०४०

अध्यायः 40
ईशावास्योपनिषत्। ज्ञानकाण्डम्।
40.1 {ईशावा.उप. काण्व1}
ईशा वास्यम् इदम्̐ सर्वं यत् किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥

40.2 {ईशावा.उप. काण्व2}
कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतम्̐ समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे ॥

40.3 {ईशावा.उप. काण्व3}
असुर्या नाम ते लोका ऽअन्धेन तमसावृताः ।
ताम्̐स् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः ॥

40.4 {ईशावा.उप. काण्व4}
अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् ।
तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति ॥

40.5 {ईशावा.उप. काण्व5}
तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके ।
तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥

40.6 {ईशावा.उप. काण्व6}
यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न वि चिकित्सति ॥

40.7 {ईशावा.उप. काण्व7}
यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः ॥

40.8 {ईशावा.उप. काण्व8}
स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरम्̐ शुद्धम् अपापविद्धम् ।
कविर् मनीषी परिभूः स्वयम्भूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥

40.9 {ईशावा.उप. 9।काण्व12}
अन्धं तमः प्र विशन्ति ये ऽसम्भूतिम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ सम्भूत्याम्̐ रताः ॥

40.10 {ईशावा.उप. 10।काण्व13}
अन्यद् एवाहुः सम्भवाद् अन्यद् आहुर् असम्भवात् ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥

40.11 {ईशावा.उप. 11।काण्व14}
सम्भूतिं च विनाशं च यस् तद् वेदोभयम्̐ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतम् अश्नुते ॥

40.12 {ईशावा.उप. 12।काण्व9}
अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाम्̐ रताः ॥

40.13 {ईशावा.उप. 13।काण्व10}
अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥

40.14 {ईशावा.उप. 14।काण्व11}
विद्यां चाविद्यां च यस् तद् वेदोभयम्̐ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥

40.15 {ईशावा.उप. 15}
वायुर् अनिलम् अमृतम् अथेदं भस्मान्तम्̐ शरीरम् ।
ओ3म् क्रतो स्मर क्लिबे स्मर कृतम्̐ स्मर ॥

40.16 {ईशावा.उप. 16।काण्व18}
अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम ॥

40.17 {ईशावा.उप. 17।काण्व15}
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् ।
ओ३म् खं ब्रह्म ॥