०९

स यत्राह॥
इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति यदतो होतान्वाह सूक्त इव तदाह यजमानायैवैतदाशिषमाशास्ते तद्वा एतदुपरिष्टाद्यज्ञस्याशिषमाशास्ते द्वयं तद्यस्मादुपरिष्टाद्यज्ञस्याशिषमाशास्ते॥
यज्ञं वा एष जनयति॥
यो यजत एतेन ह्युक्ता ऋत्विजस्तन्वते तं जनयन्त्यथाशिषमाशास्ते तामस्मै यज्ञ आशिषं सन्नमयति यामाशिषमाशास्ते यो माजीजनतेति तस्माद्वा उपरिष्टाद्यज्ञस्याशिषमाशास्ते॥
देवान्वा एष प्रीणाति॥
यो यजत एतेन यज्ञेनर्ग्भिरिव त्वद्यजुर्भिरिव त्वदाहुतिभिरिव त्वत्स देवान्प्रीत्वा तेष्वपित्वी भवति तेष्वपित्वी भूत्वाथाशिषमाशास्ते तामस्मै देवा आशिषं सन्नमयन्ति यामाशिषमाशास्ते यो नो ऽप्रैषीदिति तस्माद्वा उपरिष्टाद्यज्ञस्याशिषमाशास्ते॥
अथ प्रतिपद्यते॥
इदं द्यावापृथिवी भद्रमभूदिति भद्रं ह्यभूद्यो यज्ञस्य संस्थामगन्नार्ध्म सूक्तवाकमुत नमोवाकमित्युभयं वा एतद्यज्ञ एव यत्सूक्तवाकश्च नमोवाकश्चारात्स्म यज्ञमविदाम यज्ञमित्येवैतदाहाग्ने त्वं सूक्तवागस्युपश्रुती दिवस्पृथिव्योरित्यग्निमेवैतदाह त्वं सूक्तवागस्युपशृण्वत्योरनयोर्द्यावापृथिव्योरित्योमन्वती ते ऽस्मिन्यज्ञे यजमान द्यावापृथिवी स्तामित्यन्नवत्यौ ते ऽस्मिन्यज्ञे यजमान द्यावापृथिवी स्तामित्येवैतदाह॥
शङ्गवी जीवदानू इति॥
शङ्गवी ते जीवदानू स्तामित्येवैतदाहात्रस्नू अप्रवेदे इति माह कस्माच्चन प्रत्रासीर्मो त इदम् पुष्टं कश्चन प्रविदतेत्येवैतदाह॥
उरुगव्यूती अभयङ्कृताविति॥
उरुगयूती ते ऽभये स्तामित्येवैतदाह वृष्टिद्यावा रीत्यापेति वृष्टिमत्यौ ते स्तामित्येवैतदाह॥
शम्भुवौ मयोभुवाविति॥
शम्भुवौ ते मयोभुवौ स्तामित्येवैतदाहोर्जस्वती च पयस्वती चेति रसवत्यौ त उपजीवनीये स्तामित्येवैतदाह॥
सूपचरणा च स्वधिचरणाचेति॥
सूपचरणाह ते ऽसावस्तु यामधस्तादुपचरसि स्वधिचरणो त इयमस्तु यामुपरिष्टादधिचरसीत्येवैतदाह तयोराविदीति तयोरनोमन्यमानयोरित्येवैतदाह॥
अग्निरिदं हविः अजुषतावीवृधत महो ज्यायो ऽकृतेति तदाग्नेयमाज्यभागमाह सोम इदं हविरजुषतावीवृधत महो ज्यायो ऽकृतेति तत्सौम्यमाज्यभागमाहाग्निरिदं हविरजुषतावीवृधत महो ज्यायो ऽकृतेति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तमाह॥
अथ यथादेवतं॥
देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायो ऽक्रतेति तत्प्रयाजानुयाजानाह प्रयाजानुयाजा वै देवा आज्यपा अग्निर्होत्रेणेदं हविरजुषतावीवृधत महो ज्यायो ऽकृतेति तदग्निं होत्रेणाहाजुषतेत्येवं या इष्टा देवता भवन्ति ताः सम्पश्यत्यसौ हविरजुषतासौ हविरजुषतेति तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति तस्मादाहाजुषतेत्यवीवृधतेति यद्वै देवा हविर्जोषयन्ते तदपि गिरिमात्रं कुर्वते तस्मादाहावीवृधतेति॥
महो ज्यायो ऽक्रतेति॥
यज्ञो वै देवानाम् महस्तं ह्येतज्ज्यायांसमिव कुर्वते तस्मादाह महो ज्यायो ऽक्रतेति॥
अस्यामृधेद्धोत्रायां देवङ्गमायामिति॥
अस्यां राध्नोतु होत्रायां देवङ्गमायामित्येवैतदाहाशास्ते ऽयं यजमानो ऽसाविति नाम गृह्णाति तदेनम् प्रत्यक्षमाशिषा सम्पादयति॥
दीर्घायुत्वमाशास्त इति॥
सा यामुत्रोत्तरा देवयज्या तदिह प्रत्यक्ष्ं दीर्घायुत्वम्॥
सुप्रजास्त्वमाशास्त इति॥
तद्यदमुत्र भूयो हविष्करणं तदिह प्रत्यक्ष्ं सुप्रजास्त्वम् प्रशासनं स कुर्याद्य एवं कुर्यादुत्तरां देवयज्यामाशास्त इति त्वेव ब्रूयात्तदेव जीवातुं तत्प्रजां तत्पशून्॥
भूयो हविष्करणमाशास्त इति तद्वेव तत्सजातवनस्यामाशास्त इति प्राणा वै सजाताः प्राणौर्हि सह जायते तत्प्राणानाशास्ते॥
दिव्यं धामाशास्त इति॥
देवलोके मे ऽप्यसदिति वै यजते यो यजते तद्देवलोक एवैनमेतदपित्विनं करोति यदनेन हविषाशास्ते तदश्यात्तदृध्यादिति यदनेन हविषाशास्ते तदस्मै सर्वं समृध्यतामित्येवैतदाह॥
ता वा एताः॥
पञ्चाशिषः करोति तिस्र इडायां ता अष्टावष्टाक्षरा वै गायत्री वीर्यं गायत्री वीर्यमेवैतदाशिषो ऽभिसम्पादयति॥
नातो भूयसीः कुर्यात्॥
अतिरिक्तं ह कुर्याद्यदतो भूयसीः कुर्याद्यद्वै यज्ञस्यातिरिक्तं द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते तस्मान्नातो भूयसीः कुर्यात्॥
अपीद्वै कनीयसीः सप्त॥
तदस्मै देवा रासन्तामिति तदस्मै देवा अनुमन्यन्तामित्येवैतदाह तदाग्निर्देवो देवेभ्यो वनुतां वयमग्नेः परि मानुषा इति तदग्निर्देवो देवेभ्यो वनुतां वयमग्नेरध्यस्मा एतद्वनवामहा इत्येवैतदाह॥
इष्टं च वित्तं चेति॥
ऐषिषुरिव वा एतद्यज्ञं तमविदंस्तस्मादाहेष्टं च वित्तं चेत्युभे चैनं द्यावापृथिवी अंहसस्पातामित्युभे चैनं द्यावापृथिवी आत्तेर्गोपायतामित्येवैतदाह॥
तदु हैक आहुः॥
उभे च मेति तथा होताशिष आत्मानं नान्तरेतीति तदु तथा न ब्रूयाद्यजमानस्य वै यज्ञ आशीः किं नु तत्रर्त्विजां यां वै कां च यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा न ह स एतां क्व चनाशिषम् प्रतिष्ठापयति य आहोभे च मेति तस्मादु ब्रूयादुभे छैनमित्येव॥
इह गतिर्वामस्येति॥
तद्यदेव यज्ञस्य साधु तदेवास्मिन्नेतद्दधाति तस्मादाहेह गतिर्वामस्येति॥
इदं च नमो देवेभ्य इति तद्यज्ञस्यैवैतत्संस्थां गत्वा नमो देवेभ्यः करोति तस्मादाहेदं च नमो देवेभ्य इति॥
अथ शम्योराह॥
शम्युर्ह वै बार्हस्पत्यो ऽञ्जसा यज्ञस्य संस्थां विदां चकार स देवलोकमपीयाय तत्तदन्तर्हितमिव मनुष्येभ्य आस॥
तद्वा ऋषीणामनुश्रुतमास॥
शम्युर्ह वै बार्हस्पत्यो ऽञ्जसा यज्ञस्य संस्थां विदां चकार स देवलोकमपीयायेति ते तामेव यज्ञस्य संस्थामुपायन्यां शम्युर्बार्हस्पत्यो ऽवेद्यछम्योरब्रुवंस्ताम्वेवैष एतद्यज्ञस्य संस्थामुपैति यां शम्युर्बार्हस्पत्यो ऽवेद्यछम्योराह तस्माद्वै शम्योराह॥
स प्रतिपद्यते॥
तछंयोरावृणीमह इति तां यज्ञस्य संस्थामावृणीमहे यां शम्युर्बार्हस्पत्यो ऽवेदित्येवैतदाह॥
गातुं यज्ञाय गातुं यज्ञपतय इति॥
गातुं ह्येष यज्ञायेछति गातुं यज्ञपतये यो यज्ञस्य संस्थां दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्य इति स्वस्ति नो देवत्रास्तु स्वस्ति मनुष्यत्रेत्येवैतदाहोर्ध्वं जिगातु भेषजमित्यूर्ध्वं नो ऽयं यज्ञो देवलोकं जयत्वित्येवैतदाह॥
शं नो अस्तु द्विपदे शं चतुष्पद इति॥
एतावद्वा इदं सर्वं यावद्द्विपाच्चैव चतुष्पाच्च तस्मा एवैतद्यज्ञस्य संस्थां गत्वा शं करोति तस्मादाह शं नो अस्तु द्विपदे शं चतुष्पद इति॥
अथानयेत्युपस्पृशति॥
अमानुष इव वा एतद्भवति यदार्त्विज्ये प्रवृत इयं वै पृथिवी प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायाम् प्रतिष्ठति तदु खलु पुनर्मानुषो भवति तस्मादनयेत्युपस्पृशति॥
ते वै पत्नीः संयाजयिष्यन्तः प्रतिपरायन्ति॥
जुहूं च स्रुवं चाध्वर्युरादत्ते वेदं होताज्यविलापनीमग्नीत्॥
तद्धैकेषामध्वर्युः॥
पूर्वेणाहवनीयम् पर्येति तदु तथा न कुर्याद्बहिर्धा ह यज्ञात्स्याद्यत्तेनेयात्॥
जघनेनो हैव पत्नीं॥
एकेषामध्वर्युरेति नो एव तथा कुर्यात्पूर्वार्धो वै यज्ञस्याध्वर्युर्जघनार्धः पत्नी यथा भसत्तः शिरः प्रतिदध्यादेवं तद्बहिर्धा हैव यज्ञात्स्याद्यत्तेनेयात्॥
अन्तरेणो हैव पत्नीं॥
एकेषामध्वर्युरेति नो एव तथा कुर्यादन्तरियाद्ध यज्ञात्पत्नीं यत्तेनेयात्तस्मादु पूर्वेणैव गार्हपत्यमन्तरेणाहवनीयं चैति तथा ह न बहिर्धा यज्ञाद्भवति यथो एवादः प्रचरन्नन्तरेण सञ्चरति स उ एवास्यैष सञ्चरो भवति॥
अथ पत्नीः संयाजयन्ति॥
यज्ञाद्वै प्रजाः प्रजायन्ते यज्ञात्प्रजायमाना मिथुनात्प्रजायन्ते मिथुनात्प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते तदेना एतदन्ततो यज्ञस्य मिथुनात्प्रजननात्प्रजनयति तस्मान्मिथुनात्प्रजननादन्ततो यज्ञस्येमाः प्रजाः प्रजायन्ते तस्मात्पत्नीः संयाजयन्ति॥
चतस्रो देवता यजति॥
चतस्रो वै मिथुनं द्वन्द्वं वै मिथुनं द्वे द्वे हि खलु भवतो मिथुनमेवैतत्प्रजनने क्रियते तस्माच्चतस्रो देवता यजति॥
ता वा आज्यहविषो भवन्ति॥
रेतो वा आज्यं रेत एवैतत्सिञ्चति तस्मादाज्यहविषो भवन्ति॥
तेनोपांशु चरन्ति॥
तिर इव वै मिथुनेन चर्यते तिर इवैतद्यदुपांशु तस्मादुपांशु चरन्ति॥
अथ सोमं यजति॥
रेतो वै सोमो रेत एवैतत्सिञ्चति तस्मात्सोमं यजति॥
अथ त्वष्टारं यजति॥
त्वष्टा वै सिक्तं रेतो विकरोति तस्मात्त्वष्टारं यजति॥
अथ देवानाम् पत्नीर्यजति॥
पत्नीषु वै योनौ रेतः प्रतिष्ठितं तत्ततः प्रजायते तत्पत्नीष्वैवैतद्योनौ रेतः सिक्तम् प्रतिष्ठापयति तत्ततः प्रजायते तस्माद्देवानाम् पत्नीर्यजति॥
स यत्र देवानाम् पत्नीर्यजति॥
तत्पुरस्तात्तिरः करोत्युप ह वै तावद्देवता आसते यावन्न समिष्टयजुर्जुह्वतीदं नु नो जुह्वत्विति ताभ्य एवैतत्तिरः करोति तस्मादिमा मानुष्य स्त्रियस्तिर इवैव पुंसो जिघत्मन्ति या इव तु ता इवेति ह स्माह याज्ञवल्क्यः॥
अथाग्निं गृहपतिं यजति॥
अयं वा अग्निर्लोक इममेवैतल्लोकमिमाः प्रजा अभिप्रजनयति ता इमं लोकमिमाः प्रजा अभिप्रजायन्ते तस्मादग्निं गृहपतिं यजति॥
तदिडान्तम् भवति॥
न ह्यत्र परिधयो भवन्ति न प्रस्तरो यत्र वा अदः प्रस्तरेण यजमानं स्वगाकरोति पतिं वा अनु जाया तदेवास्यापि पत्नी स्वगाकृता भवतीयसि तं ह कुर्याद्यत्प्रस्तरस्य रूपं कुर्यात्तस्मादिडान्तमेव स्यादुतो प्रस्तरस्यैव रूपं क्रियते॥
स यदि प्रस्तरस्य रूपं कुर्यात्॥
यथैवादः प्रस्तरेण यजमानं स्वगाकरोत्येवमेवैतत्पत्नीं स्वगाकरोति॥
स यदि प्रस्तरस्य रूपं कुर्यात्॥
वेदस्यैकं तृणमाछिद्याग्रं जुह्वामनक्ति मध्यं स्रुवे बुध्नं स्थाल्याम्॥
अथाग्नीदाहानुप्रहरेति॥
तूष्णीमेवानुप्रहृत्य चक्षुष्पा अग्ने ऽसि चक्षुर्मे पाहीत्यात्मानमुपस्पृशाते तनो अप्यात्मानं नानुप्रवृणक्ति॥
अथाह संवदस्वेति॥
अगानग्नीदगञ्छ्रावय औषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति॥
अथ जुहूं च स्रुवं च सम्प्रगृह्णाति॥
अदो हैवाहुतिं करोति यदनक्त्याहुतिर्भूत्वा देवलोकं गछादिति तस्माज्जुहूं च स्रुवं च सम्प्रगृह्णाति॥
स वा अग्नये सम्प्रगृह्णाति॥
अग्ने ऽदब्धायो ऽशीतमेत्यमृतो ह्यग्निस्तस्मादाहादब्धायवित्यशीतमेत्यशिष्ठो ह्यग्निस्तस्मादाहाशीतमेति पाहि मा दिद्योः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्या इति सर्वाभ्यो मार्त्तिभ्यो गोपायेत्येवैतदाहाविषं नः पितुं कृण्वित्यन्नं वै पितुरनमीवं न इदमकिल्विषमन्नं कुर्वित्येवैतदाह सुषदा योनावित्यात्मन्येतदाह स्वाहा वाडिति तद्यथा वषट्कृतं हुतम् एवमस्यैतद्भवति॥
अथ वेदम् पत्नी विस्रंसयति॥
योषा वै वेदिर्वृषा वेदो मिथुनाय वै वेद्!अः क्रियते ऽथ यदेनेन यज्ञ उपालभते मिथुनमेवैतत्प्रजननं क्रियते॥
अथ यत्पत्नी विस्रंसयति॥
योषा वै पत्नी वृषा वेदो मिथुनमेवैतत्प्रजननं क्रियते तस्माद्वेदं पत्नी विस्रंसयति॥
सा विस्रंसयति॥
वेदो ऽसि येन त्वं देव वेद देवेभ्यो वेदो ऽभवस्तेन मह्यं वेदो भूया इति यदि यजुषा चिकीर्षेदेतेनैव कुर्यात्॥
तमा वेदेः संस्तृणाति॥
योषा वै वेदिर्वृषा वेदः पश्चाद्वै परीत्य वृषा योषामधिद्रवति पश्चादेवैनामेतत्परीत्य वृष्णा वेदेनाधिद्रावयति तस्मादा वेदेः संस्तृणाति॥
अथ समिष्टयजुर्जुहोति॥
प्राङ्ने यज्ञो ऽनुसन्तिष्ठाता इत्यथ यद्धुत्वा समिष्टयजुः पत्नीः संयाजयेत्प्रत्यङ्ङु हैवास्यैष यज्ञः सन्तिष्ठेत तस्माद्वा एतर्हि समिष्टयजुर्जुहोति प्राङ्ने यज्ञो ऽनुसन्तिष्ठाता इति॥
अथ यस्मात्समिष्टयजुर्नाम॥
या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वै तत्ताः समिष्टा भवन्ति तद्यत्तासु सर्वासु समिष्टास्वथैतज्जुहोति तस्मात्समिष्टयजुर्नाम॥
अथ यस्मात्समिष्टयजुर्जुहोति॥
या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायत उप ह वै ता आसते यावन्न समिष्टयजुर्जुह्वतीदं नु नो जुह्वत्विति ता एवैतद्यथायथं व्यवसृजति यत्र यत्रासां चरणं तदनु यज्ञं वा एतदजीजनत यदेनमतत तं जनयित्वा यत्रास्य प्रतिष्ठा तत्प्रतिष्ठापयति तस्मात्समिष्टयजुर्जुहोति॥
स जुहोति॥
देवा गातुविद इति गातुविदो हि देवा गातुं वित्त्वेति यज्ञं वित्त्वेत्येवैतदाह गातुमितेति तदेतेन यथायथं व्यवसृजति मनसस्पत इमं देव यज्ञं स्वाहा वात्ते धा इत्ययं वै यज्ञो यो ऽयम् पवते तदिमं यज्ञं सम्भृत्यैतस्मिन्यज्ञे प्रतिष्ठापयति यज्ञेन यज्ञं सन्दधाति तस्मादाह स्वाहा वाते धा इति॥
अथ बर्हिर्जुहोति॥
अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तस्माद्बर्हिर्जुहोति॥
तां वा अतिरिक्तां जुहोति॥
समिष्टयजुर्ह्येवान्तो यज्ञस्य यद्ध्यूर्ध्वं समिष्टयजुषो ऽतिरिक्तं तद्यदा हि समिष्टयजुर्जुहोत्यथैताभ्यो जुहोति तस्मादिमा अतिरिक्ता असम्मिता ओषधयः प्रजायन्ते॥
स जुहोति॥
सम् बर्हिरङ्क्तां हविषा घृतेन समादित्यैर्व!सुभिः सम् मरुद्भिः समिन्द्रो विश्वदेवेभिरङ्क्तां दिव्यं नभो गछतु यत्स्वाहेति॥
अथ प्रणीता दक्षिणतः परीत्य निनयति॥
युङ्क्ते वा एतद्यज्ञं यदेनं तनुते स यन्न निनयेत्पराङु हाविमुक्त एव यज्ञो यजमानम् प्रक्षिणीयात्तथो ह यज्ञो यजमानं न प्रक्षिणाति तस्मात्प्रणीता दक्षिणतः परीत्य निनयति॥
स निनयति॥
कस्त्वा विमुञ्चति स त्वा विमुञ्चति कस्मै त्वा विमुञ्चति तस्मै त्वा विमुञ्चति पोषायेति तत्पुष्टिमुत्तमां यजमानाया निराह स येनैव प्रणयति तेन निनयति येन ह्येव योग्यं युञ्जन्ति तेन विमुञ्चन्ति योक्त्रेण हि योग्यं युञ्जन्ति योक्त्रेण विमुञ्चन्त्यथ फलीकरणाङ्कप:लेनाधो ऽधः कृष्णाजिनमुपास्यति रक्षसाम् भागो ऽसीति॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरे ऽस्माकमयम् भविष्यत्यस्माकमयम् भविष्यतीति॥
ततो देवाः॥
सर्वं यज्ञं संवृज्याथ यत्पापिष्ठं यज्ञस्य भागधेयमासीत्तेनैनान्निरभजन्नस्ना पशोः फलीकरणैर्हविर्यज्ञात्सुनिर्भक्ता असन्नित्येष वै सुनिर्भक्तो यम् भागिनं निर्भजन्त्यथ यमभागं निर्भजन्त्यैव स तावछंसत उत हि वशो लब्ध्वाह किम् मा बभक्थेति स यमेवैभ्यो देवा भागमकल्पयंस्तमेवैभ्य एष एतद्भागं करोत्यथ यदधो ऽधः कृष्णाजिनमुपास्यत्यनग्नावेवैभ्य एतदन्धे तमसि प्रवेशयति तथो एवासृक्पशो रक्षसाम् भागो ऽसीत्यनग्नावन्धे तमसि प्रवेशयति तस्मात्पशोस्तेदनीं न कुर्वन्ति रक्षसां हि स भगः॥
संस्थिते यज्ञे॥
दक्षिणतः परीत्य पूर्णपात्रं निनयति तथा ह्युदग्भवति तस्माद्दक्षिणतः परीत्य पूर्णपात्रं निनयति देवलोके मे ऽप्यसदिति वै यजते यो यजते सो ऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति सैति दक्षिणामन्वारभ्य यजमानः॥
स एष देवयानो वा पितृयाणो वा पन्थाः॥
तदुभयतो ऽग्निशिखे समोषन्त्यौ तिष्ठतः प्रति तमोषतो यः प्रत्युष्यो ऽत्यु तं सृजते यो ऽतिसृञ्ज्यः शान्तिरापस्तदेतमेवैतत्पन्थानं शमयति॥
पूर्णं निनयति सर्वं वै पूर्णं सर्वेणैवैनमेतछमयति सन्ततमव्यवछिन्नं निनयति सन्ततेनैवैनमेतदव्यवछिन्नेन षमयति॥
यद्वेव पूर्णपात्रं निनयति॥
यद्वै यज्ञस्य मिथ्या क्रियते व्यस्य तद्वृहन्ति क्षण्वन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः सन्दधाति॥
पूर्णं निनयति॥
सर्वं वै पूर्णं सर्वेणैवैतत्सन्दधाति सन्ततमव्यवछिन्नं निनयति सन्ततेनैवैतदव्यवछिन्नेन सन्दधाति॥
तदञ्जलिना प्रतिगृह्णाति॥
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन त्वष्टा सुदत्रो विदधातु रायो ऽनुमार्ष्टु तन्नो यद्विलिष्टमिति यद्विवृढं तत्सन्दधाति॥
अथ मुखमुपस्पृशते॥
द्वयं तद्यस्मान्मुखमुपस्पृशते ऽमृतं वा आपो ऽमृतेनैवैतत्संस्पृशत एतदु चैवैतत्कर्मात्मङ्कुरुते तस्मान्मुखमुपस्पृशते॥
अथ विष्णुक्रमान् क्रमते॥
देवान्वा एष प्रीणाति यो यजत एतेन यज्ञेन ऽर्ग्भिरिव त्वद्यजुर्भिरिव त्वदाहुतिभिरिव त्वत्स देवान्प्रीत्वा तेष्वपित्वी भवति तेष्वपित्वी भूत्वा तानेवाभिप्रक्रामति॥
यद्वेव विष्णुक्रमान् क्रमते॥
यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते तस्माद्विष्णुक्रमान् क्रमते तद्वा इत एव पराचीनम् भूयिष्ठा इव क्रमन्ते॥
तदु तत्पृथिव्यां विष्णुर्व्यक्रंस्त॥
गायत्रेण छन्दसा ततो निर्भक्तो यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो ऽन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन छन्दसा ततो निर्भक्तो यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो दिवि विष्णुर्व्यक्रंस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येवमिमांल्लोकान्त्समारुह्याथैषा गतिरेषा प्रतिष्ठा य एष तपति तस्य ये रश्मयस्ते सुकृतोऽथ यत्परम् भाः प्रजापतिर्वा स स्वर्गो वा लोकस्तदेवमिमांल्लोकान्त्समारुह्याथैतां गतिमेतां प्रतिष्ठां गछति परस्तात्त्वेवार्वाङ् क्रमेत य इतो ऽनुशासनं चिकीर्षेद्दूयं तद्यस्मात्परस्तादर्वाङ् क्रमते॥
अपसरणतो ह वा अग्रे देवा जयन्तो ऽजयन्॥
दिवमेवाग्रे ऽथेदमन्तरिक्षमथेतो ऽनपसरणात्सपत्नाननुदन्त तथो एवैष एतदपसरणत एवाग्रे जयञ्जयति दिवमेवाग्रे ऽथेदमन्तरिक्षमथेतो ऽनपसरणात्सपत्नान्नुदत इयं वै पृथिवी प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति॥
तदु तद्दिवि विष्णुर्व्यक्रंस्त॥
जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो ऽन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन छन्दसा ततो निर्भक्तो यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मः पृथिव्यां विष्णुर्व्यक्रंस्त गायत्रेण छन्दसा ततो निर्भक्तो यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो ऽस्मादन्नादस्यै प्रतिष्ठाया इत्यस्यां हीदं सर्वमन्नाद्यम् प्रतिष्ठित तस्मादाहास्मादन्नादस्यै प्रतिष्ठाया इति॥
अथ प्राङ् प्रेक्षते॥
प्राची हि देवानां दिक्तस्मात्प्राङ् प्रेक्षते॥
स प्रेक्षते॥
अगन्म स्वरिति देवा वै स्वरगन्म देवानित्येवैतदाह सं ज्योतिषाभूमेति सं देवैरभूमेत्येवैतदाह॥
अथ सूर्यमुदीक्षते॥
सैषा गतिरेषाप्रतिष्ठा तदेतां गतिमेताम् प्रतिष्ठां गछति तस्मात्सूर्यमुदीक्षते॥
स उदीक्षते॥
स्वयम्भूरसि श्रेष्ठो रश्मिरित्येष वै श्रेष्ठो रश्मिर्यत्सूर्यस्तस्मादाह स्वयम्भूरसि श्रेष्ठो रश्मिरिति वर्चोदा असि वर्चो मे देहीति त्वेवाहं ब्रवीमीति ह स्माह याज्ञवल्क्यस्तद्ध्येव ब्राह्मणेनैष्ठव्यं यद्ब्रह्मवर्चसी स्यादित्युतो ह स्माहौपोदितेय एष वाव मह्यं गा दास्यति गोदा गा मे देहीत्येवं यं कामं कामयते सो ऽस्मै कामः समृध्यते॥
अथावर्तते॥
सूर्यस्यावृतमनवावर्त इति तदेतां गतिमेताम् प्रतिष्ठां गत्वैतस्यैवावृतमन्वावर्तते॥
अथ गार्हपत्यमुपतिष्ठते॥
द्वयं तद्यस्माद्गार्हपत्यमुपतिष्ठते गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायाम् प्रतितिष्ठति यावद्वेवास्येह मानुषमायुस्तस्मा एवैतदुपतिष्ठते तस्माद्गार्हपत्यमुपतिष्ठते॥
स उपतिष्ठते॥
अग्ने गृहपते सुगृहपतिस्त्वयाग्ने ऽहं गृहपतिना भूयासं सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूया इति नात्र तिरोहितमिवास्त्यस्थूरि नौ गार्हपत्यानि सन्त्वित्यनार्त्तानि नौ गार्हपत्यानि सन्त्वित्येवैतदाह शतं हिमा इति शतं वर्षाणि जीव्यासमित्येवैतदाह तदप्येतद्ब्रुवन्नाद्रियेतापि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति तस्मादप्येतद्ब्रुवन्नाद्रियेत॥
अथावर्तते॥
सूर्यस्यावृतमन्वावर्त इति तदेतां गतिमेताम् प्रतिष्ठां गत्वैतस्यैवावृतमन्वावर्तते॥
अथ पुत्रस्य नाम गृह्णाति॥
इदम् मे ऽयं वीर्यम् पुत्रो ऽनुसन्तनवदिति यदि पुत्रो न स्यादप्यात्मन एव नाम गृह्णीयात्॥
अथाहवनीयमुपतिष्ठते॥
प्राङ्ने यज्ञो ऽनुसन्तिष्ठाता इति तूष्णीमुपतिष्ठतेअथ व्रतं विसृजते॥
इदमहं य एवास्मि सो ऽस्मीत्यमानुष इव वा एतद्भवति यद्व्रतमुपैति न हि तदवकल्पते यद्ब्रूयादिदमहं सत्यादनृतमुपैमीति तदु खलु पुनर्मानुषो भवति तस्मादिदमहं य एवास्मि सा ऽस्मीत्येवं व्रतं विसृजेत॥