स वै पर्णशाखया वत्सानपाकरोति॥
तद्यत्पर्णशाखया वत्सानपाकरोति यत्र वै गायत्री सोममछापतत्तदस्या आहरन्त्या अपादस्ताभ्यायत्य पर्णम् प्रचिच्छेद गायत्र्यै वा सोमस्य वा राज्ञस्तत्पतित्वा पर्णो ऽभवत्तस्मात्पर्णो नाम तद्यदेवात्र सोमस्य न्यक्तं तदिहाप्यसदिति तस्मात्पर्णशाखया वत्सानपाकरोति॥
तमाछिनत्ति॥
इषे त्वोर्जे त्वेति वृष्ट्यै तदाह यदाहेषे त्वेत्यूर्जे त्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह॥
अथ मातृभिर्वत्सान्त्समवार्जन्ति॥
स वत्सं शाखयोपस्पृशति वायव स्थेत्ययं वै वायुर्यो ऽयम् पवत एष वा इदं सर्वम् प्रप्यायति यदिदं किं च वर्षत्येष वा एतासाम् प्रप्याययिता तस्मादाह वायव स्थेत्युपायव स्थेत्यु हैक आहुरूप हि द्वितीयो ऽयतीति तदु तथा न ब्रूयात्॥
अथ मातृणामेकां शाखयोपस्पृशति॥
वत्सेन व्याकृत्य देवो वः सविता प्रार्पयत्विति सविता वै देवानाम् प्रसविता सवितृप्रसूता यज्ञं सम्भरानिति तस्मादाह देवो वः सविता प्रार्पयत्विति॥
श्रेष्ठतमाय कर्मण इति॥
यज्ञो वै श्रेष्ठतमं कर्म यज्ञाय हि तस्मादाह श्रेष्ठतमाय कर्मण इति॥
आप्यायध्वमघ्न्या इन्द्राय भागमिति॥
तद्यथैवादो देवतायै हविर्गृह्णन्नादिशत्येवमेवैतद्देवताया आदिशति यदाहाप्यायध्वमघ्न्या इन्द्राय भागमिति॥
प्रजावतीरनमीवा अयक्ष्मा इति॥
नात्र तिरोहितमिवास्ति मा व स्तेन ईशत माघशंस इति मा वो नाष्ट्रा रक्षांसीशतेत्येवैतदाह ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरित्यनपक्रमिण्यो ऽस्मिन्यजमाने बह्व्यः स्यातेत्येवैतदाह॥
अथाहवनीयागारस्य वा पुरस्तात्॥
गार्हपत्यागारस्य वा शाखामुपगूहति यजमानस्य पशून्पाहीति तद्ब्रह्मणैवैतद्यजमानस्य पशून्परिददाति गुप्त्यै॥
तस्याम् पवित्रं करोति॥
वसोः पवित्रमसीति यज्ञो वै वसुस्तस्मादाह वसोः पवित्रमसीति॥
अथ यवाग्वैतां रात्रिमग्निहोत्रं जुहोति॥
आदिष्टं वा एतद्देवतायै हविर्भवति यत्पयः स यत्पयसा जुहुयाद्यथान्यस्यै देवतायै हविर्गृहीतं तदन्यस्यै जुहुयादेवं तत्तस्माद्यवाग्वैतां रात्रिमग्निहोत्रं जुहोति जुह्वत्यग्निहोत्रमुपकॢप्तोखा भवत्यथाहोपसृष्टाम् प्रब्रूतादेति यदा प्राहोपसृष्टेति॥
अथोखामादत्ते द्यौरसि पृथिव्यसीत्युपस्तौत्येवैनामेतन्यहयत्येव यदाह द्यौरसि पृथिव्यसीति मातरिश्वनो घर्मो ऽसीति यज्ञमेवैतत्करोति यथा घर्मम् प्रवृञ्ज्यादेवम् प्रवृणक्ति विश्वधा असि परमेण धाम्ना दृंहस्व मा ह्वारिति दृंहत्येवैनामेतदशिथिलां करोति मा ते यज्ञपतिर्ह्वार्षीदिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदह्वलामाशास्ते॥
अथ पवित्रं निदधति॥
तद्वै प्राङ्निदध्यात्प्राची हि देवानां दिगथो उदगुदीची हि मनुष्याणां दिगयं वै पवित्रं यो ऽयम् पवते सो ऽयमिमांल्लोकांस्तिर्यङ्ङनुपवते तस्मादुदङ्निदध्यात्॥
तद्यथैवादः॥
सोमं राजानम् पवित्रेण सम्पावयन्त्येवमेवैतत्सम्पावयत्युदीचीनदशं वै तत्पवित्रम् भवति येन तत्सोमं राजानं सम्पावयन्ति तस्मादुदङ्निदध्यात्॥
तन्निदधाति॥
वसोः पवित्रमसीति यज्ञो वै वसुस्तस्मादाह वसोः पवित्रमसीति शतधारं सहस्रधारमित्युपस्तौत्येवैनदेतन्महयत्येव यदाह शतधारं सहस्रधारमिति॥
अथ वाचंयमो भवति आ तिसृणां दोग्धोर्वाग्वै यज्ञो ऽविक्षुब्धो यज्ञं तनवा इति॥
तदानीयमानमभिमन्त्रयते॥
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वेति तद्यथैवादः सोमं राजानम् पवित्रेण सम्पावयन्त्येवमेवैतत्सम्पावयति॥
अथाह कामधुक्ष इति अमूमिति सा विश्वायुरित्यथ द्वितीयाम् पृछति कामधुक्ष इत्यमूमिति सा विश्वकर्मेत्यथ तृतीयाम् पृछति कामधुक्ष इत्यमूमिति सा विश्वधाया इति तद्यत्पृछति वीर्याण्येवास्वेतद्दधाति तिस्रो दोग्धि त्रयो वा इमे लोका एभ्य एवैनदेतल्लोकेभ्यः सम्भरत्यथ कामं वदति॥
अथोत्तमां दोहयित्वा॥
येन दोहयति पात्रेण तस्मिन्नुदस्तोकमानीय पल्यङ्य प्रत्यानयति यदत्र पयसो ऽहायि तदिहाप्यसदिति रसस्यो चैव सर्वत्वायेदं हि यदा वर्षत्यथौषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति तस्मादु रसस्यो चैव सर्वत्वाय तदुद्वास्यातनक्ति तीव्रीकरोत्येवैनदेतत्तस्मादुद्वास्यातनक्ति॥
आतनक्ति॥
इन्द्रस्य त्वा भागं सोमेनातनच्मीति तद्यथैवादो देवतायै हविर्गृह्णन्नादिशत्येवमेवैतद्देवताया आदिशति यदाहेन्द्रस्य त्वा भागमिति सोमेनातनच्मीति स्वदयत्येवैनदेतद्देवेभ्यः॥
अथोदकवतोत्तानेन पात्रेणापिदधाति॥
नेदेनदुपरिष्टान्नाष्ट्रा रक्षांस्यवमृशानिति वज्रो वा आपस्तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यतो ऽपहन्ति तस्मादुदकवतोत्तानेन पात्रेणापिदधाति॥
सो ऽपिदधाति॥
विष्णो हव्यं रक्षेति यज्ञो वै विष्णुस्तद्यज्ञायैवैतद्धविः परिददाति गुप्त्यै तस्मादाह विष्णो हव्यं रक्षेति॥
ऋणं ह वै जायते यो ऽस्ति॥
स जायमान एव देवेभ्य ऋषिभ्यः पितृभ्यो मनुष्येभ्यः॥
स यदेव यजेत॥
तेन देवेभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेनान्यजते यदेभ्यो जुहोति॥
अथ यदेवानुब्रुवीत॥
तेन ऽर्षिभ्य ऋणं जायते तद्ध्येभ्य एतत्करोत्यृषीणां निधिगोप इति ह्यनूचानमाहुः॥
अथ यदेव प्रजामिच्छेत॥
तेन पितृभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेषां सन्तताव्यवछिन्ना प्रजा भवति॥
अथ यदेव वासयते॥
तेन मनुष्येभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेनान्वासयते यदेभ्यो ऽशनं ददाति स य एतानि सर्वाणि करोति स कृतकर्मा तस्य सर्वमाप्तं सर्वं जितं॥
स येन देवेभ्य ऋणं जायते॥
तदेनांस्तदवदयते यद्यजते ऽथ यदग्नौ जुहोति तदेनांस्तदवदयते तस्माद्यत्किं चाग्नौ जुह्वति तदवदानं नाम॥
तद्वै चतुरवत्तम् भवति॥
इदं वा अनुवाक्याथ याज्याथ वषट्कारो ऽथ सा देवता चतुर्थी यस्यै देवतायै हविर्भवत्येवं हि देवता अवदानान्यन्वायत्ता अवदानानि वा देवता अन्वायत्तान्यतिरिक्तं ह तदवदानं यत्पञ्चमं कस्मा उ हि तदवद्येत्तस्माच्चतुरवत्तम् भवति॥
उतो पञ्चावत्तमेव भवति॥
पाङ्क्तो यज्ञं पाङ्क्तः पशुः पञ्च ऽर्तवः संवत्सरस्यैषो पञ्चावत्तस्य सम्पद्बहुर्हैव प्रजया पशुभिर्भवति यस्यैवं विदुषः पञ्चावत्तं क्रियत एतद्ध न्वेव प्रज्ञातं कौरुपाञ्चालं यच्चतुरवत्तं तस्माच्चतुरवत्तम् भवति॥
स वै यावन्मात्रमिवैवावद्येत् मानुषं ह कुर्याद्यन्महदवद्येद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति तस्माद्यावन्मात्रमिवैवावद्येत्॥
स आज्यस्योपस्तीर्य॥
द्विर्हविषो ऽवदायाथोपरिष्टादाज्यस्याभिघारयति द्वे वा आहुती सोमाहुतिरेवान्याज्याहुतिरन्या तत एषा केवली यत्सोमाहुतिरथैषाज्याहुतिर्यद्धविर्यज्ञो यत्पशुस्तदाज्यमेवैतत्करोति तस्मादुभयत आज्यम् भवत्येतद्वै जुष्टं देवानां यदाज्यं तज्जुष्टमेवैतद्देवेभ्यः करोति तस्मादुभयत आज्यम् भवति॥
असौ वा अनुवाक्येयं याज्या॥
ते उभे योषे तयोर्मिथुनमस्ति वषट्कार एव तद्वा एष एव वषट्कारो य एष तपति स उद्यन्नेवामूमाधेद्रवत्यस्तं यन्निमामधिद्रवति तदेतेन वृष्णेमाम् प्रजातिम् प्रजायेते यैनयोरियम् प्रजातिः॥
सो ऽनुवाक्यामनूच्य॥
याज्यामनुद्रुत्य पश्चाद्वषट्करोति पश्चाद्वै परीत्य वृषा योषामधिद्रवति तदेने उभे पुरस्तात्कृत्वा वृष्णा वषट्कारेणाधिद्रावयति तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा॥
देवपात्रं वा एष यद्वषट्कारः॥
तद्यथा पात्र उद्धृत्य प्रयछेदेवं तदथ यत्पुरा वषट्काराज्जुहुयाद्यथाधो भूमौ निदिग्धं तदमुया स्यादेवं तत्तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा॥
तद्यथा योनौ रेतः सिञ्चेत्॥
एवं तदथ यत्पुरा वषट्काराज्जुहुयाद्यथा योनौ रेतः सिक्तं तदमुया स्यादेवं तत्तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा॥
असौ वा अनवाक्येयं याज्या॥
सा वै गायत्रीयं त्रिष्टुबसौ स वै गायत्रीमन्वाह तदमूमनुब्रुवन्नसौ ह्यनुवाक्येमामन्वाहेयं हि गायत्री॥
अथ त्रिष्टुभा यजति॥
तदनया यजन्नियं हि याज्यामुष्या अधि वषट्करोत्यसा उ हि त्रिष्टुप्तदेने सयुजौ करोति तस्मादिमे सम्भुञ्जाते अनयोरनु सम्भोगमिमाः सर्वाः प्रजा अनु सम्भुञ्जते॥
स वा अङ्खयन्निवैवानुवाक्यामनुब्रूयात्॥
असौ ह्यनुवाक्या बृहद्ध्यसौ बार्हतं हि तद्रूपं क्षिप्र एव याज्यया त्वरेतेयं हि याज्या रथन्तरं हीयं राथन्तरं हि तद्रूपं ह्वयति वा अनुवाक्यया प्रयछति याज्यया तस्मादनुवाक्यायै रूपं हुवे हवामह आगछेदम् बर्हिः सीदेति यद्ध्वयति हि तया प्रयछति याज्यया तस्माद्याज्यायै रूपं वीहि हविर्जुषस्व हविरावृषाय स्वाद्धि पिब प्रेति यत्प्र हि तया यछति॥
सा या पुरस्ताल्लक्षणा॥
सानुवाक्या स्यादसौ ह्यनुवाक्या तस्या अमुष्या अवस्ताल्लक्ष्म चन्द्रमा नक्षत्राणि सूर्यः॥
अथ योपरिष्टाल्लक्षणा॥
सा याज्या स्यादियं हि याज्या तस्या अस्या उपरिष्टाल्लक्ष्मौषधयो वनस्पतय आपो ऽग्निरिमाः प्रजाः॥
सा ह न्वेव समृद्धानुवाक्या॥
यस्यै प्रथमात्पदाद्देवतामभिव्याहरति सो एव समृद्धा याज्या यस्या उत्तमात्पदाद्देवताया अधि वषट्करोति वीर्यं वै देवत ऽर्चस्तदुभयत एवैतद्वीर्येण परिगृह्य यस्यै देवतायै हविर्भवति तस्यै प्रयछति॥
स वै वौगिति करोति॥
वाग्वै वषट्कारो वाग्रेतो रेत एवैतत्सिञ्चति षडित्यृतवो वै षट्तदृतुष्वेवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्मादेवं वषट्करोति॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुरेतावेवार्धमासौ य एवापूर्यते तं देवा उपायन्यो ऽपक्षीयते तमसुराः॥
ते देवा अकामयन्त॥
कथं न्विममपि संवृञ्जीमहि यो ऽयमसुराणामिति ते ऽर्चन्तः श्राम्यन्तश्चेरुस्त एतं हविर्यज्ञं ददृशुर्यद्दर्शपूर्णमासौ ताभ्यामयजन्त ताभ्यामिष्ट्वैतमपि समवृञ्जत॥
य एषो ऽसुराणामासीत्॥
यदा वा एता उभौ परिप्लवेते अथ मासो भवति मासशः संवत्सरः सर्वं वै संवत्सरः सर्वमेव तद्देवा असुराणां समवृञ्जत सर्वस्मात्सपत्नानसुरान्निरभजन्त्सर्वम्वेवैष एतत्सपत्नानां संवृङ्क्ते सर्वस्मात्सपत्नान्निर्भजति य एवमेतद्वेद॥
स यो देवानामासीत्॥
स यवायुवत हि तेन देवा यो ऽसुराणां सो ऽयवा न हि तेनासुरा अयुवत॥
अथो इतरथाहुः य एव देवानामासीत्सो ऽयवा न हि तमसुरा अयुवत यो ऽसुराणां स यवायुवत हि तं देवाः सब्दमहः सगरा रात्रिर्यव्या मासाः सुमेकः संवत्सरः स्वेको ह वै नामैतद्यत्सुमेक इति यवा च हि वा अयवा यवेतीवाथ येनैतेषां होता भवति तद्याविहोत्रमित्याचक्षते॥
यज्ञेन वै देवाः॥
दिवमुपोदक्रामन्नथ यो ऽयं देवः पशूनामीष्टे स इहाहीयत तस्माद्वास्तव्य इत्याहुर्वास्तौ हि तदहीयत॥
स येनैव देवा दिवमुपोदक्रामन्॥
तेनो एवार्चन्तः श्राम्यन्तश्चेरुरथ यो ऽयं देवः पशूनामीष्टे य इहाहीयत॥
स ऐक्षत॥
अहास्य हान्तर्यन्त्यु मा यज्ञादिति सो ऽनूच्चक्राम स आयतयोत्तरत उपोत्पेदे स एष स्विष्टकृतः कालः॥
ते देवा अब्रुवन्॥
मा विस्रक्षीरिति ते वै मा यज्ञान्मान्तर्गताहुतिम् मे कल्पयतेति तथेति स समबृहत्स नास्यत्स न कं चनाहिनत्॥
ते देवा अब्रुवन्॥
यावन्ति नो हवींषि गृहीतान्यभूवन्त्सर्वेषां तेषां हुतमुपजानीत यथास्मा आहुतिं कल्पयामेति॥
ते ऽध्वर्युमब्रुवन्॥
यथापूर्वं हवींष्यभिघारयैकस्मा अवदानाय पुनराप्याययायातयामानि कुरु तत एकैकमवदानमवद्येति॥
सो ऽध्वर्युः॥
यथापूर्वं हवींष्यभ्यघारयदेकस्मा अवदानाय पुनराप्याययदयातयामान्यकरोत्तत एकैकमवदानमवाद्यत्तस्माद्वास्तव्य इत्याहुर्वास्तु हि तद्यज्ञस्य यद्धुतेषु हविःषु तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तः सर्वत्र ह्येवैनं देवा अन्वाभजन्॥
तद्वा अग्नय इति क्रियते॥
अग्निर्वै स देवस्तस्यैतानि नामानि शर्व इति यथा प्राच्या आचक्षते भव इति यथा बाहीकाः पशूनाम् पती रुद्रो ऽग्निरिति तान्यस्याशान्तान्येवेतराणि नामान्यग्निरित्येव शान्ततमं तस्मादग्नय इति क्रियते स्विष्टकृत इति॥
ते होचुः॥
यत्त्वय्यमुत्र सत्ययक्ष्महि तन्नः स्विष्टं कुर्विति तदेभ्यः स्विष्टमकरोत्तस्मात्स्विष्टकृत इति॥
सो ऽनुवाक्यामनूच्य सम्पश्यति॥
ये तथाग्निं स्विष्टकृतमयाडग्निरग्नेः प्रिया धामानीति तदाग्नेयमाज्यभागमाहायाट्सोमस्य प्रिया धामानीति तत्सौम्यमाज्यभागमाहायाडग्नेः प्रिया धामानीति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तमाह॥
अथ यथादेवतम्॥
अयाड्देवानामाज्यपानाम् प्रिया धामानीति तत्प्रयाजानुयाजानाह प्रयाजानुयाजा वै देवा आज्यपा यक्षदग्नेर्होतुः प्रिया धामानीति तदग्निं होतारमाह तदस्मा एतां देवा आहुतिं कल्पयित्वाथैनेनैतद्भूयः समशाम्यन्प्रिय एनं धामन्नुपाह्वयन्त तस्मादेवं सम्पश्यति॥
तद्धैके॥
देवताम् पूर्वां कुर्वन्त्ययाट्कारादग्नेरयाट्सोमस्यायाडिति तदु तथा न कुर्याद्विलोम ह ते यज्ञे कुर्वन्ति ये देवताम् पूर्वां कुर्वन्त्ययाट्कारादिदं हि प्रथममभिव्याहरन्नयाट्कारमेवाभिव्याहरति तस्मादयाट्कारमेव पूर्वं कुर्यात्॥
यक्षत्स्वम् महिमानमिति॥
यत्र वा अदो देवता आवाहयति तदपि स्वम् महिमानमावाहयति तदतः प्राङ्न्यै किं चन स्वाय महिम्न इति क्रियते तदत्र तम् प्रीणाति तथो हास्यैषो ऽमोघायावाहितो भवति तस्मादाह यक्षत्स्वम् महिमानमिति॥
आ यजतामेज्या इष इति॥
प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति॥
सो अध्वरा जातवेदा जुषतां हविरिति॥
तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति तस्मादाह जुषतां हविरिति॥
तद्यदेते अत्र॥
याज्यानुवाक्ये अवकॢप्ततमे भवतस्तृतीयसवनं वै स्विष्टकृद्वैश्वदेवं वै तृतीयसवनम् पिप्रीहि देवां उशतो यविष्ठेति तदनुवाक्यायै वैश्वदेवमग्ने यदद्य विशो अध्वरस्य होतरिति तद्याज्यायै वैश्वदेवं तद्यदेते एवंरूपे भवतस्तेनो एते तृतीयसवनस्य रूपं तस्माद्वा एते अत्र याज्यानुवाक्ये अवकॢप्ततमे भवतः॥
ते वै त्रिष्टुभौ भवतः॥
वास्तु वा एतद्यज्ञस्य यत्स्विष्टकृदवीर्यं वै वास्त्विन्द्रियं वीर्यं त्रिष्टुबिन्द्रियमेवैतद्वीर्यं वास्तौ स्विष्टकृति दधाति तस्मात्त्रिष्टुभौ भवतः॥
उतो अनुष्टुभावेव भवतः॥
वास्त्वनुष्टुब्वास्तु स्विष्टकृद्वास्तावेवैतद्वास्तु दधाति पेसुकं वै वास्तु पिस्यति ह प्रजया पशुभिर्यस्यैवं विदुषो ऽनुष्टुभौ भवतः॥
तदु ह भाल्लवेयः॥
अनुष्टुभमनुवाक्यां चक्रे त्रिष्टुभं याज्यामेतदुभयम् परिगृह्णामीति सरथात्पपात स पतित्वा बाहुमपि शश्रे स परिममृशे यत्किमकरं तस्मादिदमापदिति स हैतदेव मेने यद्विलोम यज्ञे ऽकरमिति तस्मान्न विलोम कुर्यात्सछन्दसावेव स्यातामुभे वैवानुष्टुभा उभे वा त्रिष्टुभौ॥
स वा उत्तरार्धादवद्यति॥
उत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य दिक्तस्मादुत्तरार्धादवद्यत्युत्तरार्धे जुहोत्येतस्यै वै दिश उदपद्यत तं तत एवाशमयंस्तस्मादुत्तरार्धादवद्यत्युत्तरार्धे जुहोति॥
स वा अभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति॥
इतरा आहुती:ः पशवो ऽनुप्रजायन्ते रुद्रियः स्विष्टकृद्रुद्रियेण पशून्प्रसजेद्यदितराभिराहुतिभिः संसृजेत्ते ऽस्य गृहाः पशव उपमूर्यमाणा ईयुस्तस्मादभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति॥
एष वै स यज्ञः॥
येन तद्देवा दिवमुपोदक्रामन्नेष आहवनीयो ऽथ य इहाहीयत स गार्हपत्यस्तस्मादेतं गार्हपत्यात्प्राञ्चमुद्धरन्ति॥
तं वा अष्टासु विक्रमेष्वादधीत॥
अष्टाक्षरा वै गायत्री गायत्र्यैवैतद्दिवमुपोत्क्रामति॥
एकादशस्वादधीत॥
एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभैवैतद्दिवमुपोत्क्रामति॥
द्वादशस्वादधित॥
द्वादशाक्षरा वै जगती जगत्यैवैतद्दिवमुपोत्क्रामति नात्र मात्रास्ति यत्रैव स्वयम् मनसा मन्येत तदादधीत स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरति तेनैव दिवमुपोत्क्रामति॥
तदाहुः॥
आहवनीये हवींषि श्रपयेयुरतो वै देवा दिवमुपोदक्रामंस्तेनो एवार्चन्तः श्राम्यन्तश्चेरुस्तस्मिन्हवींषि श्रपयाम तस्मिन्यज्ञं तनवामहा इत्यपस्खल इव ह स हविषां यद्गार्हपत्ये श्रपयेयुर्यज्ञ आहवनीयो यज्ञे यज्ञं तनवामहा इति॥
उतो गार्हपत्य एव श्रपयन्ति॥
आहवनीयो वा एष न वा एष तस्मै यदस्मिन्नशृतं श्रपयेयुस्तस्मै वा एष यदस्मिञ्छूतं जुहुयुरित्यतो यतरथा कामयेत तथा कुर्यात्॥
स हैष यज्ञ उवाच॥
नग्नताय वै बिभेमीति का ते ऽनग्नतेत्यभित एव मा परिस्तृणीयुरिति तस्मादेतदग्निमभितः परिस्तृणन्ति तृष्णाया वै बिभेमीति का ते तृप्तिरिति ब्राह्मणस्यैव तृप्तिमनुतृप्येयमिति तस्मात्संस्थिते यज्ञे ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञमेवैतत्तर्पयति॥
प्रजापतिर्ह वै स्वां दुहितरमभिदध्यौ॥
दिवं ओषसं वा मिथुन्येनया स्यामिति तां सम्बभूव॥
तद्वै देवानामाग आस॥
य इत्थं स्वां दुहितरमस्माकं स्वसारं करोतीति॥
ते ह देवा ऊचुः॥
यो ऽयं देवः पशूनामीष्टे ऽतिसन्धं वा अयं चरति य इत्थं स्वां दुहितरमस्माकं स्वसारं करोति विध्येममिति तं रुद्रो ऽभ्यायत्य विव्याध तस्य सामि रेतः प्रचस्कन्द तथेन्नूनं तदास॥
तस्मादेतदृषिणाभ्यनूक्तम्॥
पिता यत्स्वां दुहितरमधिष्कन् क्ष्मया रेतः सञ्जग्मानो निषिञ्चदिति तदाग्निमारुतमित्युक्थं तस्मिंस्तद्व्याख्यायते यथा तद्देवा रेतः प्राजनयंस्तेषां यदा देवानां क्रोधो व्यैदथ प्रजापतिमभिषज्यंस्तस्य तं शल्पं निरकृन्तन्त्स वै यज्ञ एव प्रजापतिः॥
ते होचुः॥
उपजानीत यथेदं नामुयासत्कनीयो हाहुतेर्यथेदं स्यादिति॥
ते होचुः॥
भगायैनद्दक्षिणत आसीनाय परिहरत तद्भगः प्राशिष्यति तद्यथाहुतमेवम् भविष्यतीति तद्भगाय दक्षिणत आसीनाय पर्याजह्रुस्तद्भगो ऽवेक्षां चक्रे तस्याक्षिणी निर्ददाह तथेन्नूनं तदास तस्मादाहुरन्धो भग इति॥
ते होचुः॥
नो न्वेवात्राशमत्पूष्ण एनत्परिहरतेति तत्पूष्णे पर्याजह्रुस्तत्पूषा प्राश तस्य दतो निर्जघान तथेन्नूनं तदास तस्मादाहुरदन्तकः पूषेति तस्माद्यम् पूष्णे चरुं कुर्वन्ति प्रपिष्टानामेव कुर्वन्ति यथादन्तकायैवम्॥
ते होचुः॥
नो न्वेवात्राशमद्बृहस्पतय एनत्परिहरतेति तद्बृहस्पतये पर्याजह्रुः स बृहस्पतिः सवितारमेव प्रसवायोपाधावत्सविता वै देवानाम् प्रसवितेदम् मे प्रसुवेति तदस्मै सविता प्रसविता प्रासुवत्तदेनं सवितृप्रसूतं नाहिनत्ततो ऽर्वाचीनं शान्तं तदेतन्निदानेन यत्प्राशित्रम्॥
स यत्प्राशित्रमवद्यति॥
यदेवात्राविद्धं यज्ञस्य यद्रुद्रियं तदेवैतन्निर्मिमीते ऽथाप उपस्पृशति शान्तिरापस्तदद्भिः शमयत्यथेडाम् पशून्त्समवद्यति॥
स वै यावन्मात्रमिवैवावद्येत्॥
तथा शल्पः प्रच्यवते तस्माद्यावन्मात्रमिवैवावद्येदन्यतरत आज्यं कुर्यादधस्ताद्वोपरिष्टाद्वा तथा खदन्निःसरणवद्भवति तथा निस्रवति तस्मादन्यतरत आज्यं कुर्यादधस्ताद्वोपरिष्टाद्वा॥
स आज्यस्योपस्तीर्य॥
द्विर्हविषो ऽवदायाथोपरिष्टादाज्यस्याभिघारयति तद्यथैव यज्ञस्यावदानमेवमेतत्॥
तन्न पूर्वेण परिहरेत्॥
पूर्वेण हैके परिहरन्ति पुरस्ताद्वै प्रत्यञ्चो यजमानम् पशव उपतिष्ठन्ते रुद्रियेण ह पशून्प्रसजेद्यत्पूर्वेण परिहरेत्ते ऽस्य गृहाः पशव उपमूर्यमाणा ईयुस्तस्मादित्येव तिर्यक्प्रजिहीत तथा ह रुद्रियेण पशून्न प्रसजति तिर्यगेवैनं निर्मिमीते॥
तत्प्रतिगृह्णाति॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रतिगृह्णामीति॥
तद्यथैवादो बृहस्पतिः सवितारम्॥
प्रसवायोपाधावत्सविता वै देवानाम् प्रसवितेदम् मे प्रसुवेति तदस्मै सविता प्रसविता प्रासुवत्तदेनं सवितृप्रसूतं नाहिनदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानाम् प्रसवितेदम् मे प्रसुवेति तदस्मै सविता प्रसविता प्रसौति तदेनं सवितृप्रसूतं न हिनस्ति॥
तत्प्राश्नाति॥
अग्नेष्ट्वास्येन प्राश्नामीति न वा अग्निं किं चन हिनस्ति तथो हैनमेतन्न हिनस्ति॥
तन्न दद्भिः खादेत्॥
नेन्म इदं रुद्रियं दतो हिनसदिति तस्मान्न दद्भिः खादेत्॥
अथाप आचामति॥
शान्तिरापस्तदद्भिः शान्त्या शमयते ऽथ परिक्षाल्य पात्रं॥
अथास्मै ब्रह्मभागम् पर्याहरन्ति॥
ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते ऽभिगोप्ता स एतम् भागम् प्रतिविदान आस्ते यत्प्राशित्रं तदस्मै पर्याहार्षुस्तत्प्राशीदथ यमस्मै ब्रह्मभागम् पर्याहरन्ति तेन भागी स यदत ऊर्ध्वमसंस्थितं यज्ञस्य तदभिगोपायति तस्माद्वा अस्मै ब्रह्मभागम् पर्याहरन्ति॥
स वै वाचंयम एव स्यात्॥
ब्रह्मन्प्रस्थास्यामीत्यैतस्माद्वचसो विवृहन्ति वा एते यज्णं क्षण्वन्ति ये मध्ये यज्ञस्य पाकयज्ञिययेडया चरन्ति ब्रह्मा वा ऋत्विजाम् भिषक्तमस्तद्ब्रह्मा सन्दधाति न ह सन्दध्याद्यद्वावद्यमान आसीत तस्माद्वाचंयम एव स्यात्॥
स यदि पुरा मानुषीं वाचं व्याहरेत्॥
तत्रो वैष्णवीमृचंवा यजुर्वा जपेद्यज्ञो वै विष्णुस्तद्यज्ञम् पुनरारभते तस्यो हैषा प्रायश्चित्तिः॥
स यत्राह ब्रह्मन्प्रस्थास्यामीति तद्ब्रह्मा जपत्येतं ते देवा सवितर्यज्ञम् प्राहुरिति तत्सवितारम् प्रसवायोपधावति स हि देवानाम् प्रसविता बृहस्पतये ब्रह्मण इति बृहस्पतिर्वै देवानाम् ब्रह्मा तद्य एव देवानाम् ब्रह्मा तस्मा एवैतत्प्राह तस्मादाह बृहस्पतये ब्रह्मण इति तेन यज्ञमव तेन यज्ञपतिं तेन मामवेति नात्र तिरोहितमिवास्ति॥
मनो जूतिर्जुषतामाज्यस्येति॥
मनसा वा इदं सर्वमाप्तं तन्मनसैवैतत्सर्वामाप्नोति बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधात्विति यद्विवृढं तत्सन्दधाति विश्वे देवास इह मादयन्तामिति सर्वं वै विश्वे देवाः सर्वेणैवैतत्सन्दधाति स यदि कामयेत ब्रूयात्प्रतिष्ठेति यद्यु कामयेतापि नाद्रियेत॥