०२

स वै कपालान्येवान्यतर उपदधाति॥
दृषदुपले अन्यतरस्तद्वा एतदुभयं सह क्रियते तद्यदेतदुभयं सह क्रियते॥
शिरो ह वा एतद्यज्ञस्य यत्पुरोडाशः स गान्येवेमानि शीर्ष्णः कपालान्येतान्येवास्य कपालानि मस्तिष्क एव पिष्टानि तद्वा एतदेकमङ्गमेकं सह करवाव समानं करवावेति तस्माद्वा एतदुभयं सह क्रियते॥
स यः कपालान्युपदधाति॥
स उपवेषमादत्ते धृष्टिरसीति स यदेनेनाग्निं धृष्णिवोपचरति तेन धृष्टिरथ यदेनेन यज्ञ उपालभत उपेव वा एनेनैतद्वेष्टि तस्मादुपवेषो नाम॥
तेन प्राचो ऽङ्गारानुदूहति॥
अपाग्ने अग्निमामादं जहि निष्क्रव्यादं सेधेत्ययं वा आमाद्येनेदम् मनुष्याः पक्त्वाश्नन्त्यथ येन पुरुषं दहन्ति स क्रव्यादेतावेवैतदुभावतो ऽपहन्ति॥
अथाङ्गारमास्कौति॥
आ देवयजं वहेति यो देवयाट् तस्मिन् हवींषि श्रपयाम तस्मिन्यज्ञं तनवामहा इति तस्माद्वाआस्कौति॥
तम् मध्यमेन कपालेनाभ्युपदधाति॥
देवा ह वै यज्ञन्तन्वानास्ते ऽसुररक्षसेभ्य आसङ्गाद्बिभयाञ्चक्रुर्नेन्नो ऽधस्तान्नाष्ट्रा रक्षांस्युपोत्तिष्ठानित्यग्निर्हि रक्षसामपहन्ता तस्मादेवमुपदधाति तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्मान्मध्यमेन कपालेनाभ्युपदधाति॥
स उपदधाति॥
ध्रुवमसि पृथिवीं दृंहेति पृथिव्या एव रूपेणैतदेव दृंहत्येतेनैव द्विषन्तम् भ्रातृव्यमवबाधते ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधायेति बह्वी वै यजुःस्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्य सजातवनीति भूमा वै सजातास्तद्भूमानमाशास्त उपदधामि भ्रातृव्यस्य बधायेति यदि नाभिचरेद्यद्य अभिचरेदमुष्य बधायेति ब्रूयादभिनिहितमेव सव्यस्य पाणेरङ्गुल्या भवति॥
अथाङ्गारमास्कौति॥
नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो हि रक्ससामपहन्ता तस्मादभिनिहितमेव सव्यस्य पाणेरङ्गुल्या भवति॥
अथाङ्गारमध्यूहति॥
अग्ने ब्रह्म गृभ्णीष्वेति नेदिह पुरा नाष्ट्रा रक्षांस्याविशानित्यग्निर्हि रक्षसामपहन्ता तस्मादेनमध्यूहति॥
अथ यत्पश्चात्तदुपदधाति॥
धरुणमस्यन्तरिक्षं दृंहेत्यन्तरिक्षस्यैव रूपेणैतदेव दृंहत्येतेनैव द्विषन्तम् भ्रातृव्यमवबाधते ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य बधायेति॥
अथ यत्पुरस्तात्तदुपदधाति॥
धर्त्रमसि दिवं दृंहेति दिव एव रूपेणैतदेव दृंहत्येतेनैव ॥। बधायेति॥
अथ यद्दक्षिणतस्तदुपपधाति॥
विश्वाभ्यस्त्वाशाभ्य उपदधामीति स यदिमांल्लोकानति चतुर्थमस्ति वा न वा तेनैवैतद्द्विषन्तम् भ्रातृव्यमवबाधते ऽनद्धा वै तद्यदिमांल्लोकानति चतुर्थमस्ति वा न वानद्धो तद्यद्विश्वा आशास्तस्मादाह विश्वाभ्यस्त्वाशाभ्य उपदधामीति तूष्णीं वैवेतराणि कपालान्युपदधाति चित स्थोर्ध्वचित इति वा॥
अथाङ्गारैरभ्यूहति॥
भृगूणामङ्गिरसां तपसा तप्यध्वमित्येतद्वै तेजिष्ठम्! तेजो यद्भृग्वङ्गिरसां सुतप्तान्यसन्निति तस्मादेनमभ्यूहति॥
अथ यो दृषदुपले उपदधाति॥
स कृष्णाजिनमादत्ते शर्मासीति तदवधूनोत्यवधूतं रक्षो ऽवधूता अरातय इति सो ऽसावेव बन्धुस्तत्प्रतीचीनग्रीवमुपस्तृणात्यदित्यास्त्वगसि प्रति त्वादितिर्वेत्त्विति सो ऽसावेव बन्धुः॥
अथ दृषदमुपदधाति॥
धिषणासि पर्वती प्रति त्वादित्यास्त्वग्वेत्त्विति धिषणा हि पर्वती हि प्रति त्वादित्यास्त्वग्वेत्त्विति तत्सञ्ज्ञामेवैतत्कृष्णाजिनाय च वदति नेदन्यो ऽन्यं हिनसाव इतीयमेवैषा पृथिवी रूपेण॥
अथ शम्यामुदीचीनाग्रामुपदधाति॥
दिव स्कम्भनीरसीत्यन्तरिक्षमेव रूपेणान्तरिक्षेण हीमे द्यावापृथिवी विष्टब्धे तस्मादाह दिव स्कम्भनीरसीति॥
अथोपलामुपदधाति॥
धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्त्विति कनीयसी ह्येषा दुहितेव भवति तस्मादाह पार्वतेयीति प्रति त्वा पर्वती वेत्त्विति प्रति हि स्वः सञ्जानीते तत्सञ्ज्ञामेवैतद्दृषदुपलाभ्यां वदति नेदन्यो ऽन्यं हिनसात इति द्यौरेवैषा रूपेण हनू एव दृषदुपलेजिह्वैव शम्या तस्माछम्यया समाहन्ति जिह्वया हि वदति॥
अथ हविरधिवपति॥
धान्यमसि धिनुहि देवानिति धान्यं हि देवान्धिनवदित्यु हि हविर्गृह्यते॥
अथ पिनष्टि॥
प्राणाय त्वोदानाय त्वा व्यानाय त्वा दीर्घामनु प्रसितिमायुषे धामिति प्रोहति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वछिद्रेण पाणिना चक्षुषे त्वेति॥
तद्यदेवम् पिनष्टि॥
जीवं वै देवानां हविरमृतममृतानामथैतदुलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति॥
स यदाह॥
प्राणाय त्वोदानाय त्वेति तत्प्राणोदानौ दधाति व्यानाय त्वेति तद्व्यानं दधाति दीर्घामनु प्रसितिमायुषे धामिति तदायुर्दधाति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वछिद्रेण पाणिना सुप्रतिगृहीतान्यसन्निति चक्षुषे त्वेति तच्चक्षुर्दधात्येतानि वै जीवतो भवन्त्येवमु हैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानां तस्मादेवम् पिनष्टि पिंषन्ति पिष्टान्यभीन्धते कपालानि॥
अथैक आज्यं निर्वपति॥
यद्वा आदिष्टं देवतायै हविर्गृह्यते यावद्देवत्यं तद्भवति तदितरेण यजुषा गृह्णाति न वा एतत्कस्यै चन देवतायै हविर्गृह्णन्नादिशति यदाज्यं तस्मादनिरुक्तेन यजुषा गृह्णाति महीनाम् पयो ऽसीति मह्य इति ह वा एतासामेके नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनाम् पयो ऽसीत्येवमु हास्यैतत्खलु यजुषैव गृहीतम् भवति तस्माद्वेवाह महीनाम् पयो ऽसीति॥
पवित्रवति सम्वपति॥
पात्र्याम् पवित्रे अवधाय देवस्य त्वासवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यां सम्वपामीति सो ऽसावेवैतस्य यजुषो बन्धुः॥
अथान्तर्वेद्युपविशति॥
अथैक उपसर्जनीभिरैति ता आनयति ताः पवित्राभ्याम् प्रतिगृह्णाति समाप ओषधीभिरिति संह्येतदाप ओषधीभिरेताभिः पिष्टाभिः सङ्गछन्ते समोषधयो रसेनेति संह्येतदोषधयो रसेनैताः पिष्टा अद्भिः सङ्गछन्त आपो ह्येतासां र्!असः सं रेवतीर्जगतीभिः पृच्यन्तामिति रेवत्य आपो जगत्य ओषधयस्ता उ ह्येतदुभय्यः सम्पृच्यन्ते सम् मधुमतीर्मधुमतीभिः पृच्यन्तामिति सं रसवत्यो रसवतीभिः पृच्यन्तामित्येवैतदाह॥
अथ संयौति॥
जनयत्यै त्वा संयौमीति यथा वा अधिवृक्तो ऽग्नेरधि जायेतैवं वै तत्संयौति॥
अथ द्वेधा करोति॥
यदि द्वे हविषी भवतः पौर्णमास्यां वै द्वे हविषी भवतः स यत्र पुनर्न संहविष्यन्त्स्यात्तदभिमृशतीदमग्नेरिदमग्नीषोमयोरिति नाना वा एतदग्रे हविर्गृह्णन्ति तत्सहावघ्नन्ति तत्सह पिंषन्ति तत्पुनर्नाना करोति तस्मादेवमभिमृशत्यधिवृणक्त्येवैष पुरोडाशमधिश्रयत्यसावाज्यम्॥
तद्वा एतत्॥
उभयं सह क्रियते तद्यदेतदुभयं सह क्रियते ऽर्धो ह वा एष आत्मनो यज्ञस्य यदाज्यमर्धो यदिह हविर्भवति स यश्चासावर्धो य उ चायमर्धस्ता उभावग्निं गमयावेति तस्माद्वा एतदुभयं सह क्रियत एवमु हइष आत्मा यज्ञस्य सन्धीयते॥
सो ऽसावाज्यमधिश्रयति॥
इषे त्वेति वृष्ट्यै तदाह यदाहेषे त्वेति तत्पुनरुद्वासयत्यूर्जे त्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह॥
अथ पुरोडाशमधिवृणक्ति॥
धर्मो ऽसीति यज्ञमेवैतत्करोति यथा घर्मम् प्रवृञ्ज्यादेवम् प्रवृणक्ति विश्वायुरिति तदायुर्दधाति॥
तम् प्रथयति॥
उरुप्रथा उरु प्रथस्वेति प्रथयत्येवैनमेतदुर्!उ ते यज्ञपतिः प्रथतामिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदाशिषमाशास्ते॥
तं न सत्रा पृथु कुर्यात्॥
मानुषं ह कुर्याद्यत्पृथुं कुर्याद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञो करवाणीति तस्मान्न सत्रा पृथुं कुर्यात्॥
अश्वशफमात्रं कुर्यादित्यु हैक आहुः॥
कस्तद्वेद यावानश्वशफो यावन्तमेव स्वयम् मनसा न सत्रा पृथुम् मन्येतैवं कुर्यात्॥
तमद्भिरभिमृशति॥
सकृद्वा त्रिर्वा तद्यदेवास्यात्रावघ्नन्तो वा पिंषन्तो वा क्षिण्वन्ति वा वि वा वृहन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः सन्दधाति तस्मादद्भिरभिमृशति॥
सो ऽभिमृशति॥
अग्निष्टे त्वचम् मा हिं सीदित्यग्निना वा एनमेतदभितप्स्यन्भवत्येष ते त्वचम् मा हिंसीदित्येवैतदाह॥
तम् पर्यग्निं करोति॥
अछिद्रमेवैनमेतदग्निना परिगृह्णाति नेदेनं नाष्ट्रा रक्षांसि प्रमृशानित्यग्निर्हि रक्षसामपहन्ता तस्मात्पर्यग्निं करोति॥
तं श्रपयति॥
देवस्त्वा सविता श्रपयत्विति न वा एतस्य मनुष्यः श्रपयिता देवो ह्येष तदेनं देव एव सविता श्रपयति वर्षिष्टे ऽधि नाक इति देवत्रो एतदाह यदाह वर्षिष्टे ऽधि नाक इति तमभिमृशति पृतं वेदानीति तस्माद्वा अभिमृशति॥
सो ऽभिमृशति॥
मा भेर्मा संविक्था इति मा त्वम् भेषीर्मासंविक्था यत्त्वाहममानुषं सन्तम् मानुषो ऽभिमृशामीत्येवैतदाह॥
यदा शृतो ऽथाभिवासयति॥
नेदेनमुपरिष्टान्नाष्ट्रा रक्षांस्यवपश्यानिति नेद्वेव नग्न इव मुषित इव शयाताइत्यु चैव तस्माद्वा अभिवासयति॥
सो ऽभिवासयति॥
अतमेरुर्यज्ञो ऽतमेरुर्यजमानस्य प्रजा भूयादिति नेदेतदनु यज्ञो वा यजमानो वा ताम्याद्यदिदमभिवासयामीति तस्मादेवमभिवासयति॥
अथ पात्रीनिर्णेजनम्॥
अङ्गुलिप्रणेजनमाप्त्येभ्यो निनयति तद्यदाप्त्येभ्यो निनयति॥
चतुर्धाविहितो ह वा अग्रे ऽग्निरास॥
स यमग्रे ऽग्निं होत्राय प्रावृणत स प्राधन्वद्यं द्वितीयम् प्रावृणत स प्रैवाधन्वद्यं तृतीयम् प्रावृणत स प्रैवाधन्वदथ यो ऽयमेतर्ह्यग्निं स भीषा निलिल्ये सो ऽपः प्रविवेश तं देवा अनुविद्य सहसैवाद्भ्य आनिन्युः सो ऽपो ऽभितिष्ठेवावष्ठ्यूता स्थ या अप्रपदनं स्थ याभ्यो वो मामकामं नयन्तीति तत आप्त्याः सम्बभूवुस्त्रितो द्वित एकतः॥
त इन्द्रेण सह चेरुः॥
यथेदम् ब्राह्मणो राजानमनुचरति स यत्र त्रिशीर्षाणं त्वाष्ट्रं विश्वरूपं जघान तस्य हैते ऽपि बध्यस्य विदाञ्चक्रुः शश्वद्धैनं त्रित एवजघानात्यह तदिन्द्रो ऽमुच्यत देवो हि सः॥
त उ हैत ऊचुः॥
उपैवेम एनो गछन्तु ये ऽस्य बध्यस्यावेदिषुरिति किमिति यज्ञ एवैषु मृष्टामिति तदेष्वेतद्यज्ञोमृष्टे यदेभ्यः पात्रीनिर्णेजनमङ्गुलिप्रणेजनं निनयन्ति॥
त उ हाप्त्या ऊचुः॥
अत्येव वयमिदमस्मत्परो नयामेति कमभीति य एवादक्षिणेन हविषा यजातो: इति तस्मान्नादक्षिणेन हविषा यजेताप्त्येषु ह यज्ञो मृष्ट आप्त्या उ ह तस्मिन्मृजते यो ऽदक्षिणेन हविषा यजते॥
ततो देवाः॥
एताम् दर्शपूर्णमासयोर्दक्षिणामकल्पन्यदन्वाहार्यं नेददक्षिणं हविरसदिति तन्नाना निनयति तथैभ्यो ऽसमदं करोति तदभितपति तथैषां शृतम् भवति स निनयति त्रिताय त्वा द्विताय त्वैकताय त्वेति पशुर्ह वा एष आलभ्यते यत्पुरोडाशः॥
पुरुषं ह वै देवाः॥
अग्रे पशुमालेभिरे तस्यालब्धस्य मेधो ऽपचक्राम सो ऽश्व प्रविवेश ते ऽश्वमालभन्त तस्यालब्धस्य मेधो ऽपचक्राम स गाम् प्रविवेश ते गामा ॥। सो ऽविम् प्रविवेश ते ऽविमा ॥। म सो ऽजम् प्रविवेश ते ऽजमालभन्त तस्यालब्धस्य मेधो ऽपचक्राम॥
स इमम् पृथिवीम् प्रविवेश॥
तं खनन्तैवान्वीषुस्तमन्वविन्दंस्ताविमौ व्रीहियवौ तस्मादप्येतावेतर्हि खनन्त इवैवानुविन्दन्ति स यावद्वीर्यवद्ध वा अस्यैते सर्वे पशव आलब्धाः स्युस्तावद्वीर्यवद्धास्य हविरेव भवति य एवमेतद्वेदात्रो सा सम्पद्यदाहुः पाङ्क्तः पशुरिति॥
यदा पिष्टान्यथ लोमानि भवन्ति॥
यदाप आनयत्यथ त्वग्भवति यदा संयौत्यथ मांसम् भवति सन्तत इव हि स तर्हि भवति सन्ततमिव हि मांसं यदा शृतो ऽथास्थि भवति दारुण इव हि स तर्हि भवति दारुणमित्यस्थ्यथ यदुद्वासयिष्यन्नभिघारयति तम् मज्जानं दधात्येषो सा सम्पद्यदाहुः पाङ्क्तः पशुरिति॥
स यम् पुरुषमालभन्त॥
स किम्पुरुषो ऽभवद्यावश्वं च गां च तौ गौरश्च गवयश्चाभवतां यमविमालभन्त स उष्ट्रो ऽभवद्यमजमालभन्त स शरभो ऽभवत्तस्मादेतेषाम् पशूनां नाशितव्यमपक्रान्तमेधा हैते पशवः॥
इन्द्रो ह यत्र वृत्राय वज्रम् प्रजहार॥
स प्रहृतश्चतुर्धा ऽभवत्तस्य स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वायावद्वा रथस्तृतीयं वा यावद्वाथ यत्र प्राहरत्तछकलो ऽशीर्यत स पतित्वा शरा ऽभवत्तस्माछरो नाम यदर्शार्यतैवमु स चतुर्धा वज्रो ऽभवत्॥
ततो द्वाभ्याम् ब्राह्मणा यज्ञे चरन्ति द्वाभ्यां राजन्यबन्धवः संव्याधे यूपेन च स्फ्येन च ब्राह्मणा रथेन च शरेण च राजन्यबन्धवः॥
स यत्स्फ्यमादत्ते॥
यथैव तदिन्द्रो वृत्राय वज्रमुदयछदेवमेवैष एतम् पाप्मने द्विषते भ्रातृव्याय वज्रमुद्यछति तस्माद्वै स्फ्यमादत्ते॥
तमादत्ते॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामाददे ऽध्वरकृतं देवेभ्य इति सविता वै देवानाम् प्रसविता तत्सवितृप्रसूत एवैनमेतदादत्ते ऽश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यूतत्तयोरेव बाहुभ्यामादत्ते न स्वाभ्यां वज्रो वा एष तस्य न ममुष्यो भर्ता तमेताभिर्देवताभिरादत्ते॥
आददे ऽध्वरकृतं देवेभ्य इति॥
अध्वरो वै यज्ञो यज्ञकृतं देवेभ्य इत्येवैतदाह तं सव्ये पाणउ कृत्वा दक्षिणेनाभिमृष्य जपति संश्यत्येवैनमेतद्यज्जपति॥
स जपति॥
इन्द्रस्य बाहुरसि दक्षिण इत्येष वै वीर्यवत्तमो य इन्द्रस्य बाहुर्दक्षिणस्तस्मादाहेन्द्रस्य बाहुरसि दक्षिण इति सहस्रभृष्टिः शततेजा इति सहस्रभृष्टिर्वै स वज्र आसीछततेजा यं तं वृत्राय प्राहरत्तमेवैतत्करोति॥
वायुरसि तिग्मतेजा इति॥
एतद्वै तेजिष्ठं तेजो यदयं यो ऽयम् पवत एष हीमांल्लोकांस्तिर्यङ्ङनुपवते संश्यत्येवैनमेतद्द्विषतो बध इति यदि नाभिचरेद्यद्यु अभिचरेदमुष्य बध इति ब्रूयात्तेन संशितेन नात्मानमुपस्पृशति न पृथिवीं नेदनेन वज्रेण संशितेनात्मानं वा पृथिवीं वा हिनसानीति तस्मान्नात्मानमुपस्पृशति न पृथिवीम्॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ते ह स्म यद्देवा असुराञ्जयन्ति ततो ह स्मैवैनान्पुनरुपोत्तिष्ठन्ति॥
ते ह देवा ऊचुः॥
जयामो वा असुरांस्ततस्त्वेव नः पुनरुपोत्तिष्ठन्ति कथं न्वेनाननपजय्यं जयेमेति॥
स हाग्निरुवाच॥
उदञ्चो वै नः पलाय्य मुच्यन्त इत्युदञ्चो ह स्मैवैषाम् पलाय्य मुच्यन्ते॥
स हाग्निरुवाच॥
अहमुत्तरतः पर्येष्याम्यथ यूयमित उपसंरोत्स्यथ तान्त्संरुध्यैभिश्च लोकैरभिनिधास्यामो यदु चेमांल्लोकानति चतुर्थ ततः पुनर्न संहास्यन्त इति॥
सो ऽग्निरुत्तरतः पर्यैत्॥
अथेम इत उपसमरुन्धंस्तान्त्संरुध्यैभिश्च लोकैरभिन्यदधुर्यदु चेमांल्लोकानति चतुर्थ ततः पुनर्न समजिहत तदेतन्निदानेन यत्स्तम्बयजुः॥
स यो ऽसावग्नीदुत्तरतः पर्येति॥
अग्निरेवैष निदानेन तानध्वर्युरेवेत उपसंरुणद्धि तान्त्संरुध्यैभिश्च लोकैरभिनिदधाति यदु चेमांल्लोकानति चतुर्थ ततः पुनर्न सञ्जिहते तस्मादप्येतर्ह्यसुरा न सञ्जिहते येन ह्येवैनान्देवा अवाबाधन्त तेनैवैनानप्येतर्हि ब्रह्मणा यज्ञे ऽवबाधन्ते॥
य उ एव यजमानायारातीयति॥
यश्चैनं द्वेष्टि तमेवैतदेभिश्च लोकैरभिनिदधाति यदु चेमांल्लोकानति चतुर्थमस्या एव सर्वं हरत्यस्यां हीमे सर्वे लोकाः प्रतिष्ठिताः किं हि हरद्यदन्तरिक्षं हरामि दिवं हरामीति हरेत्तस्मादस्या एव सर्वं हरति॥
अथ तृणमन्तर्धाय प्रहरति॥
नेदनेन वज्रेण संशितेन पृथिवीं हिनसानीति तस्मात्तृणमन्तर्धाय प्रहरति॥
स प्रहरति॥
पृथिवि देवयजन्योषध्यास्ते मूलम् मा हिंसिषमित्युत्तरमूलामिव वा एनामेतत्करोत्याददानस्तामेतदाहौषधीनां ते मूलानि मा हिंसिषमिति व्रजं गछ गोष्ठानमित्यभिनिधास्यन्नेवैतदनपक्रमि कुरुते तद्ध्यनपक्रमि यद्व्रजे ऽन्तस्तस्मादाह व्रजं गछ गोष्ठानमिति वर्षतु ते द्यौरिति यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः सन्दधाति तस्मादाह वर्षतु ते द्यौरिति बधान देव सवितः परमस्याम् पृथिव्यामिति देवमेवैतत्सवितारमाहान्धे तमसि बधानेति यदाह परमस्याम् पृथिव्यामिति षतेन पाशैरित्यमुचे तदाह यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति यदि नाभिचरेद्यद्यु अभिचरेदमुमतो मा मौगिति ब्रूयात्॥
अथ द्वितीयम् प्रहरति॥
अपाररुम् पृथिव्यै देवयजनाद्बध्यासमित्यररुर्ह वै नामासुररक्षसमास तं देवा अस्या अपाघ्नन्त तथो एवैनमेतदेषो ऽस्या अपहते व्रजं गछ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्याम् पृथिव्यां शतेन पाशैर्यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति॥
तमग्नीदभिनिदधाति॥
अररो दिवम् मा पप्त इति यत्र वै देवा अररुमसुररक्षसमपाघ्नत स दिवमपिपतिषत्तमग्निरभिन्यदधादररो दिवम् मा पप्त इति स न दिवमपत्तथो एवैनमेतदध्वर्युरेवास्माल्लोकादन्तरेति दिवो ऽध्यग्नीत्तस्मादेवं करोति॥
अथ तृतीयम् प्रहरति॥
द्रप्सस्ते द्याम् मा स्कन्नित्ययं वाअस्यै द्रप्सो यमस्या इमं रस प्रजा उपजीवन्त्येष ते दिवम् मा पप्तदित्येवैतदाह व्रजं गछ गो ॥। मौगिति॥
स वै त्रिर्यजुषा हरति॥
त्रयो वा इमे लोका एभिरेवैनमे तल्लोकैरभिनिदधात्यद्धा वै तद्यदिमे लोका अद्धो तद्यद्यजुस्तस्मात्त्रिर्यजुषा हरति॥
तूष्णीं चतुर्थम्॥
स यदिमांल्लोकानति चतुर्थमस्ति वा न वा तेनैवैतद्द्विषन्तम् भ्रातृव्यमवबाधते ऽनद्धा वै तद्यदिमांल्लोकानति चतुर्थमस्ति वा न वानद्धो तद्यत्तूष्णीं तस्मात्तूष्णीं चतुर्थम्॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ततो देवा अनुव्यमिवासुरथ हासुरा मेनिरे ऽस्माकमेवेदं खलु भुवनमिति॥
ते होचुः॥
हन्तेमाम् पृथिवीं विभजामहै तां विभज्योपजीवामेति तामौक्ष्णैश्चर्मभिः पश्चात्प्राञ्चो विभजमाना अभीयुः॥
तद्वै देवाः शुश्रुवुः॥
विभजन्ते ह वा इमामसुराः पृथिवीम् प्रेत तदेष्यामो यत्रेमामसुरा विभजन्ते के ततः स्याम यदस्यै न भजेमहीति ते यज्ञमेव विष्णुम् पुरस्कृत्येयुः॥
ते होचुः॥
अनु नो ऽस्याम् पृथिव्यामाभजतास्त्वेव नो ऽप्यस्याम् भाग इति ते हासुरा असूयन्त इवोचुर्यावदेवैष विष्नुरभिशेते तावद्वो दद्म इति॥
वामनो ह विष्नुरास॥
तद्देवा न जिहीडिरे महद्वै नो ऽदुर्ये नो यज्ञसम्मितमदुरिति॥
ते प्राञ्चं विष्णुं निपाद्य॥
छन्दोभिरभितः पर्यगृह्णन्गायत्रेण त्वा छन्दसा परिगृह्णामीति दक्षिणतस्त्रैष्टुभेन त्वा छन्दसा परिगृह्णामीति पश्चाज्जागतेन त्वा छन्दसा परिगृह्णामीत्युत्तरतः॥
तं छन्दोभिरभितः परिगृह्य॥
अग्निम् पुरस्तात्समाधाय तेनार्चन्तः श्राम्यन्तश्चेरुस्तेनेमां सर्वाम् पृथिवीं समविन्दन्त तद्यदेनेनेमां सर्वां समविन्दन्त तस्माद्वेदिर्नाम तस्मादाहुर्यावती वेदिस्तावती पृथिवीत्येतया हीमां सर्वां समविन्दन्तैवं ह वा इमां सर्वां सपत्नानां सम्वृङ्क्ते निर्भजत्यस्यै सपत्नान्य एवमेतद्वेद॥
सो ऽयं विष्णुर्ग्लानः॥
छन्दोभिरभितः परिगृहीतो ऽग्निःपुरस्तान्नापक्रमणमास स तत एवौषधीनाम् मूलान्युपमुम्लोच॥
ते ह देवा ऊचुः॥
क्व नु विष्णुरभूत्क्व नु यज्ञो ऽभूदिति ते होचुश्छन्दोभिरभितः परिगृहीतो ऽग्निः पुरस्तान्नापक्रमणमस्त्यत्रैवान्विच्छतेति तं खनन्त इवान्वीषुस्तन्त्र्यङ्गुले ऽन्वविन्दंस्तम्मात्त्र्यङ्गुला वेदिः स्यात्तदु हापि पाञ्चिस्त्र्यङ्गुलामेव सौम्यस्यध्वरस्य वेदिं चक्रे॥
तदु तथ न कुर्यात्॥
ओषधीनां वै स मूलान्युपांलोचत्तस्मादोषधीनामेव मूलान्युछेत्तवै ब्रूयाद्यन्न्वेवात्र विष्णुमन्वविन्दंस्तस्माद्वेदिर्नाम॥
तमनुविद्योत्तरेण परिग्रहेण पर्यगृह्णन्॥
सुक्ष्मा चासि शिवा चासीति दक्सिणत इमामेवैतत्पृथिवीं संविद्य सुक्ष्मां शिवामकुर्वत स्योना चासि सुषदा चासीति पश्चादिमामेवैतत्पृथिवीं संविद्य स्योनां सुषदामकुर्वतोर्जस्वती चासि पयस्वती चेत्युत्तरत इमामेवैतत्पृथिवीं संविद्य रसवतीमुपजीवनीयामकुर्वत॥
स वै त्रिः पूर्वम् परिग्रहम् परिगृह्णाति॥
त्रिरुत्तरं तत्षट् कृत्वः षड्वा ऋतवः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतमेवैतत्परिगृह्णाति॥
षड्भिर्व्याहृतिभिः॥
पूर्वम् परिग्रह परिगृह्णाति षड्भिरुत्तरं तद्द्वादश कृत्वो द्वादश वै मासाः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतमेवैतत्परिगृह्णाति॥
व्याममात्री पश्चात्स्यादित्याहुः॥
एतावान्वै पुरुषह्\ पुरुषसम्मित हि त्र्यरत्निः प्राची त्रिवृद्धि यज्ञो नात्र मात्रास्ति यावतीमेव स्वयम् मनसा मन्येत तावतीं कुर्यात्॥
अभितो ऽग्निमंसा उन्नयति॥
योषा वै वेदिर्वृषाग्निः परिगृह्य वै योषा वृषाणं शेते मिथुनमेवैतत्प्रजननं क्रियते तस्मादभितो ऽग्निमंसा उन्नयति॥
सा वै पश्चाद्वरीयसी स्यात्॥
मध्ये संह्वारिता पुनः पुरस्तादुर्व्येवमिव हि योषाम् प्रशंसन्ति पृथुश्रोणिर्विमृष्टान्तरांसा मध्ये सङ्ग्राःयेति जुष्टामेवैनामेतद्देवेभ्यः करोति॥
सा वै प्राक्प्रवणा स्यात्॥
प्राची हि देवानां दिगथो उदक्प्रवणोदीची हि मनुष्याणां दिग्दक्षिणतः पुरीषम् प्रत्युदूहत्येषा वै दिक्पितॄणां सा यद्दक्षिणाप्रवणा स्यात् क्षिप्रे ह यजमानो ऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति तस्माद्दक्षिणतः पुरीषम् प्रत्युदूहति पुरीषवतीं कुर्वीत पशवो वै पुरीषम् पशुमतीमेवैनामेतत्कुरुते॥
ताम् प्रतिमार्ष्टि॥
देवा ह वै सङ्ग्रामं सन्निधास्यन्त स्ते होचुर्हन्त यदस्यै पृथिव्या अनामृतं देवयजनं तच्चन्द्रमसि निदधामहै स यदि न इतो ऽसुरा जयेयुस्तत एवार्चन्तः श्राम्यन्तः पुनरभिभवेमेति स यदस्यै पृथिव्या अनामृतं देवयजनमासीत्तच्चन्द्रमसि न्यदधत तदेतच्चन्द्रमसि कृष्णं तस्मादाहुश्चन्द्रमस्यस्यै पृथिव्यै देवयजनमित्यपि ह वा अस्यैतस्मिन्देवयजन इष्टम् भवति तस्माद्वै प्रतिमार्ष्टि॥
स प्रतिमार्ष्टि॥
पुरा क्रूरस्य विसृपो विरप्शिन्निति सङ्ग्रामो वै क्रूरं सङ्ग्रामे हि क्रूरं क्रियते हतः पुरुषो हतो ऽश्वः शेते पुरा ह्येतत्सङ्ग्रामान्न्यदधत तस्मादाह पुरा क्रूरस्य विसृपो विरप्शिन्नित्युदादाय पृथिवीं जीवदानुमित्युदादाय हि यदस्यै पृथिव्यै जीवमासीत्तच्चन्द्रमसि न्यदधत तस्मादाहोदादाय पृथिवीं जीवदानुमिति यामैरयंश्चन्द्रमसि स्वधाभिरिति यां चन्द्रमसि ब्रह्मणादधुरित्येवैतदाह तामु धीरासो अनुदिश्य यजन्त इत्येतेनो ह तामनुदिश्य यजन्ते ऽपि ह वा अस्यैतास्मिन्देवयजन इष्टम् भवति य एवमेतद्वेद॥
अथाह प्रोक्षणीरासादयेति॥
वज्रो वै स्फ्यो ब्राह्मणश्चेमम् पुरा यज्ञमभ्यजूगुपतां वज्रो वा आपस्तद्वज्रमेवैतदभिगुप्त्या आसादयति स वा उपर्युपर्येव प्रोक्षणीषु धार्यमाणास्वथ स्फ्यमुद्यछत्यथ यन्निहित एव स्फ्यो प्रोक्षणीरासादयेद्वज्रो ह समृछेयातां तथो ह वज्रो न समृछेते तस्मादुपर्युपर्येव प्रोक्षनीषु धार्यमाणास्वथ स्फ्यमुद्यछति॥
अथैतां वाचं वदति॥
प्रोक्षणीरासादयेध्मम् बर्हिरुपसादय स्रुचः सम्मृड्ढि पत्नीं सन्नह्याज्येनोदेहीति सम्प्रैष एवैष स यदि कामयेत ब्रूयादेतद्यद्यु कामयेतापि नाद्रियेत स्वयमु ह्येवैतद्वेदेदमतः कर्म कर्तव्यमिति॥
अथोदञ्चं स्फ्यम् प्रहरति॥
अमुष्मै त्वा वज्रम् प्रहरामीति यद्यभिचरेद्वज्रो वै स्फ्य स्तृणुते हैवैनेन॥
अथ पाणी अवनेनिक्ते॥
यद्ध्यस्यै क्रूरमभूत्तद्ध्यस्या एतदहार्षीत्तस्मात्पाणी अवनेनिक्ते॥
स ये हाग्र ईजिरे॥
ते ह स्मावमर्श यजन्ते ते पापीयांस आसुरथ ये नेजिरे ते श्रेयांस आसुस्ततो ऽश्रद्धा मनुष्यान्विवेद ये यजन्ते पापीयांसस्ते भवन्ति य उ न यजन्ते श्रेयांसस्ते भवन्तीति तत इतो देवान्हविर्न जगामेतः प्रदानाद्धि देवा उपजीवन्ति॥
ते ह देवा ऊचुः॥
बृहस्पतिमाङ्गिरसमश्रद्धा वै मनुष्यानबिदत्तेभ्यो विधेहि यज्ञमिति स हेत्योवाच बृहस्पतिराङ्गिरसः कथा न यजध्व इति ते होचुः किं काम्या यजेमहि ये यजन्ते पापीयांसस्ते भवन्ति य उ न यजन्ते श्रेयांसस्ते भवन्तीति॥
स होवाच॥
बृहस्पतिराङ्गिरसो यद्वै शुश्रुम देवानाम् परिषूतं तदेष यज्ञो भवति यछूतानि हवींषि कॢप्ता वेदिस्तेनावमर्शमचारिष्ट तस्मात्पापीयांसो ऽभूत् तेनानवमर्श यजध्वं तथा श्रेयांसो भविष्यथेत्या कियत इत्या बर्हिष स्तरणादिति बर्हिषा ह वै खल्वेषा शाम्यति स यदि पुरा बर्हिह्ष स्तरणात्किञ्चिदापद्येत बर्हिरेव तत्स्तृणन्नपास्येदथ यदा बर्हि स्तृणन्त्यपि पदाभितिष्ठन्ति स यो हैवं विद्वाननवमर्शं यजते श्रेयान्हैव भवति तस्मादनवमर्शमेव यजेत॥