स वै स्रुचः सम्मार्ष्टि॥
तद्यत्स्रुचः सम्मार्ष्टि यथा वै देवानां चरणं तद्वा अनु मनुष्याणां तस्माद्यदामनुष्याणाम् परिवेषणमुपकॢप्तम् भवति॥
अथ पात्राणि निर्णेनिजति॥
तैर्निर्णित्य परिवेविषत्येवं वा एष देवानां यज्ञो भवति यछूतानि हवींषि कॢप्तावेदिस्तेषामेतान्येव पात्राणि यत्स्रुचः॥
स यत्सम्मार्ष्टि॥
निर्णेनेक्त्येवैना एतन्निर्णिक्ताभिः प्रचराणीति तद्वै द्वयेनैव देवेभ्यो निर्णेनिजत्येकेन मनुष्येभ्यो ऽद्भिश्च ब्रह्मणा च देवेभ्य आपो हि कुशा ब्रह्म यजुरेकेनैव मनुष्येभ्यो ऽद्भिरेवैवम्वेतन्नाना भवति॥
अथ स्रुवमादत्ते॥
तम् प्रतपति प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातय इति वा॥
देवा ह वै यज्ञं तन्वानाः॥
ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयाञ्चक्रुस्तद्यज्ञमुखादेवैतन्नाष्ट्रा रक्षांस्यतो ऽपहन्ति॥
स वा इत्यग्रैरन्तरतः सम्मार्ष्टि॥
अनिशितो ऽसि सपत्नक्षिदिति यथानुपरतो यजमानस्य सपत्नान्क्षिणुयादेवमेतदाह वाजिनं त्वा वाजेध्यायै सम्मार्ज्मीति यज्ञियं त्वा यज्ञाय सम्मार्ज्मीत्येवैतदाहैतेनैव सर्वाः स्रुचः सम्मार्ष्टि वाजिनीं त्वेति स्रुचं तूष्णीम् प्राशित्रहरणं॥
स वा इत्यग्रैरन्तरतः सम्मार्ष्टीति॥
मूलैर्बाह्यत इतीव वा अयम् प्राण इतीवोदानः प्राणोदानावेवैतद्दधाति तस्मादितीवेमानि लोमानीतीवेमानि॥
स वै सम्मृज्यसम्मृज्य प्रतप्य प्रतप्य प्रयछति॥
यथावमर्शं निर्णिज्यानवमर्शमुत्तमम् परिक्षालयेदेवं तत्तस्मात्प्रतप्य प्रतप्य प्रयछति॥
स वै स्रुवमेवाग्रे सम्मार्ष्टि॥
अथेतराः स्रुचो योषा वै स्रुग्वृषा स्रुवस्तस्माद्यद्यपि बह्व्य इव स्त्रियः सार्धं यन्ति य एव तास्वपि कुमारक इव पुमान्भवति स एव तत्र प्रथम एत्यनूच्य इतरास्तस्मात्स्रुवमेवाग्रे सम्मार्ष्ट्यथेतराः स्रुचः॥
स वै तथैव सम्मृज्यात्॥
यथाग्निं नाभिव्युक्षेद्यथा यस्मा अशनमाहरिष्यन्त्स्यात्तम् पात्रनिर्णेजनेनाभिव्युक्षेदेवं तत्तस्मादु तथैव सम्मृज्याद्यथाग्निं नाभिव्युक्षेत्प्राङिवैवोत्क्रम्य॥
तद्धैके॥
स्रुक्सम्मार्जनान्यग्नावभ्यादधति वेदस्याहाभूवन्त्स्रुच एभिः सममार्जिषुरिदं वै किञ्चिद्यज्ञस्य नेदिदम् बह्मा अशनमाहरेत्तम् पात्रनिर्णेजनम् पाययेदेवं तत्तस्मादु परास्येदेवैतानि॥
अथ पत्नीं सन्नह्यति॥
जघनार्धो वा एष यज्ञस्य यत्पत्नी प्राङ्मे यज्ञस्तायमानो यादिति युनक्त्येवैनामेतद्युक्ता मे यज्ञमन्वासाता इति॥
योक्त्रेण सन्नह्यति॥
योक्त्रेण हि योग्यं युञ्जन्त्यस्ति वै पत्न्या अमेध्यं यदवाचीनं नाभेरथैतदाज्यमवेक्षिष्यमाणा भवति तदेवास्या एतद्योक्त्रेणान्तर्दधात्यथ मेध्येनैवोत्तरार्धनाज्यमवेक्षते तस्मात्पत्नीं सन्नह्यति॥
स वा अभिवासः सन्नह्यति॥
ओषधयो वै वासो वरुण्या रज्जुस्तदोषधीरेवैतदन्तर्दधाति तथो हैनामेषा वरुण्या रज्जुर्न हिनस्ति तस्मादभिवासः सन्नह्यति॥
स सन्नह्यति॥
अदित्यै रास्नासीतीयं वै पृथिव्यदितिः सेयं देवानाम् पत्न्येसा वा एतस्य पत्नी भवति तदस्या एतद्रास्नामेव करोति न रज्जुं हिरो वै रास्ना तामेवास्या एतत्करोति॥
स वै न ग्रन्थिम् कुर्यात्॥
वरुण्यो वै ग्रन्थिर्वरुणो ह पत्नीं गृह्णीयाद्यद्ग्रन्थिं कुर्यात्तस्मान्न ग्रन्थिं करोति॥
ऊर्ध्वमेवोद्गूहति॥
विष्णोर्वेष्यो ऽसीति सा वै न पश्चात्प्राची देवानां यज्ञमन्वासीतेयं वै पृथिव्यदितिः सेयं देवानाम् पत्नी सा पश्चात्प्राची देवानां यज्ञमन्वास्ते तद्धेमामभ्यारोहेत्सा पत्नी क्षिप्रे ऽमुं लोकमियात्तथो ह पत्नी ज्योग्जीवति तदस्या एवैतन्निह्नुते तथो हैनामियं न हिनस्ति तस्मादु दक्षिणत इवैवान्वासीत॥
अथाज्यमवेक्षते॥
योषा वै पत्नी रेत आज्यम् मिथुनमेवैतत्प्रजननं क्रियते तस्मादाज्यमवेक्सते॥
सावेक्षते॥
ऽदब्धेन त्वा चक्षुषावपश्यामीत्यनार्त्तेन त्वाचक्षुषावपश्यामीत्येवैतदाहाग्नेर्जिह्वासीति यदा वाएतदग्नौ जुह्वत्यथाग्नेर्जिह्वा इवोत्तिष्ठन्ति तस्मादाहाग्नेर्जिह्वसीति सुहूर्देवेभ्य इति साधु देवेभ्य इत्येवैतदाह धाम्ने धाम्ने मे भव यजुषे यजुष इति सर्वस्मै मे यज्ञायैधीत्येवैतदाह॥
अथाज्यमादाय प्राङुदाहरति॥
तदाहवनीये ऽधिश्रयति यस्याहवनीये हवींषि श्रपयन्ति सर्वो मे यज्ञ आहवनीये शृतो ऽसदित्यथ यदमुत्राग्रे ऽधिश्रयति पत्नीं ह्यवकाशयिष्यन्भवति न हि तदवकल्पते यत्सामि प्रत्य्ग्घरेत्पत्नीमवकाशयिष्यामीत्यथ यत्पत्नीं नावकाशयेदन्तरियाद्ध यज्ञात्पत्नीं तथो ह यज्ञात्पत्नीं नान्तरेति तस्मादु सार्धमेव विलाप्य प्रागुदाहरत्यवकाश्य पत्नीं यस्यो पत्नी न भवत्यग्र एव तस्याहवनीये ऽधिश्रयति तत्तत आदत्ते तदन्तर्वेद्यासादयति॥
तदाहुः॥
नान्तर्वेद्यासादयेदतो वै देवानाम् पत्नीः सम्याजयन्त्यवसभा अह देवानाम् पत्नीः करोति परःपुंसो हास्य पत्नी भवतीति तदु होवाच याज्ञवल्क्यो यथादिष्टम् पत्न्या अस्तु कस्तदाद्रियेत यत्परःपुंसा वा पत्नी स्याद्यथा वा यज्ञो वेदिर्यज्ञ आज्यं यज्ञाद्यज्ञ निर्मिमा इति तस्मादन्तर्वेद्येवासादयेत्॥
प्रोक्षणीषु पवित्रे भवतः॥
ते तत आदत्ते ताभ्यामाज्यमुत्पुनात्येको वा उत्पवनस्य बन्धुर्मेध्यमेवैतत्करोति॥
स उत्पुनाति॥
सवितुस्त्वा प्रसव उत्पुनाम्यछिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सो सावेव बन्धुः॥
अथाज्यलिप्ताभ्याम् पवित्राभ्यम्॥
प्रोक्षणीरुत्पुनाति सवितुर्वः प्रसव उत्पु ॥। बन्धुःतद्यदाज्यलिप्ताभ्याम् पवित्राभ्याम्॥
प्रोक्षनीरुत्पुनाति तदप्सु पयो दधाति तदिदमप्सु पयो हितमिदं हि यदा वर्षत्यथौषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति तस्मादु रसस्यो चैव सर्वत्वाय॥
अथाज्यमवेक्षते॥
तद्धैके यजमानमवख्यापयन्ति तदु होवाच याज्ञवक्ल्यः कथं नु न स्वयमध्वर्यवो भवन्ति कथं स्वयं नान्वाहुर्यत्र भूयस्य इवाशिषः क्रियन्ते कथं न्वेषामत्रैव श्रद्धा भवतीति यां वै कां च यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा तस्मादध्वर्युरेवावेक्षेत॥
सो ऽवेक्षते॥
सत्यमृ वै चक्षुः सत्यं हि वै चक्षुस्तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एव ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तत्सत्येनैवैतत्समर्धयति॥
सो ऽवेक्षते॥
तेजो ऽसि शुक्रमस्यमृतमसीति स एष सत्य एव मन्त्रस्तेजा ह्येतछुक्रं ह्येतदमृतं ह्येतत्तत्सत्येनैवैतत्समर्धयति॥
पुरुषो वै यज्ञः॥
पुरुषस्तेन यज्ञो यदेनम् पुरुषस्तनुत एष वै तायमानो यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः॥
तस्येयमेव जुहूः॥
इयमुपभृदात्मैव ध्रुवा तद्वा आत्मन एवेमानि सर्वाण्यङ्गानि प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति॥
प्राण एव स्रुवः॥
सो ऽयम् प्राणः सर्वाण्यङ्गान्यनुसञ्चरति तस्मादु स्रुवः सर्वा अनु स्रुचः सञ्चरति॥
तस्यासावेव द्यौर्जुहूः॥
अथेदमन्तरिक्षमुपभृदियमेवध्रुवा तद्वा अस्या एवेमे सर्वे लोकाः प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति॥
अयमेव स्रुवो यो ऽयम् पवते॥
सो ऽयमिमान्त्सर्वांल्लोकाननुपवते तस्मादु स्रुवः सर्वा अनु स्रुचः सञ्चरति॥
स एष यज्ञस्तायमानो॥
देवेभ्यस्तायत ऋतुभ्यश्छन्दोभ्यो यद्धविस्तद्देवानां यत्सोमो राजा यत्पुरोडाशस्तत्तदादिश्य गृह्णात्यमुष्मे त्वा जुष्टं गृह्णामीत्येवमु हैतेषाम्॥
अथ यान्याज्यानि गृह्यन्ते॥
ऋतुभ्यश्चैव तानि छन्दोभ्यश्च गृह्यन्ते तत्तदनादिश्याज्यस्यैव रूपेण गृह्णाति स वै चतुर्जुह्वाम् गृह्णात्यष्टौ कृत्व उपभृति॥
स यच्चतुर्जुह्वां गृह्णाति॥
ऋतुभ्यस्तद्गृह्णाति प्रयाजेभ्यो हि तद्गृह्णात्यृतवो हि प्रयाजास्तत्तदनादिश्याज्यस्यैव रूपेण गृह्णात्यजामितायै जामि ह कुर्याद्यद्वसन्ताय त्वा ग्रीष्माय त्वेति गृह्णीयात्तस्मादनादिश्याज्यस्यैव रूपेण गृह्णाति॥
अथ यदष्टौ कृत्व उपभृति गृह्णाति॥
छन्दोभ्यस्तद्गृह्णात्यनुयाजेभ्यो हि तद्गृह्णाति छन्दांसि ह्यनुयाजास्तत्तदनादिश्याज्यस्यैव रूपेण गृह्णात्यजामितायै जामि ह कुर्याद्यद्गायत्र्यै त्वा त्रिष्टुभे त्वेति गृह्णीयात्तस्मादनादिश्याज्यस्यैव रूपेण गृह्णाति॥
अथ यच्चतुर्ध्रुवायां गृह्णाति॥
सर्वस्मै तद्यज्ञाय गृह्णाति तत्तदनादिश्याज्यस्यैव रूपेण गृह्णाति कस्मा उ ह्यादिशेद्यतः सर्वाभ्य एव देवताभ्यो ऽवद्यति तस्मादनादिश्याज्यस्यैव रूपेण गृह्णाति॥
यजमान एव जुहूमनु॥
यो ऽस्मा अरातीयति स उपभृतमन्वत्तैव जुहूमन्वाद्य उपभृतमन्वत्तैव जुहूराद्य उपभृत्स वै चतुर्जुह्वां गृह्णात्यष्टौ कृत्व उपभृति॥
स यच्चतुर्जुह्वां गृह्णाति॥
अत्तारमेवैतत्परिमिततरं कनीयांसं करोत्यथ यदष्टौ कृत्व उपभृति गृह्णात्याद्यमेवैतदपरिमिततरम् भूयांसं करोति तद्धि समृद्धं यत्रात्ता कनीयानाद्यो भूयान्॥
स वै चतुर्जुह्वां गृह्णन्॥
भूय आज्यं गृह्णात्यष्टौ कृत्व उपभृति गृह्णन्कनीय आज्यं गृह्णाति॥
स यच्चतुर्जुह्वां गृह्णन्॥
भूय आज्यं गृह्णात्यत्तारमेवैतत्परिमिततरं कनीयांसं कुर्वंस्तस्मिन्वीर्यम् बलं दधात्यथ यदष्टौ कृत्व उपभृति गृह्णन्कनीय आज्यं गृह्णात्याद्यमेवैतदपरिमिततरम् भूयांसं कुर्वंस्तमवीर्यमबलीयांसं करोति तस्मादुत राजापारां विशम् प्रावसायाप्येकवेश्मनैव जिनाति त्वद्यथा त्वत्कामयते तथा सचत एतेनो ह तद्वीर्येण यज्जुह्वाम् भूय आज्यं गृह्णाति स यज्जुह्वां गृह्णाति जुह्वैव तज्जुहोति यदुपभृति गृह्णाति जुह्वैव तज्जुहोति॥
तदाहुः॥
कस्मा उ तर्ह्युपभृति गृह्णीयाद्यदुपभृता न जुहोतीति स यद्धोपभृता जुहुयात्पृथग्घैवेमाः प्रजाः स्युर्नैवात्ता स्यान्नाद्यः स्यादथ यत्तज्जुह्वेव समानीय जुहोति तस्मादिमा विशः क्षत्रियस्यैव वशे सति वैश्यम् पशव उपतिष्टन्ते ऽथ यत्तज्जुह्वेव समानीय जुहोति तस्माद्यदोत क्सत्रियः कामयते ऽथाह वैश्य मयि यत्ते परो निहितं तदाहरेति तं जिनाति त्वद्यथा त्वत्कामयते तथा सचत एतेनो हतद्वीर्येण॥
तानि वा एतानि॥
छन्दोभ्य आज्यानि गृह्यन्ते स यच्चतुर्जुह्वां गृह्णाति गायत्र्यै तद्गृह्णात्यथ यदष्टौ कृत्व उपभृति गृह्णाति त्रिष्टुब्जगतीभ्यां तद्गृह्णात्यथ यच्चतुर्ध्रुवायां गृह्णात्यनुष्टुभे तद्गृह्णाति वाग्वा अनुष्टुब्वाचो वा इदं सर्वम् प्रभवति तस्मादु ध्रुवाय एव सर्वा यज्ञः प्रभवतीयम् वा अनुष्टुबस्यै वा इदं सर्वम् प्रभवति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति॥
स गृह्णाति॥
धां नामासि प्रियं देवानामित्येतद्वै देवानाम् प्रियतमं धाम यदाज्यं तस्मादाह धाम नामासि प्रियं देवानामित्यनाधृष्टं देवयजनमसीति वज्रो ह्याज्यं तस्मादाहानाधृष्टं देवयजनमसीति॥
स एतेन यजुषा॥
सकृज्जुह्वां गृह्णाति त्रिस्तूष्णीमेतेनैव यजुषा सकृदुपभृति गृह्णाति सप्त कृत्वस्तूष्णीमेतेनैव यजुषा सकृद्ध्रुव्:!यां गृह्णाति त्रिस्तूस्णीं तदाहुस्त्रिस्त्रिरेव यजुषा गृह्णीयात्रिवृद्धि यज्ञ इति तदु नु सकृत्सकृदेवात्रो ह्येव त्रिर्गृहीतं सम्पद्यते॥
प्रोक्षणीरध्वर्युरादत्ते॥
स इध्ममेवाग्रे प्रोक्षति कृष्णो ऽस्याखरेष्ठो ऽग्नये त्वा जुष्टम् प्रोक्षामीति तन्मेध्यमेवैतदग्नये करोति॥
अथ वेदिम् प्रोक्षति॥
वेदिरसि बर्हिषे त्वा जुष्टाम् प्रोक्षामि तन्मेध्यामेवैतद्बर्हिषे करोति॥
अथास्मै बर्हिः प्रयछति॥
तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्षति बर्हिरसि स्रुग्भ्यस्त्वा जुष्टम् प्रोक्षामि तन्मेध्यमेवैतत्स्रुग्भ्यः करोति॥
अथ याः प्रोक्षण्यः परिशिष्यन्ते॥
ताभिरोषधीनाम् मूलान्युपनिनयत्यदित्यै व्युन्दनमसीतीयं वै पृथिव्यदितिस्तदस्या एवैतदोषधीनाम् मूलान्युपोनत्ति ता इमा आर्द्रमूला ओषधयस्तस्माद्यद्यपि शुष्काण्यग्राणि भवन्त्यार्द्राण्येव मूलानि भवन्ति॥
अथ विस्रंस्य ग्रन्थिम्॥
पुरस्तात्प्रस्तरं गृह्णाति विष्णो स्तुपो ऽसीति यज्ञो वै विष्णुस्तस्येयमेव शिखा स्तुप एतामेवास्मिन्नेतद्दधाति पुरस्ताद्गृह्णाति पुरस्ताद्ध्ययं स्तुपस्तस्मात्पुरस्ताद्गृह्णाति॥
अथ सन्नहनं विस्रंसयति॥
प्रकॢप्तं हैवास्य स्त्री विजायत इति तस्मात्सन्नहनं विस्रंसयति तद्दक्षिणायां श्रोणौ निदधाति नीविर्हैवास्यैषा दक्षिणत इव हीयं नीविस्तस्माद्दक्षिणायां श्रोणौ निदधाति तत्पुनरभिच्छादयत्यभिच्छन्नेव हीयं नीविस्तस्मात्पुनरभिच्छादयति॥
अथ बर्हि स्तृणाति॥
अयं वै स्तुपः प्रस्तरो ऽथ यान्यवाञ्चि लोमानि तान्येवास्य यदितरम् बर्हिस्तान्येवास्मिन्नेतद्दधाति तस्माद्बर्हि स्तृणाति॥
योषा वै वेदिः॥
तामेतद्देवाश्च पर्यासते ये चेमे ब्राह्मणाः शुश्रुवांसो ऽनूचानास्तेष्वेवैनामेतत्पर्यासीनेष्वनग्नां करोत्यनग्नताया एव तस्माद्बर्हि स्तृणाति॥
यावती वै वेदिः॥
तावती पृथिव्योषधयो बर्हिस्तदस्यामेवैतत्पृथिव्यामोषधीर्दधाति ता इमा अस्याम् पृथिव्यामोषधयः प्रतिष्ठितास्तस्माद्बर्हि स्तृणाति॥
तद्वै बहुलं स्तृणीयादित्याहुः यत्र वा अस्यै बहुलतमा ओषधयस्तदस्या उपजीवनीयतमं तस्माद्बहुलं स्तृणीयादिति तद्वै तदाहर्तर्येवाधि त्रिवृत्स्तृणाति त्रिवृद्धि यज्ञो ऽथो अपि प्रवर्हं स्तृणीयात्स्तृणन्ति बर्हिरानुषगिति तृषिणाभ्यनूक्तमधरमूलं स्तृणात्यधरमूला इव हीमा अस्याम् पृथिव्यामोषधयः प्रतिष्ठितास्तस्मादधरमूलं स्तृणाति॥
स स्तृणाति॥
ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्य इति साध्वीं देवेभ्य इत्येवैतदाह यदाहोर्णम्रदसं त्वेति स्वासस्थां देवेभ्य इति स्वासदां देवेभ्य इत्येवैतदाह॥
अथाग्निं कल्पयति॥
शिरो वै यज्ञस्याहवनीयः पूर्वो ऽर्धो वै शिरः पूर्वार्धमेवैतद्यज्ञस्य कल्पयत्युपर्युपरि प्रस्तरं धारयङ्कल्पयत्ययं वै स्तुपः प्रस्तर एतमेवास्मिन्नेतत्प्रतिदधाति तस्मादुपर्युपरि प्रस्तरं धारयङ्कल्पयति॥
अथ परिधीन्परिदधाति॥
तद्यत्परिधीन्परिदधाति यत्र वै देवा अग्रे ऽग्निं होत्राय प्रावृणत तद्धोवाच न वा अहमिदमुत्सहे यद्वो होता स्यां यद्वो हव्यं वहेयं त्रीन्पूर्वान्प्रावृढ्वं ते प्राधन्विषुस्तान्नु मे ऽवकल्पयताथ वाअहमेतदुत्साक्ष्ये यद्वो होता स्यां यद्वो हव्यं वहेयमिति तथेति तानस्मा एतानवाकल्पयंस्त एते परिधयः॥
स होवाच॥
वज्रो वै तान्वषट्कारः प्रावृणग्वज्राद्वै वषट्काराद्बिभेमि यन्मा वज्रो वषट्कारो न प्रवृञ्ज्यादेतैरेव मापरिधत्त तथा मा वज्रो वषट्कारो न प्रवर्क्ष्यतीति तथेति तमेतैः पर्यदधुस्तं न वज्रो वषट्कारः प्रावृणक्तद्वर्मैवैतदग्नये नह्यति यदेतैः परिदधाति॥
त उ हैत ऊचुः॥
इदमु चेदस्मान्यज्ञे युङ्क्थास्त्वेवास्माकमपि यज्ञे भाग इति॥
तथेति देवा अब्रुवन्॥
यद्बहिष्परिधि स्कन्त्स्यति तद्युष्मासु हुतमथ यद्व उपर्युपरि होष्यन्ति तद्वो ऽविष्यतीति स यदग्नौ जुह्वति तदेनानवत्यथ यदेनानुपर्युपरि जुह्वति तदेनानवत्यथम् यद्बहिष्परिधि स्कन्दति तदेतेषु हुतं तस्मादु ह नाग इव स्कन्नं स्यादिमां वै ते प्राविशन्यद्वा इदङ्किञ्च स्कन्दत्यस्यामेव तत्सर्वम् प्रतितिष्ठति॥
स स्कन्नमभिमृशति॥
भुवपतये स्वाहा भुवनपतये स्वाहा भूतानाम् पतये स्वाहेत्येतानि वै तेषामग्नीनां नामानि यद्भुवपतिर्भुवनपतिर्भूतानाम् पतिस्तद्यथा वषट्कृतं हुतमेवमस्यैतेष्वग्निषु भवति॥
तद्धैके॥
इध्मस्यैवैतान्परिधीन्परिदधाति तदु तथा न कुर्यादनवकॢप्ता ह तस्यैते भवन्ति यानिध्मस्य परिदधात्यभ्याधानाय ह्येवेध्मः क्रियते तस्यो हैवैते ऽवकॢप्ता भवन्ति यस्यैतानन्यानाहरन्ति परिधय इति तस्मादन्यानेवाहरेयुः॥
ते वै पालाशाः स्युः॥
ब्रह्म वै पलाशो ब्रह्माग्निरग्नयो हि तस्मात्पालाशाः स्युः॥
यदि पालाशान्न विन्देत्॥
अथो अपि वैकङ्कता स्युर्यदि वैकङ्कतान्न विन्देदथो अपि कार्ष्मर्यमयाः स्युर्यदि कार्ष्मर्यमयान्न विन्देदथो अपि वैल्वाः स्युरथो खादिरा अथो औदुम्बरा एते हि वृक्षा यज्ञियास्तस्मादेतेषां वृक्षाणाम् भवन्ति॥
ते वा आर्द्राः स्युः॥
एतद्ध्येषां जीवमेतेन सतेजस एतेन वीर्यवन्तस्तस्मादार्द्राः स्युः॥
स मध्यममेवाग्रे॥
परिधिं परिदधाति गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इति॥
अथ दक्षिणाम् परिदधाति॥
इन्द्रस्य बाहुरसि दक्षिणो विश्वस्य अरिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इति॥
अथोत्तरम् परिदधाति॥
मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इत्यग्नयो हि तस्मादाहाग्निरिड ईडित इति॥
अथ समिधमभ्यादधाति॥
स मध्यममेवाग्रे परिधिमुपस्पृषति तेनैतानग्रे समिन्धे ऽथाग्नावभ्यादधाति तेनो अग्निम् प्रत्यक्षं समिन्धे॥
सो ऽभ्यादधाति॥
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वर इत्येतया गायत्र्या गायत्रीमेवैतत्समिन्धे सा गायत्री समिद्धान्यानि छन्दांसि समिन्धे छन्दांसि समिद्धानिदेवेभ्यो यज्ञं वहन्ति॥
अथ यां द्वितीयां समिधमभ्यादधाति॥
वसन्तमेव तया समिन्धे स वसन्तः समिद्धो ऽन्यानृतून्त्समिन्ध ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति सो ऽभ्यादधाति समिदसीति समिद्धि वसन्तः॥
अथाभ्याधाय जपति॥
सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्या इति गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति नेत्पुरस्तान्नाष्ट्रा रक्षाम्\स्यभ्यवचरानिति सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता॥
अथ यामेवामृं तृतीयां समिधमभ्यादधाति॥
अनुयाजेषु ब्राह्मणमेव तया समिन्धे स ब्राह्मणः समिद्धो देवेभ्यो यज्ञंवहति॥
अथ स्तीर्णां वेदिमुपावर्तते॥
स द्वे तृणे आदाय तिरश्ची निदधाति सवितुर्बाहू स्थ इत्ययं वै स्तुपः प्रस्तरोऽथास्यैते भ्रुवावेव तिरश्ची निदधाति तस्मादिमे तिरश्च्यौ भ्रुवौ क्षत्रं वै प्रस्तरो विश इतरम् बर्हिः क्षत्रस्य चैव विशश्च विधृत्यै तस्मात्तिरश्ची निदधाति तस्माद्वेव विधृती नाम॥
तत्प्रस्तरं स्तृणाति॥
ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति साधुं देवेभ्य इत्येवैतदाह यदाहोर्णम्रदसं त्वेति स्वासस्थं देवेभ्य इति स्वासदं देवेभ्य इत्येवैतदाह॥
तमभिनिदधाति॥
आ त्वा वसवो रुद्रा आदित्याः सदन्त्वित्येते वै त्रया देवा यद्वसवो रुद्रा आदित्या एते त्वासीदन्त्वित्येवैतदाहाभिनिहित एव सव्येन पाणिना भवति॥
अथ दक्षिणेन जुहूम् प्रतिगृह्णाति॥
नेदिह पुरा नाष्ट्रारक्षांस्याविशानिति ब्राह्मणो हि रक्षसामपहन्ता तस्मादभिनिहित एव सव्येन पाणिना भवति॥
अथ जुहूम् प्रतिगृह्णाति॥
घृताच्यसि जुहूर्नाम्नेति घृताचीहि जुहूर्हि नाम्ना सेदम् प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यस्युपभृन्नाम्नेत्युपभृतं घृताची ह्युपभृद्धि नाम्ना सेदम् प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यसि ध्रुवा नाम्नेति ध्रुवां घृताची हि ध्रुवा हि नाम्नासेदम् प्रियेण धाम्ना प्रियं सद आसीदेति प्रियेण धाम्ना प्रियं सद आसीदेति यदन्यद्धविः॥
स वा उपरि जुहूं सादयति॥
अध इतराः स्रुचः क्षत्रंवै जुहूर्विश इतराः स्रुचः क्षत्रमेवैतद्विश उत्तरं करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुपरिजुहूं सादयत्यध इतराः स्रुचः॥
सो ऽभिमृशति॥
ध्रुवा असदन्निति ध्रुवा ह्यसदन्नृतस्य योनाविति यज्ञो वा ऋतस्य योनिर्यज्ञे ह्यसदंस्ता विष्णो पाहि पाहि यज्ञम् पाहि यज्ञपतिमिति तद्यजमानमाह पाहि मां यज्ञन्यमिति तदप्यात्मानं यज्ञान्नान्तरेति यज्ञो वै विष्णोस्तद्यज्ञायैवैतत्सर्वम् परिददाति गुप्त्यै तस्मादाह ता विष्णो पाहीति॥
इन्धे ह वा एतदध्वर्युः॥
इध्मेनाग्निं तस्मादिध्मो नाम समिन्धेसामिधेनीभिर्होता तस्मात्सामिधेन्यो नाम॥
स आह॥
अग्नये समिध्यमानायानुब्रूहीत्यग्नये ह्येतत्समिध्यमानायान्वाह॥
तदु हैक आहुः॥
अग्नये समिध्यमानाय होतरनुब्रूहीति तदु तथा न ब्रूयादहोता वा एष पुरा भवति यदैवैनम् प्रवृणीते ऽथ होता तस्मादु ब्रूयादग्नये समिध्यमानायानुब्रूहीत्येव॥
आग्नेयीरन्वाह॥
स्वयैवैनमेताद्देवताया समिन्धे गायत्रीरन्वाह गायत्रं वा अग्नेश्छन्दः स्वेनैवैनमेतछन्दसासमिन्धे वीर्यं गायत्री ब्रह्म गायत्री वीर्येणैवैनमेतत्समिन्धे॥
एकादशान्वाह॥
एकादशाक्षरा वै त्रिष्टुब्ब्रह्म गायत्री क्षत्रं त्रिष्टुबेताभ्यामेवैनमेतदुभाभ्यां वीर्याभ्यां समिन्धे तस्मादेकादशान्वाह॥
स वै त्रिः प्रथमामन्वाह॥
त्रिरुत्तमां त्रिवृत्प्रायणा हि यज्ञास्त्रिवृदुदयनास्तस्मात्त्रिः प्रथमामन्वाह त्रिरुत्तमां॥
ताः पञ्चदश सामिधेन्यः सम्पद्यन्ते पञ्चदशो वै वज्रो वीर्यं वज्रो वीर्यमेवैतत्सामिधेनीरभिसम्पादयति तस्मादेतास्वनूच्यमानासु यं द्विष्यात्तमन्गुष्ठाभ्यामवबाधेतेदमहममुमवबाध इति तदेनमेतेन वज्रेणावबाधते॥
पञ्चदष वा अर्धमास्य रात्रयः॥
अर्धमासशो वै संवत्सरो भवन्नेति तद्रात्रीराप्नोति॥
पञ्चदशानामु वै गायत्रीणाम्॥
त्रीणि च शतानि षस्टिश्चाक्षराणि त्रीणि च वै शतानि षष्टिष्च संवत्सरस्याहानि तदहान्याप्नोति तद्वेव संवत्सरमाप्नोति॥
सप्तदश सामिधेनीः॥
इष्ट्य अनुब्रूयादुपांशु तस्यै देवतायै यजति यस्या इष्टं निर्वपति द्वादश वै मासाः संवत्सरस्य पञ्चर्तव एष एव प्रजापतिः सप्तदशः सर्वं वै प्रजापतिस्तत्सर्वेणैव तं काममनपराधं राध्नोति यस्मै कामायेष्टिं निर्वपत्युपांशु देवताम् यजत्यनिरुक्तं वा उपांशु सर्वं वा अनिरुक्तं तत्सर्वेणैव तं काममनपराधं राध्नोति ष्वस्मै कामायेष्ठिं निर्वपत्येष इष्टेरुपचारः॥
एकविंशतिं सामिधेनी॥
अपि दर्शपूर्णमासयोरनुब्रूयादित्याहुर्द्वादश वै मासाः संवत्सरस्य पञ्चर्तवस्त्रयो लोकास्तद्विंशतिरेष एवैकविंशो य एष तपति सैषा गतिरेषा प्रतिष्ठा तदेतां गतिमेताम् प्रतिष्ठां गछति तस्मादेकविंशतिमनुब्रूयात्॥
ता हैता गतश्रेरेवानुब्रूयात्॥
य इछेन्न श्रेयान्त्स्यान्न पापीयानिति यादृशाय हैव सते ऽन्वाहुस्तादृङ्वा हैव भवति पापीयान्वा यस्यैवं विदुष एता अन्वाहुः सो एषा मीमांसैव न त्वेवैता अनूच्यन्ते॥
त्रिरेव प्रथमां त्रिरुत्तमामनवानन्ननुब्रूयात्॥
त्रयो वा इमे लोकास्तदिमानेवैतल्लोकान्त्सन्तनोतीमांल्लोकान्त्स्पृणुते त्रय इमे पुरुषे प्राणा एतमेवास्मिन्नेतत्सन्ततमव्यवछिन्नं दधात्येतदनुवचनम्॥
स यावदस्य वचः स्यात्॥
एवमेवानुविवक्षेत्तस्यैतस्य परिचक्षीत साम्यवान्यादनवानन्ननुविवक्षंस्तत्कर्म विवृह्येत सा परिचक्षा॥
स यद्येतन्नोदाशंसेत॥
अप्येकैकामेवानवानन्ननुब्रूयात्तदेकैकयैवेमांल्लोकान्त्सन्तनोत्येकैकयेमांल्लोकान्त्स्पृणुते ऽथ यत्प्राणं दधाति गायत्री वै प्राणः स यत्कृत्स्नां गायत्रीमन्वाह तत्कृत्स्नं प्राणं दधाति तस्मादेकैकामेवानवानन्ननुब्रूयात्॥
ता वै सन्तता अव्यवछिन्ना अन्वाह॥
संवत्सरस्यैवैतदहोरात्राणि सन्तनोति तानीमानि संवत्सरस्याहोरात्राणि सन्ततान्यव्यवछिन्नानि परिप्लवन्ते द्विषत उ चैवैतद्भ्रातृव्याय नोपस्थानं करोत्युपस्थानं ह कुर्याद्यदसन्तताअनुब्रूयात्तस्माद्वै सन्तता अव्यवछिन्ना अन्वाह॥