्युपहूय मार्जयन्ते॥
अथाध्वर्युरेवाह ब्रह्मन्प्रस्थास्यामि॥
समिधमाधायाग्निमग्नीत्सम्मृड्ढीति स स्रुचोरेवाध्वर्युः पृषदाज्यं व्यानयते ऽथ यदि प्रतिप्रस्थातुः पृषदाज्यम् भवति तत्स द्वेधा व्यानयत उतो तत्र पृषदाज्यं न भवति स यदेवोपभृत्याज्यं तत्स द्वेधा व्यानयते ता उभावेवातिक्रामतो ऽतिक्रम्याश्राव्याध्वर्युरेवाह देवान्यजेति यज-यजेति चतुर्थे-चतुर्थे ऽनुयाजे समानयमानौ नवभिरनुयाजैश्चरतस्तद्यन्नवप्रयाजम् भवति नवानुयाजं तदुभयत एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्मान्नवप्रयाजम् भवति नवानुयाजम्॥
ता उभावेव सादयित्वा स्रुचो व्यूहतः॥
स्रुचो व्युह्य परिधीन्त्समज्य परिधिमभिपद्याश्राव्याध्वर्युरेवाहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यते ऽथैता उभावेव प्रस्तरौ समुल्लुम्पत उभावनुप्रहरत उभौ तृणे अपगृह्योपासाते यदा होता सूक्तवाकमाह॥
अथाग्नीदाहानुप्रहरेति॥
ता उभावेवानुप्रहरत उभावात्माना उपस्पृशेते॥
अथाह संवदस्वेति॥
अगानग्नीदगञ्छ्रावय श्रौषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्यध्वर्युरेवैतदाह ता उभावेव परिधीननुप्रहरत उभौ स्रुचः सम्प्रगृह्य स्फ्ये सादयतः॥
अथाध्वर्युरेव प्रतिपरेत्य॥
पत्नीः संयाजयत्युपास्त एव प्रतिप्रस्थाता पत्नीः संयाज्योदैत्यध्वर्युः॥
त्रीणि समिष्टृयजूंषि जुहोति॥
तूष्णीमेव प्रतिप्रस्थाता स्रुचम् प्रगृह्णाति तद्ये वैश्वदेवेन यजमानयोर्वाससी परिहिते स्यातां ते एवात्रापि स्यातामथास्यै वारुण्यै पयस्यायै क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा एतन्निर्वरुणतायै तत्र न साम गीयते न ह्यत्र साम्ना किं चन क्रियते तूष्नीमेवेत्याभ्यवेत्योपमारयति॥
अवभृथ निचुम्पुण॥
निचेरुरसि निचुम्पुणः अव देवैर्देवकृतमेनो ऽयासिषमव मर्त्यैर्मर्त्यकृतम् पुरुरावणे देव रिषस्पाहीति कामं हैते यस्मै कामयेत तस्मै दद्यान्न हि दीक्षितवसने भवतः स यथाहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते॥
अथ केशश्मश्रूप्त्वा॥
समारोह्याग्नी उदवसायेव ह्येतेन यजते न हि तदवकल्पते यदुत्तरवेदावग्निहोत्रं जुहुयात्तस्मादुदवस्यति गृहानित्वा निर्मथ्याग्नी पौर्णमासेन यजत उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति तस्मादुदवस्यति॥
वरुणप्रघासैर्वै प्रजापतिः॥
प्रजा वरुणपाशात्प्रामुञ्चत्ता स्यानमीवा अकिल्विषाः प्रजाः प्राजायन्ताथैतैः साकमेधैरेतैर्वै देवा वृत्रमघ्नन्नेतैर्वेव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैः पाप्मानं द्विषन्तम् भ्रातृव्यं हन्ति तथो एव विजयते तस्माद्वा एष एतैश्चतुर्थे मासि यजते स वै द्व्यहमनूचीनाहं यजते॥
स पूर्वेद्युः॥
अग्नये ऽनीकवते ऽष्टाकपालं पुरोडाशं निर्वपत्यग्निं ह वै देवा अनीकं कृत्वोपप्रेयुर्वृत्रं हनिष्यन्तः स तेजो ऽग्निर्नाव्यथत तथो एवैष एतत्पाप्मानं द्विषन्तम् भ्रातृव्यं हनिष्यन्नग्निमेवानीकं कृत्वोपप्रैति स तेजो ऽग्निर्न व्यथते तस्मादग्नये ऽनीकवते॥
अथ मरुद्भ्यः सान्तपनेभ्यः॥
मध्यन्दिने चरुं निर्वपति मरुतो ह वै सान्तपना मद्यन्दिने वृत्रं सन्तेपुः स सन्तप्तो ऽनन्नेव प्राणन्परिदीर्णः शिश्ये तथो एवैतस्य पाप्मानं द्विषन्तम् भ्रातृव्यम् मरुतः सान्तपनाः सन्तपन्ति तस्मान्मरुद्भ्यः सान्तपनेभ्यः॥
अथ मरुद्भ्यो गृहमेधिभ्यः॥
शाखया वत्सानपाकत्य पवित्रवति सन्दोह्य तं चरुं श्रपयति चरुरु ह्येव स यत्र क्व च तण्डुलानावपन्ति तन्मेधो देवा दधिरे प्रातर्वृत्रं हनिष्यन्तस्तथो एवैष एतत्पाप्मानं द्विषन्तम् भ्रातृव्यं हनिष्यन्मेघो धत्ते तद्यत्क्षीरौदनो भवति मेघो वै पयो मेघस्तण्डुलास्तमुभयम् मेघमात्मन्धत्ते तस्मात्क्षीरौदनो भवति॥
तस्यावृत्॥
सैव स्तीर्णा वेदिर्भवति या मरुद्भ्यः सान्तपनेभ्यस्तस्यामेव स्तीर्णायां वेदौ परिधींश्च शकलांश्चोपनिदधति तथा सन्दोह्य चरुं श्रपयति श्रपयित्वाभिघार्योद्वासयति॥
अथ द्वे पिशीले वा पात्र्यौ वा निर्णेनिजति॥
तयोरेनं द्वेधोद्धरन्ति तयोर्मध्ये सर्पिरासेचने कृत्वा सर्पिरासिञ्चति स्रुवं च स्रुचं च सम्मार्ष्ट्यथैता ओदनावादायोदैति स्रुवं च स्रुचं चादायोदैति स इमामेव स्तीर्णां वेदिमभिमृश्य परिधीन्परिधाय यावतः शकलान् कामयते तावतो ऽभ्यादधात्यथैता ओदनावासादयति स्रुवं च स्रुचं चासादयत्युपविशति होता होतृषदने स्रुवं च स्रुचं चाददान आह॥
अग्नये ऽनुब्र्रूहीति॥
आग्नेयमाज्यभागं स दक्षिणस्यौदनस्य सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याहाग्निं यजेति वषट्कृते जुहोति॥
अथाह सोमायानुब्रूहीति॥
सौम्यमाज्यभागं स उत्तरस्यौदनस्य सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याह सोमं यजेति वषट्कृते जुहोति॥
अथाह मरुद्भ्यो गृहमेधिभ्यो ऽनुब्रूहीति॥
स दक्षिणस्यौदनस्य सर्पिरासेचनात्तत आज्यमुपस्तृणीते तस्य द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्यतिक्रामत्यतिक्रम्याश्राव्याह मरुतो गृहमेधिनो यजेति वषट्कृते जुहोति॥
अथाहाग्नये स्विष्टकृते ऽनुब्रूहीति॥
स उत्तरस्यौदनस्य सर्पिरासेचनात्तत आज्यमुपस्तृणीते तस्य द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्यतिक्रामत्यतिक्रम्याश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोत्यथेडामेवावद्यति न प्राशित्रमुपहूय मार्जयन्त एतन्न्वेकमयनम्॥
अथेदं द्वितीयम्॥
सैव स्तीर्णा वेदिर्भवति या मरुद्भ्यः सान्तपनेभ्यस्तस्यामेव स्तीर्णायां वेदौ परिधींश्च शकलांश्चोपनिदधति तथा सन्दोह्य चरुं श्रपयति नेदेव प्रतिवेशमाज्यमधिश्रयति श्रपयित्वाभिघार्योद्वास्यानक्ति स्थाल्यामाज्यमुद्वासयति स्रुवं च स्रुचं च सम्मार्ष्ट्यथैतं सोखमेव चरुमादायोदैति स्थाल्यामाज्यमादायोदैति स्रुवं च स्रुचं चादायोदैति स इमामेव स्तीर्णां वेदिमभिमृश्य परिधीन्परिधाय यावतः शकलान् कामयते तावतो ऽभ्यादधात्यथैतं सोखमेव चरुमासादयति स्थाल्यामाज्यमासादयति स्रुवं च स्रुचं चासादयत्युपविशति होता होतृषदने स्रुवं च स्रुचं चाददान आह॥
अग्नये ऽनुब्रूहीति॥
आग्नेयमाज्यभागं स स्थाल्यै चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याहाग्निं यजेति वषट्कृते जुहोति२।५।३।अथाह सोमायानुब्रूहीति॥
सौम्यमाज्यभागं स स्थाल्या एव चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याह सोमं यजेति वषट्कृते जुहोति॥
अथाह मरुद्भ्यो गृहमेधिभ्यो ऽनुब्रूहीति॥
स उपस्तृणीत आज्यमथास्य चरोर्द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यतिक्रम्याश्राव्याह मरुतो गृहमेधिनो यजेति वषट्कृते जुहोति॥
अथाहाग्नये स्विष्टकृते ऽनुब्रूहीति॥
स उपस्तृणीत आज्यमथास्य चरोः सकृदवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न प्रत्यनक्त्यवदानमतिक्रामत्यतिक्रम्याश्राव्याहाग्निम्\ स्विष्टकृतम्- यजेति वषट्कृते जुहोति॥
अथेडामेवावद्यति न प्राशित्रम्॥
उपहूय प्राश्नन्ति यावन्तो गृह्या हविरुछिष्टाशाः स्युस्तावन्तः प्राश्नीयुरथो अप्यृत्विजः प्राश्नीयुरथो अप्यन्ये ब्राह्मणाः प्राश्नीयुर्यदि बहुरोदन स्यादथैतामनिरशितां कुम्भीमपिधाय निदधति पूर्णदर्वाय मातृभिर्वत्सान्त्समवार्जन्ति तदु पशवो मेघमात्मन्दधते यवाग्वैतां रात्रिमग्निहोत्रं जुहोति निवान्याम् प्रातर्दुहन्ति पितृयज्ञाय॥
अथ प्रातर्हुते वाहुते वा॥
यतरथा कामयेत सो ऽस्या अनिरशितायै कुम्भ्यै दर्व्योपहन्ति पूर्णा दर्वि परापत सपूर्णा पुनरापत वस्नेव विक्रीणावहा इषमूर्जं शतक्रतविति यथा पुरो ऽनुवाक्यैवमेपैतयैवैनमेतस्मै भागाय ह्वयति॥
अथर्षभमाह्वयितवै ब्रूयात्॥
स यदि रुयात्स वषट्कार इत्यु हैक आहुस्तस्मिन्वषट्कारे जुहुयादित्यथो इन्द्रमेवैतत्स्वेन रूपेण ह्वयति वृत्रस्य बधायैतद्वा इन्द्रस्य रूप यदृषभस्तत्स्वेनैवैनमेतद्रूपेण ह्वयति वृत्रस्य बधाय स यदि रुयादा म इन्द्रो यज्ञमगन्त्सेन्द्रो मे यज्ञ इति ह विद्याद्यद्यु न रुयाद्ब्राह्मण एव दक्षिणत आसीनो ब्रूयाज्जुहुधीति सैवैन्द्री वाक्॥
स जुहोति॥
देहि मे ददामि ते नि मे धेहि नि ते दधे निहारं च हरासि मे निहारं निहराणि ते स्वाहेति॥
अथ मरुद्भ्यः क्रीडिभ्यः॥
सप्तकपालम् पुरोडाशं निर्वपति मरुतो ह वै क्रीडिनो वृत्रं हनिष्यन्तमिन्द्रमागतं तमभितः परिचिक्रीडुर्महयन्तस्तथो एवैतम् पाप्मानं द्विषन्तम् भ्रातृव्यं हनिष्यन्तमभितः परिक्रीडन्ते महयन्तस्तस्मान्मरुद्भ्यः क्रीडिभ्यो ऽथातो महाहविष एव तद्यथा महाहविषस्तथो तस्य॥
महाहविष ह वै देवा वृत्रं जघ्नुः॥
तेनो एव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तम् भ्रातृव्यं हन्ति तथो एव विजयते तस्माद्वा एष एतेन यजते॥
तस्यावृत्॥
उपकिरन्त्युत्तरवेदिं गृह्णन्ति पृषदाज्यम् मन्थन्त्यग्निं नवप्रयाजम् भवति नवानुयाजं त्रीणि समिष्टयजूंषि भवन्त्यथैतान्येव पञ्च हवींषि भवन्ति॥
स यदाग्नेयो ऽष्टाकपालः पुरोडाशो भवति॥
अग्निना ह वा एनं तेजसाघ्नन्त्स तेजो ऽग्निर्नाव्यथत तस्मादाग्नेयो भवति॥
अथ यत्सौम्यश्चरुर्भवति॥
सोमेन ह वा एनं राज्ञाघ्नन्त्सोमराजान एव तस्मात्सौम्यश्चरुर्भवति॥
अथ यत्सावित्रः॥
द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम् प्रसविता सवितृप्रसूता हैवैनमघ्नंस्तस्मात्सावित्रो भवति॥
अथ यत्सारस्वतश्चरुर्भवति॥
वाग्वै सरस्वती वागु हैवानुममाद प्रहर जहीति तस्मात्सारस्वतश्चरुर्भवति॥
अथ यत्पौष्णश्चरुर्भवति॥
इयं वै पृथिवी पूषेयं हैवैनम् बधाय प्रतिप्रददावनया हैवैनम् प्रतिप्रत्तं जघ्नुस्तस्मात्पौष्णश्चरुर्भवति॥
अथैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति॥
एतेन हैवैनमघ्नंस्तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र एताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नन्ब्रह्म वा अग्निः क्षत्रमिन्द्रस्ते उभे संरभ्य ब्रह्म च क्षत्रं च सयुजौ कृत्वा ताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नंस्तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति॥
अथ माहेन्द्रश्चरुर्भवति॥
इन्द्रो वा एष पुरा वृत्रस्य बधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रो ऽभवत्तस्मान्माहेन्द्रश्चरुर्भवति महान्तमु चैवैनमेतत्खलु करोति वृत्रस्य बधाय तस्माद्वेव माहेन्द्रश्चरुर्भवति॥
अथ वैश्वकर्मण एककपालः पुरोडाशो भवति॥
विश्वं वा एतत्कर्म कृतं सर्वं जितं देवानामासीत्साकमेधैरीजानानां विजिग्यानानां विश्वम्वेवैतस्यैतत्कर्म कृतं सर्वं जितम् भवति साकमेधैरीजानस्य विजिग्यानस्य तस्माद्वैश्वकर्मण एककपालः पुरोडाशो भवति॥
एतेन वै देवाः॥
यज्ञेनेष्ट्वा येयं देवानाम् प्रजातिर्या श्रीरेतद्बभूवुरेतां ह वै प्रजातिम् प्रजायत एतां श्रियं गछति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत॥