मनवे ह वै प्रातः॥
अवनेग्यमुदकमाजह्रुर्यथेदम् पाणिभ्यामवनेजनायाहरन्त्येवं तस्यावनेनिजानस्य मत्स्यः पाणी आपेदे॥
स हास्मै वाचमुवाद॥
बिभृहि मा पारयिष्यामि त्वेति कस्मान्मा पारयिष्यसीत्यौघ इमाः सर्वाः प्रजा निर्वोढा ततस्त्वा पारयितास्मीति कथं ते भृतिरिति॥
स होवाच॥
यावद्वै क्षुल्लका भवामो बह्वी वै नस्तावन्नाष्ट्रा भवत्युत मत्स्य एव मत्स्यं गिलति कुम्भ्याम् माग्रे बिभरासि स यदा तामतिवर्धा अथ कर्षूं खात्वा तस्याम् मा बिभरासि स यदा तामतिवर्धा अथ मा समुद्रमभ्यवहरासि तर्हि वा अतिनाष्ट्रो भवितास्मीति॥
शश्वद्ध कष आस॥
स हि ज्येष्ठं वर्धते ऽथेतिथीं समां तदौघ आगन्ता तन्मा नावमुपकल्प्योपासासै स औघ उत्थिते नावमापद्यासै ततस्त्वा पारयितास्मीति॥
तमेवम् भृत्वा समुद्रमभ्यवजहार॥
स यतिथीं तत्समाम् परिदिदेष ततिथीं समां नावमुपकल्प्योपासां चक्रे स औघ उत्थिते नावमापेदे तं स मत्स्य उपन्यापुप्लुवे तस्य शृङ्गे नावः पाशम् प्रतिमुमोच तेनैतमुत्तरं गिरिमतिदुद्राव॥
स होवाच॥
अपीपरं वै त्वा वृक्षे नावम् प्रतिबघ्नीष्व तं तु त्वा मा गिरौ सन्तमुदकमन्तश्छैत्सीद्यावदुदकं समवायात्तावत्तावदन्ववसर्पासीति स ह तावत्तावदेवान्ववससर्प तदप्येतदुत्तरस्य गिरेर्मनोरवसर्पणमित्यौघो ह ताः सर्वाः प्रजा निरुवाहाथेह मनुरेवैकः परिशिशिषे॥
सोर्चञ्छ्राम्यंश्चचार प्रजाकामः॥
तत्रापि पाकयज्ञेनेजे स घृतं दधि मस्त्वामिक्षामित्यप्सु जुहवां चकार ततः संवत्सरे योषित्सम्बभूव सा ह पिब्दमानेवोदेयाय तस्यै ह स्म घृतम् पदे सन्तिष्ठते तया मित्रावरुणौ सञ्जग्माते॥
तां होचतुः कासीति॥
मनोर्दुहितेत्यावयोर्ब्रूष्वेति नेति होवाच य एव मामजीजनत तस्यैवाहमस्मीति तस्यामपित्वमीषाते तद्वा जज्ञौ तद्वा न जज्ञावति त्वेवेयाय सा मनुमाजगाम॥
तां ह मनुरुवाच कासीति॥
तव दुहितेति कथम् भगवति मम दुहितेति या अमूरप्स्वाहुतीरहौषीर्घृतं दधि मस्त्वामिक्षां ततो मामजीजनथाः साशीरस्मि ताम् मा यज्ञे ऽवकल्पय यज्ञे चेद्वै मावकल्पयिष्यसि बहुः प्रजया पशुभिर्भविष्यसि याममुया कां चाशिषमाशासिष्यसे सा ते सर्वा समर्धिष्यत इति तामेतन्मध्ये यज्ञस्यावाकल्पयन्मध्यं ह्येतद्यज्ञस्य यदन्तरा प्रयाजानुयाजान्॥
तयार्चञ्छ्राम्यंश्चचार प्रजाकामः॥
तयेमाम् प्रजातिम् प्रजज्ञे येयम् मनोः प्रजातिर्याम्वेनया कां चाशिषमाशास्त सास्मै सर्वा समार्ध्यत॥
सैषा निदानेना यदिडा॥
स यो हैवं विद्वानिडया चरत्येतां हैव प्रजातिम् प्रजायते याम् मनुः प्राजायत याम्वेनया कां चाशिषमाशास्ते सास्मै सर्वा समृध्यते॥
सा वै पञ्चावत्ता भवति॥
पशवो वा इडा पाङ्ता वै पशवस्तस्मात्पञ्चावत्ता भवति॥
स समवदायेडाम्॥
पूर्वार्धम् पुरोडाशस्य प्रशीर्य पुरस्ताद्ध्रुवायै निदधाति तां होत्रे प्रदाय दक्षिणात्येति॥
स होतुरिह निलिम्पति॥
तद्धोतौष्ठयोर्निलिम्पते मनसस्पतिना ते हुतस्याश्नामीषे प्राणायेति॥
अथ होतुरिह निलिम्पति॥
तद्धोतौष्ठयोर्निलिम्पते वाचस्पतिना ते हुतस्याश्नाम्यूर्ज उदानायेति॥
एतद्ध वै मनुर्बिभयां चकार॥
इदं वै मे तनिष्ठं यज्ञस्य यदियमिडा पाकयज्ञिया यद्वै म इह रक्षांसि यज्ञं न हिंस्युरिति तामेतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येव प्रापयत तथो एवैनामेष एतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येव प्रापयते ऽथ यत्प्रत्यक्षं न प्राश्नाति नेदनुपहूताम् प्राश्नामीत्येतदेवैनां प्रापयते यदोष्ठयोर्निलिम्पते॥
अथ होतुः पाणौ समवद्यति॥
समवत्तमेव सतीं तदेनां प्रत्यक्षं होतरि श्रयति तयात्मञ्छूतया होता यजमानायाशिषमाशास्ते तस्माद्धोतुः पाणौ समवद्यति॥
अथोपांशूपह्वयते॥
एतद्ध वै मनुर्बिभयां चकारेदं वै मे तनिष्ठं यज्ञस्य यदियमिडा पाकयज्ञिया यद्वै म इह रक्षांसि यज्ञं न हन्युरिति तामेतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येवोपांशूपाह्वयत तथो एवैनामेष एतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येवोपांशूपह्वयते॥
स उपह्वयते॥
उपहूतं रथन्तरं सह पृथिव्योप मां रथन्तरं सह पृथिव्या ह्वयतामुपहूतं वामदेव्यं सहान्तरिक्षेणोप मां वामदेव्यं सहान्तरिक्षेण ह्वयतामुपहूतम् बृहत्सह दिवोप माम् बृहत्सह दिवा ह्वयतामिति तदेतामेवैतदुपह्वयमान इमांश्च लोकानुपह्वयत एतानि च सामानि॥
उपहूता गावः सहर्षभा इति॥
पशवो वा इडा तदेनाम् परो ऽक्षमुपह्वयते सहर्षभा इति समिथुनामेवैनामेतदुपह्वयते॥
उपहूता सप्तहोत्रेति॥
तदेनां सप्तहोत्रा सौम्येनाध्वरेणोपह्वयते॥
उपहूतेडा ततुरिरिति॥
तदेनाम् प्रत्यक्षमुपह्वयते ततुरिरिति सर्वं ह्येषा पाप्मानं तरति तस्मादाह ततुरिरिति॥
उपहूतः सखा भक्ष इति॥
प्राणौ वै सखा भक्षस्तत्प्राणमुपह्वयत उपहूतं हेगिति तछरीरमुपह्वयते तत्सर्वामुपह्वयते॥
अथ प्रतिपद्यते॥
इडोपहूतोपहूतेडोपो अस्मां इडा ह्वयतामिडोपहूतेति तदुपहूतामेवैनामेतत्सतीम् प्रत्यक्षमुपह्वयते या वै सासीद्गोर्वै सासीच्चतुष्पदी वै गौस्तस्माच्चतुरुपह्वयते॥
स वै चतुरुपह्वयमानः॥
अथ नानेवोपह्वयते ऽजामितायै जामि ह कुर्याद्यदिडोपहूतेडोपहूतेत्येवोपह्वयेतोपहूतेडेति वेडोपहूतेति तदर्वाचीमुपह्वयत उपहूतेडेति तत्पराचीमुपो अस्मां इडा ह्वयतामिति तदात्मानं चैवैतन्नान्तरेत्यन्यथेव च भवतीडोपहूतेति तत्पुनरर्वाचीमुपह्वयते तदर्वाचीं चैवैनामेतत्पराचीं चोपह्वयते॥
मानवी घृतपदीति॥
मनुर्ह्येतामग्रे ऽजनयत तस्मादाह मानवीति घृतपदीति यदेवास्यै गृतम् पदे समतिष्ठत तस्मादाह घृतपदीति॥
उत मैत्रावरुणीति॥
यदेव मित्रावरुणाभ्यां समगछत स एव मैत्रावरुणो न्यङ्गो ब्रह्मा देवकृतोपहूतेति ब्रह्मा ह्येषां देवकृतोपहूतोपहूता दैव्या अध्वर्यव उपहूता मनुष्या इति तद्दैवांश्चैवाध्वर्यूनुपह्वयते ये च मानुषा वत्सा वै दैव्या अध्वर्यवो ऽथ य इतरे ते मानुषाः॥
य इमं यज्ञमवान्ये च यज्ञपतिं वर्धानिति॥
एते वै यज्ञमवन्ति ये ब्राह्मणाः शुश्रुवांसो ऽनूचाना एते ह्येनं तन्वत एत एनं जनयन्ति तदु तेभ्यो निह्नुते वत्सा उ वै यज्ञपतिं वर्धन्ति यस्य ह्येते भूयिष्ठा भवन्ति स हि यज्ञपतिर्वर्धते तस्मादाह ये च यज्ञपतिं वर्धानिति॥
उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे इति तदिमे द्यावापृथिवी उपह्वयते ययोरिदं सर्वमध्युपहूतो ऽयं यजमान इति तद्यजमानमुपह्वयते तद्यदत्र नाम न गृह्णाति प्रो ऽक्ष्ं ह्यत्राशीर्यदिडायाम् मानुषं ह कुर्याद्यन्नाम गृह्णीयाद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति तस्मान्न नाम गृह्णाति॥
उत्तरस्यां देवयज्यायामुपहूत इति॥
तदस्मा एतज्जीवातुमेव परो ऽक्षमाशास्ते जीवन्हि पूर्वमिष्ट्वाथापरं यजते॥
तदस्मा एतत्प्रजामेव परो ऽक्षमाशास्ते॥
यस्य हि प्रजा भवत्यमुं लोकमात्मनैत्यथास्मिंलोके प्रजा यजते तस्मात्प्रजोत्तरा देवयज्या॥
तदस्मा एतत्पशूनेव परो ऽक्षमाशास्ते यस्य हि पशवो भवन्ति स पूर्वमिष्ट्वाथापरं यजते॥
भूयसि हविष्करण उपहूत इति॥
तदस्मा एतज्जीवातुमेव परो ऽक्षमाशास्ते जीवन्हि पूर्वमिष्ट्वाथ भूयोभूय एव हविष्करोति॥
तदस्मा एतत्प्रजामेव परो ऽक्षमाशास्ते यस्य हि प्रजा भवत्येक आत्मना भवत्यथोत दशधा प्रजया हविष्क्रियते तस्मात्प्रजा भूयो हविष्करणम्॥
तदस्मा एतत्पशूनेव परो ऽक्षमाशास्ते॥
यस्य हि पशवो भवन्ति स पूर्वमिष्ट्वाथ भूयोभूय एव हविष्करोति॥
एषा वा आशीः जीवेयम् प्रजा मे स्याछ्रियं गछेयमिति तद्यत्पशूनाशास्ते तछ्रियमाशास्ते श्रीर्हि पशवस्तदेताभ्यामेवैतदाशीर्भ्यां सर्वमाप्तं तस्माद्वा एते अत्र द्वे आशिषौ क्रियते॥
देवा म इदं हविर्जुषन्तामिति॥
तस्मिन्नुपहूत इति तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति तस्मादाह जुषन्तामिति॥
तां वै प्राश्नन्त्येव॥
नाग्नौ जुह्वति पशवो वा इडा नेत्पशूनग्नौ प्रवृणजामेति तस्मान्नाग्नौ जुह्वति॥
प्राणेष्वेव हूयते॥
होतरि त्वद्यजमाने त्वदध्वर्यौ त्वदथ यत्पूर्वार्धम् पुरोडाशस्य प्रशीर्य पुरस्ताद्ध्रुवायै निदधाति यजमानो वै ध्रुवा तद्यजमानस्य प्राशितम् भवत्यथ यत्प्रत्यक्षं न प्राश्नाति नेदसंस्थिते यज्ञे प्राश्नानीत्येतदेवास्य प्राशितम् भवति सर्वे प्राश्नन्ति सर्वेषु मे हुतासदिति पञ्च प्राश्नन्ति पशवो वा इडा पाङ्क्ता वै पशवस्तस्मात्पञ्च प्राश्नन्ति॥
अथ यत्र प्रतिपद्यते॥
तच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति तदत्र पितृणां भाजनेन चतस्रो वा अवान्तरदिशो ऽवान्तरदिशो वै पितरस्तस्माच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति॥
अथ यत्राहोपहूते द्यावापृथिवी इति॥
तदग्नीध आदधाति तदग्नीत्प्राश्नात्युपहूता पृथिवी मातोप माम् पृथिवी माता ह्वयतामग्निराग्नीध्रात्स्वाहोपहूतो द्यौष्पितोप मां द्यौष्पिता ह्वयतामग्निराग्नीध्रात्स्वाहेति द्यावापृथिव्यो वा एष यदाग्नीध्रस्तस्मादेवम् प्राश्नाति॥
अथ यत्राशिषमाशास्ते॥
तज्जपति मयीदमिन्द्र इन्द्रियं दधात्वस्मान्रायो मघवानः सचन्ताम् अस्माकं सन्त्वाशिषः सत्या नः सन्त्वाशिष इत्याशिषामेवैष प्रतिग्रहस्तद्या एवात्रर्त्विजो यजमानायाशिष आशासते ता एवैतत्प्रतिगृह्यात्मन्कुरुते॥
अथ पवित्रयोर्मार्जयन्ते॥
पाकयज्ञिययेव वा एतदिडयाचारिषुः पवित्रपूता यदत ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहा इति तस्मात्पवित्रयोर्मार्जयन्ते॥
अथ ते पवित्रे प्रस्तरे ऽपिसृजति॥
यजमानो वै प्रस्तरः प्राणोदानौ पवित्रे यजमाने तत्प्राणोदानौ दधाति तस्मात्ते पवित्रे प्रस्तरे ऽपिसृजति॥
ते वा एते उल्मुके उदूहन्ति॥
अनुयाजेभ्यो यातयामेव वा एतदग्निर्भवति देवेभ्यो हि यज्ञमूहिवान्भवत्ययातयाम्न्यनुयाजांस्तनवामहा इति तस्माद्वा एते उल्मुके उदूहन्ति॥
ते पुनरनुसंस्पर्शयन्ति॥
पुनरेवैतदग्निमाप्याययन्त्ययातयामानं कुर्वन्त्ययातयाम्नि यदत उर्ध्वमसंस्थितं यज्ञस्य तत्तनवामा इति तस्मात्पुनरनुसंस्पर्शयन्ति॥
अथ समिधमभ्यादधाति॥
समिन्द्ध एवैनमेतत्समिद्धे यदत ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहा इति तस्मात्समिधमभ्यादधाति॥
तां होतानुमन्त्रयते॥
एषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहीति तद्यथैवादः समिध्यमानायान्वाहैवमेवैतदन्वाह तदेतद्धोतुः कर्म स यदि मन्येत न होता वेदेत्यपि स्वयमेव यजमानो ऽनुमन्त्रयेत॥
अथ सम्मार्ष्टि॥
युनक्त्येवैनमेतद्युक्तो यदत ऊर्ध्वमसंस्थितं यज्ञस्य तद्वहादिति तस्मात्सम्मार्ष्टि सकृत्सकृत्सम्मार्ष्टि त्रिस्त्रिर्वा अग्रे देवेभ्यः सम्मृजन्ति नेत्तथा करवाम यथा देवेभ्य इति तस्मात्सकृत्सकृत्सम्मार्ष्ट्यजामितायै जामि ह कुर्याद्यत्त्रिः पूर्वं त्रिरपरं तस्मात्सकृत्सकृत्सम्मार्ष्टि॥
स सम्मार्ष्टि॥
अग्ने वाजजिद्वाजं त्वा ससृवांसं वाजजितं सम्मार्ज्मीति सरिष्यन्तमिति वा अग्र आह सरिष्यन्निव हि तर्हि भवत्यथात्र ससृवांसमिति ससृवेव ह्यत्र भवति तस्मादाह ससृवांसमिति॥
अथानुयाजान्यजति॥
या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वै तत्ता इष्टा भवन्ति तद्यत्तासु सर्वास्विष्टास्वथैतत्पश्चेवानुयजति तस्मादनुयाजा नाम॥
अथ यदनुयाजान्यजति॥
छन्दांसि वा अनुयाजाः पशवो वै देवानां छन्दांसि तद्यथेदं पशवो युक्ता मनुष्येभ्यो वहन्त्येवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति तद्यत्र छन्दांसि देवान्त्समतर्पयन्नथ छन्दांसि देवाः समतर्पयंस्तदतस्तत्प्रागभूद्यच्छन्दांसि युक्तानि देवेभ्यो यज्ञमवाक्षुर्यदेनान्त्समतीतृपन्॥
अथ यदनुयाजान्यजति॥
छन्दांसि वा अनुयाजाश्छन्दांस्येवैतत्सन्तर्पयति तस्मादनुयाजान्यजति तस्माद्येन वाहनेन धावयेत्तद्विमुच्य ब्रूयात्पाययतैनत्सुहितं कुरुतेत्येष उ वाहनस्यापह्नवः॥
स वै खलु बर्हिः प्रथमं यजति॥
तद्वै कनिष्ठं छन्दः सद्गायत्री प्रथमा छन्दसां युज्यते तदु तद्वीर्येणैव यछ्येनो भूत्वा दिवः सोममाहरत्तदयथायथम् मन्यन्ते यत्कनिष्ठं छन्दः सद्गायत्री प्रथमा छन्दसां युज्यते ऽथात्र यथायथं देवाश्छन्दांस्यकल्पयन्ननुयाजेषु नेत्पापवस्यसमसदिति॥
स वै खलु बर्हिः प्रथमं यजति॥
अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधाति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तदिदं सर्वं जगदस्यां तेनेयं जगती तज्जगतीम् प्रथमामकुर्वन्॥
अथ नराशंसं द्वितीयं यजति॥
अन्तरिक्षं वै नराशंसः प्रजा वै नरस्ता इमा अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शंसतीति वै तदाहुस्तस्मादन्तरिक्षं नराशंसो ऽन्तरिक्षमु वै त्रिष्टुप्तत्त्रिष्टुभं द्वितीयामकुर्वन्॥
अथाग्निरुत्तमः॥
गायत्री वा अग्निस्तद्गायत्रीमुत्तमामकुर्वन्नेवं यथायथेन कॢप्तेन छन्दांसि प्रत्यतिष्ठंस्तस्मादिदमपापवस्यसम्॥
देवान्यजेत्येवाध्वर्युराह॥
देवं-देवमिति सर्वेषु होता देवानां वै देवाः सन्ति छन्दांस्येव पशवो ह्येषां गृहा हि पशवः प्रतिष्ठो हि गृहाश्छन्दांसि वा अनुयाजास्तस्माद्देवान्यजेत्येवाध्वर्युराह देवं-देवमिति सर्वेषु होता॥
वसुवने वसुधेयस्येति॥
देवताया एव वषट्क्रियते देवतायै हूयते न वा अत्र देवतास्त्यनुयाजेषु देवम् बर्हिरिति तत्र नाग्निर्नेन्द्रो न सोमो देवो नराशंस इति ऋत एकं चन यो वा अत्राग्निर्गायत्री स निदानेन॥
अथ यद्वसुवने वसुधेयस्येति यजति॥
अग्निर्वै वसुवनिरिन्द्रो वसुधेयो ऽस्ति वै छन्दसां देवतेन्द्राग्नी एवैवमु हैतद्देवताया एव वषट्क्रियते देवतायै हूयते॥
अथोत्तममनुयाजमिष्ट्वा समानीय जुहोति॥
प्रयाजानुयाजा वा एते तद्यथैवादः प्रयाजेषु यजमानाय द्विषन्तम् भ्रातृव्यम् बलिं हारयत्यत्त्र आद्यम् बलिं हारयत्येवमेवैतदनुयाजेषु बलिं हारयति॥
स वै स्रुचौ व्यूहति॥
अग्नीषोमयोरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामीति जुहूम् प्राचीं दक्षिणेन पाणिनाग्नीषोमौ तमपनुदतां यो स्मान्द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामीत्युपभृतम् प्रतीचीं सव्येन पाणिना यदि स्वयं यजमानः॥
यद्यु अध्वर्युः॥
अग्नीषोमयोरुज्जितिमनूज्जयत्वयं यजमानो वाजस्यैनम् प्रसवेन प्रोहाम्यग्नीषोमौ तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टि वाजस्यैनम् प्रसवेनापोहामीति पौर्णमास्यामग्नीषोमीयं हि पौर्णमासं हविर्भवति॥
अथामावास्यायाम्॥
इन्द्राग्न्योरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामीन्द्राग्नी तमपनुदतां यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो वाजस्यैनम् प्रसवेनापोहामीति यदि स्वयं यजमानः॥
यद्यु अध्वर्युः॥
इन्द्राग्न्योरुज्जितिमनूज्जयत्वयं यजमानो वाजस्यैनम् प्रसवेन प्रोहामीन्द्राग्नी तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टि वाजस्यैनम् प्रसवेनापोहामीत्यमावास्यायामैन्द्राग्नं ह्यामावास्यं हविर्भवत्येवं यथादेवतं व्यूहति तद्यदेवं व्यूहति॥
यजमान एव जुहूमनु॥
यो ऽस्मा अरातीयति स उपभृतमनु प्राञ्चमेवैतद्यजमानमुदूहत्यपाञ्चं तमपोहति यो ऽस्मा अरातीयत्यत्तैव जुहूमन्वाद्य उपभृतमनु प्राञ्चमेवैतदत्तारमुदूहत्यपाञ्चमाद्यमपोहति॥
तद्वा एतत्॥
समान एव कर्मन्व्याक्रियते तस्मादु समानादेव पुरुषादत्ता चाद्यश्च जायते इदं हि चतुर्थे पुरुषे तृतीये सङ्गछामह इति विदेवं दीव्यमाना जात्या आसत एतस्मादु तत्॥
अथ जुह्वा परिधीन्त्समनक्ति॥
यया देवेभ्यो ऽहौषीद्यया यज्ञं समतिष्ठपत्तयैवैतत्परिधीन्प्रीणाति तस्माज्जुह्वा परिधीन्त्समनक्ति॥
स समनक्ति वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वेत्येते वै त्रया देवा यद्वसवो रुद्रा आदित्या एतेभ्यस्त्वेत्येवैतदाह॥
अथ परिधिमभिपद्याश्रावयति॥
परिधिभ्यो ह्येतदाश्रावयति यज्ञो वा आश्रावणं यज्ञेनैवैतत्प्रत्यक्षम् परिधीन्प्रीणाति तस्मात्परिधिमभिपद्याश्रावयति॥
स आश्राव्याह॥
इषिता दैव्या होतार इति दैव्या वा एते होतारो यत्परिधयो ऽग्नयो हीष्टा दैव्या होतार इत्येवैतदाह यदाहेषिता दैव्या होतार इति भद्रवाच्यायेति स्वयं वा एतस्मै देवा युक्ता भवन्ति यत्साधु वदेयुर्यत्साधु कुर्युस्तस्मादाह भद्रवाच्यायेति प्रेषितो मानुषः सूक्तवाकायेति तदिमम् मानुषं होतारं सूक्तवाकाय प्रसौति॥
अथ प्रस्तरमादत्ते॥
यजमानो वै प्रस्तरस्तद्यत्रास्य यज्ञो ऽगंस्तदेवैतद्यजमानं स्वगाकरोति देवलोकं वा अस्य यज्ञो ऽगन्देवलोकमेवैतद्यजमानमपिनयति॥
स यदि वृष्टिकामः स्यात्॥
एतेनैवाददीत सञ्जानाथां द्यावापृथिवी इति यदा वै द्यावापृथिवी सञ्जानाथे अथ वर्षति तस्मादाह सञ्जानाथां द्यावापृथिवी इति मित्रावरुणौ त्वा वृष्ट्यावतामिति तद्यो वर्षस्येष्टे स त्वा वृष्ट्यावत्वित्येवैतदाहायं वै वर्षस्येष्टे यो ऽयम् पवते सो ऽयमेक इवैव पवते सो ऽयम् पुरुषे ऽन्तः प्रविष्टः प्राञ्च प्रत्यञ्च ताविमौ प्राणोदानौ प्राणोदानौ वै मित्रावरुणौ तद्य एव वर्षस्येष्टे स त्वा वृष्ट्यावत्वित्येवैतदाह तमेतेनैवाददीत यदा ह्येव कदा च वृष्टिः समिव तमनक्त्याहुतिमेवैतत्करोत्याहुतिर्भूत्वा देवलोकङ्गछादिति॥
स वा अग्रं जुह्वामनक्ति॥
मध्यमुपभृति मूलं ध्रुवायामग्रमिव हि जुहूर्मध्यमिवोपभृन्मूलमिव ध्रुवा॥
सो ऽनक्ति॥
व्यन्तु वयो ऽक्तं रिहाणा इति वय एवैनमेतद्भूतमस्मान्मनुष्यलोकाद्देवलोकमभ्युत्पातयति तन्नीचैरिव हरति द्वयं तद्यस्मान्नीचैरिव हरेद्यजमानो वै प्रस्तरो ऽस्या एवैनमेतत्प्रतिष्ठायै नोद्धन्तीहो एव वृष्टिं नियछति॥
स हरति॥
मरुताम् पृषतीर्गछेति देवलोकं गछेत्येवैतदाह यदाह मरुताम् पृषतीर्गछेति वशा पृश्निर्भूत्वा दिवं गछ ततो नो वृष्टिमावहेतीयं वै वशा पृश्निर्यदिदमस्याम् मूलि चामूलं चान्नाद्यम् प्रतिष्ठितं तेनेयं वशा पृश्निरियम् भूत्वा दिवं गछेत्येवैतदाह ततो नो वृष्टिमावहेति वृष्टाद्वा ऊर्ग्रसः सुभूतं जायते तस्मादाह ततो नो वृष्टिमावहेति॥
अथैकं तृणमपगृह्णाति॥
यजमानो वै प्रस्तरः स यत्कृत्स्नम् प्रस्तरमनुप्रहरेत्क्षिप्रे ह यजमानो ऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति यावद्वेवास्येह मानुषमायुस्तस्मा एवैतदपगृह्णाति॥
तन्मुहूर्तं धारयित्वानुप्रहरति॥
तद्यत्रास्येतर आत्मागंस्तदेवास्यैतद्गमयत्यथ यन्नानुप्रहरेदन्तरियाद्ध यजमानं लोकात्तथो ह यजमानं लोकान्नान्तरेति॥
तम् प्राञ्चमनुसमस्यति॥
प्राची हि देवानां दिगथो उदञ्चमुदीची हि मनुष्याणां दिक्तमङ्गुलिभिरेव योयुप्येरन्न काष्ठैर्दारुभिर्वा इतरं शवं व्यृषन्ति नेत्तथा करवाम यथेतरं शवमिति तस्मादङ्गुलिभिरेव योयुप्येरन्न काष्ठैर्यदा होता सूक्तवाकमाह॥
अथाग्नीदाहानुप्रहरेति॥
तद्यत्रास्येतर आत्मागंस्तदेवास्यैतद्गमयेत्येवैतदाह तूष्णीमेवानुप्रहृत्य चक्षुष्पा अग्ने ऽसि चक्षुर्मे पाहीत्यात्मानमुपस्पृशति तेनो अप्यात्मानं नानुप्रवृणक्ति॥
अथाह संवदस्वेति॥
संवादयैनं देवैरित्येवैतदाहागानग्नीदित्यगङ्खल्वित्येवैतदाहागन्नितीतरः प्रत्याह श्रावयेति तं वै देवैः श्रावय तमनुबोधयेत्येवैतदाह श्रौषडिति विदुर्वा एनमनु वा एनमभुत्सतेत्येवैतदाहैवमध्वर्युश्चाग्नीच्च देवलोकं यजमानमपिनयतः॥
अथाह स्वगा दैव्या होतृभ्य इति दैव्या वा एते होतारो यत्परिधयो ऽग्नयो हि तानेवैतत्स्वगाकरोति तस्मादाह स्वगा दैव्या होतृभ्य इति स्वस्तिर्मानुषेभ्य इति तदस्मै मानुषाय होत्रे ह्वलामाशास्ते॥
अथ परिधीननुप्रहरति स मध्यममेवाग्रे परिधिमनुप्रहरति यम् परिधिं पर्यधत्था अग्ने देव पणिभिर्गुह्यमानः तं त एतमनु जोषं भराम्येष नेत्त्वदपचेतयाता इत्यग्नेः प्रियम् पाथो ऽपीतमितीतरावनुसमस्यति॥
अथ जुहूं चोपभृतं च सम्प्रगृह्णाति॥
अदो हैवाहुतिं करोति यदनक्त्याहुतिर्भूत्वा देवलोकं गछादिति तस्माज्जुहूं चोपभृतं च सम्प्रगृह्णाति॥
स वै विश्वेभ्यो देवेभ्यः सम्प्रगृह्णाति॥
यद्वा अनादिष्टं देवतायै हविर्गृह्यते सर्वा वै तस्मिन्देवता अपित्विन्यो मन्यन्ते न वा एतत्कस्यै चन देवतायै हविर्गृह्णन्नादिषति यदाज्यं तस्माद्विश्वेभ्यो देवेभ्यः सम्प्रगृह्णात्येतदु वैश्वदेवं हविर्यज्ञे॥
स सम्प्रगृह्णाति॥
संस्रवभागा स्थेषा बृहन्त इति संस्रवो ह्येव खलु परिशिष्टो भवति प्रस्तरेष्ठाः परिधेयाश्च देवा इति प्रस्तरश्च हि परिधयश्चानुप्रहृता भवन्तीमां वाचमभि विश्वे गृणन्त इत्येतदु वैश्वदेवं करोत्यासद्यास्मिन्बर्हिषि मादयध्वं स्वाहा वाडिति तद्यथा वष्ट्कृतं हुतमेवमस्यैतद्भवति॥
स यस्यानसो हविर्गृह्णन्ति॥
अनसस्तस्य धुरि विमुञ्चन्ति यतो युनजाम ततो विमुञ्चामेति यतो ह्येव युञ्जन्ति ततो विमुञ्चन्ति यस्यो पात्र्यै स्फ्ये तस्य यतो युनजाम ततो विमुञ्चामेति यतो ह्येवं युञ्जन्ति ततो विमुञ्चन्ति॥
युजौ ह वा एते यज्ञस्य यत्स्रुचौ॥
ते एतद्युङ्क्ते यत्प्रचरति स यं निधायावद्येद्यथा वाहनमवार्छेवं तत्ते एतत्स्विष्टकृति विमोचनमागछतस्ते तत्सादयति तद्विमुञ्चति ते एतत्पुनः प्रयुङ्क्ते ऽनुयाजेषु सो ऽनुयाजैश्चरित्वैतद्विमोचनमागछति ते तत्सादयति तद्विमुञ्चति ते एतत्पुनः प्रयुङ्क्ते यत्सम्प्रगृह्णाति तद्यां गतिमभियुङ्क्ते तां गतिं गत्वा विमुञ्चते यज्ञं वा अनु प्रजास्तस्मादयम् पुरुषो युङ्क्ते ऽथ विमुञ्चते ऽथ युङ्क्ते तद्यां गतिमभियुङ्क्ते तां गतिं गत्वान्ततो विमुञ्चते स सादयति घृताची स्थो धुर्यौ पातंसुम्ने स्थः सुम्ने मा धत्तमिति साध्व्यौ स्थः साधौ मा धत्तमित्येवैतदाह॥