०१

स यद्वा इतश्चेतश्च सम्भरति॥
तत्सम्भाराणां सम्भारत्वं यत्र यत्राग्नेर्न्यक्तं ततस्ततः सम्भरति तद्यशसेव त्वदेवैनमेतत्समर्धयति पशुभिरिव त्वन्मिथुनेनेव त्वत्सम्भरन्॥
अथोल्लिखति॥
तद्यदेवास्यै पृथिव्या अभिष्ठितं वाभिष्ठ्यूतं वा तदेवास्या एतदुद्धन्त्यथ यज्ञियायामेव पृथिव्यामाधत्ते तस्माद्वा उल्लिखति॥
अथाद्भिरभ्युक्षति॥
एष वा अपां सम्भारो यदद्भिरभ्युक्षति तद्यदपः सम्भरत्यन्नं वा आपो ऽन्नं हि वा आपस्तस्माद्यदेमं लोकमाप आगछन्त्यथेहान्नाद्यं जायते तदन्नाद्येनैवैनमेतत्समर्धयति॥
योषा वा आपः॥
वृषाग्निर्मिथुनेनैवैनमेतत्प्रजननेन समर्धयत्यद्भिर्वा इदं सर्वमाप्तमद्भिरेवैनमेतदाप्त्वाधत्ते तस्मादपः सम्भरति॥
अथ हिरण्यं सम्भरति॥
अग्निर्ह वा अपो ऽभिदध्यौ मिथुन्याभिः स्यामिति ताः सम्बभूव तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्तस्मादेतदग्निसङ्काशमग्नेर्हि रेतस्तस्मादप्सु विन्दन्त्यप्सु हि प्रासिञ्चत्तस्मादेनेन न धावयति न किं चन करोत्यथ यशो देवरेतसं हि तद्यशसैवैनमेतत्समर्धयति सरेतसमेव कृत्स्नमग्निमाधत्ते तस्माद्धिरण्यं सम्भरति॥
अथोषान्त्सम्भरति॥
असौ ह वै द्यौरस्यै पृठिव्या एतान्पशून्प्रददौ तस्मात्पशव्यमूषरमित्याहुः पशवो ह्येवैते साक्षादेव तत्पशुभिरेवैनमेतत्समर्धयति ते ऽमुत आगता अस्याम् पृथिव्याम् प्रतिष्ठितास्तमनयोर्द्यावापृथिव्यो रसम् मन्यन्ते तदनयोरेवैनमेतद्द्यावापृथिव्यो रसेन समर्धयति तस्मादूषान्त्सम्भरति॥
अथाखुकरीषं सम्भरति॥
आखवो ह वा अस्यै पृथिव्यै रसं विदुस्तस्मात्ते ऽधो ऽध इमाम् पृथिवीं चरन्तः पीविष्ठा अस्यै हि रसं विदुस्ते यत्र ते ऽस्यै पृथिव्यै रसं विदुस्तत उत्किरन्ति तदस्या एवैनमेतत्पृथिव्यै रसेन समर्धयति तस्मादाखुकरीषं सम्भरति पुरीष्य इति वै तमाहुर्यः श्रियं गछति समानं वै पुरीषं च करीषं च तदेतस्यैवावरुद्धै तस्मादाखुकरीषं सम्भरति॥
अथ शर्कराः सम्भरति॥
देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे सा हेयम् पृथिव्यलेलायद्यथा पुष्करपर्णमेवं तां ह स्म वातः संवहति सोपैव देवाञ्जगामोपासुरान्त्सा यत्र देवानुपजगाम॥
तद्धोचुः॥
हन्तेमां प्रतिष्ठां दृंहामहै तस्यां ध्रुवायामशिथिलायामग्नी आदधामहै ततो ऽस्यै सपत्नान्निर्भक्ष्याम इति॥
तद्यथा शङ्कुभिश्चर्म विहन्यात्॥
एवमिमाम् प्रतिष्ठाम् पर्यबृंहन्त सेयं ध्रुवाशिथिला प्रतिष्ठा तस्यां ध्रुवायामशिथिलायामग्नी आदधत ततो ऽस्यै सपत्नान्निरभजन्॥
तथो एवैष एतत्॥
इमाम् प्रतिष्ठां शर्कराभिः परिबृंहते तस्यां ध्रुवायामशिथिलायामग्नी आधत्ते ततो ऽस्यै सपत्नान्निर्भजति तस्माछर्कराः सम्भरति॥
तान्वा एतान्॥
पञ्च सम्भारान्त्सम्भरति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य॥
तदाहुः॥
षडेवर्तवः संवत्सरस्येति न्यूनमु तर्हि मिथुनम् प्रजननं क्रियते न्यूनाद्वा इमाः प्रजाः प्रजायन्ते तछ्वःश्रेयसमुत्तरावत्तस्मात्पञ्च भवन्ति यद्यु षडेवर्तवः संवत्सरस्येत्यग्निरेवैतेषां षष्ठस्तथो एवैतदन्यूनम् भवति॥
तदाहुः॥
नैवैकं चन सम्भारं सम्भरेदित्यस्यां वा एते सर्वे पृथिव्याम् भवन्ति स यदेवास्यामाधत्ते तत्सर्वान्सम्भारानाप्नोति तस्मान्नैवैकं चन सम्भारं सम्भरेदिति तदु समेव भरेद्यदहैवास्यामाधत्ते तत्सर्वान्त्सम्भारानाप्नोति यदु सम्भारैः सम्भृतैर्भवति तदु भवति तस्मादु समेव भरेत्॥
कृत्तिकास्वग्नी आदधीत॥
एता वा अग्निनक्षत्रं यत्कृत्तिकास्तद्वै सलोम यो ऽग्निनक्षत्रे ऽग्नी आदधातै तस्मात्कृत्तिकास्वादधीत॥
एकं द्वे त्रीणि॥
चत्वारीति वा अन्यानि नक्षत्राण्यथैता एव भूयिष्ठा यत्कृत्तिकास्तद्भूमानमेवैतदुपैति तस्मात्कृत्तिकास्वादधीत॥
एता ह वै प्राच्यै दिशो न च्यवन्ते॥
सर्वाणि ह वा अन्यानि नक्षत्राणि प्राच्यै दिशश्च्यवन्ते तत्प्राच्यामेवास्यैतद्दिश्याहितौ भवतस्तस्मात्कृत्तिकास्वादधीत॥
अथ यस्मान्न कृत्तिकास्वादधीत॥
ऋक्षाणां ह वा एता अग्रे पत्न्य आसुः सप्तर्षीनु ह स्म वै पुरर्क्षा इत्याचक्षते ता मिथुनेन व्यार्ध्यन्तामी ह्युत्तराहि सप्तर्षय उद्यन्ति पुर एता अशमिव वै तद्यो मिथुनेन व्यृद्धः स नेन्मिथुनेन व्यृध्या इति तस्मान्न कृत्तिकास्वादधीत॥
तद्वैव दधीत॥
अग्निर्वा एतासां मिथुनमग्निनैता मिथुनेन समृद्धास्तस्मादैव दधीत॥
रोहिण्यामग्नी आदधीत॥
रोहिण्यां ह वै प्रजापतिः प्रजाकामो ऽग्नी आदधे स प्रजा असृजत ता अस्य प्रजाः सृष्टा एकरूपा उपस्तब्धास्तस्थू रोहिण्य इवैव तद्वै रोहिण्यै रोहिणीत्वम् बहुर्हैव प्रजया पशुभिर्भवति य एवं विद्वान्रोहिण्यामाधत्ते॥
रोहिण्यामु ह वै पशवः॥
अग्नी आदधिरे मनुष्याणां कामं रोहेमेति ते मनुष्याणां काममरोहन्यमु हैव तत्पशवो मनुष्येषु काममरोहंस्तमु हैव पशुषु कामं रोहति य एवं विद्वान्रोहिण्यामाधत्ते॥
मृगशीर्षे ऽग्नी आदधीत॥
एतद्वै प्रजापतेः शिरो यन्मृगशीर्षं श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्यो ऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य शिर इत्याहुः श्रियं ह गछति य एवं विद्वान्मृगशीर्ष आधत्ते॥
अथ यस्मान्ना मृगशीर्ष आदधीत॥
प्रजापतेर्वा एतछरीरं यत्र वा एनं तदावेध्यंस्तदिषुणा त्रिकाण्डेनेत्याहुः स एतछरीरमजहाद्वास्तु वै शरीरमयज्ञियं निर्वीर्यं तस्मान्न मृगशीर्ष आदधीत॥
तद्वैव दधीत॥
न वा एतस्य देवस्य वास्तु नायज्ञियं न शरीरमस्ति यत्प्रजापतेस्तस्मादैव दधीत पुनर्वस्वोः पुनराधेयमादधीतेति॥
फल्गुनीष्वग्नी आदधीत॥
एता वा इन्द्रनक्षत्रं यत्फल्गुन्यो ऽप्यस्य प्रतिनाम्न्यो ऽर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नामार्जुन्यो वै नामैतास्ता एतत्परो ऽक्षमाचक्षते फल्गुन्य इति को ह्येतस्यार्हति गुह्यं नाम ग्रहीतुमिन्द्रो वै यजमानस्तत्स्व एवैतन्नक्षत्रे ऽग्नी आधत्त इन्द्रो यज्ञस्य देवतैतेनो हास्यैतत्सेन्द्रमग्न्योधेयं भवति पूर्वयोरादधीत पुरस्तात्क्रतुर्हैवास्मे भवत्युत्तरयोरादधीत श्वःश्रेयसं हैवास्मा उत्तरावद्भवति॥
हस्ते ऽग्नीय् आदधीत॥
य इछेत्प्र मे दीयेतेति तद्वा अनुष्ठ्या यद्धस्तेन प्रदीयते प्र हैवास्मै दीयते॥
चित्रायामग्नी आदधीत॥
देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे त उभय एवामुं लोकं समारुरुक्षां चक्रुर्दिवमेव ततो ऽसुरा रौहिणमित्यग्निं चिक्यिरे ऽनेनामुं लोकं समारोक्ष्याम इति॥
इन्द्रो ह वा ईक्षां चक्रे॥
इमं चेद्वा इमे चिन्वते तत एव नो ऽभिभवन्तीति स ब्राह्मणो ब्रुवाण एकेष्टकां प्रबध्येयाय॥
स होवाच॥
हन्ताहमिमामप्युपदधा इति तथेति तामुपाधत्त तेषामल्पकादेवाग्निरसञ्चित आस॥
अथ होवाच॥
अन्वा अहं तां दास्ये या ममेहेति तामभिपद्याबबर्ह तस्यामावृढायामग्निर्व्यवशशादाग्नेर्व्यवशादमन्वसुरा व्यवशेदुः स ता एवेष्ठ्का वज्रान् कृत्वा ग्रीवाः प्रचिच्छेद॥
त ह देवाः समेत्योचुः॥
चित्र वा अभूम य इयतः सपत्नानवधिष्मेति तद्वै चित्रायै चित्रात्वं चित्रं ह भवति हन्ति सपत्नान्हन्ति द्विषन्तं भ्रातृव्यं य एवं विद्वांश्चित्रायामाधत्ते तस्मादेतत्क्षत्रिय एव नक्षत्रमुपेर्त्सेज्जिघांसतीव ह्येष सपत्नान्वीव जिगीषते॥
नाना ह वा एतान्यग्रे क्षत्राण्यासुः॥
यथैवासौ सूर्य एवं तेषामेष उद्यन्नेव वीर्यं क्षत्रमादत्त तस्मादादित्यो नाम यदेषां वीर्यं क्षत्रमादत्त॥
ते ह देवा ऊचुः॥
यानि वै तानि क्षत्राण्यभूवन्न वै तानि क्षत्राण्यभूवन्निति तद्वै नक्षत्राणां नक्षत्रत्वं तस्मादु सूर्यनक्षत्र एव स्यादेष ह्येषां वीर्यं क्षत्रमादत्त यद्यु नक्षत्रकामः स्यादेतद्वा अनपराद्धं नक्षत्रं यत्सूर्यः स एतेनैव पुण्याहेन यदेतेषां नक्षत्राणां कामयेत तदुपेर्त्सेत्तस्मादु सूर्यनक्षत्र एव स्यात्॥
वसन्तो ग्रीष्मो वर्षाः॥
ते देवा ऋतवः शरद्धेमन्तः शिशिरस्ते पितरो य एवापूर्यते ऽर्धमासः स देवा यो ऽपक्षीयते स पितरो ऽहरेव देवा रात्रिः पितरः पुनरह्नः पूर्वाह्णो देवा अपराह्णः पितरः॥
ते वा एत ऋतवः॥
देवाः पितरः स यो हैवं विद्वान्देवाः पितर इति ह्वयत्या हास्य देवा देवहूयं गछन्त्या पितरः पितृहूयमवन्ति हैनं देवा देवहूये ऽवन्ति पितरः पितृहूये य एवं विद्वान्देवाः पितर इति ह्वयति॥
स यत्रोदगावर्तते॥
देवेषु तर्हि भवति देवांस्तर्ह्यभिगोपायत्यथ यत्र दक्षिणावर्तते पितृषु तर्हि भवति पितॄंस्तर्ह्यभिगोपायति॥
स यत्रोदगावर्तते॥
तर्ह्यग्नी आदधीतापहतपाप्मानो देवा अप पाप्मानं हते ऽमृता देवा नामृतत्वस्याशास्ति सर्वमायुरेति यस्तर्ह्याधत्ते ऽथ यत्र दक्षिणावर्तते यस्तर्ह्याधत्ते ऽनपहतपाप्मानः पितरो न पाप्मानमपहते मर्त्याः पितरः पुरा हायुषो म्रियते यस्तर्ह्याधत्ते॥
ब्रह्मैव वसन्तः॥
क्षत्रं ग्रीष्मो विडेव वर्षास्तस्माद्ब्राह्मणो वसन्त आदधीत ब्रह्म हि वसन्तस्तस्मात्क्षत्रियो ग्रीष्म आदधीत क्षत्रं हि ग्रीष्मस्तस्माद्वैश्यो वर्षास्वादधीत विड्ढि वर्षाः॥
स यः कामयेत॥
ब्रह्मवर्चसी स्यामिति वसन्ते स आदधीत ब्रह्म वै वसन्तो ब्रह्मवर्चसी हैव भवति॥
अथ यः कामयेत॥
क्षत्रं श्रिया यशसा स्यामिति ग्रीष्मे स आदधीत क्षत्रं वै ग्रीष्मः क्षत्रं हैव श्रिया यशसा भवति॥
अथ यः कामयेत॥
बहुः प्रजया पशुभिः स्यामिति वर्षासु स आदधीत विड्वै वर्षा अन्नं विशो बहुर्हैव प्रजया पशुभिर्भवति य एवं विद्वान्वर्षास्वाधत्ते॥
ते वा एत ऋतवः॥
उभय एवापहतपाप्मानः सूर्य एवैषाम् पाप्मनो ऽपहन्तोद्यन्नेवैषामुभयेषाम् पाप्मानमपहन्ति तस्माद्यदैवैनं कदा च यज्ञ उपनमेदथाग्नी आदधीत न श्वःश्वमुपासीत को हि मनुष्यस्य श्वो वेद॥
यदहरस्य श्वो ऽग्न्याधेयं स्यात्॥
दिवैवाश्नीयान्मनो ह वै देवा मनुष्यस्याजानन्ति ते ऽस्यैतछ्वो ऽग्न्याधेयं विदुस्ते ऽस्य विश्वे देवा गृहानागछन्ति ते ऽस्य गृहेषूपवसन्ति स उपवसथः॥
तन्न्वेवानवकॢप्तं यो मनुष्येष्वनश्नत्सु पूर्वो ऽश्नीयादथ किमु यो देवेष्वनश्नत्सु पूर्वो ऽश्नीयात्तस्मादु दिवैवाश्नीयात्तद्वपि काममेव नक्तमश्नीयान्नो ह्यनाहिताग्नेर्व्रतचर्यास्ति मानुषो ह्येवैष तावद्भवति यावदनाहिताग्निस्तस्माद्वपि काममेव नक्तमश्नीयात्॥
तद्धैके ऽजमुपबध्नन्ति॥
आग्नेयो ऽजो ऽग्नेरेव सर्वत्वायेति वदन्तस्तदु तथा न कुर्याद्यद्यस्याजः स्यादग्नीध एवैनम् प्रातर्दद्यात्तेनैव तं काममाप्नोति तस्मादु तन्नाद्रियेत॥
अथ चातुष्प्राश्यमोदनम् पचन्ति॥
छन्दांस्यनेन प्रीणीम इति यथा येन वाहनेन स्यन्त्स्यन्त्स्यात्तत्सुहितं कर्तवै ब्रूयादेवमेतदिति वदन्तस्तदु तथा न कुर्याद्यद्वा अस्य ब्राह्मणाः कुले वसन्त्यृत्विजश्चानृत्विजश्च तेनैव तं काममाप्नोति तस्मादु तन्नाद्रियेत॥
तस्य सर्पिरासेचनं कृत्वा॥
सर्पिरासिच्याश्वत्थीस्तिस्रः समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिरृग्भिरभ्यादधति शमीगर्भमेतदाप्नुम इति वदन्तः स यः पुरस्तात्संवत्सरमभ्यादध्यात्स ह तं काममाप्नुयात्तस्मादु तन्नाद्रियेत॥
तदु होवाच भाल्लवेयः॥
यथा वा अन्यत्करिष्यन्त्सो ऽन्यत्कुर्याद्यथान्यद्वदिष्यन्त्सो ऽन्यद्वदेद्यथान्येन पथैष्यन्त्सो ऽन्येन प्रतिपद्येतैवं तद्य एतं चातुष्प्राश्यमोदनम् पचेदपराद्धिरेव सेति न हि तदवकल्पते यस्मिन्नग्नावृचा वा साम्ना वा यजुषा वा समिधं वाभ्यादध्यादाहुतिं वा जुहुयाद्यत्तं दक्षिणा वा हरेयुरनु वा गमयेयुर्दक्षिणा वा ह्येनं हरन्त्यन्वाहार्यपचनो भविष्यतीत्यनु वा गमयन्ति॥
अथ जाग्रति देवाः॥
तद्देवानेवैतदुपावर्तते स सदेवतरः श्रान्ततरस्तपस्वितरो ऽग्नी आधत्ते तद्वपि काममेव स्वप्यान्नो ह्यनाहिताग्नेर्व्रतचर्यास्ति मानुषो ह्येवैष तावद्भवति यावदनाहिताग्निस्तस्माद्वपि काममेव स्वप्यात्॥
तद्धैके ऽनुदिते मथित्वा॥
तमुदिते प्राञ्चमुद्धरन्ति तदु तदुभे अहोरात्रे परिगृह्णीमः प्राणोदानयोर्मनसश्च वाचश्च पर्याप्त्या इति वदन्तस्तदु तथा न कुर्यादुभौ हैवास्य तथानुदित आहितौ भवतो ऽनुदिते हि मथित्वा तमुदिते प्राञ्चमुद्धरन्ति स य उदित आहवनीयम् मन्थेत्स ह तत्पर्याप्नुयात्॥
अहर्वै देवाः॥
अनपहतपाप्मानः पितरो न पाप्मानमपहते मर्त्याः पितरः पुरा हायुषो म्रियते यो ऽनुदिते मन्थत्यपहतपाप्मानो देवा अप पाप्मानं हते ऽमृता देवा नामृतत्वस्याशास्ति सर्वमायुरेति श्रीर्देवाः श्रियं गछति यशो देवा यशो ह भवति य एवं विद्वानुदिते मन्थति॥
तदाहुः॥
यन्नर्चा न साम्ना न यजुषाग्निराधीयते ऽथ केनाधीयत इति ब्रह्मणो हैवैष ब्रह्मणाधीयते वाग्वै ब्रह्म तस्यै वाचः सत्यमेव ब्रह्म ता वा एताः सत्यमेव व्याहृतयो भवन्ति तदस्य सत्येनैवाधीयते॥
भूरिति वै प्रजापतिः॥
इमामजनयत भुव इत्यन्तरिक्षं स्वरिति दिवमेतावद्वा इदं सर्वं यावदिमे लोकाः सर्वेणैवाधीयते॥
भूरिति वै प्रजापतिः॥
ब्रह्माजनयत भुव इति क्षत्रं स्वरिति विशमेतावद्वा इदं सर्वं यावद्ब्रह्म क्षत्रं विट् सर्वेणैवाधियते॥
भूरिति वै प्रजापतिः॥
आत्मानमजनयत भुव इति प्रजांस्वरिति पशूनेतावद्वा इदं सर्व यावदात्मा प्रजा पशवः सर्वेणैवाधीयते॥
स वै भूर्भुव इति॥
एतावतैव गार्हपत्यमादधात्यथ यत्सर्वैरादध्यात्केनाहवनीयमादध्याद्द्वे अक्षरे परिशिनष्टि तेनो एतान्ययातयामानि भवन्ति तैः सर्वैः पञ्चभिराहवनीयमादधाति भूर्भुवः स्वरिति तान्यष्टावक्षराणि सम्पद्यन्ते ऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसाधत्ते॥
देवान्ह वा अग्नी ऽआधास्यमानान् {??}॥
तानसुररक्षसानि ररक्षुर्नाग्निर्जनिष्यते नाग्नी आधास्यध्व इति तद्यदरक्षंस्तस्माद्रक्षांसि॥
ततो देवा एतं वज्रं ददृशुः॥
यदश्वं तम् पुरस्तादुदश्रयंस्तस्याभये ऽनाष्ट्रे निवाते ऽग्निरजायत तस्माद्यत्राग्निम् मन्थिष्यन्त्स्यात्तदश्वमानेतवै ब्रूयात्स पूर्वेणोपतिष्ठते वज्रमेवैतदुछ्रयति तस्याभये ऽनाष्ट्रे निवाते ऽग्निर्जायते॥
स वै पूर्ववाट् स्यात्॥
स ह्यपरिमितं वीर्यमभिवर्धते यदि पूर्ववाहं न विन्देदपि य एव कश्चाश्वः स्याद्यद्यश्वं न विन्देदप्यनड्वानेव स्यादेष ह्येवानडुहो बन्धुः॥
तं यत्र प्राञ्चं हरन्ति॥
तत्पुरस्तादश्वं नयन्ति तत्पुरस्तादेवैतन्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण हरन्ति॥
तं वै तथैव हरेयुः॥
यथैनमेष प्रत्यङ्ङुपाचरेदेष वै यज्ञो यदग्निः प्रत्यङ् हैवैनं यज्ञः प्रविशति तं क्षिप्रे यज्ञ उपनमत्यथ यस्मात्पराङ् भवति पराङु हैवास्माद्यज्ञो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्माद्यज्ञो ऽभूदितीश्वरो ह यत्तथैव स्यात्॥
एष उ वै प्राणः॥
तं वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ् हैवैनम् प्राणः प्रविशत्यथ यस्मात्पराङ् भवति पराङु हैवास्मात्प्राणो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्मात्प्राणो ऽभूदितीश्वरो ह यत्तथैव स्यात्॥
अयं वै यज्ञो यो ऽयम् पवते॥
तं वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ् हैवैनं यज्ञः प्रविशति तं क्षिप्रे यज्ञ उपनमत्यथ यस्मात्पराङ् भवति पराङु हैवास्माद्यज्ञो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्माद्यज्ञो ऽभूदितीश्वरो ह यत्तथैव स्यात्॥
एष उ वै प्राणः॥
ते वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ् हैवैनम् प्राणः प्रविशत्यथ यस्मात्पराङ् भवति पराङु हैवास्मात्प्राणो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्मात्प्राणो ऽभूदितीश्वरो ह यत्तथैव स्यात्तस्मादु तथैव हरेयुः॥
अथाश्वमाक्रमयति॥
तमाक्रमय्य प्राञ्चमुन्नयति तम् पुनरावर्तयति तमुदञ्चम् प्रमुञ्चति वीर्यं वा अश्वो नेदस्मादिदम् पराग्वीर्यमसदिति तस्मात्पुनरावर्तयति॥
तमश्वस्य पद आधत्ते॥
वीर्यं वा अश्वो वीर्य एवैनमेतदाधत्ते तस्मादश्वस्य पद आधत्ते॥
स वै तूष्णीमेवाग्र उपस्पृशति॥
अथोद्यछत्यथोपस्पृशति भूर्भुवः स्वरित्येव तृतीयेनादधाति त्रयो वा इमे लोकास्तदिमानेवैतल्लोकानाप्नोत्येतन्न्वेकम्॥
अथेदं द्वितीयम्॥
तूष्णीमेवाग्र उपस्पृशत्यथोद्यछति भूर्भुवः स्वरित्येव द्वितीयेनादधाति यो वा अस्यामप्रतिष्ठितो भारमुद्यछति नैनं शक्नोत्युद्यन्तुं सं हैनं शृणाति॥
स यत्तूष्णीमुपस्पृशति॥
तदस्याम् प्रतिष्ठायाम् प्रतिष्ठन्ति सो ऽस्याम् प्रतिष्ठित आधत्ते तथा न व्यथते तदु हैतत्पश्चेव दध्रिर आसुरिः पाञ्चिर्माधुकिः सर्वं वा अन्यदियसितमिव प्रथमेनैवोद्यत्यादध्याद्भूर्भुवः स्वरिति तदेवानियसितमित्यतो यतमथा कामयेत तथा कुर्यात्॥
अथ पुरस्तात्परीत्य॥
पूर्वार्धमुल्मुकानामभिपद्यजपति द्यौरिव भूम्ना पृथिवीव वरिम्णेति यथासौ द्यौर्बह्वी नक्षत्रैरेवम् बहुर्भूयासमित्येवैतदाह यदाह द्यौरिव भूम्नेति पृथिवीव वरिम्णेति यथेयम् पृथिव्युर्व्येवमुरुर्भूयासमित्येवैतदाह तस्यास्ते पृथिवि देवयजनि पृष्ठ इत्यस्यै ह्येनम् पृष्ठ आधत्ते ऽग्निमन्नादमन्नाद्यायादध इत्यन्नादो ऽग्निरन्नादो भूयासमित्येवैतदाह सैषाशीरेव स यदि कामयेत जपेदेतद्यद्यु कामयेतापि नाद्रियेत॥
अथ सर्पराज्ञ्या ऋग्भिरुपतिष्ठते॥
आयं गौः पृश्निरक्रमीदसदन्मातरम् पुरः पितरं च प्रयन्त्स्वः अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम् त्रिंशद्धाम विराजति वाक्पतङ्गाय धीयते प्रति वस्तोरह द्युभिरिति तद्यदेवास्यात्र सम्भारैर्वा नक्षत्रैर्वर्तुभिर्वाधानेन वानाप्तम् भवति तदेवास्यैतेन सर्वमाप्तम् भवति तस्मात्सर्पराज्ञ्या ऋग्भिरुपतिष्ठते॥
तदाहुः॥
न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेतीयं वै पृथिवी सर्पराज्ञी स यदेवास्यामाधत्ते तत्सर्वान् कामानाप्नोति तस्मान्न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेति॥