०३

सूर्यो ह वा अग्निहोत्रम्॥
तद्यदेतस्या अग्र आहुतेरुदैत्तस्मात्सूर्यो ऽग्निहोत्रम्॥
स यत्सायमस्तमिते जुहोति॥
य इदं तस्मिन्निह सति जुहवानीत्यथ यत्प्रातरनुदिते जुहोति य इदं तस्मिन्निह सति जुहवानीति तस्माद्वै सूर्यो ऽग्निहोत्रमित्याहुः॥
अथ यदस्तमेति॥
तदग्नावेव योनौ गर्भो भूत्वा प्रविशति तं गर्भम् भवन्तमिमाः सर्वाः प्रजा अनु गर्भा भवन्तीलिता हि शेरे सञ्जानाना अथ यद्रात्रिस्तिर एवैतत्करोति तिर इव हि गर्भाः॥
स यत्सायमस्तमिते जुहोति॥
गर्भमेवैतत्सन्तमभिजुहोति गर्भं सन्तमभिकरोति स यद्गर्भं सन्तमभिजुहोति तस्मादिमे गर्भा अनश्नन्तो जीवन्ति॥
अथ यत्प्रातरनुदिते जुहोति॥
प्रजनयत्येवैनमेतत्सो ऽयं तेजो भूत्वा विभ्राजमान उदेति शश्वद्ध वै नोदियाद्यदस्मिन्नेतामाहुतिं न जुहुयात्तस्माद्वा एतामाहुतिं जुहोति॥
स यथाहिस्त्वचो निर्मुच्येत॥
एवं रात्रेः पाप्मना निर्मुच्यते यथा ह वा अहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते य येवं विद्वानग्निहोत्रं जुहोति तदेतस्यैवानु प्रजातिमिमाः सर्वाः प्रजा अनु प्रजायन्ते वि हि सृज्यन्ते यथार्थम्॥
स यः पुरादित्यस्यास्तमयात्॥
आहवनीयमुद्धरत्येते वै विश्वे देवा रश्मयो ऽथ यत्परम् भाः प्रजापतिर्वा स इन्द्रो वैतदु ह वै विश्वे देवा अग्निहोत्रं जुह्वतो गृहानागछन्तिस यस्यानुद्धृतमागछन्ति तस्माद्देवा अपप्रयन्ति तद्वा अस्मै तद्व्यृध्यते यस्माद्देवा अपप्रयन्ति तस्यानु व्यृद्धिं यश्च वेद यश्च नानुद्धृतमभ्यस्तमगादित्याहुः॥
अथ यः पुरादित्यस्यास्तमयात्॥
आहवनीयमुद्धरति यथा श्रेयस्यागमिष्यत्यावसथेनोपकॢप्तेनोपासीतैवं तत्स यस्योद्धृतमागछन्ति तस्याहवनीयम् प्रविशन्ति तस्याहवनीये निविशन्ते॥
स यत्सायमस्तमिते जुहोति॥
अग्नावेवैभ्य एतत्प्रविष्टेभ्यो जुहोत्यथ यत्प्रातरनुदिते जुहोत्यप्रेतेभ्य एवैभ्य एतज्जुहोति तस्मादुदितहोमिनां विच्छिन्नमग्निहोत्रम् मन्यामह इति ह स्माहासुरिर्यथा शून्यमावसथमाहरेदेवं तदिति॥
द्वयं वा इदं जीवनम्॥
मूलि चैवामूलं च तदुभयं देवानां सन्मनुष्या उपजीवन्ति पशवो मूला ओषधयो मूलिन्यस्ते पशवो मूला ओषधीर्मूलिनीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति॥
स यत्सायमस्तमिते जुहोति॥
अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि यदेषामिदं सदुपजीवाम इति स यत्ततो रात्र्याश्नाति हुतोछिष्ठमेव तन्निरवत्तबल्यश्नाति हुतोछिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता॥
अथ यत्प्रातरनुदिते जुहोति॥
अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि यदेषामिदं सदुपजीवाम इति स यत्ततो ऽह्नाश्नाति हुतोछिष्टमेव तन्निरवत्तबल्यश्नाति हुतोछिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता॥
तदाहुः॥
समेवान्ये यज्ञास्तिष्ठन्ते ऽग्निहोत्रमेव न सन्तिष्ठते ऽपि द्वादशसंवत्सरमन्तवदेवाथैतदेवानन्तं सायं हि हुत्वा वेद प्रातर्होष्यामीति प्रातर्हुत्वा वेद पुनः सायं होष्यामीति तदेतदनुपस्थितमग्निहोत्रं तस्यानुपस्थितिमन्वनुपस्थिता इमाः प्रजाः प्रजायन्ते ऽनुपस्थितो ह वै श्रिया प्रजया प्रजायते य एवमेतदनुपस्थितमग्निहोत्रं वेद॥
तद्दुग्ध्वाधिश्रयति॥
शृतमसदिति तदाहुर्यर्ह्युदन्तं तर्हि जुहुयादिति तद्वै नोदन्तं कुर्यादुप ह दहेद्यदुदन्तं कुर्यादप्रजज्ञि वै रेत उपदग्धं तस्मान्नोदन्तं कुर्यात्॥
अधिश्रित्यैव जुहुयात्॥
यन्न्वेवैतदग्ने रेतस्तेन न्वेव शृतं यद्वेनदग्नावधिश्रयन्ति तेनो एव शृतं तस्मादधिश्रित्यैव जुहुयात्॥
तदवज्योतयति॥
शृतं वेदानीत्यथापः प्रत्यानयति शान्त्यै न्वेव रसस्यो चैव सर्वत्वायेदं हि यदा वर्षत्यथौषधयो जायन्त ऽओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति तस्मादु रसस्यो चैव सर्वत्वाय तस्माद्यद्येनं क्षीरं केवलम् पाने ऽभ्याभवेदुदस्तोकमाश्चोतयितवै ब्रूयाछान्त्यै न्वेव रसस्यो चैव सर्वत्वाय॥
अथ चतुरुन्नयति॥
चतुर्धाविहितं हीदम् पयो ऽथ समिधमादायोदाद्रवति समिद्धहोमायैव सो ऽनुपसाद्य पूर्वामाहुतिं जुहोति स यदुपसादयेद्यथा यस्मा अशनमाहरिश्यन्त्स्यात्तदन्तरा निदध्यादेवं तदथ यदनुपसाद्य यथा यस्मा अशनमाहरेत्तस्मा आहृत्यैवोपनिदध्यादेवं तदुपसाद्योत्तरां नानावीर्ये एवैने एतत्करोति मनश्च ह वै वाक्चैते आहुति तन्मनश्चैवैतद्वाचं च व्यावर्तयति तस्मादिदम् मनश्च वाक्च समानमेव सन्नानेव॥
स वै द्विरग्नौ जुहोति॥
द्विरुपमार्ष्टि द्विः प्राश्नाति चतुरुन्नयति तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयति॥
स यदग्नौ जुहोति॥
तद्देवेषु जुहोति तस्माद्देवाः सन्त्यथ यदुपमार्ष्टि तत्पितृषु चौषधीषु च जुहोति तस्मात्पितरश्चौषधयश्च सन्त्यथ यद्धुत्वा प्राश्नाति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्ति॥
या वै प्रजा यज्ञे ऽनन्वाभक्ताः॥
पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतास्ता यज्ञमुख आभजति तेनो ह पशवो ऽन्वाभक्ता यन्मनुष्याननु पशवः॥
तदु होवाच याज्ञवल्क्यः॥
न वै यज्ञ इव मन्तवै पाकयज्ञ इव वा इतीदं हि यदन्यस्मिन्यज्ञे स्रुच्यवद्यति सर्वं तदग्नौ जुहोत्यथैतदग्नौ हुत्वोत्सृप्याचामति निर्लेढि तदस्य पाकयज्ञस्येवेति तदस्य तत्पशव्यं रूपम् पशव्यो हि पाकयज्ञः॥
सैषैकाहुतिरेवाग्रे॥
यामेवामूम् प्रजापतिरजुहोदथ यदेत एतत्पश्चेवाध्रियन्ताग्निर्यो ऽयम् पवते सूर्यस्तस्मादेषा द्वितीयाहुतिर्हूयते॥
सा या पूर्वाहुतिः॥
साग्निहोत्रस्य देवता तस्मात्तस्यै जुहोत्यथ योत्तरा स्विष्टकृद्भाजनमेव सा तस्मात्तामुत्तरार्धे जुहोत्येषा हि दिक् स्विष्टकृतस्तन्मिथुनायैवैषा द्वितीयाहुतिर्हूयते द्वन्द्वं हि मिथुनम् प्रजननम्॥
तद्द्वयमेवैते आहुती॥
भूतं चैव भविष्यच्च जातं च जनिष्यमाणं चागतं चाशा चाद्य च श्वश्च तद्द्वयमेवानु॥
आत्मैव भूतम्॥
अद्धा हि तद्यद्भूतमद्धो तद्यदात्मा प्रजैव भविष्यदनद्धा हि तद्यद्भविष्यदनद्धो तद्यत्प्रजा॥
आत्मैव जातम्॥
अद्धा हि तद्यज्जातमद्धो तद्यदात्मा प्रजैव जनिष्यमाणमनद्धा हि तद्यज्जनिष्यमाणमनद्धो तद्यत्प्रजा॥
आत्मैवागतम्॥
अद्धा हि तद्यदागतमद्धो तद्यदात्मा प्रजैवाशानद्धा हि तद्यदाशानद्धो तद्यत्प्रजा॥
आत्मैवाद्य॥
अद्धा हि तद्यदद्याद्धो तद्यदात्मा प्रजैव श्वो ऽनद्धा हि तद्यछ्वो ऽनद्धो तद्यत्प्रजा॥
सा या पूर्वाहुतिः॥
सात्मानमभि हूयते ताम् मन्त्रेण जुहोत्यद्धा हि तद्यन्मन्त्रो ऽद्धो तद्यदात्मा ऽथ योत्तरा सा प्रजामभि हूयते तां तूष्णीं जुहोत्यनद्धा हि तद्यत्तूष्णीमनद्धो तद्यत्प्रजा॥
स जुहोति॥
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेत्यथ प्रातः सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति तत्सत्येनैव हूयते यदा ह्येवसूर्यो ऽस्तमेत्यथाग्निर्ज्योतिर्यदा सूर्य उदेत्यथ सूर्यो ज्योतिर्यद्वै सत्येन हूयते तद्देवान् गछति॥
तदु हैतदेवारुणये ब्रह्मवर्चसकामाय तक्षानूवाचाग्निर्वर्चो ज्योतिर्वर्चः सूर्यो वर्चो ज्योतिर्वर्च इति ब्रह्मवर्चसी हैव भवति य एवं विद्वानग्नि होत्रं जुहोति॥
तद्वस्त्येव प्रजननस्येव रूपम्॥
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति तदुभयतो ज्योती रेतो देवतया परिगृह्णात्युभयतः परिगृहीतं वै रेतः प्रजायते तदुभयत एवैतत्परिगृह्य प्रजनयति॥
अथ प्रातः॥
सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति तदुभयतो ज्योती रेतो देवतया परिगृह्णात्युभयतःपरिगृहीतं वै रेतः प्रजायते तदुभयत एवैतत्परिगृह्य प्रजनयति तत्प्रजननस्य रूपम्॥
तदु होवाच जीवलश्चैलकिः॥
गर्भमेवारुणिः करोति न प्रजनयतीति स एतेनैव सायं जुहुयात्॥
अथ प्रातः॥
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहेति तद्बहिर्धा ज्योती रेतो देवतया करोति बहिर्धा वै रेतः प्रजातम् भवति तदेनत्प्रजनयति॥
तदाहुः॥
अग्नावेवैतत्सायं सूर्यं जुहोति सूर्ये प्रातरग्निमिति तद्वै तदुदितहोमिनामेव यदा ह्येव सूर्यो ऽस्तमेत्यथाग्निर्ज्योतिर्यदा सूर्य उदेत्यथ सूर्यो ज्योतिर्नास्य सा परिचक्षेयमेव परिचक्षा यत्तस्यै नाद्धा देवतायै हूयते याग्निहोत्रस्य देवताग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति तत्र नाग्नये स्वाहेत्यथ प्रातः सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति तत्र न सूर्याय स्वाहेति॥
अनेनैव जुहुयात्॥
सजूर्देवेन सवित्रेति तत्सवितृमत्प्रसवाय सजू रात्र्येन्द्रवत्येति तद्रात्र्या मिथुनं करोति सेन्द्रं करोतीन्द्रो हि यज्ञस्य देवता जुषाणो अग्निर्वेतु स्वाहेति तदग्नये प्रत्यक्षं जुहोति॥
अथ प्रातः॥
सजूर्देवेन सवित्रेति तत्सवितृमत्प्रसवाय सजूरुषसेन्द्रवत्येत्यह्नेति वा तदह्नां वोषसां वा मिथुनं करोति सेन्द्र करोतीन्द्रो हि यज्ञस्य देवता जुषाणः सूर्यो वेतु स्वाहेति तत्सूर्याय प्रत्यक्षं जुहोति तस्मादेवमेव जुहुयात्॥
ते होचुः॥
को न इदं होष्यतीति ब्राह्मण एवेति ब्राह्मणेदं नो जुहुधीति किम् मे ततो भविष्यतीत्यग्निहोत्रोछिष्टमेवेति स यत्स्रुचि परिशिनष्टि तदग्निहोत्रोछिष्टमथ यत्स्थाल्यां यथा परीणहो निर्वपेदेवं तत्तस्मात्तद्य एव कश्च पिबेत्तद्वै नाब्राह्मणः पिबेदग्नौ ह्यधिश्रयन्ति तस्मान्नाब्राह्मणः पिबेत्॥
एता ह वै देवता यो ऽस्ति॥
तस्मिन्वसन्तीन्द्रो यमो राजा नडो नैषिधो ऽनश्नन्त्साङ्गमनो ऽसन्पांसवः॥
तद्वा एष एवेन्द्रः॥
यदाहवनीयो ऽथैष एव गार्हपत्यो यमो राजाथैष एव नडो नैषिधो यदन्वाहार्यपचनस्तद्यदेतमहरहर्दक्षिणत आहरन्ति तस्मादाहुरहरहर्वै नडो नैषिधो यमं राजानं दक्षिणत उपनयतीति॥
अथ य एष सभायामग्निः॥
एष एवानश्नन्त्साङ्गमनस्तद्यदेतमनशित्वेवोपसङ्गछन्ते तस्मादेषो ऽनश्नन्नथ यदेतद्भस्मोद्धृत्य परावपन्त्येष एवासन्पांसवः स यो हैवमेतद्वेदैवम् मय्येता देवता वसन्तीति सर्वान्हैवैतांलोकाञ्जयति सर्वालोकाननुसञ्चरति॥
तेषामुपस्थानम्॥
यदेव सायम् प्रातराहवनीयमुप च तिष्ठत उप चास्ते तदेव तस्योपस्थानमथ यदेव प्रतिपरेत्य गार्हपत्यमास्ते वा शेते वा तदेव तस्योपस्थानमथ यत्रैव संव्रजन्नन्वाहार्यपचनमुपस्मरेत्तदेव तम् मनसोपतिष्ठेत तदेव तस्योपस्थानम्॥
अथ प्रातः॥
अनशित्वा मुहूर्तं सभायामासित्वापि कामम् पल्ययेत तदेव तस्योपस्थानमथ यत्रैव भस्मोद्धृतमुपनिगछेत्तदेव तस्योपस्थानमेवमु हास्यैता देवता उपस्थिता भवन्ति॥
यजमानदेवत्यो वै गार्हपत्यः॥
अथैष भ्रातृव्यदेवत्यो यदन्वाहार्यपचनस्तस्मादेतं नाहरहराहरेयुर्न ह वा अस्य सपत्ना भवन्ति यस्यैवं विदुष एतं नाहरहराहरन्त्यन्वाहार्यपचनो वा एषः॥
उपवसथ एवैनमाहरेयुः॥
यत्रैवास्मिन्यक्ष्यन्तो भवन्ति तथो हास्यैषो ऽमोघायाहृतो भवति॥
नवावसिते वैनमाहरेयुः॥
तस्मिन्पचेयुस्तद्ब्राह्मणा अश्नीयुर्यद्यु तन्न विन्देद्यत्पचेदपि गोरेव दुग्धमधिश्रयितवै ब्रूयात्तस्मिन्ब्राह्मणान्पाययितवै ब्रूयात्पापीयांसो ह वा अस्य सपत्ना भवन्ति यस्यैवं विदुष एवं कुर्वन्ति तस्मादेवमेव चिकीर्षेत्॥
तद्यत्रैतत्प्रथमं समिद्धो भवति॥
धूप्यत इव तर्हि हैष भवति रुद्रः स यः कामयेत यथेमा रुद्रः प्रजा अश्रद्धयेव त्वत्सहसेव त्वन्निघातमिव त्वत्सचत एवमन्नमद्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति॥
अथ यत्रैतत्प्रदीप्ततरो भवति॥
तर्हि हैष भवति वरुणः स यः कामयेत यथेमा वरुणः प्रजा गृह्णन्निव त्वत्सहसेव त्वन्निघातमिव त्वत्सचत एवमन्नमद्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति॥
अथ यत्रैतत्प्रदीप्तो भवति॥
उच्चैर्धूमः परमया जूत्या बल्बलीति तर्हि हैष भवतीन्द्रः स यः कामयेतेन्द्रैव श्रिया यशसा स्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति॥
अथ यत्रैतत्प्रतितरामिव॥
तिरश्चीवार्चिः संशाम्यतो भवति तर्हि हैष भवति मित्रः स यः कामयेत मैत्रेणेदमन्नमद्यामिति यमाहुः सर्वस्य वा अयम् ब्राह्मणो मित्रन्न वा अयं कं चन हिनस्तीति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति॥
अथ यत्रैतदङ्गाराश्चाकश्यन्त इव॥
तर्हि हैष भवति ब्रह्म स यः कामयेत ब्रह्मवर्चसी स्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति॥
एतेषामेकं संवत्सरमुपेर्त्सेत्॥
स्वयं जुह्वद्यदि वास्यान्यो जुहुयादथ यो ऽन्यथान्यथा जुहोति यथापो वाभिखनन्नन्यद्वान्नाद्यं स सामि निवर्तेतैवं तदथ यः सार्धं जुहोति यथापो वाभिखनन्नन्यद्वान्नाद्यं तत्क्षिप्रे ऽभितृन्द्यादेवं तत्॥
अभ्रयो ह वा एता अन्नाद्यस्य यदाहुतयः॥
अभि हैवैतदन्नाद्यं तृणत्ति य एवं विद्वानग्निहोत्रं जुहोति॥
सा या पूर्वाहुतिः॥
ते देवा अथ योत्तरा ते मनुष्या अथ यत्स्रुचि परिशिनष्टि ते पशवः॥
स वै कनीय इव पूर्वामाहुतिं जुहोति॥
भूय इवोत्तराम् भूय इव स्रुचि परिशिनष्टि॥
स यत्कनीय इव पूर्वामाहुतिं जुहोति॥
कनीयांसो हि देवा मनुष्येभ्यो ऽथ यद्भूय इवोत्तराम् भूयांसो हि मनुष्या देवेभ्यो ऽथ यद्भूय इव स्रुचि परिशिनष्टि भूयांसो हि पशवो मनुष्येभ्यः कनीयांसो ह वा अस्य भार्या भवन्ति भूयांसः पशवो य एवं विद्वानग्निहोत्रं जुहोति तद्वै समृद्धं यस्य कनीयांसो भार्या असन्भूयांसः पशवः॥
यत्र वै प्रजापतिः प्रजाः ससृजे॥
स यत्राग्निं ससृजे स इदं जातः सर्वमेव दग्धुं दध्र इत्येवाबिलमेव ता यास्तर्हि प्रजा आसुस्ता हैनं सम्पेष्टुं दध्रिरे सो ऽतितिक्षमाणः पुरुषमेवाभ्येयाय॥
स होवाच॥
न वा अहमिदं तितिक्षे हन्त त्वा प्रविशानि तम् मा जनयित्वा बिभृहि स यथैव मां त्वमस्मिंलोके जनयित्वा भरिष्यस्येवमेवाहं त्वाममुष्मिंलोके जनयित्वा भरिष्यामीति तथेति तं जनयित्वाबिभः॥
स यदग्नी आधत्ते॥
तदेनं जनयति तं जनयित्वा बिभर्ति स यथा हैवैष एतमस्मिंलोके जनयित्वा बिभर्त्येवमु हैवैष एतममुष्मिंलोके जनयित्वा बिभर्ति॥
तन्न साम्युद्वासयेत॥
सामि हास्मै स ग्लायति स यथा हैवैष एतस्मा अस्मिंलोके सामि ग्लायत्येवमु हैवैष एतस्मा अमुष्मिंलोके सामि ग्लायति तस्मान्न साम्युद्वासयेत॥
स यत्र म्रियते॥
यत्रैनमग्नावभ्यादधति तदेषो ऽग्नेरधिजायते स एष पुत्रः सन्पिता भवति॥
तस्मादेतदृषिणाभ्यनूक्तं॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोरिति पुत्रो ह्येष सन्त्स पुनः पिता भवत्येतन्नु तद्यस्मादग्नी आदधीत॥
तद्वा एष एव मृत्युः॥
स एष तपति तद्यदेष एव मृत्युस्तस्माद्या एतस्मादर्वाच्यः प्रजास्ता म्रियन्ते ऽथ याः पराच्यस्ते देवास्तस्मादु ते ऽमृतास्तस्येमाः सर्वाः प्रजा रश्मिभिः प्राणेष्वभिहितास्तस्मादु रश्मयः प्राणानभ्यवतायन्ते॥
स यस्य कामयते॥
तस्य प्राणमादायोदेति स म्रियते स यो हैतम् मृत्युमनतिमुच्याथामुं लोकमेति यथा हैवास्मिंलोके न संयतमाद्रियते यदा यदैव कामयते ऽथ मारयत्येवमु हैवामुष्मिंलोके पुनःपुनरेव प्रमारयति॥
स यत्सायमस्तमिते द्वे आहुती जुहोति॥
तदेताभ्याम् पूर्वाभ्याम् पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठत्यथ यत्प्रातरनुदिते द्वे आहुती जुहोति तदेताभ्यामपराभ्याम् पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठित स एनमेष उद्यन्नेवादायोदेति तदेतम् मृत्युमतिमुच्यते सैषाग्निहोत्रे मृत्योरतिमुक्तिरति ह वै पुनर्मृत्युम् मुच्यते य एवमेतामग्निहोत्रे मृत्योरतिमुक्तिं वेद॥
यथा वा इषोरनीकम्॥
एवं यज्ञानामग्निहोत्रं येन वा इषोरनीकमेति सर्वा वै तेनेषुरेत्येतेनो हास्य सर्वे यज्ञक्रतव एतम् मृत्युमतिमुक्ताः॥
अहोरात्रे ह वा अमुष्मिंलोके परिप्लवमाने॥
पुरुषस्य सुकृतं क्षिणुतो ऽर्वाचीनं वा अतो ऽहोरात्रे तथो हास्याहोरात्रे सुकृतं न क्षिणुतः॥
स यथा रथोपस्थे तिष्ठन्॥
उपरिष्टाद्रथचक्रे पल्यङ्यमाने उपावेक्षेतैवम् परस्तादर्वाचीनो ऽहोरात्रे उपावेक्षते नह वा अस्याहोरात्रे सुकृतं क्षिणुतो य एवमेतामहोरात्रयोरतिमुक्तिं वेद॥
पूर्वेणाहवनीयम् परीत्य॥
अन्तरेण गार्हपत्यं चैति न वै देवा मनुष्यं विदुस्त एनमेतदन्तरेणातियन्तं विदुरयं वै न इदं जुहोतीत्यग्निर्वै पाप्मनो ऽपहन्ता तावस्याहवनीयश्च गार्हपत्यश्चान्तरेणातियतः पाप्मानमपहतः सो ऽपहतपाप्मा ज्योतिरेव श्रिया यशसा भवति॥
उत्तरतो वा अग्निहोत्रस्य द्वारम्॥
स यथा द्वारा प्रपद्येतैवं तदथ यो दक्षिणत एत्यास्ते यथा बहिर्धा चरेदेवं तत्॥
नौर्ह वा एषा स्वर्ग्या॥
यदग्निहोत्रं तस्या एतस्यै नावः स्वर्ग्याया आहवनीयश्चैव गार्हपत्यश्च नौमण्डे अथैष एव नावाजो यत्क्षीरहोता॥
स यत्प्राङुपोदैति॥
तदेनाम् प्राचीमभ्यजति स्वर्गं लोकमभि तया स्वर्गं लोकं समष्नुते तस्या उत्तरत आरोहणं सैनं स्वर्गं लोकं समापयत्यथ यो दक्षिणत एत्यास्ते यथा प्रतीर्णायामागछेत्स विहीयेत स तत एव बहिर्धा स्यादेवं तत्॥
अथ यामेतां समिधमभ्यादधाति सेष्टका येन मन्त्रेण जुहोति तद्यजुर्येनैतामिष्टकामुपदधाति यदा वा इष्टकोपधीयते ऽथाहुतिर्हूयते तदस्योपहितास्वेवेष्टकास्वेता आहुतयो हूयन्ते या एता अग्निहोत्राहुतयः॥
प्रजापतिर्वा अग्निः॥
संवत्सरो वै प्रजापतिः संवत्सरे-संवत्सरे ह वा अस्याग्निहोत्रं चित्येनाग्निना सन्तिष्ठते संवत्सरे-संवत्सरे चित्यमग्निमाप्नोति य एवं विद्वानग्निहोत्रं जुहोत्येतदु हास्याग्निहोत्रं चित्येनाग्निना सन्तिष्ठते चित्यमग्निमाप्नोति॥
सप्त च वै शतान्यशीतीनामृचः॥
विंशतिश्च स यत्सायम् प्रातरग्निहोत्रं जुहोति ते द्वे आहुती ता अस्य संवत्सर आहुतयः सम्पद्यन्ते॥
सप्त चैव शतानि विंशतिश्च॥
संवत्सरे संवत्सरे ह वा अस्याग्निहोत्रम् महतोक्थेन सम्पद्यते संवत्सरे संवत्सरे महदुक्थमाप्नोति य एवं विद्वानग्निहोत्रम् जुहोत्येतदु हास्याग्निहोत्रम् महतोक्थेन सम्पद्यते महदुक्थमाप्नोति॥
अग्नौ ह वै देवाः॥
सर्वान्पशून्निदधिरे ये च ग्राम्या ये चारण्या विजयं वोपप्रैष्यन्तः कामचारस्य वा कामायायं नो गोपिष्ठो गोपायदिति वा॥
तानु हाग्निर्निचकमे॥
तैः सङ्गृह्य रात्रिम् प्रविवेश पुनरेम इति देवा एदग्निं तिरोभूतं ते ह विदां चक्रुरिह वै प्राविक्षद्रात्रिं वै प्राविक्षदिति तमेतत्प्रत्यायत्यां रात्रौ सायमुपातिष्ठन्त देहि नः पशून्पुनर्नः पशून्देहीति तेभ्यो ऽग्निः पशून्पुनरददात्॥
तस्मै कमग्नी उपतिष्ठेत॥
अग्नी वै दातारौ तावेवैतद्याचते सायमुपतिष्ठेत सायं हि देवा उपातिष्ठन्त दत्तो हैवास्मा एतौ पषून्य एवं विद्वानुपतिष्ठते॥
अथ यस्मान्नोपतिष्ठेत॥
उभये ह वा इदमग्रे सहासुर्देवाश्च मनुष्याश्च तद्यद्ध स्म मनुष्याणां न भवति तद्ध स्म देवान्याचन्त इदं वै नो नास्तीदं नो ऽस्त्विति ते तस्या एव याञ्च्यायै द्वेषेण देवास्तिरोभूता नेद्धिनसानि नेद्द्वेष्यो ऽसानीति तस्मान्नोपतिष्ठेत॥
अथ यस्मादुपैव तिष्ठेत॥
यज्ञो वै देवानामाशीर्यजमानस्य तद्वा एष एव यज्ञो यदाहुतिराशीरेव यजमानस्य तद्यदेवास्यात्र तदेवैतदुपतिष्ठमानः कुरुते तस्मादुपैव तिष्ठेत॥
अथ यस्मान्नोपतिष्ठेत॥
यो वै ब्राह्मणं वा शंसमानो ऽनुचरति क्षत्रियं वायम् मे दास्यत्ययम् मे गृहान् करिष्यतीति यो वै तं वाद्येन वा कर्मणा वाभिरिराधयिषति तस्मै वै स देयम् मन्यते ऽथ य आह किं नु त्वम् ममासि यो मे न ददासीतीश्वर एनं द्वेष्टोरीश्वरो निर्वेदं गन्तोस्तस्मान्नोपतिष्ठेतैतदित्त्वेवैष एत याचते यदिन्द्धे यज्जुहोति तस्मान्नोपतिष्ठेत॥
अथ यस्मादुपैव तिष्ठेत॥
उत वै याचन्दातारं लभत एवोतो भर्ता भार्यं नानुबुध्यते स यदैवाह भार्यो वै ते ऽस्मि बिभृहि मेत्यथैनं वेदाथैनम् भार्यम् मन्यते तस्मादुपैव तिष्ठेतेदमित्तु समस्तं यस्मादुपतिष्ठेत॥
प्रजापतिर्वा एष भूत्वा॥
यावत ईष्टे यावदेनमनु तस्य रेतः सिञ्चति यदग्निहोत्रं जुहोतीदमेवैतत्सर्वमुपतिष्ठमानो ऽनुविकरोतीदं सर्वमनुप्रजनयति॥
स वा उपवत्या प्रतिपद्यते॥
इयं वा उप द्वयेनेयमुप यद्धीदं किं च जायते ऽस्यां तदुपजायते ऽथ यन्न्यृछत्यस्यामेव तदुपोप्यते तदह्ना रात्र्या भूयो-भूय एवाक्षय्यम् भवति तदक्षय्येणैवैतद्भूम्ना प्रतिपद्यते॥
स आह॥
उपप्रयन्तो अध्वरमित्यध्वरो वै यज्ञ उपप्रयन्तो यज्ञमित्येवैतदाह मन्त्रं वोचेमाग्नय इति मन्त्रमु ह्यस्मा एतद्वक्ष्यन्भवत्यारे अस्मे च शृण्वत इति यद्यप्यस्मदारकादस्यथ न एतछूण्वेवैवमेवैतन्मन्यस्वेत्येवैतदाह॥
अग्निर्मूर्धा दिवः॥
ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वतीत्यन्वेव धावति तद्यथा याचन् कल्याणं वदेदामुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा असीत्येवमेषा॥
अथैन्द्राग्नी॥
उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वामित्येष वा इन्द्रो य एष तपति स यदस्तमेति तदाहवनीयम् प्रविशति तदुभावेवैतत्सह सन्ता उपतिष्ठत उभौ मे सह सन्तौ दत्तामिति तस्मादैन्द्राग्नी॥
अयं ते योनिरृत्वियः॥
यतो जातो अरोचथाः तं जानन्नग्न आरोहाथा नो वर्धया रयिमिति पुष्टं वै रयिर्भूयो भूय एव न इदम् पुष्टं कुर्वित्येवैतदाह॥
अयमिह प्रथमः॥
धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे विश इत्यन्वेव धावति तद्यथा याचन् कल्याणं वदेदामुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा असीत्येवमेषा यथो एवैष तथो एवैनमेतदाह यदाह विभ्वं विशे विश इति विभूर्ह्येष विशे विशे॥
अस्य प्रत्नाम्॥
अनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिमिति परमा वा एषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै तस्मादाह पयः सहस्रसामृषिमिति॥
तदेतत्समाहार्यं षडृचम्॥
तस्योपवती प्रथमा प्रत्नवत्युत्तमावोचाम तद्यस्मादुपवत्यथाद एव प्रत्नं यावन्तो ह्येव सनाग्रे देवास्तावन्त एव देवास्तस्माददः प्रत्नं तदिमे एवान्तरेण सर्वे कामास्ते अस्मा इमे सञ्जानाने सर्वान् कामान्त्सन्नमतः॥
स वै त्रिः प्रथमां जपति॥
त्रिरुत्तमां त्रिवृत्प्रायणा हि यज्ञास्त्रिवृदुदयनास्तस्मात्त्रिः प्रथमां जपति त्रिरुत्तमाम्॥
यद्ध वा अत्राग्निहोत्रं जुह्वत्॥
वाद्येन वा कर्मणा वा मिथ्या करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा॥
तदु खलु तनूपा अग्ने ऽसि॥
तन्वं मे पाह्यायुर्दा अग्ने ऽस्यायुर्मे देहि वर्चोदा अग्ने ऽसि वर्चो मे देहि अग्ने यन्मे तन्वा ऊनं तन्म आप्रणेति॥
यद्ध वा अत्राग्निहोत्रं जुह्वत्॥
वाद्येन वा कर्मणा वा मिथ्या करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा तन्मे पुनराप्याययेत्येवैतदाह तथो हास्यैतत्पुनराप्यायते॥
इन्धानास्त्वा॥
शतं हिमा द्युमन्तं समिधीमहीति शतं वर्षाणि जीव्यास्मेत्येवैतदाह तावत्त्वा महान्तं समिधीमहीति यदाह द्युमन्तं समिधीमहीति वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतमिति वयस्वन्तो वयम् भूयास्म वयस्कृत्त्वम् भूया इत्येवैतदाह सहस्वन्तो वयम् भूयास्म सहस्कृत्त्वम् बूया इत्येवैतदाहाग्ने सपत्नदम्भनमदब्धासो अदाभ्यमिति त्वया वयं सपत्नान्पापीयसः क्रियास्मेत्येवैतदाह॥
चित्रावसो स्वस्ति ते पारमशीयेति॥
त्रिरेतज्जपति रात्रिर्वै चित्रावसुः सा हीयं सङ्गृह्येव चित्राणि वसति तस्मान्नारकाच्चित्रं ददृशे॥
एतेन ह स्म वा ऋषयः॥
रात्रेः स्वस्ति पारं समश्नुवत एतेनो ह स्मैनान्रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतेनो एवैष एतद्रात्रेः स्वस्ति पारं समश्नुत एतेनो एनं रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतावन्नु तिष्ठञ्जपति॥
अथासीनः॥
सं त्वमग्ने सूर्यस्य वर्चसा गथा इति तद्यदस्तं यन्नादित्य आहवनीयम् प्रविशति तेनैतदाह समृषीणां स्तुतेनेति तद्यदुपतिष्ठते तेनैतदाह सम् प्रियेणधाम्नेत्याहुतयो वा अस्य प्रियं धामाहुतिभिरेव तदाह समहमायुषा सं वर्चसा सम् प्रजया सं रायस्पोषेण ग्मिषीयेति यथा त्वमेतैः समगथा एवमहमायुषा वर्चसा प्रजया रायस्पोषेणेति यद्भूम्नेति तदेवमहमेतैः सङ्गछा इत्येवैतदाह॥
अथ गामभ्यैति॥
अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयेति यानि वो वीर्याणि यानि वो महांसि तानि वो भक्षीयेत्येवैतदाहोर्ज स्थोर्ज वो भक्षीयेति रस स्थ रसं वो भक्षीयेत्येवैतदाह रायस्पोष स्थ रायस्पोषं वो भक्षीयेति भूमा स्थ भूमानं वो भक्षियेत्येवैतदाह॥
रेवती रमध्वमिति रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमित्यस्मिन्योनावस्मिन् गोष्ठे ऽस्मिंलोके ऽस्मिन् क्षये॥
इहैव स्त मापगातेत्यात्मन एवैतदाह मदेव मापगातेति॥
अथ गामभिमृशति॥
संहितासि विश्वरूपीति विश्वरूपा इव हि पशवस्तस्मादाह विश्वरूपीत्यूर्जा माविश गौपत्येनेत्यूर्जेति यदाह रसेनेति तदाह गौपत्येनेति यदाह भूम्नेति तदाह॥
अथ गार्हपत्यमभ्यैति॥
स गार्हपत्यमुपतिष्ठत उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् नमो भरन्त एमसीति नम एवास्मा एतत्करोति यथैनं न हिंस्यात्॥
राजन्तमध्वराणाम्॥
गोपामृतस्य दीदिविं वर्धमानं स्वे दम इति स्वं वै त इदं यन्मम तन्नो भूयो भूय एव कुर्वित्येवैतदाह॥
स नः पितेव सूनवे॥
अग्ने सूपायनो भव सचस्वा नः स्वस्तय इति यथा पिता पुत्राय सूपचरो नैवैनं केन चन हिनस्त्येवं नः सूपचर एधि मैव त्वा केन चन हिंसिष्मेत्येवैतदाह॥
अथ द्विपदाः॥
अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः वसुरग्निर्वसुश्रवा अछा नक्षि द्युमत्तमं रयिं दाः तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मादिति॥
यद्वा आहवनीयमुपतिष्ठते॥
पशूंस्तद्याचते तस्मात्तमुच्चावचैश्छन्दोभिरुपतिष्ठत उच्चावचा इव हि पशवो ऽथ यद्गार्हपत्यम् पुरुषांस्तद्याचते तद्गायत्रम् प्रथमं त्रिचं गायत्रं वा अग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसोपपरैति॥
अथ द्विपदाः॥
पुरुषछन्दसं वै द्विपदा द्विपाद्वा अयम् पुरुषः पुरुषानैवैतद्याचते पुरुषान्हि याचते तस्माद्द्विपदाः पशुमान्ह वै पुरुषवान्भवति य एवं विद्वानुपतिष्ठते॥
अथ गामभ्यैति॥
इड एह्यदित एहीतीडा हि गौरदितिर्हि गौस्तामभिमृशति काम्या एतेति मनुष्याणां ह्येतासु कामाः प्रविष्टास्तस्मादाह काम्या एतेति मयि वः कामधरणम् भूयादित्यहं वः प्रियो भूयासमित्येवैतदाह॥
अथान्तरेणाहवनीयं च गार्हपत्यं च॥
प्राङ् तिष्ठन्नग्निमीक्षमाणो जपति सोमानं स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः स नः सिषक्तु यस्तुरः मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य रक्षा णो ब्रह्मणस्पत इति॥
यद्वा आहवनीयमुपतिष्ठते॥
दिवं तदुपतिष्ठते ऽथ यद्गार्हपत्यम् पृथिवीं तदथैतदन्तरिक्षमेषा हि दिग्बृहस्पतेरेतं ह्येतद्दिशमुपतिष्ठते तस्माद्बार्हस्पत्यं जपति॥
महि त्रीणामवो ऽस्तु॥
द्युक्षम् मित्रस्यार्यम्णः दुराधर्षं वरुणस्य न हि तेषाममा चन नाध्वसु वारणेषु ईशे रिपुरघशंसः ते हि पुत्रासो अदितेः प्र जीवसे मर्त्याय ज्योतिर्यछन्त्यजस्रमिति तत्रास्ति नाध्वसु वारणेष्वित्येति ह वा अध्वानो वारणा य इमे ऽन्तरेण द्यावापृथिवी एतान्ह्येतदुपतिष्ठते तस्मादाह नाध्वसु वारणेष्विति॥
अथैन्द्री॥
इन्द्रो वै यज्ञस्य देवता सेन्द्रमेवैतदग्न्युप्स्थानं कुरुते कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुष इति यजमानो वै दाश्वान्न यजमानाय द्रुह्यसीत्येवैतदाहोपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इति भूयो भूय एव न इदम् पुष्टं कुर्वित्येवैतदाह॥
अथ सावित्री॥
सविता वै देवानाम् प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादिति॥
अथाग्नेयी॥
तदग्नय एवैतदात्मानमन्ततः परिददाति गुप्त्यै परि ते दूडभो रथो ऽस्मान् अश्नोतु विश्वतः येन रक्षसि दाशुष इति यजमाना वै दाश्वांसो यो ह वा अस्यानाधृष्यतमो रथस्तेनैष यजमानानभिरक्षति स यस्ते ऽनाधृष्यतमो रथो येन यजमानानभिरक्षसि तेन नः सर्वतो ऽभिगोपायेत्येवैतदाह त्रिरेतज्जपति॥
अथ पुत्रस्य नाम गृह्णाति॥
इदम् मे ऽयं वीर्यं पुत्रो ऽनुसन्तनवदिति यदि पुत्रो न स्यादप्यात्मन एव नाम गृह्णीयात्॥