स वै प्रवरायाश्रावयति॥
तद्यत्प्रवरायाश्रावयति यज्ञो वा आश्रावणं यज्ञमभिव्याहृत्याथ होतारम् प्रवृणा इति तस्मात्प्रवरायाश्रावयति॥
स इध्मसन्नहनान्येवाभिपद्याश्रावयति॥
स यद्वानारभ्य यज्ञमध्वर्युराश्रावयेद्वेपनो वा ह स्यादन्यां वार्त्तिमार्छेत्॥
तद्धैके॥
वेदे स्तीर्णायै बर्हिरभिपद्याश्रावयन्तीध्मस्य वा शकलमपछिद्याभिपद्याश्रावयन्तीदं वै किञ्चिद्यज्ञस्येदं यज्ञमभिपद्याश्रावयाम इति वदन्तस्तदु तथा न कुर्यादेतद्वै किञ्चिद्यज्ञस्य यैरिध्मः सन्नद्धो भवत्यग्निं सम्मृजन्ति तद्वेव खलु यज्ञमभिपद्याश्रावयति तस्मादिध्मसन्नहनान्येवाभिपद्याश्रावयेत्॥
स आश्राव्य॥
य एव देवानां होता तमेवाग्रे प्रवृणिते ऽग्निमेव तदग्नये चैवैतद्देवेभ्यश्च निह्नुते यदहाग्रे ऽग्निम् प्रवृणीते तदग्नये निह्नुते ऽथ यो देवानां होता तमग्रे प्रवृणीते तदुदेवेभ्यो निह्नुते॥
स आह॥
अग्निर्देवो दैव्यो होतेत्यग्निर्हि देवानां होता तस्मादाहाग्निर्देवो दैव्यो होतेति तदग्नये चैव देवेभ्यश्च निह्नुते यदहाग्रे ऽग्निमाह तदग्नये निह्नुते ऽथ यो देवानांहोता तमग्र आह तदु देवेभ्यो निह्नुते॥
देवान्यक्षद्विद्वांश्चिकित्वानिति॥
एष वै देवाननुविद्वान्यदग्निः स एनाननुविद्वाननुष्ठ्या यक्षदित्येवैतदाह॥
मनुष्वद्भरतवदिति॥
मनुर्ह वा अग्रे यज्ञेनेजे तदनुकृत्येमाः प्रजा यजन्ते तस्मादाह मनुष्वदिति मनोर्यज्ञ इत्यु वा आहुस्तस्माद्वेवाह मनुष्वदिति॥
भरतवदिति॥
एष हि देवेभ्यो हव्यम् भरति तस्माद्भरतो ऽग्निरित्याहुरेष उ वा इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्माद्वेवाह भरतवदिति॥
अथार्षेयम् प्रवृणीते॥
ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययम् महावीर्यो यो यज्ञम् प्रापदिति तस्मादार्षेयम् प्रवृणीते॥
परस्तादर्वाक्प्रवृणीते॥
परस्ताद्ध्यर्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ चैवैतन्निह्नुत इदं हि पितैवाग्रे ऽथ पुत्रो ऽथ पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणिते॥
स आर्षेयमुक्त्वाह॥
ब्रह्मण्वदिति ब्रह्म ह्यग्निस्तस्मादाह ब्रह्मण्वदित्या च वक्षदिति तद्या एवैतद्देवता आवोढवा आह ता एवैतदाहा च वक्षदिति॥
ब्राह्मणा अस्य यज्ञस्य प्रावितार इति॥
एते वै ब्राह्मणा यज्ञस्यप्रावितारो ये ऽनूचाना एते ह्येनं तन्वत एत एनं जनयन्ति तदु तेभ्यो निह्नुते तस्मादाह ब्राह्मणा अस्य यज्ञस्य प्रावितार इति॥
असौ मानुष इति॥
तदिमम् मानुषं होतारं प्रवृणीते होता हैष पुराथैतर्हि होता॥
स प्रवृतो होता॥
जपति देवता उपधावति यथानुष्ठ्या देवेभ्यो वषट्कुर्याद्यथानुष्ठ्या देवेभ्यो हव्यं वहेद्यथा न ह्वलेदेवं देवता उपधावति॥
तत्र जपति एततत्त्वा देव सवितर्वृणत इति तत्सवितारम् प्रसवायोपधावति स हि देवानाम् प्रसविताग्निं होत्रायेति तदग्नये चैवैतद्देवेभ्यश्च निह्नुते यदहाग्रे ऽग्निमाह तदग्नये निह्नुते ऽथ यो देवानां होता तमग्र आह तदु देवेभ्यो निह्नुते॥
सह पित्रा वैश्वानरेणेति॥
सम्\वत्सरो वै पिता वैश्वानरः प्रजापतिस्तत्संवत्सरायैवैतत्प्रजापतये निह्नुते ऽग्ने पूषन्बृहस्पते प्र च वद प्र च यजेत्यनुवक्ष्यन्वा एतद्यक्ष्यन्भवति तदैताभ्य एवैतद्देवताभ्यो निह्नुते यूयमनुब्रूत यूयं यजतेति॥
वसूनां रातौ स्याम॥
रुद्राणामुर्व्यायां स्वादित्या अदितये स्यामानेहस इत्येते वै त्रया देवा यद्वसवो रुद्रा आदित्या एतेषामभिगुप्तौ स्यामेत्येवैतदाह॥
जुष्टामद्य देवेभ्यो वाचमुद्यासमिति॥
जुष्टमद्य देवेभ्यो ऽनूच्यासमित्येवैतदाह तद्धि समृद्धं यो जुष्टं देवेभ्यो ऽनुब्रवत्॥
जुष्टाम् ब्रह्मभ्य इति॥
जुष्टमद्य ब्राह्मणेभ्यो ऽनूच्यासमित्येवैतदाह तद्धि समृद्धम् यो जुष्टम् ब्राह्मणेभ्यो ऽनुब्रवत्॥
जुष्टां नराशंसायेति॥
प्रजा वै नरस्तत्सर्वाभ्यः प्रजाभ्य आह तद्धि समृद्धं यश्च वेद यश्च न साध्वन्ववोचत्साध्वन्ववोचदित्येव विसृज्यन्ते यदद्य होतृवर्ये जिह्मञ्चक्षुः परापतत् अग्निष्टत्पुनराभ्रियाज्जातवेदा विचर्षणिरिति यथा यानग्रे ऽग्नीन्होत्राय प्रावृणत ते प्राधन्वन्नेवं यन्मे ऽत्र प्रवरेणामायि तन्मे पुनराप्याययेत्येवैतदाह तथो हास्यैतत्पुनराप्यायते॥
अथाध्वर्युं चाग्नीधं च सम्मृशति॥
मनो वा अध्वर्युर्वाग्घोता तन्मनश्चैवैतद्वाचं च सन्दधाति॥
तत्र जपति॥
षण्मोर्वीरंहसस्पान्त्वग्निश्च पृथिवी चापश्च वाजश्चाहश्च रात्रिश्चेत्येता मा देवता आर्त्तेर्गोपायन्त्वित्येवैतदाह तस्यो हि न ह्वलास्ति यमेता देवता आर्त्तेर्गोपायेयुः॥
अथ होतृषदनमुपावर्तते॥
स होतृषदनादेकं तृणं निरस्यति निरस्तः परावसुरिति पुरावसुर्ह वै नामासुराणां होता स तमेवैतद्धोतृषदनान्निरस्यति॥
अथ होतृषदन उपविशति॥
इदमहमर्वावसोः सदने सीदामीत्यर्वावसुर्वै नाम देवानां होता तस्यैवैतत्सदने सीदति॥
तत्र जपति विश्वकर्मस्तनूपा असि मा मो दोषिष्टम् मा मा हिंसिष्टमेष वां लोक इत्युदङ्ङेजत्यन्तरा वा एतदाहवनियं च गार्हपत्यं चास्ते तदु ताभ्यां निह्नुते मा मो दोषिष्टम् मा मा हिंसिष्टमिति तथा हैनमेतौ न हिंस्तः॥
अथाग्निमीक्षमाणो जपति॥
विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानीति यथा येभ्यः पक्वं स्यात्तान्ब्रूयाद्वनु मा शास्त यथा व आहरिष्यामि यथा वः परिवेक्ष्यामीत्येवमेवैतद्देवेषु प्रशासनमिच्छते ऽनु मा शास्त यथा वो ऽनुष्ठ्या वषट्कुर्यामनुष्ट्या हव्यं वहेयमिति तस्मादेवं जपति॥
अग्निर्होता वेत्त्वग्नेर्होत्रमिति अग्निरिदं होता वेत्त्वित्येवैतदाहाग्नेर्होत्रमिति तस्यो हि होत्रं वेत्तु प्रावित्रमिति यज्ञो वै प्रावित्रं वेत्तु यज्ञमित्येवैतदाह साधु ते यजमान देवतेति साधु ते यजमान देवता यस्य ते ऽग्निर्होतेत्येवैतदाह घृतवतीमध्वर्यो स्रुचमास्यस्वेति तदध्वर्यु प्रसौति स यदेकामिवाह॥
यजमान एव जुहूमनु॥
यो स्मा अरातीयति स उपभृतमनु स यद्द्वे इव ब्रूयाद्यजमानाय द्विषन्तम् भ्रातृव्यम् प्रत्युद्यामिनं कुर्यादत्तैव जुहूमन्वाद्य उपभृतमनु स यद्द्वे इव ब्रूयादत्त्र आद्यम् प्रत्युद्यामिनं कुर्यात्तस्मादेकामिवैवाह॥
देवयुवं विश्ववारामिति॥
उपस्तौत्येवैनामेतन्महयत्येव यदाह देवयुवं विश्ववारामितीडामहै देवां ईडेन्यान्नमस्याम नमस्यान्यजाम यज्ञियानितीडामहै तान्देवान्य ईडेन्या नमस्याम तान्ये नमस्या यजाम यज्ञियानिति मनुष्या वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः॥
या वै प्रजा यज्ञे ऽनन्वाभक्ताः॥
पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतत्स्ता यज्ञ आभजति मनुष्याननु पशवो देवाननु वयांस्योषधयो वनस्पतयो यदिदं किञ्चैवमु तत्सर्वं यज्ञ आभक्तम्॥
ता वा एताः॥
नव व्याहृतयो भवन्ति नवेमे पुरुषे प्राणा एतानेवास्मिन्नेतद्दधाति तस्मान्नव व्याहृतयो भवन्ति॥
यज्ञो ह देवेभ्यो ऽपचक्राम॥
तं देवा अन्वमन्त्रयन्ता नःशृणूप न आवर्तस्वेति सो ऽस्तु तथेत्येव देवानुपाववर्त तेनोपावृत्तेन देवा अयजन्त तेनेष्ट्वैतदभवन्यदिदं देवाः॥
स यदाश्रावयति॥
यज्ञमेवैतदनुमन्त्रयत आ नः शृनूप न आवर्तस्वेत्यथ यत्प्रत्याश्रावयति यज्ञ एवैतदुपावर्तते ऽस्तु तथेति तेनोपावृत्तेन रेतसा भूतेनर्त्विजः सम्प्रदायं चरन्ति यजमानेन परो ऽक्ष्ं यथा पूर्णपात्रेण सम्प्रदायं चरेयुरेवमनेनर्त्विजः सम्प्रदायं चरन्ति तद्वाचैवैतत्सम्प्रदायं चरन्ति वाग्घि यज्ञो वागु हि रेतस्तदेतेनैवैतत्सम्प्रदायं चरन्ति॥
सो ऽनुब्रूहीत्येवोक्त्वाध्वर्युः॥
नापव्याहरेन्नो एव होतापव्याहरेदाश्रावयत्यध्वर्युस्तदग्नीधं यज्ञ उपावर्तते॥
सो ऽग्निन्नापव्याहरेत्॥
आ प्रत्याश्रावणात्प्रत्याश्रावयत्यग्नीत्तत्पुनरध्वर्युं यज्ञ उपावर्तते॥
सो ऽध्वर्युर्नापव्याहरेत्॥
आ यजेति वक्तोर्यजेत्येवाध्वर्युर्होत्रे यज्ञं सम्प्रयछति॥
स होता नापव्याहरेत्॥
आ वषट्कारात्तं वषट्कारेणाग्नावेव योनौ रेतो भूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायत इति नु हविर्यज्ञे ऽथ सौम्ये ऽध्वरे॥
स वै ग्रहं गृहीत्वाध्वर्युः॥
नापव्याहरेदोपाकरणादुपावर्तध्वमित्येवाध्वर्युरुद्गातृभ्यो यज्ञं सम्प्रयछति॥
त उद्गातारो नापव्याहरेयुः॥
ओत्तमाया एषोत्तमेत्येवोद्गातारो होत्रे यज्ञं सम्प्रयछन्ति॥
स होता नापव्याहरेत्॥
आ वषट्कारात्तं वषट्कारेणाग्नावेव योनौ रेतो भूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायते॥
स यद्ध सो ऽपव्याहरेत्॥
यं यज्ञ उपावर्तते यथा पूर्णपात्रम् परासिञ्चेदेवं ह स यजमानम् परासिञ्चेत्स यत्र हैवमृत्विजः संविदाना यज्ञेन चरन्ति सर्वमेव तत्र कल्पते न मुह्यति तस्मादेवमेव यज्ञो भर्तव्यः॥
ता वा एताः॥
पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति पाङ्क्तो यज्ञः पाङ्क्तःपशुः पञ्चर्तवः संवत्सरस्यैषैका यज्ञस्य मात्रैषा सम्पत्॥
तासां सप्तदशाक्षराणि॥
सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञ एषैका यज्ञस्य मात्रैषा सम्पत्॥
ओ श्रावयेति वै देवाः॥
पुरोवातं ससृजिरे ऽस्तु श्रौषडित्यभ्राणि समप्लावयन्यजेति विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणैव प्रावर्षयन्॥
स यदि वृष्टिकामः स्यात्॥
यदीष्ट्या वा यजेत दर्शपूर्णमासयोर्वैव ब्रूयाद्वृष्टिकामो वा अस्मीति तत्रो अध्वर्युं ब्रूयात्पुरोवातं च विद्युतं च मनसा ध्यायेत्यभ्राणि मनसा ध्यायेत्यग्नीधं स्तनयित्नुं च वर्षं च मनसा ध्यायेति होतारं सर्वाण्येतानि मनसा ध्यायेति ब्रह्माणं वर्षति हैव तत्र यत्रैवमृत्विजः संविदाना यज्ञेन चरन्ति॥
ओ श्रावयेति वै देवाः॥
विराजमभ्याजुहुवुरस्तु श्रौषडिति वत्समुपावासृजन्यजेत्युदजयन्ये यजामह इत्युपासीदन्वषट्कारेणैव विराजमदुहतेयं वै विराडस्यै वा एष दोह एवं ह वा अस्मा इयं विराट्सर्वाङ्कामान्दुहे य एवमेतं विराजो दोहं वेद॥
ऋतवो ह वै प्रयाजाः॥
तस्मात्पञ्च भवन्ति पञ्च ह्यृतवः॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरे ऽस्माकमयं भविष्यत्यस्माकमयम् भविष्यतीति॥
ततो देवाः॥
अर्चन्तः श्राम्यन्तश्चेरुरस्त एतान्प्रयाजान्ददृशुस्तैरयजन्त तैरृतून्त्संवत्सरम् प्राजयन्नृतुभ्यः संवत्सरात्सपत्नानन्तरायंस्तस्मात्प्रजयाः प्रजया ह वै नामैतद्यत्प्रयाजा इति तथो एवैष एतैरृतून्त्संवत्सरम् प्रयजत्यृतुभ्यः संवत्सरात्सपत्नानन्तरेति तस्मात्प्रयाजैर्यजते॥
ते वा आज्यहविषो भवन्ति॥
वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येनर्तून्त्संवत्सरम् प्राजयन्नृतुभ्यः संवत्सरात्सपत्नानन्तरायंस्तथो एवैष एतेन वज्रेणाज्येनर्तून्त्संवत्सरम् प्रजयत्यृतुभ्यः संवत्सरात्सपत्नानन्तरेति तस्मादाज्यहविषो भवन्ति॥
एतद्वै संवत्सरस्य स्वम् पयः॥
यदाज्यं तत्स्वेनैवैनमेतत्पयसा देवाः स्व्यकुर्वत तथो एवैनमेष एतत्स्वेनैव पयसा स्वीकुरुते तस्मादाज्यहविषो भवन्ति॥
स यत्रैव तिष्ठन्प्रयाजेभ्य आश्रावयेत्॥
तत एव नापक्रामेत्सङ्ग्रामो वा एष सन्निधीयते यः प्रयाजैर्यजते यतरो वै संयत्तयोः पराजयते ऽप वै सङ्क्रामत्यभितरामु वै जयङ्क्रामति तस्मादभितरामभितरामेव क्रामेदभितरामभितरामाहुतीर्जुहुयात्॥
तदु तथा न कुर्यात्॥
यत्रैव तिष्ठन्प्रयाजेभ्य आश्रावयेत्तत एव नापक्रामेद्यत्रो एव समिद्धतमम् मन्येत तदाहुतीर्जुहुयात्समिद्धहोमेन ह्येव समृद्धा आहुतयः॥
स आश्राव्याह॥
समिधो यजेति तद्वसन्तं समिन्द्धे स वसन्तः समिद्धो ऽन्यानृतून्त्समिन्द्ध ऋतवः समिद्धाः प्रजाश्च प्रजनायन्त्योषधीश्च पचन्ति तद्वेव खलु सर्वानृतून्निराहाथ यजयजेत्येवोत्तरानाहाजामितायै जामि ह कुर्याद्यत्तनूनपातं यजेडो यजेति ब्रूयात्तस्माद्यजयजेत्येवोत्तरानाह॥
स वै समिधो यजति॥
वसन्तो वै समिद्वसन्तमेव तद्देवा अवृञ्जत वसन्तात्सपत्नानन्तरायन्वसन्तमेवैष एतद्वृङ्क्ते वसन्तात्सपत्नानन्तरेति तस्मात्समिधो यजति॥
अथ तनूनपातं यजति॥
ग्रीष्मो वै तनूनपाद्ग्रीष्मो ह्यासाम् प्रजानां तनूस्तपति ग्रीष्ममेव तद्देवा अवृञ्जत ग्रीष्मात्सपत्नानन्तरायङ्ग्रीष्ममेवैष एतद्वृङ्क्ते ग्रीष्मात्सपत्नानन्तरेति तस्मात्तनूनपातं यजति॥
अथेडो यजति॥
वर्षा वा इड इति हि वर्षा इडो यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्तम् भवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति तस्माद्वर्षा इडो वर्षा एव तद्देवा अवृञ्जत वर्षाभ्यः सपत्नानन्तरायन्वर्षा उ एवैष एतद्वृङ्क्ते वर्षाभ्यः सपत्नानन्तरेति तस्मादिडो यजति॥
अथ बर्हिर्यजति॥
शरद्वै बर्हिरिति हि शरद्बर्हिर्या इमाओषधयो ग्रीष्महेमन्ताभ्यां नित्यक्ता भवन्ति ता वर्षा वर्धन्ते ताः शरदि बर्हिषो रूपं प्रस्तीर्णाः शेरे त!स्माछरद्बर्हिः शरदमेव तद्देवा अवृञ्जत शरदः सपत्नान्तरायञ्छरदमेवैष एतद्वृङ्क्ते शरदः सपत्नानन्तरेति तस्माद्बर्हिर्यजति॥
अथ स्वाहास्वाहेति यजति॥
अन्तो वै यज्ञस्य स्वाहाकारो ऽन्त ऋतूनां हेमन्तो वसन्ताद्धि परार्द्ध्यो ऽन्तेनैव तदन्तं देवा अवृञ्जतान्तेनान्तात्सपत्नानन्तरायन्नन्तेनो एवैष एतदन्तं वृङ्क्ते ऽन्तेनान्तात्सपत्नानन्तरेति तस्मात्स्वाहेति यजति॥
तद्वा एतत्॥
वसन्त एव हेमन्तात्पुनरसुरेतस्माद्ध्येष पुन्र्भवति पुनर्ह वा अस्मिंलोके भवति य एवमेतद्वेद॥
स वै व्यत्तु वेत्विति यजति॥
अजामितायै जामि ह कुर्याद्यद्व्यन्तुव्य्न्त्विति वैव यजेद्वेतुवेत्त्विति वा व्यन्त्विति वै योषा वेत्विति वृषा मिथुनमेवैतत्प्रजननं क्रियते तस्माद्व्यन्तु वेत्विति यजति॥
अथ चतुर्थे प्रयाजे समानयति बर्हिषि॥
प्रजा वै ब्रहीरेत आज्यं तत्प्रजास्वेवैतद्रेतः सिच्यते तेन रेतसा सिक्तेनेमाः प्रजाः पुनरभ्यावर्तम् प्रजायन्ते तस्माच्चतुर्थेप्रयाजे समानयति बर्हिषि॥
सङ्ग्रामो वा एष सन्निधीयते॥
यः प्रयाजैर्यजते यतरं वै संयत्तयोर्मित्रमागछति स जयति तदेतदुपभृतो ऽधि जुहूम् मित्रमागछति तेन प्रजयति तस्माच्चतुर्थे प्रयाजे समानयति बर्हिषि॥
यजमान एव जुहूमनु॥
यो स्मा अरातीयति स उपभृतमनुयजमानायैवैतद्द्विषन्तम् भ्रातृव्यम् बलिं हारयत्यत्तैव जुहूमन्वाद्य उपभृतमन्वत्त्र एवैतदाद्यम् बलिं हारयति तस्माच्चतुर्थे प्रयाजे समानयति॥
स वा अनवमृशन्त्समानयति॥
स यद्धावमृषेद्यजमानं द्विषता भ्रातृव्येनावमृशेदत्तारमाद्येनावमृशेत्तस्मादनवमृशन्त्समानयति॥
अथोत्तरां जुहूमध्यूहति॥
यजमानमेवैतद्विषति भ्रातृव्ये ऽध्यूहत्यत्तारमाद्ये ऽध्यूहति तस्मादुत्तरां जुहूमध्यूहति॥
देवा ह वा ऊचुः॥
हन्त विजितमेवानु सर्वं यज्ञं संस्थापयाम यदि नो ऽसुररक्षसान्यासजेयुः संस्थित एव नो यज्ञं स्यादिति॥
त उत्तमे प्रयाजे॥
स्वाहाकारेणैव सर्वं यज्ञं समस्थापयन्त्स्वाहाग्निमिति तदाग्नेयमाज्यभागं समस्थापयन्त्स्वाहा सोममिति तत्सौम्यमाज्यभागं समस्थापयन्त्स्वाहाग्निमिति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तं समस्थापयन्॥
अथ यथादेवतं॥
स्वाहा देवा आज्यपा इति तत्प्रयाजानुयाजान्त्समस्थापयन्प्रयाजानुयाजा वै देवा आज्यपा जुषाणो अग्निराज्यस्य वेत्विति तदग्निं स्विष्टकृतं समस्थापयन्नग्निर्हि स्विष्टकृत्स एषो ऽव्येतर्हि तथैव यज्ञं सन्तिष्टते यथैवैनं देवाः समस्थापयंस्तस्मादुत्तमे प्रयाजे स्वाहास्वाहेति यजति यावन्ति हवींषि भवन्ति विजितमेवैतदनु सर्वं यज्ञं संस्थापयति तस्माद्यदत ऊर्ध्वं विलोम यज्ञे क्रियेत न तदाद्रियेत संस्थितो मे यज्ञ इति ह विद्यात्स हैष यज्ञो यातयामेवास यथा वषट्कृतं हुतं स्वाहाकृतं॥
ते देवा अकामयन्त॥
कथं न्विमं यज्ञम् पुनराप्याययेमायातयामानं कुर्याम तेनायातयाम्ना प्रचरेमेति॥
स यज्जुह्वामाज्यम् परिशिष्टमासीत्॥
येन यज्ञं समस्थापयंस्तेनैव यथापूर्वं हवींष्यभ्यघारयन्पुनरेवैनानि तदाप्याययन्नयातयामान्यकुर्वन्नयातयाम ह्याज्यं तस्मादुत्तमम् प्रयाजमिष्ट्वा यथापूर्वं हवींष्यभिघारयति पुनरेवैनानि तदाप्याययत्ययातयामानि करोत्ययातयाम ह्याज्यं तस्माद्यस्य कस्य च हविषो ऽवद्यति पुनरेव तदभिघारयति स्विष्टकृत एव तत्पुनराप्यायत्ययातयाम करोत्यथ यदा स्विष्टकृते ऽवद्यति न ततः पुनरभिघारयति नो हि ततः कां चन हविषो ऽग्नावाहुतिं होष्यन्भवति॥
स वै समिधो यजति॥
प्राणा वै समिधः प्राणानेवैतत्समिन्द्धे प्राणैर्ह्ययम् पुरुषः समिद्धस्तस्मादभिमृषेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादैव तावछंसेत समिद्धो हि स तावद्भवति यद्यु शीतः स्यान्नाशंसेत तत्प्राणानेवास्मिन्नेतद्दधाति तस्मात्समिधो यजति॥
अथ तनूनपातं यजति॥
रेतो वै तनूनपाद्रेत एवैतत्सिञ्चति तस्मात्तनूनपातं यजति॥
अथेडो यजति॥
प्रजा घा इडो यदा वै रेतः सिक्तं प्रजायते ऽथ तदीडितमिवान्नमिच्छमानं चरति तत्प्रैवैतज्जनयति तस्मादिडो यजति॥
अथ बर्हिर्यजति॥
भूमा वै बर्हिर्भूमानमेवैतत्प्रजनयति तस्माद्बर्हिर्यजति॥
अथ स्वाहास्वाहेति यजति॥
हेमन्तो वा ऋतूनां स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते तस्माद्धेमन्म्लायन्त्योषधयः प्र वनस्पतीनाम् पलाशानि मुच्यन्ते प्रतितिरामिव वयांसि भवन्त्यधस्तरामिव वयांसि पतन्ति विपतितलोमेव पापः पुरुषो भवति हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते स्वाह वै तमर्धं कुरुते श्रिये ऽन्नाद्याय यस्मिन्नर्धे भवति य एवमेतद्वेद॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ते दण्डैर्धनुर्भिर्न व्यजयन्त ते हाविजयमाना ऊचुर्हन्त वाच्येव ब्रह्मन्विजिगीषामहै स यो नो वाचं व्याहृताम् मिथुनेन नानुनिक्रामात्स सर्वम् पराजयाता अथ सर्वमितरे जयानिति तथेति देवा अब्रुवंस्ते देवा इन्द्रमब्रुवन्व्याहरेति॥
स इन्द्रो ऽब्रवीत्॥
एको ममत्यथास्माकमेकेतीतरे ऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनं ह्येकश्चैका च॥
द्वौ ममेतीन्द्रो ऽब्रवीत्॥
अथास्माकं द्वे इतीतरे ऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनंहि द्वौ च द्वे च॥
त्रयो ममेतीन्द्रो ऽब्रवीत्॥
अथास्माकं तिस्र इतीतरे ऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनं हि त्रयश्च तिस्रश्च॥
चत्वारो ममेतीन्द्रो ऽब्रवीत्॥
अथास्माकं चतस्र इतीतरे ऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनं हि चत्वारश्च चतस्रश्च॥
पञ्च ममेतीन्द्रो ऽब्रवीत्॥
तत इतरे मिथुनं नाविन्दन्नो ह्यत ऊर्ध्वं मिथुनमस्ति पञ्च पञ्चेति ह्येवैतदुभयम् भवति ततो ऽसुराः सर्वम् पराजयन्त सर्वस्माद्देवा असुरानजयन्त्सर्वस्मात्सपत्नानसुरान्निरभजन्॥
तस्मात्प्रथमे प्रयाज इष्टे ब्रूयात्॥
एको ममेत्येका तस्य यमहं द्वेष्मीति यद्यु न द्विष्याद्यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति ब्रूयात्॥
द्वौ ममेति द्वितीये प्रयाजे॥
द्वे तस्य यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति॥
त्रयो ममेति तृतीये प्रयाजे॥
तिस्रस्तस्य यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति॥
चत्वारो ममेति चतुर्थे प्रयाजे॥
चतस्रस्तस्य यो ऽस्मान्द्वेस्टि यञ्च वयं द्विष्म इति॥
पञ्च ममेति पञ्चमे प्रयाजे॥
न तस्य किं चन यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति स पञ्च पञ्चेत्येव भवन्पराभवति तथास्य सर्वं संवृङ्क्ते सर्वस्मात्सपत्नान्निर्भजति य एवमेतद्वेद॥