ऋतवो ह वै देवेषु यज्ञे भागमीषिरे॥
आ नो यज्ञे भजत मा नो यज्ञादन्तर्गतास्त्वेव नो ऽपि यज्ञे भाग इति॥
तद्वै देवा न जज्ञुः॥
त ऋतवो देवेष्वजानत्स्वसुरानुपावर्तन्ताप्रियान्देवानां द्विषतो भ्रातृव्यान्॥
ते हैतामेधतुमेधां चक्रिरे॥
यामेषामेतामनुशृण्वन्ति कृषन्तो ह स्मैव पूर्वे वपन्तो यन्ति लुनन्तो ऽपरे मृणन्तः शश्वद्धैभ्यो ऽकृष्टपच्या एवौषधयः पेचिरे॥
तद्वै देवानामाग आस॥
कनीय इन्न्वतो द्विषन्द्विषते ऽरातीयति किम्वेतावन्मात्रमुपजानीत यथेदमितो ऽन्यथासदिति॥
ते होचुः ऋतूनेवानुमन्त्रयामहा इति केनेति प्रथमानेवैनान्यज्ञे यजामेति॥
स हाग्निरुवाच॥
अथ यन्माम् पुरा प्रथमं यजथ क्वाहम् भवानीति न त्वामायतनाच्च्यावयाम इति ते यदृतूनभिह्वयमाना अथाग्निमायतनान्नाच्यावयंस्तस्मादग्निरच्युतो न ह वा आयतनाच्च्यवते यस्मिन्नायतने भवति य एवमेतमग्निमच्युतं वेद॥
ते देवा अग्निमब्रुवन् परेह्येनांस्त्वमेवानुमन्त्रयस्वेति स हेत्याग्निरुवाच ऽर्तेवो ऽविदं वै वो देवेषु यज्ञे भागमिति कथं नो ऽविद इति प्रथमानेव वो यज्ञे यक्ष्यन्तीति॥
त ऋतवो ऽग्निमब्रुवन्॥
आ वयं त्वामस्मासु भजामो यो नो देवेषु यज्ञे भागमविद इति स एषो ऽग्निरृतुष्वाभक्तः समिधो अग्ने तनूनपादग्न इडो अग्ने बर्हिरग्ने स्वाहाग्निमित्याभक्तो ह वै तस्याम् पुण्यकृत्यायां भवति यामस्य समानोब्रुवाणः करोत्यग्निमते ह वा अस्मा अग्निमन्त ऋतव ओषधीः पचन्तीदं सर्वं य एवमेतमग्निमृतुष्वाभक्तं वेद॥
तदाहुः॥
यदुत्तमान्प्रयाजानावाहयन्त्यथ कस्मादेनान्प्रथमान्यजन्तीत्युत्तमान्ह्येनान्यज्ञे ऽवाकल्पयन्प्रथमान्वो यजामेत्यब्रुवंस्तस्मादुत्तमानावाहयन्ति प्रथमान्यजन्ति॥
चतुर्थेन वै प्रयाजेन देवाः॥
यज्ञमाप्नुवंस्तम् पञ्चमेन समस्थापयन्नथ यदत ऊर्ध्वमसंस्थितं यज्ञस्य स्वर्गमेव तेन लोकं समाश्नुवत॥
ते स्वर्गं लोकं यन्तः॥
असुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते ऽग्निम् पुरस्तादकुर्वत रक्षोहणं रक्षसामपहन्तारमग्निं मध्यतो ऽकुर्वत रक्षोहणं रक्षसामपहन्तारमग्निम् पश्चादकुर्वत रक्षोहणं रक्षसामपहन्तारं॥
स यद्येनान्पुरस्तात्॥
असुररक्षसान्यासिसङ्क्षन्नग्निरेव तान्यपाहन्रक्षोहा रक्षसामपहन्ता यदि मध्यत आसिसङ्क्षन्नग्निरेव तान्यपाहन्रक्षोहा रक्षसामपहन्ता यदि पश्चादासिसङ्क्षन्नग्निरेव तान्यपाहन्रक्षोहा रक्षसामपहन्तात एवं सर्वतो ऽग्निभिर्गुप्यमानाः स्वर्गं लोकं समाश्नुवत॥
तथो एवैष एतत्॥
चतुर्थेनैव प्रयाजेन यज्ञमाप्नोति तम् पञ्चमेन संस्थापयत्यथ यदत ऊर्ध्वमसंस्थितं यज्ञस्य स्वर्गमेव तेन लोकं समश्नुते॥
स यदाग्नेयमाज्यभागं यजति॥
अग्निमेवैतत्पुरस्तात्कुरुते रक्षोहणं रक्षसामपहन्तारमथ यदाग्नेयः पुरोडाषो भवत्यग्निमेवैतन्मध्यतः कुरुते रक्षोहणं रक्षसामपहन्तारमथ यदग्निं स्विष्टकृतं यजत्यग्निमेवैतत्पश्चात्कुरुते रक्षोहणं रक्षसामपहन्तारं॥
स यद्येनम् पुरस्तात्॥
असुररक्षसान्यासिसङ्क्षन्त्याग्नेरेव तान्यपहन्ति रक्षोहा रक्षसामपहन्ता यदि मध्यत असुररक्षसान्यासिसङ्क्षन्त्यग्निरेव तान्यपहन्ति रक्षोहा रक्षसामपहन्ता यदि पश्चादसुररक्षसान्यासिसङ्क्षन्त्यग्निरेव तान्यपहन्ति रक्षोहा रक्षसामपहन्ता स एवं सर्वतो ऽग्निभिर्गुप्यमानः स्वर्गं लोकं समश्नुते॥
स यद्येनम् पुरस्तात्॥
यज्ञस्यानुव्याहरेत्तम् प्रति ब्रूयान्मुख्यामार्त्तिमारिष्यस्यन्धो वा बधिरो वा भविष्यसीत्येता वै मुख्या आर्त्तयस्तथा हैव स्यात्॥
यदि मध्यतो यज्ञस्यानुव्याहरेत्॥
तम् प्रति ब्रूयादप्रजा अपशुर्भविष्यसीति प्रजा वै पशवो मध्यं तथा हैव स्यात्॥
यद्यन्ततो यज्ञस्यानुव्याहरेत्॥
तम् प्रति ब्रूयादप्रतिष्ठितो दरिद्रः क्षिप्रे ऽमुं लोकमेष्यसीति तथा हैव स्यात्तस्मादुह नानुव्याहारीव स्यादुत ह्येवंवित्परो भवति॥
संवत्सरं ह वै प्रयाजैर्जयञ्जयति॥
स ह न्वेवैनं जयति यो ऽस्य द्वाराणि वेद किं हि स तैर्गृहैः कुर्याद्यानन्तरतो न व्यवविद्याद्यथास्य ते भवन्ति तस्य वसन्त एव द्वारं हेमन्तो द्वारं तं वा एतं संवत्सरं स्वर्गं लोकम् प्रपद्यते सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेन हास्याक्षय्यं सुकृतम् भवत्यक्षय्यो लोकः॥
तदाहुः॥
किन्देवत्यान्याज्यानीति प्राजापत्यानीति ह ब्रूयादनिरुक्तो वै प्रजापतिरनिरुक्तान्याज्यानि तानि हैतानि यजमानदेवत्यान्येव यजमानो ह्येव स्वे यज्ञे प्रजापतिरेतेन ह्युक्ता ऋत्विजस्तन्वते तं जनयन्ति॥
स आज्यस्योपस्तीर्य॥
द्विर्हविषो ऽवदायाथोपरिष्टादाज्यस्याभिघारयति सैषाज्येन मिश्राहुतिर्हूयते यजमानेन हैवैषैतन्मिश्रा हूयते यदि ह वा अपि दूरे सन्यजते यद्यन्तिके यथा हैवान्ते सत इष्टं स्यादेवं हैवैवं विदुष इष्टम् भवति यद्यु हापि बह्विव पापं करोति नो हैव बहिर्धा यज्ञाद्भवति य एवमेतद्वेद॥
यज्ञेन वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्नथ यदेनेनायोपयंस्तस्मद्द्यूपो नाम तद्वा ऋषीणामनुश्रुतमास॥
यज्ञेन ह वै देवाः॥
इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्निति तमन्वेष्टुं दध्रिरे॥
तेर्चन्तः श्राम्यन्तश्चेरुः॥
श्रमेण ह स्म वै तद्देवा जयन्ति यदेषां जय्यमासर्षयश्च तेभ्यो देवा वैव प्ररोचयां चक्रुः स्वयं वैव दध्रिरे प्रेत तदेष्यामो यतो देवाः स्वर्गं लोकं समाश्नुवतेति ते किम् प्ररोचते किम् प्ररोचत इति चेरुरेत्पुरोडाशमेव कूर्मम् भूत्वा सर्पन्तं तेह सर्व एव मेनिरे यं वै यज्ञ इति॥
ते होचुः॥
अश्विभ्यां तिष्ठ सरस्वत्यै तिष्ठेन्द्राय तिष्ठेति स ससर्पैवाग्नये तिष्ठेति ततस्तस्थावग्नये वाअस्थादिति तमग्नावेव परिगृह्य सर्वहुतमजुहवुराहुतिर्हिदेवानां तत एभ्यो यज्ञः प्रारोचत तमसृजन्त तमतन्वत सो ऽयम् परो ऽवरं यज्ञो ऽनूच्यते पितैव पुत्राय ब्रह्मचारिणे॥
स वा एभ्यस्तत्पुरो ऽदाशयत्॥
य एभ्यो यज्ञम् प्रारोचयत्तस्मात्पुरोदाशः पुरोदाशो ह वै नामैतद्यत्पुरोडाश इति स एष उभयत्राच्युत आग्नेयो ऽष्टाकपालः पुरोडाशो भवति॥
स न पौर्णमासं हविः॥
नामावास्यमग्नीषोमीय एव पौर्णमासं हविः सान्नाय्यमामावास्यं यज्ञ एवैष उभयत्रावकॢप्तो नेद्यज्ञादयानीति न्वेव पुरस्तात्पौर्णमासस्य क्रियत एवम्वामावास्यस्यैतन्नु तद्यस्मादत्र क्रियते॥
यद्यु एनमुपधावेत्॥
इष्ट्या मा याजयेत्येतयैव याजयेद्यत्कामा वा एतमृषयो ऽजुहवुः स एभ्यः कामः समर्ध्यत यत्कामो ह वा एतेन यज्ञेन यजते सो ऽस्मै कामः समृध्यते यस्यै वै कस्यै च देवतायै हविर्गृह्यते ऽग्नौ वै तस्यै युह्वत्यग्ना उ चेद्धोष्यन्त्स्यात्किमन्यस्यै देवताया आदिशेत्तस्मादग्नय एव॥
अग्निर्वै सर्वा देवताः॥
अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति तद्यथा सर्वा देवता उपधावेदेवं तत्तस्मादग्नय एव॥
अग्निर्वै देवानामद्धातमाम्॥
यम् वा अद्धातमाम् मन्येत तमुपधावेत्तस्मादग्नय एव॥
अग्निर्वै देवानां मृदुहृदयतमः॥
यं वै मृदुहृदयतमम् मन्येत तमुपधावेत्तस्मादग्नय एव॥
अग्निर्वै देवानां नेदिष्ठम्॥
यं वै नेदिष्ठमुपसर्तव्यानाम् मन्येत तमुपधावेत्तस्मादग्नय एव॥
स यदीष्टिं कुर्वीत॥
सप्तदश सामिधेनीरनुब्रूयादुपांशु देवतां यजति तद्धीष्टिरूपम् मूर्धन्वत्यौ याज्यानुवाक्ये स्यातां वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये॥
त्वष्टुर्ह वै पुत्रः॥
त्रिशीर्षा षडक्ष आस तस्य त्रीण्येव मुखान्यासुस्तद्यदेवंरूप आस तस्माद्विश्वरूपो नाम॥
तस्य सोमपानमेवैकम् मुखमास॥
सुरापाणमेकमन्यस्मा अशनायैकं तमिन्द्रो दिद्वेष तस्य तानि शीर्षाणि प्रचिच्छेद॥
स यत्सोमपानमास॥
ततः कपिञ्जलः समभवत्तस्मात्सबभ्रुक इव बभ्रुरिव हि सोमो राजा॥
अथ यत्सुरापाणमास॥
ततः कलविङ्कः समभवत्तस्मात्सो ऽभिमाद्यत्क इव वदत्यभिमाद्यन्निव हि सुराम् पीत्वा वदति॥
अथ यदन्यस्मा अशनायास॥
ततस्तित्तिरिः समभवत्तस्मात्स विश्वरूपतम इव सन्त्येव घृस्तोका इव त्वन्मधुस्तोका इव त्वत्पर्णेष्वाश्चुतिता एवं रूपं हि स तेनाशनमावयत्॥
स त्वष्टा चुक्रोध॥
कुविन्मे पुत्रमवधीदिति सो ऽपेन्द्रमेव सोममाजह्रे स यथायं सोमः प्रसुत एवमपेन्द्र एवास॥
इन्द्रो ह वा ईक्षां चक्रे॥
इदं वै मा सोमादन्तर्यन्तीति स यथा बलीयानबलीयस एवमनुपहूत एव यो द्रोणकलशे शुक्र आस तम् भक्षयां चकार स हैनं जिहिंस सो ऽस्य विष्वङ्ङेव प्राणेभ्यो दुद्राव मुखाद्धैवास्य न दुद्रावाथ सर्वेभ्यो ऽन्येभ्यः प्राणेभ्यो ऽद्रवत्तददः सौत्रामणीतीष्टिस्तस्यां तद्व्याख्यायते यथैनं देवा अभिषज्यन्॥
स त्वष्टा चुक्रोध कुविन्मे ऽनुपहूतः सोममबभक्षदिति सस्वयमेव यज्ञवेशस चक्रे स यो द्रोणकलशे शुक्रः परिशिष्ट आस त प्रवर्तयां चकारेन्द्रशत्रुर्वर्धस्वेति सोऽग्निमेव प्राप्य सम्बभूवान्तरैव सम्बभूवेत्यु हैक आहुः सो ऽग्नीषोमावेवाभिसम्बभूव सर्वा विद्याः सर्वं यशः सर्वमन्नाद्यं सर्वां श्रीं॥
स यद्वर्तमानः समभवत्॥
तस्माद्वृत्रो ऽथ यदपात्समभवत्तस्मादहिस्तं दनुश्च दनायूश्च मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः॥
अथ यदब्रवीदिन्द्रशत्रुर्वर्धस्वेति॥
तस्मादु हैनमिन्द्र एव जघानाथ यद्ध शश्वदवक्ष्यदिन्द्रस्य शत्रुर्वर्धस्वेति शश्वदु ह स एवेन्द्रमहनिष्यत्॥
अथ यदब्रवीद्वर्धस्वेति॥
तस्मादु ह स्मेषुमात्रमेव तिर्यङ्वर्धत इशुमात्रम् प्राङ्क्सो वैवावरं समुद्रं दधावव पूर्वं स यावत्स आस सहैव तावदन्नाद आस॥
तस्मै ह स्म पूर्वाह्णे देवाः॥
अशनमभिहरन्ति मध्यन्दिने मनुष्या अपराह्णे पितरः॥
स वा इन्द्रस्तथैव नुत्तश्चरन्॥
अग्नीषोमा उपमन्त्रयां चक्रे ऽग्नीषोमौ युवं वै मम स्थो युवयोरहमस्मि न युवयोरेष किं चन कम् म इमं दस्युं वर्धयथ उप मावर्तेथामिति॥
तौ होचतुः॥
किमावयोस्ततः स्यादिति ताभ्यामेतमग्नीषोम् ईयमेकादशकपालम् पुरोडाशं निरवपत्तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति॥
तावेनमुपाववृततुः॥
तावनु सर्वे देवाः प्रेयुः सर्वा विद्याः सर्वं यशः सर्वमन्नाद्यं सर्वा श्रीस्तेनेष्ट्वेन्द्र एतदभवद्यदिदमिन्द्र एष उ पौर्णमासस्य बन्धुः स यो हैवं विद्वान्पौर्णमासेन यजत एतां हैव श्रियं गछत्येवं यशो भवत्येवमन्नादो भवति॥
तद्वेव खलु हतो वृत्रः॥
स यथा दृतिर्निष्पीत एवं संलीनः शिश्ये यथा निर्धूतसक्तुर्भस्त्रैवं संलीनः शिश्ये तमिन्द्रो ऽभ्यादुद्राव हनिष्यन्॥
स होवाच॥
मा नु मे प्रहार्षीस्त्वं वै तदेतर्ह्यसि यदहं व्येव मा कुरु मामुया भूवमिति स वै मे ऽन्नमेधीति तथेति तं द्वेधान्वभिनत्तस्य यत्सौम्यं न्यक्तमास तं चन्द्रमसं चकाराथ यदस्यासुर्यमास तेनेमाः प्रजा उदरेणाविध्यत्तस्मादाहुर्वृत्र एव तर्ह्यन्नाद आसीद्वृत्र एतर्हीतीदं हि यदसावापूर्यते ऽस्मादेवैतल्लोकादाप्यायते ऽथ यदिमाः प्रजा अशनमिच्छन्ते ऽस्मा एवैतद्वृत्रायोदराय बलिं हरन्ति स यो हैवमेतं वृत्रमन्नादं वेदानादो हैव भवति॥
ता उ हैता देवता ऊचुः॥
या इमा अग्नीषोमावन्वाजग्मुरग्नीषोमौ युवं वै नो भूयिष्ठभाजौ स्थो ययोर्वामिदं युवयोरस्मानन्वाभजतमिति॥
तौ होचतुः॥
किमावयोस्ततः स्यादिति यस्यै कस्यै च देवतायै हविर्निर्वपांस्तद्वाम् पुरस्तादाज्यस्य यजानिति तस्माद्यस्यै कस्यै च देवतायै हविर्निर्वपन्ति तत्पुरस्तादाज्यभागावग्नीषोमाभ्यां यजन्ति तन्न सौम्ये ऽध्वरे न पशौ यस्यै कस्यै च देवतायै निर्वपानिति ह्यब्रुवन्॥
स हाग्निरुवाच॥
मय्येव वः सर्वेभ्यो जुह्वतु तद्वो ऽहं मय्याभजामीति तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुरग्निः सर्वा देवता इति॥
अथ ह सोम उवाच॥
मामेव वः सर्वेभ्यो जुह्वतु तद्वो ऽहं मय्याभजामीति तस्मात्सोमं सर्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुः सोमः सर्वा देवता इति॥
अथ यदिन्द्रे सर्वे देवास्तस्थानाः॥
तस्मादाहुरिन्द्रः सर्वा देवता इन्द्रश्रेष्ठा देवा इत्येतद्ध वै देवास्त्रेधैकदेवत्या अभवन्त्स यो हैवमेतद्वेदैकधा हैव स्वानां श्रेष्ठो भवति॥
द्वयं वा इदं न तृतीयमस्ति॥
आर्द्रं चैव शुष्कं च यछुष्कं तदाग्नेयं यदार्द्रं तत्सौम्यमथ यदिदं द्वयमेवाप्य किमेतावत्क्रियत इत्यग्नीषोमयोरेवाज्यभागावग्नीषोमयोरुपांशुयाजो ऽग्नीषोमयोः पुरोडाशो यदत एकतमेनैवेदं सर्वमाप्नोत्यथ किमेतावत्क्रियत इत्यग्नीषोमयोर्हैवैतावती विभूतिः प्रजातिः॥
सूर्य एवाग्नेयः॥
चन्द्रमाः सौम्यो ऽहरेवाग्नेयं रात्रिः सौम्या य एवापूर्यते ऽर्धमासः स आग्नेयो यो ऽपक्षीयते स सौम्यः॥
आज्यभागाभ्यामेव॥
सूर्याचन्द्रमसावाप्नोत्युपांशुयाजेनैवाहोरात्रे आप्नोति पुरोडाशेनैवार्धमासावाप्नोतीत्यु हैक आहुः॥
तदु होवाचासुरिः॥
आज्यभागाभ्यामेवातो यतमे वा यतमे वा द्वे आप्नोत्युपांशुयाजेनैवातो ऽहोरात्रे आप्नोति पुरोडाशेनैवातो ऽर्धमासावाप्नोति सर्वं म आप्तमसत्सर्वं जितं सर्वेण वृत्रं हनानि सर्वेण द्विषन्तं भ्रातृव्यं हनानीति तस्माद्वा एतावत्क्रियत इति॥
तदाहुः॥
किमिदं जामि क्रियते ऽग्नीषोमयोरेवाज्यस्याग्नीषोमयोः पुरोडाशस्य यदनन्तर्हितं तेन जामीत्यनेन ह त्वेवाजाम्याज्यस्येतरम् पुरोडाशस्येतरं तदन्यदिवेतरमन्यदिवेतरम् भवत्यृचमनूच्य जुषाणेन यजत्यृचमनूच्यर्चा यजति तदन्यदिवेतरमन्यदिवेतरम् भवत्यनेन ह त्वेवाजाम्युपांश्वाज्यस्य यजत्युच्चैः पुरोडाशस्य स यदुपांशु तत्प्राजापत्यं रूपं तस्मात्तस्यानुष्टुभमनुवाक्यामन्वाह वाग्घ्यनुष्टुब्वाग्घि प्रजापतिः॥
एतेन वै देवाः॥
उपांशुयाजेन यंयमसुराणामकामयन्त तमुपत्सर्य वज्रेण वषट्कारेणाघ्नंस्तथो एवैष एतेनोपांशुयाजेन पाप्मानं द्विषन्तम् भ्रातृव्यमुपत्सर्य वज्रेण वषट्कारेण हन्ति तस्मादुपांशुयाजं यजति॥
स वा ऋचमनूच्य जुषाणेन यजति तदन्विमा अन्यतरतोदन्ताः प्रजाः प्रजायन्ते ऽस्थि ह्यृगस्थि हि दन्तो ऽन्यतरतो ह्येतदस्थि करोति॥
अथर्चमनूच्यर्चा यजति॥
तदन्विमा उभयतोदन्ताः प्रजाः प्रजायन्ते ऽस्थि ह्यृगस्थि हि दन्त उभयतो ह्येतदस्थि करोत्येता वा इमा द्वय्यः प्रजा अन्यतरतोदन्ताश्चैवोभयतोदन्ताश्च स यो हैवं विद्वानग्नीषोमयोः प्रजातिं यजति बहुर्हैव प्रजया पशुभिर्भवति॥
स वै पौर्णमासेनोपवत्स्यन्॥
न सत्रा सुहित इव स्यात्तेनेदमुदरमसुर्यं व्लिनात्याहुतिभिः प्रातर्दैवमेष उ पौर्णमासस्योपचारः॥
स वै सम्प्रत्येवोपवसेत्॥
सम्प्रति वृत्रं हनानि सम्प्रति द्विषन्तम् भ्रातृव्यं हनानीति॥
स वा उत्तरामेवोपवसेत्॥
समिव वा एष क्रमते यः सम्प्रत्युपवसत्यनद्धा वै सङ्क्रान्तयोर्यदीतरो वेतरमभिभवतीतरो वेतरमथ य उत्तरामुपवसति यथा पराञ्चमावृत्तं सम्पिंष्यादप्रत्यालभमानं सो ऽन्यतोघात्येव स्यादेवं तद्य उत्तरामुपवसति॥
स वै सम्प्रत्येवोपवसेत्॥
यथा वा अन्यस्य हतं सम्पिंष्यादेवं तद्य उत्तरामुपवसति सो ऽन्यस्यैव कृतानुकरो ऽन्यस्योपावसायी भवति तस्मादु सम्प्रत्येवोपवसेत्॥
प्रजापतेर्ह वै प्रजाः ससृजानस्य॥
पर्वाणि विसस्रंसुः स वै संवत्सर एव प्रजापतिस्तस्यैतानि पर्वाण्यहोरात्रयोः सन्धी पौर्णमासी चामावास्या चर्तुमुखानि॥
स विस्रस्तैः पर्वभिः॥
न शशाक संहातुं तमेतैर्हविर्यज्ञैर्देवा अभिषज्यन्नग्निहोत्रेणैवाहोरात्रयोः सन्धी तत्पर्वाभिषज्यंस्तत्समदधुः पौर्णमासेन चैवामावास्येन च पौर्णमासीं चामावास्यां च तत्पर्वाभिषज्यंस्तत्समदधुश्चातुर्मास्यैरेवर्तुमुखानि तत्पर्वाभिषज्यंस्तत्समदधुः॥
स संहितैः पर्वाभिः॥
इदमन्नाद्यमभ्युत्तस्थौ यदिदम् प्रजापतेरन्नाद्यं स यो हैवं विद्वान्त्सम्प्रत्युपवसति सम्प्रति हैव प्रजापतेः पर्व भिषज्यत्यवति हैनं प्रजापतिः स एवमेवान्नादो भवति य एवं विद्वान्त्सम्प्रत्युपवसति तस्मादु सम्प्रत्येवोपवसेत्॥
चक्षुषी ह वा एते यज्ञस्य यदाज्यभागौ॥
तस्मात्पुरस्ताज्जुहोति पुरस्ताद्धीमे चक्षुषी तत्पुरस्तादेवैतच्चक्षुषी दधाति तस्मादिमे पुरस्ताच्चक्षुषी॥
उत्तरार्धपूर्वार्धे हैके॥
आग्नेयमाज्यभागं जुह्वति दक्षिणार्धपूर्वार्धे सौम्यमाज्यभागमेतत्पुरस्ताच्चक्षुषी दध्म इति वदन्तस्तदु तदाविज्ञान्यमिव हवींषि ह वा आत्मा यज्ञस्य स यदेव पुरस्ताद्धविषां जुहोति तत्पुरस्ताच्चक्षुषी दधाति यत्रो एव समिद्धतम् मन्येत तदाहुतीर्जुहुयात्समिद्धहोमेन ह्येव समृद्धा आहुतयः॥
स वा ऋचमनूच्य जुषाणेन यजति॥
तस्मादिमे अस्थन्त्सत्यनस्थिके चक्षुषी आश्लिष्टे अथ यदृचमनूच्यर्चा यजेदस्थि हैव कुर्यान्न चक्षुः॥
ते वा एते॥
अग्नीषोमयोरेव रूपमन्वायत्ते यछुक्लं तदाग्नेयं यत्कृष्णं तत्सौम्यं यदि वेतरथा यदेव कृष्णं तदाग्नेयं यछुक्लं तत्सौम्यं यदेव वीक्षते तदाग्नेयं रूपं शुष्के इव हि वीक्षमाणस्याक्षिणी भवतः शुष्कमिव ह्याग्नेयंयदेव स्वपिति तत्सौम्यं रूपमार्द्रे इव हि सुषुपुषो ऽक्षिणी भवत आर्द्र इव हि सोम आजरसं ह वा अस्मिं लोके चक्षुष्मान्भवति सचक्षुरमुष्मिंलोके सम्भवति य एवमेतौ चक्षुषी आज्यभागौ वेद॥
इन्द्रो ह यत्र वृत्राय वज्रम् प्रजहार॥
सो ऽबलीयान्मन्यमानो नास्तृषीतीव बिभ्यन्निलयां चक्रे स पराः परावतो जगाम देवा ह वै विदां चक्रुर्हतो वै वृत्रो ऽथेन्द्रो न्यलेष्टेति॥
तमन्वेष्टुं दध्रिरे॥
अग्निर्देवतानां हिरण्यस्तूप ऋषीणाम् बृहती छन्दसां तमग्निरनुविवेद तेनैतां रात्रिं सहाजगाम स वै देवानां वसुर्वीरो ह्येषाम्॥
ते देवा अब्रुवन्॥
अमा वै नो ऽद्य वसुर्वसति यो नः प्रावात्सीदिति ताभ्यामेतद्यथा ज्ञातिभ्यां वा सखिभ्यां वा सहागताभ्यां समानमोदनम् पचेदजं वा तदह मानुषं हविर्देवानामेवमाभ्यामेतत्समानं हविर्निरवपन्नैन्द्राग्नं द्वादशकपालम् पुरोडाशं तस्मादैन्द्राग्नो द्वादशकपालं पुरोडाशो भवति॥
स इन्द्रो ऽब्रवीत्॥
यत्र वै वृत्राय वज्रम् प्राहरं तद्व्यस्मये स कृश इवास्मि न वै मेदं धिनोति यन्मा धिनवत्तन्मे कुरुतेति तथेति देवा अब्रुवन्॥
ते देवा अब्रुवन्॥
न वा इममन्यत्सोमाद्धिनुयात्सोममेवास्मै सम्भरामेति तस्मै सोमं समभरन्नेष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागछति स इहैवापश्चौषधीश्च प्रविशति स वै देवानां वस्वन्नं ह्येषां तद्यदेष एतां रात्रिमिहामा वसति तस्मादमावास्या नाम॥
तं गोभिरनुविष्ठाप्य समभरन्॥
यदोषधीराश्नंस्तदोषधिभ्यो यदपो ऽपिबंस्तदद्भ्यस्तमेवं सम्भृत्यातच्य तीव्रीकृत्य तमस्मै प्रायछन्॥
सो ऽब्रवीत्॥
धिनोत्येव मेदं नेव तु मयि श्रयते यथेदम् मयि श्रयातै तथोपजानीतेति तं शृतेनैवाश्रयन्॥
तद्वा एतत् समानमेव सत्पय एव सदिन्द्रस्यैव सत्तत्पुनर्नानेवाचक्षते यदब्रवीद्धिनोति मेति तस्माद्दध्यथ यदेनं शृतेनैवाश्रयंस्तस्माछूतं॥
स यथांशुराप्यायेत्॥
एवमाप्यायताप पाप्मानं हरिमाणमहतैष उ आमावास्यसा बन्धुः स यो हैवं विद्वान्त्सन्नयत्येवं हैव प्रजया पशुभिराप्यायते ऽप पाप्मानं हते तस्माद्वै सन्नयेत्॥
तदाहुः॥
नासोमयाजी सन्नयेत्सोमाहुतिर्वा एषा सानवरुद्धासोमयाजिनस्तस्मान्नासोमयाजी सनयेदिति॥
तदु समेव नयेत्॥
नन्वत्रान्तरेण शुश्रुम सोमेन नु मा याजयताथ म एतदाप्यायनं सम्भरिष्यथेत्यब्रवीदिति न वै मेदं धिनोति यन्मा धिनवत्तन्मे कुरुतेति तस्मा एतदाप्यायनं समभरंस्तस्मादप्यसोमयाजी समेव नयेत्॥
वार्त्रघ्नं वै पौर्णमासम्॥
इन्द्रो ह्येतेन वृत्रमहन्नथैतदेव वृत्रहत्यं यदामावास्यं वृत्रं ह्यस्मा एतज्जघ्नुष आप्यायनमकुर्वन्॥
तद्वा एतदेव वार्त्रघ्नम्॥
यत्पौर्णमासमथैष एव वृत्रो यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदेनमेतेन सर्वं हन्ति नास्य किं चन परिशिनष्टि सर्वं ह वै पाप्मानं हन्ति न पाप्मनः किं चन परिशिनष्टि य एवमेतद्वेद॥
तद्धैके॥
दृष्ट्वोपवसन्ति श्वो नोदेतेत्यदो हैव देवानामविक्षीणमन्नम् भवत्यथैभ्यो वयमित उपप्रदास्याम इति तद्धि समृद्धं यदक्षीण एव पूर्वस्मिन्नन्ने ऽथापरमन्नमागछति स ह बह्वन्न एव भवत्यसोमयाजी तु क्षीरयाज्यदो हैव सोमो राजा भवति॥
अथ यथैव पुरा॥
केवलीरोषधीरश्नन्ति केवलीरपः पिबन्ति ताः केवलमेव पयो दुह्र एव तदेष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागछति स इहापश्चौषधीश्च प्रविशति तदेनमद्भ्य ओषधिभ्यः सम्भृत्याहुतिभ्यो ऽधि जनयति स एष आहुतिभ्यो जातः पश्चाद्ददृशे॥
तद्वा एतत्॥
अविक्षीणमेव देवानामन्नाद्यम् परिप्लवते ऽविक्षीणं ह वा अस्यास्मिंलोके ऽन्नम् भवत्यक्षय्यममुष्मिंलोके सुकृतं य एवमेतद्वेद॥
तद्वा एतां रात्रिम्॥
देवेभ्यो ऽन्नाद्यम् प्रच्यवते तदिमं लोकमागछति ते देवा अकामयन्त कथं नु न इदम् पुनरागछेत्कथं न इदम् परागेव न प्रणश्येदिति तद्य एव सन्नयन्ति तेष्वाशंसन्त एत एव नः सम्भृत्य प्रदास्यन्तीत्या ह वा अस्मिन्त्स्व!श्च निष्ट्याश्च शंसन्ते य एवमेतद्वेद यो वै परमतां गछति तस्मिन्नाशंसन्ते॥
तद्वा एष एवेन्द्रः॥
य एष तपत्यथैष एव वृत्रो यच्चन्द्रमाः मो ऽस्यैष भ्रातृव्यजन्मेव तस्माद्यद्यपि पुरा विदूरमिवोदितो ऽथैनमेतां रात्रिमुपैव न्याप्लवते सो ऽस्य व्यात्तमापद्यते॥
तं ग्रसित्वोदेति॥
स न पुरस्तान्न पश्चाद्ददृशे ग्रसते ह वै द्विषन्तम् भ्रातृव्यमयमेवास्ति नास्य सपत्नाः सन्तीत्याहुर्य एवमेतद्वेद॥
तं निर्धीय निरस्यति॥
स एष धीतः पश्चाद्ददृशे स पुनराप्यायते स एतस्यैवान्नाद्याय पुनराप्यायते यदि ह वा अस्य द्विषन्भ्रातृव्यो वणिज्यया वा केनचिद्वा सम्भवत्येतस्य हैवान्नाद्याय पुनः सम्भवति य एवमेतद्वेद॥
तद्धैके॥
महेन्द्रायेति कुर्वन्तीन्द्रो वा एष पुरा वृत्रस्य वधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवम् महेन्द्रो ऽभवत्तस्मान्महेन्द्रायेति तद्विन्द्राये=त्येव कुर्यादिन्द्रो वा एष पुरा वृत्रस्य वधादिन्द्रो वृत्रं जघ्निवांस्तस्माद्विन्द्रायेत्येव कुर्यात्॥