हिङ्कृत्यान्वाह॥
नासामा यज्ञो ऽस्तीति वा आहुर्न वा अहिङ्कृत्य साम गीयते म यद्धिङ्करोति तद्धिङ्कारस्य रूपं क्रियते प्रणवेनैव साम्नो रूपमुपगछत्यो३ं ओ३मित्येतेनो हास्यैष सर्व एव ससामा यज्ञो भवति॥
यद्वेव हिङ्करोति॥
प्राणो वै हिङ्कारः प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कर्तुं शक्नोति वाचा वा ऋचमन्वाह वाक्च वै प्राणश्च मिथुनं तदेतत्पुरस्तान्मिथुनम् प्रजननं क्रियते सामिधेनीनां तस्माद्वै हिङ्कृत्यान्वाह॥
स वा उपांशु हिङ्करोति॥
अथ यदुच्चैर्हिङ्कुर्यादन्यतरदेव कुर्याद्वाचमेव तस्मादुपांशु हिङ्करोति॥
स वा एति च प्रेति चान्वाह॥
गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति पराच्यह देवेभ्यो यज्ञं वहत्यर्वाची मनुष्यानवति तस्माद्वा एति च प्रेति चान्वाह॥
यद्वेवेति च प्रेति चान्वाह॥
प्रेति वै प्राण एत्युदानः प्राणोदानावेवैतद्दधाति तस्माद्वा एति च प्रेति चान्वाह॥
यद्वेवेति च प्रेति चान्वाह॥
प्रेति वै रेतः सिच्यत एति प्रजायते प्रेति पशवो वितिष्टन्त एति समावर्तन्ते सर्वं वा इदमेति च प्रेति च तस्माद्वा एति च प्रेति चान्वाह॥
सो ऽन्वाह॥
प्र वो वाजा अभिद्यव इति तन्नु प्रेति भवत्यग्न आयाहिवीतय इति तद्वेति भवति॥
तदु हैक आहुः॥
उभयं वा एतत्प्रेति सम्पद्यत इति तदु तदातिविज्ञान्यमिव प्र वो वाजा अभिद्यव इति तन्नु प्रेत्यग्न आयाहि वीतय इति तद्वेति॥
सो ऽन्वाह॥
प्र वो वाजा अभिद्यव इति तन्नु प्रेति भवति वाजा इत्यन्नं वै वाजा अन्नमेवैतदभ्यनूक्तमभिद्यव इत्यर्धमासा वा अभिद्यवो ऽर्धमासानेवैतदभ्यनूक्तं हविष्मन्त इति पशवो वै हविष्मन्तः पशूनेवैतदभ्यनूक्तम्॥
घृताच्येति॥
विदेघो ह माथवो ऽग्निं वैश्वानरम् मुखे बभार तस्य गोतमो राहूगण ऋषिः पुरोहित आस तस्मै ह स्मामन्त्र्यमाणो न प्रतिशृणोति नेन्मे ऽग्निर्वैश्वानरो मुखान्निष्पद्याता इति॥
तमृग्भिर्ह्वयितुं दध्रे॥
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वरे विदेघेति॥
स न प्रतिशुश्राव॥
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते तव ज्योतींष्यर्चयो विदेघा३ इति॥
स ह नैव प्रतिशुश्राव॥
तं त्वा घृतस्नवीमह इत्येवाभिव्याहरदथास्य घृतकीर्तावेवाग्निर्वैश्वानरो मुखादुज्जज्वाल तम् न शशाक धारयितुं सो ऽस्य मुखान्निष्पेदे सइमाम् पृथिवीम् प्रापादः॥
तर्हि विदेघो माथव आस॥
सरस्वत्यां स तत एव प्राङ्दहन्नभीयायेमाम् पृथिवीं तं गोतमश्च राहूगणो विदेघश्च माथवः पश्चाद्दहन्तमन्वीयतुः स इमाः सर्वा नदीरतिददाह सदानीरेत्युत्तराद्गिरेर्निर्घावति तां हैव नातिददाह तां ह स्म ताम् पुरा ब्राह्मणा न तरन्त्यनतिदग्धाग्निना वैश्वानरेणेति॥
तत एतर्हि॥
प्राचीनम् बहवो ब्राह्मणास्तद्धाक्षेत्रतरमिवास स्रावितरमिवास्वदितमग्निना वैश्वानरेणेति॥
तदु हैतर्हि॥
क्षेत्रतरमिव ब्राह्मणा उ हि नूनमेनद्यज्ञैरसिष्वदन्त्सापि जघन्ये नैदाघे समिवैव कोपयति तावछीतानतिदग्धा ह्यग्निना वैश्वानरेण॥
स होवाच॥
विदेघो माथवः क्वाहम् भवानीत्यत एव ते प्राचीनम् भुवनमिति होवाच सैषाप्येतर्हि कोसलविदेहानाम् मर्यादा ते हि माथवाः॥
अथ होवाच॥
गोतमो राहूगणः कथं नु न आमन्त्र्यमाणो न प्रत्यश्रौषीरिति स होवाचाग्निर्मे वैश्वानरो मुखे ऽभुत्स नेन्मे मुखान्निष्पद्यातै तस्मात्ते न प्रतिश्रौषमिति॥
तदु कथमभूदिति॥
यत्रैव त्वं घृतस्नवीमह इत्यभिव्याहार्षीस्तदेव मे घृतकीर्तावग्निर्वैश्वानरो मुखादुदज्वालीत्तं नाशकं धारयितुं स मे मुखान्निरपादीति॥
स यत्सामिधेनीषु घृतवत्॥
सामिधेनमेव तत्समेवैनं तेनेन्धे वीर्यमेवास्मिन्दधाति॥
तदु घृताच्येति॥
देवाञ्जिगाति सुम्नयुरिति यजमानो वै सुम्नयुः स हि देवाञ्जिगीषति स हि देवाञ्जिघांसति तस्मादाह देवाञ्जिगाति सुम्नयुरिति सैषाग्नेयी सत्यनिरुक्ता सर्वं वा अनिरुक्तं सर्वेणैवैतत्प्रतिपद्यते॥
अग्न आयाहि वीतय इति॥
तद्वेति भवति वीतय इति समन्तिकमिव हवा इमे ऽग्रे लोका आसुरित्युन्मृश्या हैव द्यौरास॥
ते देवा अकामयन्त॥
कथं नु न इमे लोका वितरां स्युः कथं न इदं वरीय इव स्यादिति तानेतैरेव त्रिभिरक्षरैर्व्यनयन्वीतय इति त इमे विटूरं लोकास्ततो देवेभ्यो वरीयो ऽभवद्वरीयो ह वा अस्य भवति यस्यैवं विदुष एतामन्वाहुर्वीतय इति॥
गृणानो हव्यदातय इति॥
यजमानो वै हव्यदातिर्गृणानो यजमनायेत्येवैतदाह नि होता सत्सि बर्हिषीत्यग्निर्वै होतायं लोको बर्हिरस्मिन्नेवैतल्लोके ऽग्निं दधाति सो ऽयमस्मिंल्लोके ऽग्निर्हितः सैषेममेव लोकमभ्यनूक्तेममेवैतया लोकं जयति यस्यैवं विदुष एतामन्वाहुः॥
तं त्वा समिद्भिरङ्गिर इति॥
समिद्भिर्ह्येतमङ्गिरस ऐन्धताङ्गिर इत्यङ्गिरा उ ह्यग्निर्घृतेन वर्धयामसीति तत्सामिधेनम् पदं समेवैनं तेनेन्धे वीर्यमेवास्मिन्दधाति॥
बृहछोचा यविष्ट्येति॥
बृहदु ह्येष षोचति समिद्धो यविष्ट्येति यविष्ठो ह्यग्निस्तस्मादाह यविष्ठ्येति सैषितमेव लोकमभ्यनूक्तान्तरिक्षलोकमेव तस्मादाग्नेयी सत्यनिरुक्तानिरुक्तो ह्येष लोक एतमेवैतया लोकं जयति यस्यैवं विदुष एतामन्वाहुः॥
स नः पृथु श्रवाय्यमिति॥
अदो वै पृथु यस्मिन्देवा एतछ्रवाय्यं यस्मिन्देवा अछा देव विवाससीत्यछ देव विवासस्येतन्नो गमयेत्येवैतदाह॥
बृहदग्ने सुवीर्यामिति॥
अदो वै बृहद्यस्मिन्देवा एतत्सुवीर्यं यस्मिन्देवाः सैषितमेव लोकमभ्यनूक्ता दिवमेवैतमेवैतया लोकं जयति यस्यैवं विदुष एतामन्वाहुः॥
सो न्वाह॥
इडेन्यो नमस्य इतीडेन्यो ह्येष नमस्यो ह्येषतिरस्तमांसि दर्षत इति तिर इव ह्येष तमांसि समिद्धो ददृशे समग्निरिध्यते वृषेति सं हीध्यते वृषा वृषो अग्निः समिध्यत इति सं हीध्यते॥
अश्वो न देववाहन इति॥
अश्वो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति यद्वै नेत्यृच्योमिति तत्तस्मादाहाश्वो न देववाहन इति॥
तं हविष्मन्त ईदत इति॥
हविष्मन्तो ह्येतं मनुष्या ईदते तस्मादाह तं हविष्मन्त ईडत इति॥
वृषणं त्वा वयं वृषन्वृषणः समिधीमहीति॥
सं ह्येनमिन्धते ऽग्ने दीद्यतं बृहदिति दीदयेव ह्येष बृहत्समिद्धः॥
तं वा एतम्॥
वृषण्वन्तं त्रिचमन्वाहाग्नेय्यो वा एताः सर्वाः सामिधेन्यो भवन्तीन्द्रो वै यज्ञस्य देवतेन्द्रो वृषैतेनो हास्यैताः सेन्द्राः सामिधेन्यो भवन्ति तस्माद्वृषण्वन्तं त्रिचमन्वाह॥
सो ऽन्वाह॥
अग्निं दूतं वृणीमह इति देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे तान्त्स्पर्धमानाङ्गायत्र्यन्तरा तस्थौ या वै सा गायत्र्यासीदियं वै सा पृथिवीयं हैव तदन्तरा तस्थौ त उभय एव विदां चक्रुर्यतरान्वै न इयमुपावर्त्स्यति ते भविष्यन्ति परेतरे भविष्यन्तीति तामुभय एवोपमन्त्रयां चक्रिरे ऽग्निरेव देवानां दूत आस सहरक्षा इत्यसुररक्शसमसुराणां साग्निमेवानुप्रेयाय तस्मादन्वाहाग्निं दूतं वृणीमह इति स हि देवानां दूत आसीद्धोतारं विश्ववेदसमिति॥
तदु हैके ऽन्वाहुः॥
होता यो विश्ववेदस इति नेदरमित्यात्मान ब्रवाणीति तदु तथा न ब्रूयान्मानुषं ह ते यज्ञे कुर्वन्ति व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धम् यज्ञे करवाणीति तस्माद्यथैवर्चानूक्तमेवानुब्रूयाद्धोतारं विश्ववेदसमित्येवास्य यज्ञस्य सुक्रतुमित्येष हियज्ञस्यसुक्रतुर्यदग्निस्तस्मादाहास्य यज्ञस्य सुक्रतुमिति सेयं देवानुपाववर्त ततो देवा अभवन्परासुरा भवति ह वा आत्मना परास्य सपत्ना भवन्ति यस्यैवं विदुष एतामन्वाहुः॥
तां वा अष्टमीमनुब्रूयात्॥
गायत्री वा एषा निदानेनाष्टाक्षरा वै गायत्री तस्मादष्टमीमनुब्रूयात्॥
तद्धैके॥
पुरस्ताद्धाय्ये दधत्यन्नं धाय्ये मुखत इदमन्नाद्यं दध्म इति वदन्तस्तदु तथा न कुर्यादनवकॢप्तातस्यैषा भवति यः पुरस्ताद्धाय्ये दधाति दशमी वाहि तर्ह्येकादशी वा सम्पद्यते तस्यो हैवैषावकॢप्ता भवति यस्यैतामष्टमीमन्वाहुस्तस्मादुपरिष्टादेव धाय्ये दध्यात्॥
समिध्यमानो अध्वर इति॥
अध्वरो वै यज्ञः समिध्यमानो यज्ञ इत्येवैतदाहाग्निः पावक ईड्य इति पावको ह्येष ईड्यो ह्येष शोचिष्केशस्तमीमह इति शोचन्तीव ह्येतस्य केशाः समिद्धस्य समिद्धो अग्न आहुतेत्यतः प्राचीनं सर्वमिध्ममभ्यादध्याद्यदन्यत्समिधो ऽपवृङ्क्त इव ह्येतद्धोतायद्वा अन्यत्समिध इध्मस्यातिरिच्यते ऽतिरिक्तं तद्यद्वै यज्ञस्यातिरिक्तं द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते तस्मादतः प्राचीनं सर्वमिध्ममभ्यादध्याद्यदन्यत्समिधः॥
देवान्यक्षि स्वध्वरेति॥
अध्वरो वै यज्ञो देवान्यक्षि सुयज्ञियेत्येवैतदाह त्वां हि हव्यवाडसीत्येष हि हव्यवाड्यदग्निस्तस्मादाह त्वं हि हव्यवाडसीत्या जुहोता दुवस्यताग्निम् प्रयत्यध्वरे वृणीध्वं हव्यवाहनमिति सम्प्रेष्यत्येवैतयाजुहुत च यजत च यस्मै कामाय समैन्धिढ्वं तत्कुरुतेत्येवैतदाहाग्निम् प्रयत्यध्वर इत्यध्वरो वै यज्ञो ऽग्निम् प्रयति यज्ञ इत्येवैतदाह वृणीध्वं हव्यवाहनमित्येष हि हव्यवाहनो यदग्निस्तस्मादाह वृणीध्वं हव्यवाहनमिति॥
तं वा एतम्॥
अध्वरवन्तं त्रिचमन्वाह देवान्ह वै यज्ञेन यजमानान्त्सपत्ना असुरा दुधूर्षां चक्रुस्ते दुधूर्षन्त एव न शेकुर्धूर्वितुं ते पराबभूवुस्तस्माद्यज्ञो ऽध्वरो नाम दुधूर्षन्ह वा एनं सपत्नः पराभवति यस्यैवं विदुषो ऽध्वरवन्तं त्रिचमन्वाहुर्यावद्वेव सौम्येनाध्वरेणेष्ट्वा जयति तावज्जयति॥
एतद्ध वै देवा अग्निं गरिष्ठे ऽयुञ्जन्॥
यद्धोतृत्व इदं नो हव्यं वहेति तमेतद्गरिष्ठे युक्त्वोपामदन्वीर्यवान्वै त्वमस्यलं वै त्वमेतस्मा असीति वीर्ये समादधतो यथेदमष्येतर्हि ज्ञातीनां यं गरिष्ठे युञ्जन्ति तमुपमदन्ति वीर्यवान्वै त्वमस्यलं वै त्वमेतस्मा असीति वीर्ये समादधतः स यदमेवास्मिन्दधाति॥
अग्ने महां असि ब्राह्मण भारतेति॥
ब्रह्म ह्यग्निस्तस्मादाह ब्राह्मणेति भारतेत्येष हि देवेभ्यो हव्यं भरति तस्माद्भरतो ऽग्निरित्याहुरेष उ वा इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्माद्वेवाह भारतेति॥
अथार्षेयम् प्रवणीते॥
ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययम् महावीर्यो यो यज्ञम् प्रापदिति तस्मादार्षेयम् प्रवृणीते॥
परस्तादर्वाक्प्रवृणीते॥
परस्ताद्ध्यर्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ चैवैतं निह्नुत इदं हि पितैवाग्रे ऽथ पुत्रो ऽथ पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणीते॥
स आर्षेयमुक्त्वाह॥
देवेद्धो मन्विद्ध इति देवा ह्येतमग्र ऐन्धत तस्मादाह देवेद्ध इति मन्विद्ध इति मनुर्ह्येतमग्र ऐन्द्ध तस्मादाह मन्विद्ध इति॥
ऋषिष्टुत इति॥
ऋषयो ह्येतमग्रे स्तुवंस्तस्मादाहर्षिष्टुत इति॥
विप्रानुमदित इति॥
एते वै विप्रा यदृषय एते ह्येतमन्वमदंस्तस्मादाह विप्रानुमदित इति॥
कविशस्त इति॥
एते वै कवयो यदृषय एते ह्येतमशंसंस्तस्मादाह कविशस्त इति॥
ब्रह्मसंशित इति ब्रह्मसंशितो ह्येष घृताहवन इति घृताहवनो ह्येषः॥
प्रणीर्यज्ञानां रथीरध्वराणामिति॥
एतेन वै सर्वान्यज्ञान्प्रणयन्ति ये च पाकयज्ञा ये चेतरे तस्मादाह प्रणीर्यज्ञानामिति॥
रथीरध्वराणामिति॥
रथो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति तस्मादाह रथीरध्वराणामिति॥
अतूर्तो होता तूर्णिर्हव्यवाडिति॥
न ह्येतं रक्षांसि तरन्ति तस्मादाहातूर्तो होतेति तूर्णिर्हव्यवाडिति सर्वं ह्येष पाप्मानं तरति तस्मादाह तूर्णिर्हव्यवाडिति॥
आस्पात्रं जुहूर्देवानामिति॥
देवपात्रं वा एष यदग्निस्तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति देवपात्रं ह्येष प्राप्नोति ह वै तस्य पात्रं यस्य पात्रम् प्रेप्स्यति य एवमेतद्वेद॥
चमसो देवपान इति॥
चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति तस्मादाह चमसो देवपान इति॥
अरां इवाग्ने नेमिर्देवांस्त्वं परिभूरसीति॥
यथारान्नेमिः सर्वतः परिभूरेवं त्वं देवान्त्सर्वतः परिभूरसीत्येवैतदाह॥
आवह देवान्यजमानायेति॥
तदस्मै यज्ञाय देवानावोढवा आहाग्निमग्न आवहेति तदाग्नेयायाज्यभागायाग्निमावोढ्वा आह सोममावहेति तत्सौम्यायाज्यभागाय सोममावोढवा आहाग्निमावहेति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तस्मा अग्निमावोढवा आह॥
अथ यथादेवतम्॥
देवां आज्यपां आवहेति तत्प्रयाजानुयाजानावोढवा आह प्रयाजानुयाजा वै देवा आज्यपा अग्निं होत्रायावहेति तदग्निं होत्रायावोढवा आह स्वं महिमानमावहेति तत्स्वम् महिमानमावोढवा आह वाग्वा अस्य स्वो महिमा तद्वाचमावोढवा आहा च वह जातवेदः सुयजा च यजेति तद्या एवैतद्देवता आवोढवा आह ता एवैतदाहा चैना वहानुष्ठ्या च यजेति यदाह सुयजा च यजेति॥
स वै तिष्ठन्नन्वाह॥
अन्वाह ह्येतदसौ ह्यनुवाक्या तदसावेवैतद्भूत्वान्वाह तस्मात्तिष्ठन्नन्वाह॥
आसीनो याज्यां यजति॥
इयं हि याज्या तस्मन्न कश्चन तिष्ठन्याज्यां यजतीयं हि याज्या तदियमेवैतद्भूत्वा यजति तस्मादासीना याज्यां यजति॥
यो ह वा अग्निः सामिधेनीभिः समिद्धः॥
अतितरां ह वै स इतरस्मादग्नेस्तपत्यनवधृष्यो हि भवत्यनवमृश्यः॥
स यथा हैवाग्निः॥
सामिधेनीभिः समिद्धस्तपत्येवं हैव ब्राह्मणः सामिधेनीर्विद्वाननुब्रुवंस्तपत्यनवधृष्यो हि भवत्यनवमृश्यः॥
सो ऽन्वाह॥
प्रव इति प्राणो वै प्रवान्प्राणमेवैतया समिन्द्धे ऽग्न आयाहि वीतय इत्यपानो वा एतवानपानमेवैत समिन्द्धे बृहछोचा यविष्ठ्येत्युदानो वै बृहछोचा उदानमेवैतया समिन्द्धे॥
स नः पृथु श्रवाय्यमिति॥
श्रोत्रं वै पृथु श्रवाय्यं श्रोत्रेण हीदमुरु पृथु शृणोति श्रोत्रमेवैतया समिन्द्धे॥
ईडेन्यो नमस्य इति॥
वाग्वा ईडेन्या वाग्घीदं सर्वमीट्टे वाचेदं सर्वमीडितं वाचमेवैतया समिन्द्धे॥
अश्वो न देववाहन इति॥
मनो वै देववाहनम् मनो हीदम् मनस्विनं भूयिष्ठं वनीवाह्यते मन एवैतया समिन्द्धे॥
अग्ने दीद्यतम् बृहदिति॥
चक्षुर्वै दीदयेव चक्षुरेवैतया समिन्द्धे॥
अग्निं दूतं वृणीमह इति॥
य एवायम् मध्यमः प्राणएतमेवैतया समिन्धे सा हैषान्तस्था प्राणानामतो ह्यन्य ऊर्ध्वाःप्राणा अतो ऽन्ये ऽवाञ्चो ऽन्तस्था ह भवत्यन्तस्तामेनम् मन्यन्ते य एवमेतामन्तस्थाम् प्राणानां वेद॥
शोचिष्केशस्तमीमह इति॥
शिश्नं वै शोचिष्केशं शिश्नं हीदं शिश्नम् भूयिष्ठं शोचयति शिश्नमेवैतयासमिन्द्धे॥
समिद्धो अग्न आहुतेति॥
य एवायमवाङ्प्राण एतमेवैतया समिन्द्ध आ जुहोता दुवस्यतेति सर्वमात्मानं समिन्द्ध आ नखेभ्यो ऽथो लोमभ्यः॥
स यद्येनम् प्रथमायां सामिधेन्यामनुव्याहरेत्॥
तम् प्रति ब्रूयात्प्राणं वा एतदात्मनो ऽग्नावाधाः प्राणेनात्मन आर्त्तिमारिष्यसीति तथा हैव स्यात्॥
यदि द्वितीयस्यामनुव्याहरेत्॥
तम् प्रति ब्रूयादपानं वा एतदात्मनो ऽग्नावाधा अपानेनात्मन आर्त्तिमारिष्यसीति तथा हैव स्यात्॥
यदि तृतीयस्यामनुव्याहरेत्॥
तम् प्रति ब्रूयादुदानं वा ॥। उदानेना ॥। स्यात्॥
यदि चतुर्थ्यामनुव्याहरेत्॥
तम् प्रतिब्रूयाछ्रोत्रं वा एतदात्मनो ऽग्नावाधाः श्रोत्रेणात्मन आर्त्तिमारिष्यसि बधिरो भविष्यसीति तथा हैव स्यात्॥
यदि पञ्चम्यामनुव्याहरेत्॥
तम् प्रति ब्रूयाद्वाचं वा एतदात्मनो ऽग्नावाधा वाचात्मन आर्त्तिमारिष्यसि मूको भवि ॥। स्यात्॥
यदि षष्ठ्यामनुव्याहरेत्॥
तम् प्रति ब्रूयान्मनो वा एतदात्मनो ऽग्नावाधा मनसात्मन आर्त्तिमारिष्यसि मनोमुषिगृहीतो मोमुघश्चरिष्यसीति तथा हैव स्यात्॥
यदि सप्तम्यां ॥। याच्चक्षुर्वा एतदात्मनो ऽग्नावाधाश्चक्षुषात्मन आर्त्तिमारिष्यस्यन्धो भवि ॥। स्यात्॥
यद्यष्टम्याम् ॥। यान्मध्यं वा एतत्प्राणमात्मनो ऽग्नावाधा मध्येन प्राणेनात्मन आर्त्तिमारिष्यस्युद्ध्माय मरिष्यसीति तथा हैव स्यात्॥
यदि नवम्यां ॥। याछिश्नं वा एतदात्मनो ऽग्नावाधाः शिश्नेनात्मन आर्त्तिमारिष्यसि क्लीबो भवि ॥। स्यात्॥
यदि दशम्यामनु ॥। यादवाञ्चं वा एतत्प्राणमात्मनो ऽग्नावाधा अवाचा प्राणेनात्मन आर्त्तिमारिष्यस्यपिनद्धो मरिष्यसीति तथा हैव स्यात्॥
यद्येकादश्याम ॥।
यात्सर्वं वा एतदात्मानमग्नावाधाः सर्वेणात्मनार्त्तिर्मारिष्यसि क्षिप्रे ऽमुं लोकमेष्यसीति तथा हैव स्यात्॥
स यथा हैवाग्निम्॥
सामिधेनीबिः समिद्धमापद्यार्त्तिं न्येत्येवं हैव ब्राह्मणं सामिधेनीर्विद्वांसं समनुब्रुवन्तमनुव्याहृत्यार्त्तिं न्येति॥
तं वा एतमग्निं समैन्धिषत॥
समिद्धे देवेभ्यो जुहवामेति तस्मिन्नेते एव प्रथमे आहुती जुहोती मनसे चैव वाचे च मनश्च हैव वाक्च युजौ देवेभ्यो यज्ञं वहतः॥
स यदुपांशु क्रियते॥
तन्मनो देवेभ्यो यज्ञं वहत्यथ यद्वाचा निरुक्तं क्रियते तद्वाग्देवेभ्यो यज्ञं वहत्येतद्वा इदं द्वयं क्रियते तदेते एवैतत्सन्तर्पयति तृप्ते प्रीते देवेभ्यो यज्ञं वहात इति॥
स्रुवेण तमाघारयति॥
यं मनस आघारयति वृषा हि मनो वृषा हि स्रुवः॥
स्रुचा तमाघारयति॥
यं वाच आघारयति योषा हि वाग्योषा हि स्रुक्॥
तूष्णीं तमाघारयति॥
यं मनस आघारयति न स्वाहेति चनानिरुक्तं हि मनो ऽनिरुक्तं ह्येतद्यत्तूष्णीम्॥
मन्त्रेण तमाघारयति॥
यं वाच आघारयति निरुक्ता हि वाङ्निरुक्तो हि मन्त्रः॥
आसीनस्तमाघारयति॥
यम् मनस आघारयति तिष्ठ्ंस्तं यं वाचे मनश्च ह वै वाक्च युजौ देवेभ्यो यज्ञं वहतो यतरो वै युजोर्ह्रसीयान्भवत्युपवहं वै तस्मै कुर्वन्ति वाग्वै मनसो ह्रसीयस्यपरिमिततरमिव हि मनः परिमिततरेव हि वाक्तद्वाच एवैतदुपवहं करोति ते सयुजौ देवेभ्यो यज्ञं वहतस्तस्मात्तिष्ठन्वाच आघारयति॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्त एतद्दक्षिणतः प्रत्युदश्रयन्नुछ्रितमिव हि वीर्यं तस्माद्दक्षिणतस्तिष्ठन्नाघारयति स यदुभयत आघारयति तस्मादिदम् मनश्च वाक्च समानमेव सन्नानेव शिरो ह वै यज्ञस्यैतयोरन्यतर आघारयोर्मूलमन्यतरः॥
स्रुवेण तमाघारयति॥
यो मूलं यज्ञस्य स्रुचा तमाघारयति यः शिरो यज्ञस्य॥
तूष्णीं तमाघारयति॥
यो मूलम् यज्ञस्य तूष्णीमिव हीदम्मूलं नो ह्यत्र वाग्वदति॥
मन्त्रेण तमाघारयति॥
यः शिरो यज्ञस्य वाग्घि मन्त्रः शीर्ष्णो हीयमधि वाग्वदति॥
आसीनस्तमाघारयति॥
यो मूलं यज्ञस्य निषणमिव हीदम् मूलं तिष्ठंस्तमाघारयति यः शिरो यज्ञस्य तिष्ठतीव हीदं शिरः॥
स स्रुवेण पूर्वमाघारमाघार्याह॥
अग्निमग्नीत्सम्मृड्ढीति यथा धुरमध्यूहेदेवं तद्यत्पूर्वमाघारमाघारय्३अत्यध्युह्य हि धुरं युञ्जन्ति॥
अथ सम्मार्ष्टि॥
युनक्त्येवैनमेतद्युक्तो देवेभ्यो यज्ञं वहादिति तस्मात्सम्मार्ष्टि परिक्रामं सम्मार्ष्टि परिक्रामं हि योग्यं युञ्जन्ति त्रिस्त्रिः सम्मार्ष्टि त्रिवृद्धि यज्ञः॥
स सम्मार्ष्टि॥
अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं त्वा वाजजितं सम्मार्ज्मीति यज्ञं त्वा वक्ष्यन्तं यज्ञियं सम्मार्ज्मीत्येवैतदाहाथोपरिष्टात्तूष्णीं त्रिस्तद्यथा युक्त्वा प्राजेत्प्रेहि वहेत्येवमेवैतत्कशयोपक्षिपति प्रेहि देवेभ्यो यज्ञं वहेति तस्मादुपरिष्टात्तूष्णीं त्रिस्तद्यदेतदन्तरेण कर्म क्रियते तस्मादिदम् मनश्च वाक्च समानमेव सन्नानेव॥
स स्रुचोत्तरमाघारमाघारयिष्यन्॥
पूर्वेण स्रुचावञ्जलिं निदधाति नमो देवेभ्यः स्वधा पितृभ्य इति तद्देवेभ्यश्चैवैतत्पितृभ्यश्चार्त्विज्यं करिष्यन्निह्नुते सुयमे मे भूयास्तमिति स्रुचावादत्ते सुभरे मे भूयास्तम् भर्तुं वां शकेयमित्येवैतदाहास्कन्नमद्य देवेभ्य आज्यं सम्भ्रियासमित्यविक्षुब्धमद्य देवेभ्यो यज्ञं तनवा इत्येवैतदाह॥
अङ्घ्रणा विष्णो मा त्वावक्रमिषमिति॥
यज्ञो वै विष्णुस्तस्मा एवैतन्निह्नुते मा त्वावक्रमिषमिति वसुमतीमग्ने ते छायामुपस्थेषमिति साध्वीमग्ने ते छायामुपस्थेषमित्येवैतदाह॥
विष्णो स्थानमसीति॥
यज्ञो वै विष्णुस्तस्येव ह्येतदन्तिक तिष्ठति तस्मादाह विष्णो स्थानमसीतीत इन्द्रो वीर्यमकृणोदित्यतो हीन्द्रस्तिष्ठन्दक्षिणतो नाष्ट्रा रक्षांस्यपाहंस्तस्मादाहेत इन्द्रो वीर्यमकृणोदित्यूर्ध्वो ऽध्वर आस्थादित्यध्वरो वै यज्ञ ऊर्ध्वो यज्ञ आस्थादित्येवैतदाह॥
अग्ने वेर्होत्रं वेर्दूत्यमिति॥
उभयं वा एतदग्निर्देवानां होता च दूतश्च तदुभयं विद्धि यद्देवानामसीत्येवैतदाहावतां त्वां द्यावापृथिवी अव त्वं द्यावापृथिवी इति नात्र तिरोहितमिवास्ति स्विष्टकृद्देवेभ्य इन्द्र आज्येन हविषाभूत्स्वाहेतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्र आज्येनेति वाचे वा एतमाघारमाघारयतीन्द्रो वागित्यु वा आहुस्तस्माद्वेवाहेन्द्र आज्येनेति॥
अथासंस्पर्शयन्त्स्रुचौ पर्येत्य॥
ध्रुवया समनक्ति शिरो वै यज्ञस्योत्तर आघार आत्मा वै ध्रुवा तदात्मन्येवैतछिरः प्रतिदधाति शिरो वै यज्ञस्योत्तर आघारः श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्यो ऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य शिर इत्याहुः॥
यजमान एव ध्रुवामनु॥
यो ऽस्मा अरातीयति स उपभृतमनु स यद्धोपभृता समण्ज्याद्यो यजमानायारातीयति तस्मिञ्छ्रियं दध्यात्तद्यजमान एवैतछ्रियं दधाति तस्माद्ध्रुवया समनक्ति॥
स समनक्ति॥
सं ज्योतिषा ज्योतिरिति ज्योतिर्वा इतरस्यामाज्यम् भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गछेते तस्मादेवं समनक्ति॥
अथातो मनसश्चैव वाचश्च॥
अहम्भद्र उदितम् मनश्च ह वै वाक्चाहम्भद्र ऊदाते॥
तद्ध मन उवाच॥
अहमेव त्वछ्रेयो ऽस्मि न वै मया त्वं किं चनानभिगतं वदसि सा यन्मम त्वं कृतानुकरानुवर्त्मास्यहमेव त्वछ्रेयो ऽस्मीति॥
अथ ह वागुवाच॥
अहमेव त्वछ्रेयस्यस्मि यद्वै त्वं वेत्थाहं तद्विज्ञपयाम्यहं सञ्ज्ञपयामीति॥
ते प्रजापतिं प्रतिप्रश्नमेयतुः॥
स प्रजापतिर्मनस एवानूवाच मन एव त्वछ्रेयो मनसो वै त्वं कृतानुकरानुवर्त्मासि श्रेयसो वै पापीयाङ्कृतानुकरो ऽनुवर्त्मा भवतीति॥
सा ह वाक्परोक्ता विसिष्मिये॥
तस्यै गर्भः पपात सा ह वाक्प्रजापतिमुवाचाहव्यवाडेवाहं तुभ्यम् भूयासं यां मा परावोच इति तस्माद्यत्किं च प्राजापत्यं यज्ञे क्रियत उपांश्वेव तत्क्रियते हव्यवाढि वाक्प्रजापतय आसीत्॥
तद्धैतद्देवाः॥
रेतश्चर्मन्वा यस्मिन्वा बभ्रुस्तद्ध स्मपृछन्त्यत्रेव त्यादिति ततो त्रिः सम्बभूव तस्मादप्यात्रेय्या योषितैनस्व्येतस्यै हि योषायै वाचो देवताया एते सम्भूताः॥