अथ हुते ऽग्निहोत्र उपतिष्ठते॥
भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं समर्धयति यदाह भूर्भुवः स्वरिति तया समृद्धयाशिषमाशास्ते सुपोषः पोषैरिति तत्पुष्टिमाशास्ते॥
यद्वा अदो दीर्घमग्न्युपस्थानम्॥
आशीरेव साशीरियं तदेतावतैवैतत्सर्वमाप्नोति तस्मादेतेनैवोपतिष्ठेतैतेन न्वेव वयमुपचराम इति ह स्माहासुरिः॥
अथ प्रवत्स्यन्॥
गार्हपत्यमेवाग्र उपतिष्ठते ऽथाहवनीयं॥
स गार्हपत्यमुपतिष्ठते॥
नर्य प्रजाम् मे पाहीति प्रजाया हैष ईष्टे तत्प्रजामेवास्मा एतत्परिददाति गुप्त्यै॥
अथाहवनीयमुपतिष्ठते॥
शंस्य पशून्मे पाहीति पशूनां हैष ईष्टे तत्पशूनेवास्मा एतत्परिददाति गुप्त्यै॥
अथ प्र वा व्रजति प्र वा धावयति॥
स यत्र वेलाम् मन्यते तत्स्यन्त्त्वा वाचं विसृजते ऽथ प्रोष्य परेक्ष्य यत्र वेलाम् मन्यते तद्वाचं यछति स यद्यपि राजान्तरेण स्यान्नैव तमुपेयात्॥
स आहवनीयमेवाग्र उपतिष्ठते॥
अथ गार्हपत्यं गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायाम् प्रतितिष्ठति॥
स आहवनीयमुपतिष्ठते॥
आगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् अग्ने सम्राडभि द्युम्नमभि सह आयछस्वेत्यथोपविश्य तृणान्यपलुम्पति॥
अथ गार्हपत्यमुपतिष्ठते॥
अयमग्निर्गृहपतिर्गार्हपत्यःप्रजाया वसुवित्तमः अग्ने गृहपते ऽभि द्युम्नमभि सह आयछस्वेत्यथोपविश्य तृणान्यपलुम्पत्येतन्नु जपेनैतेन न्वेव भूयिष्ठा इवोपतिष्ठन्ते॥
स वै खलु तूष्णीमेवोपतिष्ठेत॥
इदं वै यस्मिन्वसति ब्राह्मणो वा राजा वा श्रेयान्मनुष्यो न्वेव तमेव नार्हति वक्तुमिदम् मे त्वं गोपाय प्राहं वत्स्यामीत्यथास्मिन्नेते श्रेयांसो वसन्ति देवा अग्नयः क उ तानर्हति वक्तुमिदम् मे यूयं गोपायत प्राहं वत्स्यामीति॥
मनो ह वै देवा मनुष्यस्याजानन्ति॥
स वेद गार्हपत्यः परिदाम् मेदमुपागादिति तूष्णीमेवाहवनीयमुपतिष्ठते स वेदाहवनीयः परिदां मेदमुपागादिति॥
अथ प्र वा व्रजति प्र वा धावयति॥
स यत्र वेलो मन्यते तत्स्यन्त्त्वा वाचं विसृजते ऽथ प्रोष्य परेक्ष्य यत्र वेलाम् मन्यते तद्वाचं यछति स यद्यपि राजान्तरेण स्यान्नैव तमुपेयात्॥
स आहवनीयमेवाग्र उपतिष्ठते॥
अथ गार्हपत्यं तूष्णीमेवाहवनीयमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति तूष्णीमेव गार्हपत्यमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति॥
अथातो गृहाणामेवोपचारः॥
एतद्ध वै गृहपतेः प्रोषुष आगताद्गृहाः समुत्त्रस्ता इव भवन्ति किमयमिह वदिष्यति किं वा करिष्यतीति स यो ह तत्र किञ्चिद्वदति वा करोति वा तस्माद्गृहाः प्रत्रसन्ति तस्येश्वरः कुलं विक्षोब्धोरथ यो ह तत्र न वदति न किं चन करोति तं गृहा उपसंश्रयन्ते न वा अयमिहावादीन्न किं चनाकरदिति स यदिहापि सुक्रुद्ध इव स्याछ्व एव ततस्तत्कुर्याद्यद्वदिष्यन्वा करिष्यन्वा स्यादेष उ गृहाणामुपचारः॥
प्रजापतिं वै भूतान्युपासीदन्॥
प्रजा वै भूतानि वि नो धेहि यथा जीवामेति ततो देवा यज्ञोपवीतिनो भूत्वा दक्षिणं जान्वाच्योपासीदंस्तानब्रवीद्यज्ञो वो ऽन्नममृतत्वं व ऊर्ग्वः सूर्यो वो ज्योतिरिति॥
अथैनम् पितरः॥
प्राचीनावीतिनः सव्यं जान्वाच्योपासीदंस्तानब्रवीन्मासिमासि वो ऽशनं स्वधा वो मनोजवीवश्चन्द्रमा वो ज्योतिरिति॥
अथैनम् मनुष्याः॥
प्रावृता उपस्थं कृत्वोपासीदंस्तानब्रवीत्सायम् प्रातर्वो ऽशनम् प्रजा वो मृत्युर्वो ऽग्निर्वो ज्योतिरिति॥
अथैनम् पशव उपासीदन्॥
तेभ्यः स्वैषमेव चकार यदैव यूयं कदा च लभाध्वै यदि काले यद्यनाकाले ऽथैवाश्नाथेति तस्मादेते यदैव कदा च लभन्ते यदि काले यद्यनाकाले ऽथैवाश्नन्ति॥
अथ हैनं शश्वदप्यसुरा उपसेदुरित्याहुः॥
तेभ्यस्तमश्च मायां च प्रददावस्त्यहैवासुरमायेतीव पराभूता ह त्वेव ताः प्रजास्ता इमाः प्रजास्तथैवोपजीवन्ति यथैवाभ्यः प्रजापतिर्व्यदधात्॥
नैव देवा अतिक्रामन्ति॥
न पितरो न पशवो मनुष्या एवैके ऽतिक्रामन्ति तस्माद्यो मनुष्याणाम् मेद्यत्यशुभे मेद्यति विहूर्छति हि न ह्ययनाय चन भवत्यनृतं हि कृत्वा मेद्यति तस्मादु सायम्प्रातराश्येव स्यात्स यो हैवं विद्वान्त्सायम्प्रातराशी भवति सर्वं हैवायुरेति यदु ह किं च वाचा व्याहरति तदु हैव भवत्येतद्धि देवसत्यं गोपायति तद्धैतत्तेजो नाम ब्राह्मणं य एतस्य व्रतं शक्नोति चरितुम्॥
तद्वा एतत्॥
मासि मास्येव पितृभ्यो ददतो यदैवैष न पुरस्तान्न पश्चाद्ददृशे ऽथैभ्यो ददात्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स एतां रात्रिं क्षीयते तस्मिन्क्षीणे ददाति तथैभ्यो समदं करोत्यथ यदक्षीणे दद्यात्समदं ह कुर्याद्देवेभ्यश्च पितृभ्यश्च तस्माद्यदैवैष न पुरस्तान्न पश्चाद्ददृशे ऽथैभ्यो ददाति॥
स वा अपराह्णे ददाति॥
पूर्वाह्णो वै देवानाम् मध्यन्दिनो मनुष्याणामपराह्णः पितॄणां तस्मादपराह्णे ददाति॥
स जघनेन गार्हपत्यम्॥
प्राचीनावीती भूत्वा दक्षिणासीन एतं ग्रृह्णाति स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति सकृत्फलीकरोति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति॥
तं श्रपयति॥
तस्मिन्नधिश्रित आज्यम् प्रत्यानयत्यग्नौ वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्यो ऽथैव पितॄणां तस्मादधिश्रित आज्यम् प्रत्यानयति॥
स उद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः॥
देवान्वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजते ऽथैतत्पितृयज्ञेनेवाचारीत्तदु निह्नुते स देवैः प्रसूतो ऽथैतत्पितृभ्यो ददाति तस्मादुद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः॥
स वा अग्नये च सोमाय च जुहोति॥
स यदग्नये जुहोति सर्वत्र ह्येवाग्निरन्वाभक्तो ऽथ यत्सोमाय जुहोति पितृदेवत्यो वै सोमस्तस्मादग्नये च सोमाय च जुहोति॥
स जुहोति॥
अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेत्यग्नौ मेक्षणमभ्यादधाति तत्स्विष्टकृद्भाजनमथ दक्षिणेनान्वाहार्यपचनं सकृदुल्लिखति तद्वेदिभाजनं सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुल्लिखति॥
अथ परस्तादुल्मुकं निदधाति॥
स यदनिधायोल्मुकमथैतत्पितृभ्यो दद्यादसुररक्षसानि हैषामेतद्विमथ्नीरंस्तथो हैतत्पितॄणामसुररक्षसानि न विमथ्नते तस्मात्परस्तादुल्मुकं निदधाति॥
स निदधाति॥
ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यग्निष्टांलोकात्प्रणुदात्यस्मादित्यग्निर्हि रक्षसामपहन्ता तस्मादेवं निदधाति॥
अथोदपात्रमादायावनेजयति॥
असाववनेनिक्ष्वेत्येव यजमानस्य पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिष्यते ऽभिषिञ्चेदेवं तत्॥
अथ सकृदाछिन्नान्युपमूलं दिनानि भवन्ति॥
अग्रमिव वै देवानाम् मध्यमिव मनुष्याणाम् मूलमिव पितॄणां तस्मादुपमूलं दिनानि भवन्ति सकृदाछिन्नानि भवन्ति सकृदु ह्येवपराञ्चः पितरस्तस्मात्सकृदाछिन्नानि भवन्ति॥
तानि दक्षिणोपस्तृणाति॥
तत्र ददाति स वा इति ददातीतीव वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्यो ऽथैवं पितॄणां तस्मादिति ददाति॥
स ददाति॥
असावेतत्त इत्येव यजमानस्य पित्रे ये च त्वामन्वित्यु हैक आहुस्तदु तथा न ब्रूयात्स्वयं वै तेषां सह येषां सह तस्मादु ब्रूयादसावेतत्त इत्येव यजमानस्य पित्रे ऽसावेतत्त इति पितामहायासावेतत्त इति प्रपितामहाय तद्यदितः पराग्ददाति सकृदु ह्येव पराञ्चः पितरह्॥
तत्र जपति॥
अत्र पितरो मादयध्वं यथाभागमावृषायध्व्वमिति यथाभागमश्नीतेत्येवैतदाह॥
अथ पराङ् पर्यावर्तते॥
तिर इव वै पितरो मनुष्येभ्यस्तिर इवैतद्भवति स वा आ तमितोरासीतेत्याहुरेतावान्ह्यसुरिति स वै मुहूर्तमेवासित्वा॥
अथोपपल्यय्य जपति॥
अमीमदन्त पितरो यथाभागमावृषायिषतेति यथाभागमाशिषुरित्येवैतदाह॥
अथोदपात्रमादायावनेजयति॥
असाववनेनिक्ष्वेत्येव यजमानस्य पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषे ऽभिषिञ्चेदेवं तत्॥
अथ नीविमुद्वृह्य नमस्करोति॥
पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट् कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तस्मात्षट् कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशत एषो एतस्याशीः कर्मणो ऽथावजिघ्रति प्रत्यवधाय पिण्डान्त्स यजमानभागो ऽग्नौ सकृदाछिन्नान्यभ्यादधाति पुनरुल्मुकमपि सृजति॥
तदु होवाच कहोडः कौषीतकिः॥
अनयोर्वा अयं द्यावापृथिव्यो रसो ऽस्य रसस्य हुत्वा देवेभ्यो ऽथेममश्नामेति तस्माद्वा आग्रयणेष्ट्या यजत इति॥
तदु होवाच याज्ञवल्क्यः॥
देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे ततो ऽसुरा उभयीरोशधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्ययेव त्वद्विषेणेव त्वत्प्रलिलिपुरुतैवं चिद्देवानभिभवेमेति ततो न मनुष्या आशुर्न पशव आलिलिशिरे ता हेमाः प्रजा अनाशकेन नोत्पराबभूवुः॥
तद्वै देवाः शुश्रुवुः॥
अनाशकेन ह वा इमाः प्रजाः पराभवन्तीति ते होचुर्हन्तेदमासामपजिघांसामेति केनेति यज्ञेनैवेति यज्ञेन ह स्म वै तद्देवाः कल्पयन्ते यदेषां कल्पमासर्षयश्च॥
ते होचुः॥
कस्य न इदम् भविष्यतीति ते मम-ममेत्येव न सम्पादयां चक्रुस्ते हासम्पाद्योचुराजिमेवास्मिन्नजामहै स यो न उज्जेष्यति तस्य न इदम् भविष्यतीति तथेति तस्मिन्नाजिमाजन्त॥
ताविन्द्राग्नी उदजयताम्॥
तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवतीन्द्राग्नी ह्यस्य भागधेयमुदजयतां तौ यत्रेन्द्राग्नी उज्जिगीवांसौ तस्थतुस्तद्विश्वे देवा अन्वाजग्मुः॥
क्षत्रं वा इन्द्राग्नी॥
विशो विश्वे देवा यत्र वै क्षत्रमुज्जयत्यन्वाभक्ता वै तत्र विट्तद्विश्वान्देवानन्वाभजतां तस्मादेष वैश्वदेवश्चरुर्भवति॥
तं वै पुराणानां कुर्यादित्याहुः॥
क्षत्रं वा इन्द्राग्नी नेत्क्षत्रमभ्यारोहयाणीति तौ वा उभावेव नवानां स्यातां यद्धि पुरोडाश इतरश्चरुरितरस्तेनैव क्षत्रमनभ्यारूढं तस्मादुभावेव नवानां स्याताम्॥
त उ ह विश्वे देवा ऊचुः॥
अनयोर्वा अयं द्यावापृथिव्यो रसो हन्तेमे अस्मिन्नाभजामेति ताभ्यामेतम् भागमकल्पयन्नेतं द्यावापृथिव्यमेककपालम् पुरोडाशं तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति तस्येयमेव कपालमेकेव हीयं तस्मादेककपालो भवति॥
तस्य परिचक्षा॥
यस्यै वै कस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तो ऽथैतं सर्वमेव जुहोति न स्विष्टकृते ऽवद्यति सा परिचक्षोतो हुतः पर्यावर्तते॥
तदाहुः॥
पर्याभूद्वा अयमेककपालो मोहिष्यति राष्ट्रमिति नास्य सा परिचक्षाहवनीयो वा आहुतीनाम् प्रतिष्ठा स यदाहवनीयम् प्राप्यापि दश कृत्वः पर्यावर्तेत न तदाद्रियेत यदीत्त्वन्ये वदन्ति कस्तत्सन्धमुपेयात्तस्मादाज्यस्यैव यजेदाज्यं ह वा अनयोर्द्यावापृथिव्योः प्रत्यक्षं रसस्तत्प्रत्यक्षमेवैने एतत्स्वेन रसेन मेधेन प्रीणाति तस्मादाज्यस्यैव यजेत्॥
एतेन वै देवाः॥
यज्ञेनेष्ट्वोभयीनामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्यामिव त्वद्विषमिव त्वदपजघ्रुस्तत आश्नन्मनुष्या आलिशन्त पशवः॥
अथ यदेष एतेन यजते॥
तन्नाह न्वेवैतस्य तथा कश्चन कृत्ययेव त्वद्विषेणेव त्वत्प्रलिम्पतीति देवा अकुर्वन्निति त्वेवैष एतत्करोति यमु चैव देवा भागमकल्पयन्त तमु चैवैभ्य एष एतद्भागं करोतीमा उ चैवैतदुभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवस्ता अनमीवा अकिल्विषाः कुरुते ता अस्यानमीवा अकिल्विषा इमाः प्रजा उपजीवन्ति तस्माद्वा एष एतेन यजते॥
तस्य प्रथमजो गौर्दक्षिणा॥
अग्र्यमिव हीदं स यदीजानः स्याद्दर्शपूर्णमासाभ्यां वा यजेताथैतेन यजेत यद्यु अनीजानः स्याच्चातुष्प्राश्यमेवैतमोदनमन्वाहार्यपचने पचेयुस्तम् ब्राह्मणा अश्नीयुः॥
द्वया वै देवा देवाः॥
अहैव देवा अथ ये ब्राह्मणाः शुश्रुवांसो ऽनूचानास्ते मनुष्यदेवास्तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति तत्रो यछक्नुयात्तद्दद्यान्नादक्षिणां हविः स्यादिति ह्याहुर्नाग्निहोत्रे जुहुयात्समदं ह कुर्याद्यदग्निहोत्रे जुहुयादन्यद्वा आग्रयणमन्यदग्निहोत्रं तस्मान्नाग्निहोत्रे जुहुयात्॥
प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे॥
प्रजाकामो बहुः प्रजया पशुभिः स्यां श्रियं गछेयं यशः स्यामन्नादः स्यामिति॥
स वै दक्षो नाम॥
तद्यदेनेन सो ऽग्रे ऽयजत तस्माद्दाक्षायणयज्ञो नामोतैनमेके वसिष्ठयज्ञ इत्याचक्षत एष वै वसिष्ठ एतमेव तदन्वाचक्षते स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयम् प्रजापतेः प्रजातिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिम् प्रजायत एतां श्रियं गछति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत॥
तेनो ह तत ईजे॥
प्रतीदर्शः श्वेक्नः स ये तम् प्रत्यासुस्तेषां विवचनमिवास विवचनमिव ह वै भवति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत॥
तमाजगाम॥
सुप्ला सार्ञ्जयो ब्रह्मचर्यं तस्मादेतं च यज्ञमनूचे ऽन्यमु च सो ऽनूच्य पुनः सृञ्जयाञ्जगाम ते ह सृञ्जया विदां चक्रुर्यज्ञं वै नो ऽनूच्यागन्निति ते होचुः सह वै नस्तद्देवैरागन्यो नो यज्ञमनूच्यागन्निति स वै सहदेवः सार्ञ्जयस्तदप्येतन्निवचनमिवास्त्यन्यद्वा अरेसुप्ला नाम दध इति स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं सृञ्जयानाम् प्रजातिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिम् प्रजायत एतां श्रियं गछति यएवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत२।४।४।तेनो ह तत ईजे॥
देवभागः श्रौतर्षः स उभयेषां कुरूणां च सृञ्जयानां च पुरोहित आस परमता वै सा यो न्वेवैकस्य राष्ट्रस्य पुरोहितो ऽसत्सा न्वेव परमता किमु यो द्वयोः परमतामिव ह वै गछति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत॥
तेनो ह तत ईजे॥
दक्षः पार्वतिस्त इमे ऽप्येतर्हि दाक्षायणा राज्यमिवैव प्राप्ता राज्यमिह वै प्राप्नोति य एवं विद्वानेतेन यजते तस्माद्वा एतेन यजेत स वा एकैक एवानूचीनाहम् पुरोडाशो भवत्येतेनो हास्यासपत्नानुपबाधा श्रीर्भवति स वै द्वे पौर्णमास्यौ यजते द्वे अमावास्ये द्वे वै मिथुनम् मिथुनमेवैतत्प्रजननं क्रियते॥
अथ यत्पूर्वेद्युः॥
अग्नीषोमीयेण यजते पौर्णमास्यां ते द्वे देवते द्वे वै मिथुनम् मिथुनमेवैतत्प्रजननं क्रियते॥
अथ प्रातः॥
आग्नेयः पुरोडाशो भवत्यैन्द्रं सान्नाय्यं ते द्वे देवते द्वे वै मिथुनम् मिथुनमेवैतत्प्रजननं क्रियते॥
अथ यत्पूर्वेद्युः॥
ऐन्द्राग्नेन यजते ऽमावास्यायां ते द्वे देवते द्वे वै मिथुनम् मिथुनमेवैतत्प्रजननं क्रियते॥
अथ प्रातः॥
आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशो ऽथैतावेव मित्रावरुणौ द्वे देवते द्वे वै मिथुनम् मिथुनमेवैतत्प्रजननं क्रियत एतदु हास्य तद्रूपं येन बहुर्भवति येन प्रजायते॥
अथ यत्पूर्वेद्युः॥
अग्नीषोमीयेण यजते पौर्णमास्यां यमेवामुमुपवसथे ऽग्नीषोमीयम् पशुमालभते स एवास्य सः॥
अथ प्रातः॥
आग्नेयः पुरोडाशो भवत्यैन्द्रं सान्नाय्यम् प्रातःसवनमेवास्याग्नेयः पुरोडाशो आग्नेयं हि प्रातःसवनमथैन्द्रं सान्नाय्यम् माध्यन्दिनमेवास्य तत्सवनमैन्द्रं हि माध्यन्दिनं सवनम्॥
अथ यत्पूर्वेद्युः॥
ऐन्द्राग्नेन यजते ऽमावास्यायां तृतीयसवनमेवास्य तद्वैश्वदेवं वै तृतीयसवनमिन्द्राग्नी वै विश्वे देवाः॥
अथ प्रातः॥
आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशो ऽथ यामेवामूम् मैत्रावरुणीं वशामनूबन्ध्यामालभते सैवास्य मैत्रावरुणी पयस्या स पौर्णमासेन चामावास्येन चेष्ट्वा यावत्सौम्येनाध्वरेणेष्ट्वा जयति तावज्जयति तदु खलु महायज्ञो भवति॥
अथ यत्पूर्वेद्युः॥
अग्नीषोमीयेण यजते पौर्णमास्यामेतेन वा इन्द्रो वृत्रमहन्नेतेनो एव व्यजयत यास्येयं विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तम् भ्रातृव्यं हन्ति तथो एव विजयते ऽथ यत्सन्नयत्यामावास्यं वै सान्नाय्यं दूरे तद्यदमावास्येति क्षिर्र एवैतद्वृत्रं जघ्नुषे तमेतेन रसेनाप्रीणन् क्षिप्रे ह वै पाप्मानमपहते य एवं विद्वान्पौर्णमास्यां सन्नयत्येष वै सोमो राजा द्॥
{१५!!} एवानामन्नं यच्चन्द्रमास्तमेतत्पूर्वेद्युरभिषुण्वन्ति प्रातर्भक्षयिष्यन्तस्तमेतद्भक्षयन्ति यदपक्षीयते॥
अथ यत्पूर्वेद्युः॥
अग्नीषोमीयेण यजते पौर्णमास्यामभिषुणोत्येवैनमेतत्तस्मिन्नभिषुत एतं रसं दधात्येतेन रसेन तीव्रीकरोति स्वदयति ह वै देवेभ्यो हव्यं स्वदते हास्य देवेभ्यो हव्यं य एवं विद्वान्पौर्णमास्यां सन्नयति॥
अथ यत्पूर्वेद्युः॥
ऐन्द्राग्नेन यजते ऽमावास्यायां दर्शपूर्णमासयोर्वै देवते स्त इन्द्राग्नी एव ते एवैतदञ्जसा प्रत्यक्षं यजत्यञ्जसा ह वा अस्य दर्शपूर्णमासाभ्यामिष्टम् भवति य एवमेतद्वेद॥
अथ प्रातः॥
आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशो ऽथैतावेवार्धमासौ मित्रावरुणौ य एवापूर्यते स वरुणौ यो ऽपक्षीयते स मित्रस्तावेतां रात्रिमुभौ समागछतस्तदुभावेवैतत्सह सन्तौ प्रीणाति सर्वं ह वा अस्य प्रीतम् भवति सर्वमाप्तं य एवमेतद्वेद॥
तद्वा एतां रात्रिम्॥
मित्रो वरुणे रेतः सिञ्चति तदेतेन रेतसा प्रजायते यदापूर्यते तद्यदेषात्र मैत्रावरुणी पयस्यावकॢप्ततमा भवति॥
सान्नाय्यभाजना वा अमावास्या॥
तददस्तत्पौर्णमास्यां क्रियते स यद्धात्रापि सन्नयेज्जामि कुर्यात्समदं कुर्यात्तदेनमद्भ्य ओषधिभ्यः सम्भृत्याहुतिभ्यो ऽधिजनयति स एष आहुतिभ्यो जातः पश्चाद्ददृशे॥
मिथुनादिद्वा एनमेतत्प्रजनयति॥
योषा पयस्या रेतो वाजिनं तद्वा अनुष्ठ्या यन्मिथुनाज्जायते तदेनमेतस्मान्मिथुनात्प्रजननात्प्रजनयति तस्मादेषात्र पयस्या भवति॥
अथ वाजिभ्यो वाजिनं जुहोति॥
ऋतवो वै वाजिनो रेतो वाजिनं तद्वनुष्ठ्येवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्माद्वाजिभ्यो वाजिनं जुहोति॥
स वै पश्चादिव यज्ञस्य जुहोति॥
पश्चाद्वै परीत्य वृषा योषामधिद्रवति तस्यां रेतः सिञ्चति स वै प्रागेवाग्रे जुहोत्यग्ने वीहात्यनुवषट्करोति तत्स्विष्टकृद्भाजनं स वै प्रागेव जुहोति॥
अथ दिशो व्याघारयति॥
दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहेति पञ्च दिशः पञ्च ऽर्तवस्तदृतुभिरेवैतद्दिशो मिथुनीकरोति॥
तद्वै पञ्चैव भक्षयन्ति॥
होता चाध्वर्युश्च ब्रह्मा चाग्नीच्च यजमानः पञ्च वा ऋतवस्तदृतूनामेवैतद्रूपं क्रियते तदृतुष्वेवैतद्रेतः सिक्तम् प्रतिष्ठापयति प्रथमो यजमानो भक्षयति प्रथमो रेतः परिगृह्णानीत्यथो अप्युत्तमो मय्युत्तमे रेतः प्रतितिष्ठादित्युपहूत उपह्वयस्वेति सोममेवैतत्कुर्वन्ति॥